श्रीशारीरमीमांसाभाष्ये सर्वाभेदाधिकरणम्॥३॥
ज्येष्ठश्रेष्ठप्राणविद्या छा.उ. 5-1, बृ.उ. 8-1-14
अधिकरणार्थः
कौषीतकिप्राणविद्याया छान्दोग्य-वाजसनेयगतप्राणविद्ययोः न नानात्वम्, प्रकारभेदात्
३६४. सर्वाभेदादन्यत्रेमे ॥ ३–३–१० ॥
छान्दोग्यवाजसनेयकयोः प्राणविद्या आम्नायते यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च (छा.५.१.१) इत्यादि। तत्र ज्यैष्ठ्यश्रैष्ठ्यगुणकं प्राणमुपास्यं प्रतिपाद्य वाक्चक्षुश्श्रोत्रमनस्सु वसिष्ठत्वप्रतिष्ठात्वसम्पत्त्वायतनात्वाख्यान् गुणान् प्रतिपाद्य वागादीनां देहस्य च प्राणायत्तस्थितित्वेन तदायत्ततत्तत्कार्यत्वेन च प्राणस्य श्रैष्ठ्यं प्रतिपाद्य वागादि सम्बन्धितया श्रुतान्वसिष्ठत्वादीन् गुणांश्च प्राणसम्बन्धितया प्रतिपादयति। एवं छान्दोग्यवाजसनेयकयोर्ज्यैष्ठ्यश्रैष्ठ्यगुणको वसिष्ठत्वादिगुणकश्च प्राण उपास्यः प्रतिपाद्यते। कौषीतकिनां तु प्राणविद्यायां तथैव ज्यैष्ठ्यश्रैष्ठ्यगुणकः प्राणः उपास्यः प्रतिपादितः; न पुनर्वसिष्ठत्वादयो वागादिसम्बन्धिनो गुणाः प्राणसम्बन्धितया प्रतिपादिताः।
प्रकृताधिकरणीयः संशयः
तत्र संशयः – किमत्र विद्या भिद्यते, उत नेति।
सयुक्तिकः पूर्वपक्षः
किं युक्तम्? भिद्यत इति । कुतः? रूपभेदात्। यद्यप्युभयत्र प्राण एव ज्यैष्ठ्यश्रैष्ठ्यगुणक उपास्यः; तथाप्येकत्र वसिष्ठत्वादिभिरपि गुणैर्युक्तः प्राण उपास्यः प्रतीयते; इतरत्र तु तद्विधुर इत्युपास्यरूपभेदाद्विद्याभेदः –
सिद्धान्तारम्भः प्रकाराभेदतो विद्याया अभेदः
इति प्राप्ते ब्रूमः- सर्वाभेदादन्यत्रेमे – नात्र विद्याभेदः, अन्यत्र कौषीतकिनां प्राणविद्यायामपि इमे – वसिष्ठत्वादयो गुणा उपास्यास्सन्ति, कुतः? सर्वाभेदात् – प्रतिज्ञातप्राणज्यैष्ठ्योपपादनप्रकारस्य सर्वस्य तत्राप्यभेदात्। तथाहि – छन्दोगवाजसनेयिनां प्राणविद्यायाम् एता ह वै देवता अहंश्रेयसे व्यूदिरे (छा.५.१.६) अहंश्रेयसे विवदमानाः (बृ.८.१.७) इति चोपक्रम्य वागाद्येकैकापक्रमणे अन्येषां सप्राणानामिन्द्रियाणां शरीरस्य च स्थितिं तत्तत्कार्यं चाविकलं प्रतिपाद्य प्राणोत्क्रमणे सर्वेषां विशरणमकार्यकरत्वं चाभिधाय सर्वेषां प्राणाधीनस्थितित्वतदधीनकार्यत्वाभ्यां प्राणस्य ज्यैष्ठ्यमुपपादितम्।
उक्तार्थस्यैव श्रौतता
एवमुपपादितं वागादिकार्यस्य प्राणाधीनत्वम् – अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसि (छां.१.५.१३) इत्यादिना वागादिभिरनूद्यते। कौषीतकिनां प्राणविद्यायामपि प्राणज्यैष्ठ्यश्रैष्ठ्यप्रतिपादनाय वागादिषु वसिष्ठत्वादयः प्रतिपादिताः । अथ हेमा देवताः प्रजापतिं पितरमेत्याब्रुवन् को वै नः श्रेष्ठः इत्यादिना वागादिगता गुणा वागादयश्च देहश्च प्राणाधीना इति प्राणस्य ज्यैष्ठ्यमुपपादितम् । वागादिभिः स्वस्वगुणानां वसिष्ठत्वादीनां प्राणाधीनत्वानुवादमात्रं तु कृतम् । नैतावता रूपभेदः, वागादीनां वसिष्ठत्वादिगुणान्वितानां प्राणाधीनकार्यत्वोपपादनेनैव प्राणस्य वागादिवसिष्ठत्वादिगुणहेतुत्वस्य सिद्धत्वात् । तदेव हि प्राणस्य वसिष्ठत्वादि-गुणयोगित्वम्; यद्वागादिवसिष्ठत्वादिहेतुत्वम्। अतोऽत्रापि वसिष्ठत्वादिगुणयोगात्प्राणो ज्येष्ठः प्रतिपन्न इति नास्ति विद्याभेदः॥१०॥
इति श्रीशारीरकमीमांसाभाष्ये सर्वाभेदाधिकरणम्॥ ३॥