सन्ध्याधिकरणम्
बृहदारण्यकदहरविद्या 6-3-10
अधिकरणार्थः
स्वप्नानां जीवानुभाव्यानां
विश्वास-प्रस्तुतिः
३१५. सन्ध्ये सृष्टिर् - आह हि ॥ ३–२–१ ॥ (पू)
Thibaut
- In the intermediate sphere the creation (is effected by the soul); for (Scripture) says (so).
मूलम्
३१५. सन्ध्ये सृष्टिराह हि ॥ ३–२–१ ॥ (पू)
पादसङ्गतिप्रदर्शनम्, विषयवाक्यं च
विश्वास-प्रस्तुतिः
एवं कर्मानुरूप-गमनागमन-जन्मादि-योगेन
जाग्रतो जीवस्य दुःखित्वं ख्यापितम्;
Thibaut
So far it has been shown that the soul in the waking state suffers affliction since,
in accordance with its deeds, it goes, returns, is born, and so on.
मूलम्
एवं कर्मानुरूपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितम्;
श्रुत-प्रकाशिका
एवम् इत्य् आदिना पाद-सङ्गतिर् उच्यते ।
जन्मादीति - अत्र आदि-शब्देन सुख-दुःखानुभवो विवक्षितः ।
दुःखित्वं ख्यापितम् इति- सुखानुभवे ऽपि
“स्वर्गे ऽपि पात-भीतस्य
क्षयिष्णोर् नास्ति निर्वृत्तिर्
इति वचनेन दुःख-प्राचुर्यात्
तत्रापि दुःखित्वम् एवेति भावः ।
विश्वास-प्रस्तुतिः
इदानीम् अस्य स्वप्नावस्था परीक्ष्यते।
Thibaut
Next an enquiry is instituted into its condition in the state of dream.
मूलम्
इदानीमस्य स्वप्नावस्था परीक्ष्यते।
विश्वास-प्रस्तुतिः
स्वप्नम् अधिकृत्य श्रूयते –
Thibaut
With reference to the state of dreaming Scripture says,
मूलम्
स्वप्नमधिकृत्य श्रूयते –
श्रुत-प्रकाशिका
वक्ष्यमाण-विषय-वाक्यस्थस्य तत्र-पदस्य व्याख्यानाय आह - स्वप्नम् अधिकृत्य इति ।
“स्वप्नं पश्यति” इति हि प्रकृतम् ।
विश्वास-प्रस्तुतिः
न तत्र रथा न रथयोगा न पन्थानो भवन्ति,
Thibaut
‘There are no chariots in that state, no horses, no roads;
मूलम्
न तत्र रथा न रथयोगा न पन्थानो भवन्ति,
विश्वास-प्रस्तुतिः
अथ रथान् रथयोगान् पथस् सृजते,
Thibaut
then he creates chariots, horses and roads.
मूलम्
अथ रथान् रथयोगान् पथस् सृजते,
विश्वास-प्रस्तुतिः
न तत्रानन्दा मुदः प्रमुदो भवन्ति,
Thibaut
There are no blessings, no happiness, no joys;
मूलम्
न तत्रानन्दा मुदः प्रमुदो भवन्ति,
विश्वास-प्रस्तुतिः
अथ आनन्दान् मुदः प्रमुदः सृजते,
Thibaut
then he himself creates blessings, happiness, joys,
मूलम्
अथ आनन्दान् मुदः प्रमुदः सृजते,
श्रुत-प्रकाशिका
अनुकूल-विषय-ज्ञा प्रीतिर् आनन्दः,
स्वकीयत्व-बुद्धि-जा प्रीतिर् मुत्,
तद्-विनियोग-जा प्रीतिः प्रमुत् ।
विश्वास-प्रस्तुतिः
न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति,
Thibaut
and so on.
मूलम्
न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति,
विश्वास-प्रस्तुतिः
अथ वेशान्ताः पुष्करिण्यः स्रवन्त्यस् सृजते,
मूलम्
अथ वेशान्ताः पुष्करिण्यः स्रवन्त्यस् सृजते,
विश्वास-प्रस्तुतिः
स हि कर्ता (बृ.६.३.१०)
इति ।
Thibaut
For he is the creator’ (Br̥. Up. IV, 3, 10).
मूलम्
स हि कर्ता (बृ.६.३.१०) इति ।
अधिकरणीयः संशयः
विश्वास-प्रस्तुतिः
तत्र संशयः –
किम् इयं रथादि-सृष्टिः जीवेनैव क्रियते;
आहोस्विद्-ईश्वरेण
इति ।
Thibaut
A doubt here arises whether
this creation of chariots and the rest is accomplished by the individual soul,
or by the Lord.
मूलम्
तत्र संशयः – किम् इयं रथादि-सृष्टिः जीवेनैव क्रियते;
आहोस्विद्-ईश्वरेण इति ।
श्रुत-प्रकाशिका
तत्र इति - किं स्वप्नार्थ-सृष्टिर् जीव-कर्तृका? उत परमात्म-कर्तृका? । स हि कर्त्ता इति किं जीवः परामृश्यते? उत परमात्मा इति ।
पूर्वपक्षः सयुक्तिकः
विश्वास-प्रस्तुतिः
किं युक्तम्?
मूलम्
किं युक्तम्?
विश्वास-प्रस्तुतिः
सन्ध्ये सृष्टिर् जीवेनेति ।
Thibaut
–‘The creation in the intermediate state’ is due to the individual soul only.
मूलम्
सन्ध्ये सृष्टिर् जीवेनेति ।
विश्वास-प्रस्तुतिः
कुतः? सन्ध्यं – स्वप्नस्थानम् उच्यते,
Thibaut
‘The intermediate state’ means the sphere of dreams,
मूलम्
कुतः? सन्ध्यं – स्वप्नस्थानम् उच्यते,
विश्वास-प्रस्तुतिः
“सन्ध्यं तृतीयं स्वप्नस्थानम्” इति वचनात्;
Thibaut
in agreement with the passage ‘There is a third intermediate state, the place of dreams’ (Br̥. Up. IV, 3, 1).
मूलम्
सन्ध्यं तृतीयं स्वप्नस्थानम् इति वचनात्;
विश्वास-प्रस्तुतिः
सा तु जीवेनैव क्रियते
Thibaut
And that creation is effected by the soul only;
मूलम्
सा तु जीवेनैव क्रियते
विश्वास-प्रस्तुतिः
सृजते स हि कर्ता (बृ.६.३.१०)
इत्य् आह हि ।
Thibaut
for what is referred to in the passages
‘he creates,’
‘For he is the maker,’
मूलम्
सृजते स हि कर्ता (बृ.६.३.१०)
इत्य् आह हि ।
श्रुत-प्रकाशिका
प्रजापति-वाक्योदित-सत्य-सङ्कल्पत्वं जीवस्य स्रष्टृत्वम् उपपादयति?
न +इति,
स्वाप्नार्थ-मात्रेषु जीवस्य सङ्कल्पाविर्भाव-कल्पनम् उपपद्यते? न +इति,
यदोपपद्यते
तदा तस्यैव स्रष्टृत्वोपपत्तेः “स हि” इति जीव-परामर्शाज्
जीव-कर्तृत्वं स्यात्।
यदाऽऽविर्भाव-कल्पनम् अनुपपन्नं
तदा स्रष्टृत्वानुपपत्तौ “स” इति जीव-परामर्शायोगात् परमात्म-कर्तृत्वम् इति भवति ।
“आह हि” इति सूत्र-खण्डं व्याचष्टे ।
सृजत इति -
“स्वप्नं पश्यति” इति प्रकृतो जीवः
“स” इत्य् उच्यते
इति भावः ॥ 1 ॥
विश्वास-प्रस्तुतिः
स्वप्न-दृग् जीव एव तत्र प्रतीयते ॥१॥
Thibaut
is none other but the dreaming soul.
मूलम्
स्वप्नदृग्जीव एव तत्र प्रतीयते ॥१॥
जीवस्यैव स्वाप्नार्थ-निर्मातृत्वे श्रुत्यन्तरम्
विश्वास-प्रस्तुतिः
३१६. निर्मातारं चैके पुत्रादयश् च ॥ ३–२–२ ॥
Thibaut
- And some (state the soul to be) the shaper; and sons, and so on.
मूलम्
३१६. निर्मातारं चैके पुत्रादयश् च ॥ ३–२–२ ॥
श्रुत-प्रकाशिका
श्रुत्यन्तरे परमात्म-कर्तृत्वं श्रूयत इत्य् आशङ्कायाम् इदं सूत्रम् । अत्रोपात्त-वाक्ये जीव-लिङ्गं दर्शयति ।
पुत्रादयश् च इति - अपरिकरस्य जीवस्य कथं सृष्टिर् इत्य्
विश्वास-प्रस्तुतिः
किञ्च – एनं जीवं स्वप्ने कामानां निर्मातारम्
एके शाखिनो ऽधीयते
Thibaut
And the followers of one śākhā state in their text
that the dreaming soul is the shaper of its desires:
मूलम्
किञ्च – एनं जीवं स्वप्ने कामानां निर्मातारम् एके शाखिनो ऽधीयते
विश्वास-प्रस्तुतिः
य एषु सुप्तेषु जागर्ति
कामं कामं पुरुषो निर्मिमाणः (कठ.२.५.८)इति ।
Thibaut
‘He, the person who is awake in those who sleep, shaping one desired thing (kāma) after the other.’
मूलम्
य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः (कठ.२.५.८) इति ।
विश्वास-प्रस्तुतिः
पुत्रादयश् च तत्र काम्यमानतया काम-शब्देन निर्दिश्यन्ते, नेच्छामात्रम्;
Thibaut
The term ‘kāma’ there denotes not mere desires,
but such things as sons and the like which are objects of desire.
मूलम्
पुत्रादयश् च तत्र काम्यमानतया काम-शब्देन निर्दिश्यन्ते, नेच्छामात्रम्;
विश्वास-प्रस्तुतिः
पूर्वत्र हि
सर्वान् कामान् छन्दतः प्रार्थयस्व (कठ.१.१.२५)
Thibaut
For in previous passages:
‘Ask for all kāmas according to thy wish’;
मूलम्
पूर्वत्र हि
सर्वान् कामान् छन्दतः प्रार्थयस्व (कठ.१.१.२५)
Thibaut
‘Choose sons and grandsons living a hundred years’ (Ka. Up. I, 1, 25; 23)
sons and so on are introduced as ‘kāmas’.
विश्वास-प्रस्तुतिः
शतायुषः पुत्र-पौत्रान् वृणीष्व (कठ.१.१.२३)
इति पुत्रादय एव कामाः प्रकृताः ।
मूलम्
शतायुषः पुत्र-पौत्रान् वृणीष्व (कठ.१.१.२३)
इति पुत्रादय एव कामाः प्रकृताः ।
पूर्वपक्षार्थ-निगमनम्
विश्वास-प्रस्तुतिः
अतो रथादीन् जीवः स्वप्ने सृजति,
Thibaut
The individual soul thus creates chariots, and so on, in its dreams.
मूलम्
अतो रथादीन् जीवः स्वप्ने सृजति,
विश्वास-प्रस्तुतिः
जीवस्य च सत्य-सङ्कल्पत्वं प्रजापति-वाक्ये श्रुतम्;
Thibaut
That the soul has the power of realising all its wishes
is known from the declaration of Prajāpati.
मूलम्
जीवस्य च सत्य-सङ्कल्पत्वं प्रजापति-वाक्ये श्रुतम्;
श्रुत-प्रकाशिका
अत्र आह - जीवस्य च इति । एतत्-सूत्र-द्वयं पूर्व-पक्ष-विषयम् ॥ 2 ॥
विश्वास-प्रस्तुतिः
अत उपकरणाद्य्-अभावे ऽपि सृष्टिर् उपपद्यते ॥२॥
Thibaut
It is therefore able to create,
even in the absence of special instruments.–
मूलम्
अत उपकरणाद्य्-अभावे ऽपि सृष्टिर् उपपद्यते ॥२॥
सिद्धान्तसूत्रं सविवरणम्
मायामात्रम्
विश्वास-प्रस्तुतिः
इति प्राप्ते ऽभिधीयते
Thibaut
This view is set aside by the next Sūtra.
मूलम्
इति प्राप्ते ऽभिधीयते
विश्वास-प्रस्तुतिः
३१७. मायामात्रं तु - +++(जीवस्य)+++ कार्त्स्न्येेन +अनभिव्यक्त-स्वरूपत्वात् ॥ ३–२–३ ॥
Thibaut
- But it is mere Māyā;
on account of the true nature (of the soul) not being fully manifested.
मूलम्
३१७. मायामात्रं तु कार्त्स्न्येेनानभिव्यक्तस्वरूपत्वात् ॥ ३–२–३ ॥
श्रुत-प्रकाशिका
मायामात्रम् आश्चर्य-रूपम् एव
अनाश्चर्यरूपं न किञ्चिद् अपीत्य् अर्थः ।
विश्वास-प्रस्तुतिः
तु-शब्दः पक्षं व्यावर्तयति ।
मूलम्
तु-शब्दः पक्षं व्यावर्तयति ।
श्रुत-प्रकाशिका
परम-पुरुष-सृष्टम् इति तु-शब्द-सिद्धार्थ उक्तः,
विश्वास-प्रस्तुतिः
स्वप्ने रथ-पुष्करिण्याद्य्-अर्थजातं
मायामात्रं परम-पुरुष-सृष्टम् इत्य् अर्थः ।
Thibaut
The things appearing in dreams-chariots, lotus tanks, and so on–are absolute Māyā, i.e. things created by the Supreme Person.
मूलम्
स्वप्ने रथ-पुष्करिण्याद्य्-अर्थजातं
मायामात्रं परम-पुरुष-सृष्टम् इत्य् अर्थः ।
विश्वास-प्रस्तुतिः
माया-शब्दो ह्य् आश्चर्य-वाची
जनकस्य कुले जाता
देवमायेव निर्मिता
(श्रीराम.बाल.१.२७)
इत्यादिषु तथा दर्शनात् ।
Thibaut
For the term ‘Māyā’ denotes wonderful things,
as appears from passages such as
‘She was born in the race of Janaka,
appearing like the wonderful power of the divine being in bodily shape’ (devamāyā).
मूलम्
माया-शब्दो ह्य् आश्चर्य-वाची
जनकस्य कुले जाता
देवमायेव निर्मिता
(श्रीराम.बाल.१.२७)
इत्यादिषु तथा दर्शनात् ।
श्रुत-प्रकाशिका
मिथ्या-व्यावृत्त्यर्थं माया-शब्दं व्याचष्टे ।
माया-शब्दो हीति - जनकस्येति ।
देवस्य आश्चर्य-रूपा शक्तिर् मूर्तिमतीवेत्य् अर्थः ।
विश्वास-प्रस्तुतिः
अत्रापि
न तत्र रथा न रथयोगा न पन्थानः – (बृ.६.३.१०)
Thibaut
The sense of the passage ’there are no chariots,’ &c. then is–
मूलम्
अत्रापि
न तत्र रथा न रथयोगा न पन्थानः – (बृ.६.३.१०)
विश्वास-प्रस्तुतिः
सकलेतर-पुरुषानुभाव्यतया न भवन्तीत्य् अर्थः,
Thibaut
there are no chariots and horses to be perceived by any other person but the dreaming one;
मूलम्
सकलेतर-पुरुषानुभाव्यतया न भवन्तीत्य् अर्थः,
श्रुत-प्रकाशिका
“न भवन्ति” इति श्रुतौ मिथ्यात्वं प्रतीयत
इत्य् आह - अत्रापीति ।
स्वाप्नार्थानां पूर्व-कालीनाभावो मिथ्यात्वं च लोक-सिद्धम्
इति तद्-उभय-परत्वे “न भवन्ति” इति वाक्यस्य वैयर्थ्यं,
मिथ्यात्व-परत्वे सृज-धात्व्-अस्वारस्यं च स्यात्।
प्रसिद्ध-रथाद्यनुभवस्य प्रतिषेधे ऽपि वाक्य-वैयर्थ्यं स्यात्,
स्वप्ने तेषाम् अननुभूतत्वस्य लोक-सिद्धत्वात्।
स्वप्न-दृष्टानां हि जाग्रद्-दृष्टेभ्यो ऽन्यत्वं लोक-सिद्धम्।
अतस् तत्-परिहाराय प्रसिद्ध-रथादि-भाव-प्रतिषेधेन
विजातीय-विचित्रार्थ-सृष्टि-परत्वं वाक्यस्यावर्जनीयं,
तथा सति तद्-वैजात्यम्
अर्थ-वशात् सकलेतरान् अनुभाव्यत्व–तत्-काल–मात्रावस्थायित्व-रूपम् इति माया-शब्दो व्याख्यातः।
विश्वास-प्रस्तुतिः
अथ रथान् रथयोगान् पथः सृजते (बृ.६.३.१०)
स्वप्नदृग्-अनुभाव्यतया तत्कालमात्रावसानान् सृजत
इत्य् आश्चर्य-रूपत्वम् एव आह ।
Thibaut
and then ‘he creates chariots,’ &c. –
i. e. the Supreme Person creates things to be perceived by the dreamer
and persisting for a certain time only.
Those things therefore are of a wonderful nature (but not illusions).
मूलम्
अथ रथान् रथयोगान् पथः सृजते (बृ.६.३.१०)
स्वप्नदृग्-अनुभाव्यतया तत्कालमात्रावसानान् सृजत
इत्य् आश्चर्य-रूपत्वम् एव आह ।
जीवे ईदृश्याः सृष्टेः अयोगः
विश्वास-प्रस्तुतिः
एवंविधाश्चर्य-रूपा सृष्टिस् सत्य-सङ्कल्पस्य परम-पुरुषस्यैवोपपद्यते, न जीवस्य;
तस्य सत्य-सङ्कल्पत्वादि-युक्तस्यापि
संसार-दशायां कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात्।
Thibaut
And the creation of such wonderful things is possible for the Supreme Person who can immediately realise all his wishes;
but not for the individual soul.
The latter also, indeed, fundamentally possesses that power;
but as in the Saṁsāra state the true nature of the soul is not fully manifested,
मूलम्
एवंविधाश्चर्य-रूपा सृष्टिस् सत्य-सङ्कल्पस्य परम-पुरुषस्यैवोपपद्यते, न जीवस्य;
तस्य सत्य-सङ्कल्पत्वादि-युक्तस्यापि
संसार-दशायां कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात्
श्रुत-प्रकाशिका
तेन सह प्रतिज्ञा-खण्डार्थम् आह - एवंविधेति ।
हेतु-खण्डं व्याचष्टे - तस्येति ।
विश्वास-प्रस्तुतिः
न जीवस्य तथाविधाश्चर्य-सृष्टिर् उपपद्यते ।
Thibaut
it is then incapable of accomplishing such wonderful creations.
मूलम्
न जीवस्य तथाविधाश्चर्य-सृष्टिर् उपपद्यते ।
कठश्रुताव् ईश्वरोक्तिः
विश्वास-प्रस्तुतिः
कामं कामं पुरुषो निर्मिमाणः (कठ.२.५.८)
इति च
परम-पुरुषम् एव निर्मातारम् आह –
Thibaut
The text ’the person shaping one desired thing after the other’ declares the Supreme Person to be the creator,
मूलम्
कामं कामं पुरुषो निर्मिमाणः (कठ.२.५.८)
इति च
परम-पुरुषम् एव निर्मातारम् आह –
श्रुत-प्रकाशिका
पूर्व-पक्ष-युक्तिं परिहरति - “कामं कामम्” इति ।
“कामं कामम्” इति णमुल्-अन्तं पदं, सङ्कल्प्येत्य् अर्थः ॥ 3 ॥
विश्वास-प्रस्तुतिः
य एषु सुप्तेषु जागर्ति (कठ.२.५.८)
Thibaut
viz.
‘He who is awake in those who sleep’;
मूलम्
य एषु सुप्तेषु जागर्ति (कठ.२.५.८)
विश्वास-प्रस्तुतिः
तद् एव शुक्रं तद् ब्रह्म
तद् एवामृतम् उच्यते ।
तस्मिन् लोकाश् श्रितास् सर्वे
तद् उ नात्येति कश्चन
(कठ.२.५.८)
Thibaut
and
’that is the Bright, that is Brahman,
that alone is called the Immortal;
all worlds are contained in it
and no one goes beyond’
–(Ka. Up. II, 5, 8)
मूलम्
तद् एव शुक्रं तद् ब्रह्म
तद् एवामृतम् उच्यते ।
तस्मिन् लोकाश् श्रितास् सर्वे
तद् उ नात्येति कश्चन
(कठ.२.५.८)
विश्वास-प्रस्तुतिः
इत्य्-उपक्रमोपसंहारयोः
परम-पुरुषासाधारण-स्वभाव-प्रतीतेः ।
Thibaut
for the clauses immediately preceding and following that text mention attributes distinctively characteristic of the Supreme Person.
मूलम्
इत्य्-उपक्रमोपसंहारयोः
परम-पुरुषासाधारण-स्वभाव-प्रतीतेः ।
बृहदारण्यके ऽपि
विश्वास-प्रस्तुतिः
अथ वेशान्तान् पुष्करिण्यः स्रवन्त्यः सृजते,
स हि कर्ता (बृह.६.३.१०)
इति च
Thibaut
And the Br̥. Up. text, ‘For he is the maker,’
मूलम्
अथ वेशान्तान् पुष्करिण्यः स्रवन्त्यः सृजते स हि कर्ता (बृह.६.३.१०)
इति च
विश्वास-प्रस्तुतिः
तया श्रुत्यैकार्थ्यात् परम-पुरुषम् एव कर्तारम् आह ॥३॥
Thibaut
must therefore, in agreement with the Kaṭḥa-text,
also be understood as declaring that it is the Supreme Person only that creates the things seen in a dream.
मूलम्
तया श्रुत्यैकार्थ्यात् परम-पुरुषम् एव कर्तारम् आह ॥३॥
जीवस्वभावगतस्य धर्मस्यापि अनाविर्भावे हेतुः
शङ्का
विश्वास-प्रस्तुतिः
स्वाभाविकं चेज् जीवस्यापहत-पाप्मत्वादिकम्,
कुतस् तन् नाभिव्यज्यत
इत्य् अत आह –
Thibaut
But if it is the true nature of the soul to be free from all imperfections, and so on,
why then does this not manifest itself?
To this the next Sūtra replies.
मूलम्
स्वाभाविकं चेज् जीवस्यापहत-पाप्मत्वादिकम्,
कुतस् तन् नाभिव्यज्यत
इत्य् अत आह –
पराभिधानात्
विश्वास-प्रस्तुतिः
३१८. पराभिध्यानात् तु तिरोहितं
ततो ह्य् अस्य बन्ध-विपर्ययौ ॥ ३–२–४ ॥ (सि)
Thibaut
- But owing to the wish of the highest it is hidden; for from that are its bondage and the opposite state.
मूलम्
३१८. पराभिध्यानात् तु तिरोहितं
ततो ह्य् अस्य बन्ध-विपर्ययौ ॥ ३–२–४ ॥ (सि)
विश्वास-प्रस्तुतिः
तु-शब्दश् शङ्का-व्यावृत्त्यर्थः;
Thibaut
The but sets the objection aside.
मूलम्
तु-शब्दश् शङ्का-व्यावृत्त्यर्थः;
विश्वास-प्रस्तुतिः
पराभिध्यानात् – परम-पुरुष-सङ्कल्पात्,
Thibaut
Owing to the wish of the highest, i.e. the Supreme Person,
मूलम्
पराभिध्यानात् – परम-पुरुष-सङ्कल्पात्,
विश्वास-प्रस्तुतिः
अस्य जीवस्य स्वाभाविकं रूपं तिरोहितम्;
Thibaut
the essential nature of the individual soul is hidden.
मूलम्
अस्य जीवस्य स्वाभाविकं रूपं तिरोहितम्;
विश्वास-प्रस्तुतिः
अनादि-कर्म-परम्परया कृतापराधस्य ह्य् अस्य
स्वाभाविकं कल्याण-रूपं परम-पुरुषस् तिरोधापयति;
Thibaut
The Supreme Person hides the true, essentially blessed, nature of the soul
which is in a state of sin
owing to the endless chain of karman.
मूलम्
अनादि-कर्म-परम्परया कृतापराधस्य ह्य् अस्य स्वाभाविकं कल्याण-रूपं परम-पुरुषस् तिरोधापयति;
श्रुत-प्रकाशिका
परस्य नैर्घृण्यादि-प्रसङ्ग-परिहारम् आह - अनादि-कर्मेति ।
बन्ध-मोक्षौ
विश्वास-प्रस्तुतिः
ततः तत्-सङ्कल्पाद् एव हि
अस्य जीवस्य बन्ध-मोक्षौ श्रुतौ
Thibaut
For this reason we find it stated in Scripture that
the bondage and release of the soul result from the wish of the Supreme Person only
मूलम्
ततः तत्-सङ्कल्पाद् एव हि
अस्य जीवस्य बन्ध-मोक्षौ श्रुतौ
श्रुत-प्रकाशिका
तत इत्यादि - तत इति व्याख्येयं यदम्,
बन्धस्य तत्-सङ्कल्पायत्तत्वे
तद्-अन्तर्गतस् तिरोभावश् च
तत्-सङ्कल्प-कृत इति सिद्धम्
इत्य् अर्थः ॥ 4 ॥
विश्वास-प्रस्तुतिः
यदा ह्य् एवैष
एतस्मिन्न् अदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने
ऽभयं प्रतिष्ठां विन्दते
अथ सो ऽभयं गतो भवति।
Thibaut
‘when he finds freedom from fear and rest in that invisible, incorporeal, undefined, unsupported; then he has gone to fearlessness ‘;
मूलम्
यदा ह्य् एवैष एतस्मिन्न् अदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने ऽभयं प्रतिष्ठां विन्दते अथ सो ऽभयं गतो भवति
विश्वास-प्रस्तुतिः
यदा ह्य् एवैष एतस्मिन्न् उदरम् अन्तरं कुरुते
अथ तस्य भयं भवति (तै.आन.७.१)
मूलम्
यदा ह्य् एवैष एतस्मिन्न् उदरम् अन्तरं कुरुते अथ तस्य भयं भवति (तै.आन.७.१)
विश्वास-प्रस्तुतिः
एष ह्य् एवानन्दयाति (तै.आन.७.२)
Thibaut
‘for he alone causes blessedness’;
मूलम्
एष ह्य् एवानन्दयाति (तै.आन.७.२)
विश्वास-प्रस्तुतिः
भीषा ऽस्माद् वातः पवते (तै.आन.८.१)
इत्यादिषु ॥४॥
Thibaut
‘from fear of it the wind blows’ (Taitt. Up. II, 7, 8).
मूलम्
भीषा ऽस्माद् वातः पवते (तै.आन.८.१)
इत्यादिषु ॥४॥
देहयोगात्
श्रुत-प्रकाशिका
कथं भगवत्-सङ्कल्पस्य तिरोधायकत्वं
प्रकृतेः कर्मणां च हि तिरोधायकत्वम्
इत्य्-अत्राह -
विश्वास-प्रस्तुतिः
३१९. देह-योगाद् वा सो ऽपि ॥ ३–२–५ ॥
Thibaut
- Or that (results) also from connexion with the body.
मूलम्
३१९. देहयोगाद् वा सो ऽपि ॥ ३–२–५ ॥
विश्वास-प्रस्तुतिः
सो ऽपि तिरोभावो देह-योग-द्वारेण वा भवति,
Thibaut
The obscuration of the soul’s true nature results either from the soul’s connexion with the body
मूलम्
सो ऽपि तिरोभावो देह-योग-द्वारेण वा भवति,
श्रुत-प्रकाशिका
भगवत्-सङ्कल्पस्य द्वारभूतं प्रकृत्यादिकम् इत्य् अर्थः,
विश्वास-प्रस्तुतिः
सूक्ष्माचिच्-छक्ति-योग-द्वारेण वा;
Thibaut
or from its connexion with the power of matter in a subtle state.
मूलम्
सूक्ष्माचिच्-छक्ति-योग-द्वारेण वा;
विश्वास-प्रस्तुतिः
सृष्टि-काले देहावस्थेनाचिद्-वस्तुना संयोगाद् भवति,
Thibaut
As long as the creation lasts, the soul is obscured by its connexion with matter in the form of a body;
मूलम्
सृष्टि-काले देहावस्थेनाचिद्-वस्तुना संयोगाद् भवति,
श्रुत-प्रकाशिका
वा-शब्दो न तुल्य-विकल्प-वाची,
अपि तु व्यवस्थित-विकल्प-वाचीत्य् अभिप्रायेणाह - सृष्टि-काल इति ।
विश्वास-प्रस्तुतिः
प्रलय-काले
नाम-रूप-विभागानर्हातिसूक्ष्माचिद्-वस्तु-योगात् ।
Thibaut
at the time of a pralaya, on the other hand, by its connexion with matter of so exceedingly subtle a kind as not to admit of differentiation by means of name and form.
मूलम्
प्रलय-काले नाम-रूप-विभागा-नर्हाति-सूक्ष्माचिद्-वस्तु-योगात् ।
श्रुत-प्रकाशिका
सूक्ष्माचिच्-छक्ति-योगेति - अत्र शक्ति-शब्देन भगवद्-अपृथक्-सिद्ध-विशेषणत्वं विवक्षितम्,
एवम् अवान्तर-साध्य-साधनयोः परम-साध्येनान्वयं दर्शयति ।
निगमनम्
विश्वास-प्रस्तुतिः
अतो ऽनभिव्यक्त-स्वरूपत्वात्
स्वप्ने जीवो न रथादीन् सङ्कल्प-मात्रेण स्रष्टुं शक्नोति ।
Thibaut
As thus its true nature is not manifest,
the soul is unable to create, in dreams, chariots, lotus tanks, and so on, by its mere wish.
मूलम्
अतो ऽनभिव्यक्त-स्वरूपत्वात् स्वप्ने जीवो न रथादीन् सङ्कल्प-मात्रेण स्रष्टुं शक्नोति ।
श्रुत-प्रकाशिका
अतो ऽनभिव्यक्तेत्यादिना -
“मायामात्रम्” इति सूत्र-भाष्ये
परम-पुरुषासाधारण-स्वभाव-प्रतीतेर् इति सङ्ग्रहेण उक्तम् ।
लोकाश्रय-श्रुतिः
विश्वास-प्रस्तुतिः
तस्मिन् लोकाश् श्रितास् सर्वे
तद् उ नात्येति कश्चन (कठ.५.८)
Thibaut
(‘in that all the worlds abide,
and no one goes beyond it’–Ka. Up. II, 4, 9)
मूलम्
तस्मिन् लोकाश् श्रितास् सर्वे तद् उ नात्येति कश्चन (कठ.५.८)
विश्वास-प्रस्तुतिः
इति
सर्वेषु सुप्तेषु जागरणं
सर्व-लोकाश्रयत्वम् इत्यादयो हि
परम-पुरुषस्यैव सम्भवन्ति ।
Thibaut
And what the texts say about a being
that is awake in those who sleep
and is the abode of all worlds
can apply to the Supreme Person only.
मूलम्
इति सर्वेषु सुप्तेषु जागरणं सर्व-लोकाश्रयत्वम् इत्यादयो हि परम-पुरुषस्यैव सम्भवन्ति ।
श्रुत-प्रकाशिका
अत्र सर्वेषु सुप्तेषु जागरणम् इत्यादिना स्वभाव-शब्दार्थो विवृतः,
विश्वास-प्रस्तुतिः
अतो जीवानाम् अल्पाल्प-कर्मानुगुण-फलानुभवार्थं
तावन्-मात्र-कालावसानान् तद्-एकानुभाव्यान् अर्थान् उत्पादयति ॥५॥
Thibaut
The things seen by an individual soul in its dreams therefore are specially created by the Supreme Person,
and are meant by him to be a retribution–whether reward or punishment–for deeds of minor importance:
they therefore last for the time of the dream only,
and are perceived by that one soul only.
मूलम्
अतो जीवानाम् अल्पाल्प-कर्मानुगुण-फलानुभवार्थं तावन्मात्र-कालावसानान् तदेकानुभाव्यान् अर्थान् उत्पादयति ॥५॥
श्रुत-प्रकाशिका
ईश्वरेण क्रियते चेत्-
किम्-अर्थम् अस्थिर-रथादि-सृष्टिर्
इत्य् अत्राह - अत इति ।
अल्पाल्प-कर्म-फलानुभवार्थम् अस्थिर-तत्-तद्-वस्तु-सृष्टिर् इत्य् अर्थः ॥ 5 ॥
स्वप्नस्य शुभाद्यर्थ-सूचकत्वतः जीव-सृष्टत्वायोगः
विश्वास-प्रस्तुतिः
३२०. सूचकश् च हि श्रुतेर्, आचक्षते च तद्-विदः ॥ ३–२–६ ॥
Thibaut
- And it is suggestive, according to Scripture;
this the experts also declare.
मूलम्
३२०. सूचकश् च हि श्रुतेर् आचक्षते च तद्-विदः ॥ ३–२–६ ॥
श्रुत-प्रकाशिका
जीवस्य स्वाप्न-सृष्टि-मात्रोपयोगि-सत्य-सङ्कल्पत्वाद्य्-आविर्भावस् तदानीं स्याद्
इति शङ्का-व्यावृत्त्यर्थम् इदं सूत्रम्,
श्रुत-प्रकाशिका - पर-पक्षः
परे तु-
स्वाप्नार्थानाम् ईश्वर-सृष्टतया वियद्-आदिवत् पारमार्थ्यं पूर्व-पक्षी कृत्य
देश-काल-निमित्तैर् दुर्निरूपतया मिथ्यात्वं सिद्धान्तयन्ति।
एषां च जीव-कर्तृत्वम् एव “सृजत” इत्य् उच्यते।
तच् चौपचारिकं -
सुख-दुःख-दर्शन-निमित्त–सुकृत-दुष्कृत-कर्तृत्व-निबन्धन औपचारिकः स्वाप्नार्थ-कर्तृत्व-व्यपदेशः।
“बहिष् कुलायाद् अमृतश् चरित्वे"ति स्वाप्न-विषया श्रुतिश् च
बहिर् इव चरित्वेत्य् एवं-परा,
तस्मिन् प्रकरणे ईश्वर-प्रतिपादनं जीवस्य तद्-अनन्यत्वोपदेशार्थं
सुख-दुःख-सूचकत्व-कृत-पारमार्थ्य-शङ्का-व्युदास-परम्
“सूचकश् च हि” इति सूत्रम्।
तच् च द्वितीयं सूचनीय-पारमार्थ्ये ऽपि
सूचकं स्त्री-दर्शनादिकं मिथ्येति सूत्र-अभिप्रायः ।
ईश्वराद् अनन्यत्वेन जीवस्य सत्य-सङ्कल्पतया स्रष्टृत्व-शङ्कां व्युदस्यति
“पराभिध्यानात् त्व्” इति जीवस्य ज्ञानैश्वर्य-शक्त्यादि-सर्वम् अविद्या-तिरोहितं,
तिरोधान-निवृत्तिः परमात्माभिध्यानात्,
अस्य बन्ध-मोक्षौ हि परमात्माधीनौ,
स च तिरोभावः सूक्ष्म-स्थूल-देह-योगाद्
इति योजयन्ति।
विश्वास-प्रस्तुतिः
इतश् च स्वाप्ना अर्था
न जीव-सङ्कल्प-पूर्वकाः;
Thibaut
The things seen in dreams are not created by the wish of the individual soul for this reason also,
मूलम्
इतश् च स्वाप्ना अर्था
न जीव-सङ्कल्प-पूर्वकाः;
विश्वास-प्रस्तुतिः
यतः स्वप्नो ऽभ्युदयानभ्युदययोस् सूचकः श्रुतेर् अवगम्यते
Thibaut
that according to Scripture dreams are prophetic of future good or ill fortune.
मूलम्
यतः स्वप्नो ऽभ्युदयानभ्युदययोस् सूचकः श्रुतेर् अवगम्यते
विश्वास-प्रस्तुतिः
यदा कर्मसु काम्येषु
स्त्रियं स्वप्नेषु पश्यति
समृद्धिं तत्र जानीयात्
तस्मिन् स्वप्न-निदर्शने॥ (छा.५-२-९)
इति;
Thibaut
‘When a man engaged in some work undertaken for some special wish
sees a woman in his dream,
he may infer success from his dream vision.’
मूलम्
यदा कर्मसु काम्येषु
स्त्रियं स्वप्नेषु पश्यति
समृद्धिं तत्र जानीयात्
तस्मिन् स्वप्न-निदर्शने॥ (छा.५-२-९)
इति;
विश्वास-प्रस्तुतिः
अथ स्वप्ने पुरुषं कृष्णं कृष्ण-दन्तं पश्यति
स एनं हन्ति
इत्य्-आदेश् च ।
मूलम्
अथ स्वप्ने पुरुषं कृष्णं कृष्ण-दन्तं पश्यति स एनं हन्ति
इत्य्-आदेश् च ।
विश्वास-प्रस्तुतिः
स्वप्नाध्याय-विदश् च
स्वप्नं शुभाशुभयोस् सूचकम् आचक्षते ।
Thibaut
Those also who understand the science of dreams teach that dreams foreshadow good and evil fortune.
मूलम्
स्वप्नाध्याय-विदश् च स्वप्नं शुभाशुभयोस् सूचकम् आचक्षते ।
श्रुत-प्रकाशिका
स्वप्नाध्याय-विदः- स्वप्न-वाचि-वेद-वाक्य-विदः,
अत इत्य् अधिकरणार्थोपसंहारः ।
विश्वास-प्रस्तुतिः
सूचकत्वं च स्व-सङ्कल्पायत्तस्य नोपपद्यते;
Thibaut
But that which depends on one’s own wish can have no prophetic quality;
मूलम्
सूचकत्वं च स्व-सङ्कल्पायत्तस्य नोपपद्यते;
विश्वास-प्रस्तुतिः
तथा चाशुभस्यानिष्टत्वाच् छुभस्य सूचकम् एव सृष्ट्वा पश्येत् । +++(5)+++
Thibaut
and as ill fortune is not desired the dreamer would create for himself only such visions as would indicate good fortune.
मूलम्
तथा चाशुभस्यानिष्टत्वाच् छुभस्य सूचकम् एव सृष्ट्वा पश्येत् ।
विश्वास-प्रस्तुतिः
अतः स्वप्ने सृष्टिर् ईश्वरेणैव कृता ॥६॥
Thibaut
Hence the creation which takes place in dreams can be the Lord’s work only.–
मूलम्
अतः स्वप्ने सृष्टिर् ईश्वरेणैव कृता ॥६॥
विश्वास-प्रस्तुतिः
इति श्री-शारीरक-मीमांसा-भाष्ये सन्ध्याधिकरणम् ॥१॥
Thibaut
Here terminates the adhikaraṇa of ’the intermediate state.’
मूलम्
इति श्री-शारीरक-मीमांसा-भाष्ये सन्ध्याधिकरणम् ॥१॥