श्रीशारीरकमीमांसाभाष्ये अन्याधिष्ठिताधिकरणम् ॥ ६॥
अधिकरणार्थः
अवरोहतो जीवस्य व्रीह्यादिभावः, व्रीह्यादिसंश्लेषमात्रम्, न व्रीह्यादिशरीरकं ब्रह्म
३११. अन्याधिष्ठिते पूर्ववदभिलापात्॥ ३–१–२४ ॥
अवरोहन्तो जीवाः व्रीह्यादिभावेन जायन्त इति श्रूयते मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा जायन्ते (छा.५.१०.६) इति ।
तत्रत्यो विचारांशः प्रकृतः
ते किमन्यैर्भोक्तृभिर्व्रीह्यादि-शरीरैरधिष्ठितान्व्रीह्यादीनाश्लिष्यन्ति; उत ते भोक्तारो व्रीह्यादिशरीरा जायन्त इति विशये,
पूर्वपक्षः युक्तिसहितः
जायन्ते (छा.५.१०.६.७) इति वचनाद्देवो जायते मनुष्यो जायत इतिवद्व्रीह्यादिशरीरा एव।
सिद्धान्तार्थः सौत्रार्थविवरणतः
इति प्राप्ते उच्यते – अन्याधिष्ठिते इति। जीवान्तरेणाधिष्ठिते व्रीह्यादिशरीरे तेषां संश्लेषमात्रमेव। कुतः? पूर्ववदभिलापात् – आकाशादिमेघपर्यन्तवत्केवल तद्भावाभिलापात् । यत्र हि भोक्तृत्वमभिप्रेतम्; तत्र तत्साधनभूतं कर्माभिलप्यते रममीयचरणाः … कपूयचरणाः (छा.५.१०.७) इति । इह चाकाशादिवन्नाभिलप्यते कर्म, फलप्रदाने प्रवृत्तस्य स्वर्गोपभोग्यफलस्येष्टादेः कर्मणः स्वर्गोपभोगादेव समाप्तत्वात्, अनारब्धस्य रमणीयचरणाः…….कपूयचरणाः (छा.५.१०.७) इति वक्ष्यमाणत्वात्, मध्ये कर्मान्तराभावाच्च। अत आकाशादिभाववचनवद्व्रीह्यादिभावेन जन्मवचनमौपचारिकम्॥२४॥
स्वर्गोपभोगोपधायककर्मणः पापत्वशङ्का
तत्परिहारश्च सूत्रतः
३१२. अशुद्धमिति चेन्न शब्दात् ॥ ३–१–२५ ॥
नैतदस्ति – यदन्याधिष्ठिते व्रीह्यादिशरीरे संश्लेषमात्रम्, भोक्तृत्वहेत्वभावान्न व्रीह्यादिभावेन जन्म – इति भोक्तृत्वहेतुसद्भावात् स्वर्गोपभोग्यफलमिष्टादिकर्मैवाशुद्धम् – पापमिश्रम्, अग्नीषोमीयादि हिंसायुक्तत्वात् । हिंसा च न हिंस्यात्सर्वा भूतानि इति निषिद्धत्वात्पापमेव।
हिंसानिषेधस्य औत्सर्गिकत्वायोगः
न चात्र पदाहवनीयादिवदुत्सर्गापवादभावस्सम्भवति, भिन्नविषयत्वात्। अग्नीषोमीयहिंसा-विधिः हिंसायाः क्रतूपकारकत्वं बोधयति; न हिंस्यात् इति तु हिंसायाः प्रत्यवायफलत्वम्।
प्रभाकरोक्तः परिहारः, तद्दूषणं च
अथोच्येत – अग्नीषोमीयादिषु विधितः प्रवृत्तेर्न तद्विषयं निषेधविधिरास्कन्दति, रागप्राप्तविषयत्वात्तस्येति; नैवम्, इहापि रागप्राप्तेरविशिष्टत्वात्। स्वर्गकामो यजेत (यजु.२.५.५) इत्येवमादौ हि कामिनः कर्तव्यतया यागाद्युपदेशाद्यागादेः स्वर्गादिसाधनत्वमवगम्य फलरागत एव यागादौ प्रवर्तते । अग्नीषोमीयादिष्वपि तेषां फलसाधनभूतस्य यागादेरुपकारकत्वं शास्त्रादवगम्य रागादेव प्रवर्तते । लौकिक्यामपि हिंसायां केनचित्प्रमाणेन हिंसायाः स्वसमीहितसाधनत्वमवगम्य रागात्प्रवर्तत इति न कश्चन विशेषः । तथा नित्येष्वपि कर्मसु सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् (आप.श्रौ.२.१.२.२) इत्यादिवचनात्फल- साधनत्वमवगम्य रागादेव प्रवृत्तिरिति तेषामप्यशुद्धियुक्तत्वम् ।
शङ्कोपसंहारः
अत इष्टादीनां पापमिश्रत्वेनाशुद्धियुक्तानां स्वर्गेऽनुभाव्यं फलं स्वर्गेऽनुभूय हिंसांशस्य फलं व्रीह्यादिस्थावरभावेनानुभूयते। स्थावरभावं च पापफलं स्मरन्ति शरीरजैः कमदोषैर्याति स्थावरतां नरः (मनु.१.२.९) इति । अतो व्रीह्यादिभावेन भोगायानुशयिनो जायन्त इति चेत् –
प्राप्तशङ्कादूषणम्, सूत्रोत्तरखण्डेन
तन्न, कुतः? शब्दात् – अग्नीषोमीयादेस्संज्ञपनस्य स्वर्गलोकप्राप्तिहेतुतया हिंसात्वाभावशब्दात्। पशोर्हि संज्ञपननिमित्तां स्वर्गलोकप्राप्तिं वदन्तं शब्दमामनन्ति, हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमेति इत्यादिकम् । अतिशयिताभ्युदयसाधनभूतो व्यापारोऽल्पदुःखदोऽपि न हिंसा; प्रत्युत रक्षणमेव । तथा च मन्त्रवर्णः न वा उ एतन्म्रियसे न रिष्यसि देवान् इदेषि पथिभिस्सुगेभिः। यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवस्सविता दधातु (तै.ब्रा.३.७.९२) इति। चिकित्सकं च तादात्विकाल्पदुःखकारिणमपि रक्षकमेव वदन्ति, पूजयन्ति च तज्ज्ञाः॥२५॥
अवरोहतो जीवस्य रेतः सेकमिव व्रीह्यादावपि संश्लेष एव
३१३. रेतस्सिग्योगोऽथ ॥ ३–१–२६ ॥
इतश्चौपचारिकं व्रीह्यादिजन्मवचनम्, व्रीह्यादिभाववचनानन्तरं यो यो ह्यन्नमत्ति यो रेतस्सिञ्चति तद्भूय एव भवति (छा.५.१०.६) इति रेतस्सिग्भावोऽनुशयिनां श्रूयमाणो यथा तद्योगमात्रं प्रतिपादयति; तद्वद्ब्रीह्यादिभावोऽपीत्यर्थः॥२६॥
शरीरप्राप्तेः योनिप्राप्त्यनन्तरभाविता
३१४. योनेश्शरीरम् ॥ ३–१–२७ ॥
योनिप्राप्तेः पश्चादेवानुशयिनां शरीरप्राप्तिः तत्रैव सुखदुःखोपभोगसद्भावात् । ततः प्रागाकाशादिप्राप्तिप्रभृति तद्योगमात्रमेवेत्यर्थः ॥ २७ ॥
इति श्रीशारीरकमीमांसाभाष्ये अन्याधिष्ठिताधिकरणम् ॥६॥
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्येतृतीयस्याध्यायस्य प्रथमःपादः ॥१॥