०७ अंशाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अंशाधिकरणम्॥७॥

अधिकरणार्थः

जीवात्मनः परमात्मनः अंशभूताः इति साधनम्

२५८. अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके॥ २–३–४२॥

अवान्तरसङ्गतिः अधिकरणीयः संशयश्च

जीवस्य कर्तृत्वं परमपुरुषायत्तमित्युक्तम्; इदानीं किमयं जीवः परस्मादत्यन्तभिन्नः, उत परमेव ब्रह्म भ्रान्तम्, उत ब्रह्मैवोपाध्यवच्छिन्नम्, अथ ब्रह्मांश इति संशय्यते; श्रुतिविप्रतिपत्तेस्संशयः।

अधिकरणस्य पौनरुक्त्यशङ्का – परिहारौ

ननु तदनन्यत्वमारम्भणशब्दादिभ्यः (शारी.२.१.१५) अधिकं तु भेदनिर्देशात् (शारी.२.१.२२) इत्यत्रैवायमर्थो निर्णीतः।

सत्यम्, स एव नानात्वैकत्वश्रुतिविप्रतिपत्त्या आक्षिप्य जीवस्य ब्रह्मांशत्वोपपादनेन विशेषतो निर्णीयते; यावद्धि जीवस्य ब्रह्मांशत्वं न निर्णीतम्, तावज्जीवस्य ब्रह्मणोऽनन्यत्वं, ब्रह्मणस्तस्मादधिकत्वं च न प्रतितिष्ठति।

हेतूपन्यासपूर्वकः पूर्वपक्षः

किं तावत्प्राप्तम्? अत्यन्तभिन्न इति; कुतः? ज्ञाज्ञौ द्वावजावीशनीशौ (श्वे.१.९) इत्यादिभेदनिर्देशात् । ज्ञाज्ञयोरभेदश्रुतयस्तु अग्निना सिञ्चेत् इति विरुद्धार्थप्रतिपादनादौपचारिक्यः।

अधिकरणद्वयार्थनिगमनम्

ब्रह्मणोंऽशो जीव इत्यपि न साधीयः, एकवस्त्वेकदेशवाची ह्यंशशब्दः, जीवस्य ब्रह्मैकदेशत्वे तद्गता दोषा ब्रह्मणि भवेयुः ।

न च ब्रह्मखण्डो जीव इत्यंशत्वोपपत्तिः, खण्डनानर्हात्वाद्ब्रह्मणः प्रागुक्तदोषप्रसङ्गाच्च। तस्मादत्यन्तभिन्नस्य च तदंशत्वं दुरुपपादम्।

ब्रह्माज्ञानवादेन पूर्वपक्षः सप्रमाणः

यद्वा भ्रान्तं ब्रह्मैव जीवः, कुतः तत्वमसि (छां.६.१०.३) अयमात्मा ब्रह्म (बृ.६.४.५) इत्यादिब्रह्मात्मभावोपदेशात् । नानात्ववादिन्यस्तु प्रत्यक्षादिसिद्धार्थानुवादित्वात् अनन्यथासिद्ध-अद्वैतोपदेशपराभिः श्रुतिभिः प्रत्यक्षादय इवाविद्यान्तर्गताः ख्याप्यन्ते ।

उपहितब्रह्मणो जीवत्ववादेन पूर्वः पक्षः

अथवा ब्रह्मैवानाद्युपाध्यवच्छिन्नं जीवः । कुतः, तत एव ब्रह्मात्मभावोपदेशात्। नचायमुपाधिर्भ्रान्तिपरिकल्पित इति वक्तुं शक्यम्, बन्धमोक्षादिव्यवस्थानुपपत्तेः – इति॥

सूत्रार्थवर्णनतः सिद्धान्तः

एवं प्राप्तेऽभिधीयते ब्रह्मांश इति। कुतः? नानाव्यपदेशात्, अन्यथा च – एकत्वेन व्यपदेशात्। उभयधा हि व्यपदेशो दृश्यते। नानात्वव्यपदेशस्तावत्स्रष्टृत्व सृज्यत्वनियन्तृत्वनियाम्यत्वसर्वज्ञत्वाज्ञत्वस्वाधीनत्वपराधीनत्वशुद्धत्वाशुद्धत्वकल्याणगुणाकरत्व तद्विपरीतत्वपतित्वशेषत्वादिभिर्दृश्यते । अन्यथा च अभेदेन व्यपदेशोऽपि तत्त्वमसि (छा.६.१०.३) अयमात्मा ब्रह्म (बृ.६.४.५) इत्यादिभिर्दृश्यते। अपि दाशकितवादित्वमधीयत एके । ब्रह्मदाशाब्रह्मदासा ब्रह्मेमे कितवाः (आथ.सं.उ) इत्याथर्वणिका ब्रह्मणो दाशकितवादित्वमप्यधीयते। ततश्च सर्वजीवव्यापित्वेनाभेदो व्यपदिश्यत इत्यर्थः। एवमुभयव्यपदेशमुख्यत्वसिद्धये जीवोऽयं ब्रह्मणोंऽश इत्यभ्युपगन्तव्यः।

भेदव्यपदेशानामन्यथासिद्धत्वशङ्कापरिहारौ

न च भेदव्यपदेशानां प्रत्यक्षादिप्रसिद्धार्थत्वेनान्यथासिद्धत्वम्, ब्रह्मसृज्यत्वतन्नियाम्यत्व-तच्छरीरत्वतच्छेषत्वतदाधारत्वतत्पाल्यत्वतत्संहार्यत्वतदुपासकत्वतत्प्रसादलभ्यधर्मार्थकाममोक्षरूप-पुरुषार्थभाक्त्वादयस्तत्कृतश्च जीवब्रह्मणोर्भेदः, प्रत्यक्षाद्यगोचरत्वेनानन्यथासिद्धः। अतो न जगत्सृष्ट्यादिवादिनीनां प्रमाणान्तरसिद्धभेदानुवादेन मिथ्यार्थोपदेशपरत्वम् ।

शास्त्रस्य भेदभ्रमोपदेशपरत्वानुपपत्तिः

न चाखण्डैकरसचिन्मात्रस्वरूपेण ब्रह्मणा आत्मनोऽतद्भावानुसन्धानम्, बहुभवन-सङ्कल्पपूर्वकवियदादिसृष्टिं, जीवभावेन तत्प्रवेशं, विचित्रनामरूपव्याकरणं, तत्कृतानन्त-विषयानुभवनिमित्तसुखदुःखभागित्वम्, अभोक्तृत्वेन तत्र स्थित्वा तन्नियमनेनान्तर्यामित्वं, जीवभूतस्य स्वस्य कारणब्रह्मात्मभावानुसन्धानं, संसारमोक्षं, तदुपदेशशास्त्रं च कुर्वाणेन भ्रमितव्यमित्युपदिश्यते, तथा सत्युन्मत्तप्रलपितत्वापातात् ।

उपहितब्रह्मजीववादस्य निरासः

उपाध्यवच्छिन्नं ब्रह्म जीव इत्यपि न साधीय., पूर्वनिर्दिष्टनियन्तृत्वनियाम्यत्वादि-व्यपदेशबाधादेव। न हि देवदत्तादेरेकस्यैव गृहाद्युपाधिभेदान्नियन्तृनियाम्यभावादिसिद्धिः । अत उभयव्यपदेशोपपत्तये जीवोऽयं ब्रह्मणोंऽश इत्यभ्युपेत्यम्॥४२॥

जीवस्य ब्रह्मांशतायाः श्रुतिकण्ठोक्तिसिद्धता

२५९. मन्त्रवर्णात् ॥ २–३–४३ ॥

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि (पु.सू.) इति मन्त्रवर्णाच्च ब्रह्मणोंऽशो जीवः । अंशवाची हि पादशब्दः। विश्वाभूतानि (पु.सू.) इति जीवानां बहुत्वाद्बहुवचनं मन्त्रे । सूत्रेऽपि अंश इत्येकवचनं जात्यभिप्रायम्। नात्माश्रुतेः (शारी.२.३.१८) इत्यत्राप्येकवचनं जात्यभिप्रायम्, नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (श्वे.६.१३) इत्यादि श्रुतिभ्य ईश्वराद्भेदस्यात्मनां बहुत्वनित्यत्वयोश्चाभिधीयमानत्वात् ।

आत्मसु भेदकाकारावगन्तारः

एवं नित्यानामात्मनां बहुत्वे प्रामाणिके सति ज्ञानस्वरूपत्वेन सर्वेषामेकरूपत्वेऽपि भेदकाकारः आत्मयाथात्म्यवेदनक्षमैः अवगम्यते । असन्ततेश्चाव्यतिकरः (शारी.२.३.७) इत्यनन्तरमेव चात्मबहुत्वं वक्ष्यति॥४३॥

उक्तार्थस्य स्मृतिकण्ठोक्तिसिद्धता

२६०. अपि स्मर्यते ॥ २–३–४४ ॥

ममैवांशो जीवलोके जीवभूतस्सनातनः (भ.गी.१५.७) इति जीवस्य पुरुषोत्तमांशत्वं स्मर्यते; अतश्चायमंशः॥ ४४॥

ब्रह्मणि जीवांशित्वकृतजीवदोषाश्रयत्वप्रसङ्गवारणम्

अंशत्वेऽपि जीवस्य ब्रह्मैकदेशत्वेन जीवगता दोषा ब्रह्मण एवेत्याशङ्क्याह –

२६१. प्रकाशादिवत्तु नैवं परः ॥ २–३–४५ ॥

तु शब्दचोद्यं व्यावर्तयति, प्रकाशादिवज्जीवः परमात्मनोंऽशः यथाऽग्न्यादित्यादेः भास्वतो भारूपः प्रकाशोंऽशो भवति, यथा गवाश्वशुक्लकृष्णादीनां गोत्वादिविशष्टानां वस्तूनां गोत्वादीनि विशेषणान्यंशाः, यथा वा देहिनो देवमनुष्यादिर्देहोंऽशः तद्वत्।

परिष्कृतम् अंशत्वम्, प्रकृतोपयोगश्च

एकवस्त्वेकदेशत्वं ह्यंशत्वम् । विशिष्टस्यैकस्य वस्तुनो विशेषणमंश एव। तथा च विवेचकाः विशिष्टे वस्तुनि विशेषणांशोऽयम्, विशेष्यांशोऽयमिति व्यपदिशन्ति। विशेषणविशेष्ययोरंशांशित्वेऽपि स्वभाववैलक्षण्यं दृश्यते।

भेदाभेदव्यपदेशयोः विषयविवेकः

एवं जीवपरयोर्विशेषण-विशेष्ययोरंशांशित्वेऽपि स्वभावभेदश्चोपपद्यते। तदिदमुच्यते – नैवं पर इति। यथाभूतो जीवः, न तथाभूतः परः। यथैव हि प्रभायाः प्रभावानन्यथाभूतः तथा प्रभास्थानीयात् स्वांशाज्जीवादंशी परोऽप्यर्थान्तरभूत इत्यर्थः। एवं जीवपरयोर्विशेषणविशेष्यत्वकृतं स्वभाववैलक्षण्यमाश्रित्य भेदनिर्देशाः प्रवर्तन्ते; अभेदनिर्देशास्तु पृथिक्सिद्ध्यनर्हाविशेषणानां विशेष्यपर्यन्तत्वमाश्रित्य मुख्यत्वेनोपपद्यन्ते। तत्त्वमसि (छा.६.१०.३) अयमात्मा ब्रह्म (बृ.६.४.५) इत्यादिषु, तच्छब्दब्रह्मशब्दवत् त्वमयमात्मेतिशब्दा अपि जीवशरीरकब्रह्मवाचकत्वेन एकार्थाभिधायित्वात् इत्ययमर्थः प्रागेव प्रपञ्चितः ॥ ४५॥

उक्तस्यांशांशिभावस्य स्मृतितो लाभः

२६२. स्मरन्ति च ॥ २–३–४६ ॥

एवं प्रभाप्रभावद्रूपेण शक्तिशक्तिमद्रूपेण शरीरात्मभावेन चांशाशिभावं जगद्ब्रह्मणोः पराशरादयः स्मरन्ति एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा। परस्य ब्रह्मणश्शक्तिस्तथेदमखिलं जगत् (वि.पु.१.२२.५६) यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज। तस्य सृज्यस्य सम्भूतौ तत्सर्वं वै हरेस्तनुः (वि.पु.१.२२.३८) इत्यादिना। चकराच्छ्रुतयोऽपि यस्यात्मा शरीरम् (बृ.५.७.२२) इत्यादिना आत्मशरीरभावेनांशांशित्वं वदन्तीत्युच्यते॥४६॥

ब्रह्मांशत्वाविशेषेऽपि अधिकारादितारतम्ये युक्तिः

एवं ब्रह्मणोंऽशत्वे, ब्रह्मप्रवर्त्यत्वे, ज्ञत्वे च सर्वेषां समाने केषाञ्चिद्वेदाध्ययनतदर्थानुष्ठानाद्यनुज्ञा, केषांचित्तत्परिहारः, केषांचिद्दर्शनस्पर्शनाद्यनुज्ञा, केषांचित्तत्परिहारश्च, शास्त्रेषु कथमुपपद्यत इत्याशङ्क्याह-

२६३. अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥ २–३–४७ ॥

सर्वेषां ब्रह्मांशत्वज्ञत्वादिनैकरूपत्वे सत्यपि ब्राह्मणक्षत्रियवैश्यशूद्रादिरूपशुच्यशुचिदेह-सम्बन्धनिबन्धनावनुज्ञापरिहारावुपपद्येते; ज्योतिरादिवत् – यथाग्नेरग्नित्वेन एकरूपत्वेऽपि श्रोत्रियागारादग्निराह्रियते; श्मशानादेस्तु परिह्रियते; यथा चान्नादि श्रोत्रियादेरनुज्ञायते; अभिशस्तादेस्तु परिह्रियते॥४७॥

जीवेषु ब्रह्मांशत्वनिबन्धनभोगसाङ्कर्यानवकाशः

२६४. असन्ततेश्चाव्यितकरः॥ २–३–४८ ॥

ब्रह्मांशत्वादिनैकरूपत्वे सत्यपि जीवानामन्योन्यभेदादणुत्वेन प्रतिशरीरं भिन्नत्वाच्च भोगव्यतिकरोऽपि न भवति। भ्रान्तब्रह्मजीववादे चोपहितब्रह्मजीववादे च जीवपरयोर्जीवानां च भोगव्यतिकरादयस्सर्वे दोषास्सन्तीत्यभिप्रायेण स्वपक्षे भोगव्यतिकराभाव उक्तः॥ ४८॥

ब्रह्माज्ञानवादे भोगव्यवस्थाया अभावः

ननु भ्रान्तब्रह्मजीववादेऽप्यविद्याकृतोपाधिभेदाद्भोगव्यवस्थादय उपपद्यन्ते; अत आह –

२६५. आभास एव च ॥ २–३–४९ ॥

अखण्डैकरसप्रकाशमात्रस्वरूपस्य स्वरूपतिरोधानपूर्वकोपाधिभेदोपपादनहेतुराभास एव । प्रकाशैकस्वरूपस्य प्रकाशतिरोधानं प्रकाशनाश एवेति प्रागेवोपपादितम्।आभासा एव इति वा पाठः; तथा सति हेतव आभासाः, चकारात् पृथगात्मानं प्रेरितारं च मत्वा (श्वेत.१.६) ज्ञाज्ञौ द्वौ (श्वे.१.६.९) तयोरन्यः पिप्पलं स्वाद्वत्ति (श्वे.४.६) इत्यादिश्रुतिविरोधश्च । अविद्यापरिकल्पितोपाधिभेदेऽपि सर्वोपाधिभिरुपहितस्वरूपस्यैकत्वाभ्युपगमात् भोगव्यतिकरः तदवस्थ एव॥४९॥

सत्वोपाध्युपहितब्रह्मजीववादेऽप्यव्यवस्था

पारमार्थिकोपाध्युपहितब्रह्मजीववादेऽप्युपाधिभेदहेतुभूतानाद्यदृष्टवशाद्व्यवस्था भविष्यति इत्याशङ्क्याह-

२६६. अदृष्टानियमात्॥ २–३–५० ॥

उपाधिपरम्पराहेतुभूतस्यादृष्टस्यापि ब्रह्मस्वरूपाश्रयत्वेन नियमहेत्वभावादव्यवस्थैव, उपाधिभिरदृष्टैश्च स्वसम्बन्धेन ब्रह्मस्वरूपच्छेदासम्भवात् ॥५॥

अदृष्टहेतुभूतसङ्कल्पव्यवस्थयाऽपि भोगव्यवस्थाया असिद्धिः

२६७. अभिसन्ध्यादिष्वपि चैवम् ॥ २–३–५१ ॥

अदृष्टहेतुभूताभिसन्ध्यादिष्वप्युक्तादेव हेतोरनियम एव ॥५१॥

उपाधिप्रदेशकृतभोगव्यवस्थानिरासः

२६८. प्रदेशभेदादिति चेन्नान्तर्भावात् ॥ २–३–५२ ॥

यद्यप्येकमेव ब्रह्मस्वरूपम्, तच्छेदनार्हं नानाविधोपाधिभिस्सम्बध्यते – तथाप्युपाधि-सम्बन्धिब्रह्मप्रदेशभेदादुपपद्यत एव भोगव्यवस्थेति चेत् – तन्न, उपाधीनां तत्र तत्र गमनात्सर्वप्रदेशानां सर्वोपाध्यन्तर्भावात् व्यतिकरस्तदवस्थ एव। प्रदेशभेदेन सम्बन्धेऽपि सर्वस्य ब्रह्मप्रदेशत्वात्तत्तत्प्रदेशसम्बन्धि दुःखं ब्रह्मण एव स्यात्। पूर्वत्र नित्योपलब्ध्यनुपलब्धि-प्रसङ्गोऽन्यतरिनयमो वाऽन्यथा (शरी.२.३.३२) उपलब्धिवदनियमः (ब्र.सू.२.३.३६) इत्याभ्यां सूत्राभ्यां वेदबाह्यानां सर्वगतजीववादिनां दोष उक्तः; अत्र तु आभास एव च (ब्र.सू.२.३.४९) इत्यादिभिस्सूत्रैः वेदावलम्बिनामात्मैकत्ववादिनां दोष उच्यते॥

इति श्रीशारीरकमीमांसाभाष्ये अंशाधिकरणम्॥७॥

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य तृतीयःपादः॥३॥