०४ ज्ञाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये ज्ञाधिकरणम्॥४॥

अधिकरणार्थः

ज्ञानाश्रयत्वस्य जीवस्वरूपतानिरूपणम्

२३५. ज्ञोऽत एव ॥ २–३–१९ ॥

अवान्तरसङ्गतिः, अधिकरणीयः संशयश्च

वियदादिवज्जीवो नोत्पद्यत इत्युक्तम्, तत्प्रसङ्गेन जीवस्वरूपं निरूप्यते। किं सुगतकपिलाभिमतचिन्मात्रमेवात्मनस्स्वरूपम्; उत कणभुगभिमतपाषाणकल्पस्वरूपं अचित्स्वभावमेव आगन्तुकचैतन्यगुणकम्; अथ ज्ञातृत्वमेवास्य स्वरूपमिति।

युक्तिसहितः पूर्वः पक्षः, चेतनस्य ज्ञानमात्रस्वरूपता

किं युक्तम्? चिन्मात्रमिति; कुतः? तथा श्रुतेः। अन्तर्यामिब्राह्मणे हि य आत्मनि तिष्ठन् (बृ.५.७.२२) इति माध्यन्दिनस्य पर्यायस्य स्थाने यो विज्ञाने तिष्ठन् (बृह.५.७.२२) इति काण्वा अधीयते। तथा विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च (तै.आन.५.१) इति कर्तुरात्मनो विज्ञानमेव स्वरूपं श्रूयते । स्मृतिषु च ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः (वि.पु.१.२.६) इत्यादिष्वात्मनो ज्ञानस्वरूपत्वं प्रतीयते। अपरस्तु जीवात्मनो ज्ञानत्वे ज्ञातृत्वे च स्वाभाविकेऽभ्युपगम्यमाने तस्य सर्वगतस्य सर्वदा सर्वत्रोपलब्धिप्रसङ्गात्, करणानां च वैयर्थ्यात्, सुषुप्तिमूर्च्छादिषु सतोऽप्यात्मनः चैतन्यानुपलब्धेर्जाग्रतस्सामग्र्यां सत्यां ज्ञानोत्पत्ति-दर्शनादस्य न ज्ञानं स्वरूपम्; नापि ज्ञातृत्वम्; आगन्तुकमेव चैतन्यम्; सर्वगतत्वं चात्मनोऽवश्याभ्युपेत्यम्, सर्वत्र कार्योपलब्धेः सर्वत्रात्मनस्सन्निधानाभ्युपगमाच्छरीरगमनेनैव कार्यसम्भवे सति गतिकल्पनायां प्रमाणाभावाच्च। श्रुतिरपि सुषुप्तिवेलायां ज्ञानाभावं दर्शयति – नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि (छा.८.११.२) इति। तथा मोक्षदशायां ज्ञानाभावं दर्शयति – न प्रेत्य संज्ञाऽस्ति (बृ.६.५.१३) इति। ज्ञानस्वरूपम् (वि.पु.१.२.६) इत्यादिप्रयोगस्तु ज्ञानस्य तदसाधारणगुणत्वेन लाक्षणिक इति॥

सिद्धान्तप्रदर्शनम्, तत्र चेतनस्य ज्ञातृत्वस्वरूपता

एवं प्राप्ते प्रचक्ष्महे – ज्ञोऽत एव – ज्ञ एव – अयमात्मा ज्ञातृत्वस्वरूप एव, न ज्ञानमात्रम्, नापि जडस्वरूपः; कुतः? अत एव – श्रुतेरेवेत्यर्थ; । नात्मा श्रुतेः इति प्रकृता श्रुतिः अत इति शब्देन परामृश्यते । तथा छान्दोग्ये प्रजापतिवाक्ये मुक्तामुक्तात्मस्वरूपकथने अथ यो वेदेदं जिघ्राणीति स आत्मा (बृ.५.७.२२) मनसैवेतान् कामान् पश्यन् रमते य एते ब्रह्मलोके (छा.८-१२-४) सत्यकामस्सत्यसङ्कल्पः (छा.८.७.१) नोपजनं स्मरन्निदं शरीरम् (छा.८-१२-३) अन्यत्रापि न पश्यो मृत्युं पश्यति (छा.७.२६.२) तथा वाजसनेयके कतम आत्मा (बृ.६.३.७) इति पृष्ट्वा योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः (बृ.६.३.७) इति तथा विज्ञातारमरे केन विजानीयात् (बृ.६.५.१५) जानात्येवायं पुरुषः इति, तथा एष हि द्रष्टा श्रोता घ्राता रसियता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः (प्रश्न. ४-९) एवमेवास्य परिद्रष्टुरिमाष्षोडशकलाः (प्रश्न.६,५) इति ॥१९॥

आत्मनो विभुत्वे समुन्मिषतो दोषस्य अणुत्वतो निरासः

यत्तूक्तं ज्ञातृत्वे स्वाभाविके सति सर्वगतस्य तस्य सर्वदा सर्वत्रोपलब्धिः प्रसज्यत इति तत्रोच्यते।

२३६. उत्क्रान्तिगत्यागतीनाम् ॥ २–३–२० ॥

नायं सर्वगतः, अपित्वणुरेवायमात्मा; कुतः? उत्क्रान्तिगत्यागतीनां श्रुतेः, उत्क्रान्तिस्तावच्छ्रूयते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्घ्नो वाऽन्येभ्यो वा शरीरदेशेभ्यः (बृ.६.४.२) इति। गतिरपि ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति (कौषी.१.२) इति । आगतिरपि तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे (बृ.६.४.६) इति। विभुत्वे ह्येता उत्क्रान्त्यादयो नोपपद्येरन्॥२०॥

आत्मनो विभुत्वे, गत्यागत्योः सर्वथा असम्भवः

२३७. स्वात्मना चोत्तरयोः ॥ २–३–२१ ॥

च शब्दोऽवधारणे। यद्यपि शरीरवियोगरूपत्वेनोत्क्रान्तिः स्थितस्याप्यात्मनः कथंचिदुपपद्यते; गत्यागती तु न कथंचिदुपपद्येते। अतस्ते स्वात्मनैव सम्पाद्ये ॥२१॥

श्रुतौ महत्वोक्तेः जीवविषयकत्वभ्रान्तिकृताणुत्वविरोधपरिहारः

२३८. नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २–३–२२ ॥

योऽयं विज्ञानमयः प्राणेषु (बृ.६.३.७) इति जीवं प्रस्तुत्य स वा एष महानज आत्मा (बृ.६.४.१५) इति महत्त्वश्रुतेः नाणुर्जीव इति चेन्न; इतराधिकारात् – जीवादितरस्य प्राज्ञस्य तत्राधिकारात्; यद्यप्युपक्रमे जीवः प्रस्तुतः, तथापि यस्यानुवित्तः प्रतिबुद्ध आत्मा (बृ.६.४.१३) इति मध्ये परः प्रतिपाद्यत इति तत्सम्बन्धीदं महत्वम्; न जीवस्य ॥२२॥

आत्मनः अणुत्वस्य श्रौतता

२३९. स्वशब्दोन्मानाभ्यां च ॥ २–३–२३ ॥

साक्षादणुशब्द एव श्रूयते एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश (मु.३.१.९) इति; उद्धृत्य मानमुन्मानम्; अणुसदृशं वस्तूद्धृत्य तन्मानत्वं जीवस्य श्रूयते वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवस्स विज्ञेयः (श्वे.५.९) इति; आराग्रमात्रो ह्यवरोऽपि दृष्टः (श्वेत.५.८) इति च । अतोऽणुरेवायमात्मा ॥२३॥

अणुत्वे सर्वावयवावच्छेदेन वेदनानुपपत्ति-तत्परिहारौ

अथ स्यात् – आत्मनोऽणुत्वे सकलशरीरव्यापिनी वेदना नोपपद्यत इति; तत्र मतान्तरेण परिहारमाह –

२४०. अविरोधश्चन्दनवत् ॥ २–३–२४ ॥

यथा हरिचन्दनबिन्दुर्देहैकदेशवर्त्यपि सकलदेहव्यापिनमाह्लादं जनयति, तद्वदात्माऽपि देहैकदेशवर्ती सकलदेशवर्तिनीं वेदनामनुभवति ॥२४॥

अणोरात्मनः चन्दनबिन्दुदृष्टान्तासाङ्गत्य-तत्समाधाने

२४१. अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २–३–२५ ॥

हरिचन्दनबिन्द्वादेर्देहदेशविशेषावस्थितिविशेषात्तथाभावः, आत्मनस्तु तन्न विद्यत इति चेन्न; आत्मनोऽपि देहदेशविशेषे स्थित्यभ्युपगमात् । हृदयदेशे ह्यात्मनः स्थितिः श्रूयते हृदि ह्ययमात्मा तत्रैकशतं नाडीनाम् (प्रश्न.३.६) इति; तथा कतम आत्मा (बृ.६.३.७) इति प्रकृत्य योऽयं विज्ञानमयः प्राणेषु ह्यद्यन्तर्ज्योतिः (बृह.६.३.७) इति। आत्मनो देशविशेषस्थितिख्यापनाय चन्दनदृष्टान्तः प्रदर्शितः; न तु चन्दनस्य देशविशेषापेक्षा॥२५॥

अस्मिन् विषये सूत्रकृतः स्वाभिप्रायप्रकाशनम्

एकदेशवर्तिनस्सकलदेहव्यापिकार्यकरत्वप्रकारं स्वमतेनाह –

२४२. गुणाद्वाऽऽलोकवत् ॥ २–३–२६ ॥

वा शब्दो मतान्तरव्यावृत्त्यर्थः; आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यावस्थितः आलोकवत् – यथा मणिद्युमणिप्रभृतीनामेकदेशवर्तिनामालोकोऽनेकदेशव्यापी दृश्यते, तद्वद्धृदयस्थस्याऽत्मनो ज्ञानं सकलदेहं व्याप्य वर्तते; ज्ञातुः प्रभास्थानीयस्य ज्ञानस्य स्वाश्रयादन्यत्र वृत्तिर्मणिप्रभावदुपपद्यत इति प्रथमसूत्रे स्थापितम्॥ २६॥

ज्ञानरूपस्यात्मनः स्वातिरिक्तज्ञानगुणकत्वोपपत्तिः

ननूक्तं ज्ञानमात्रमेवात्मेति; तत्कथं ज्ञानस्य स्वरूपव्यतिरिक्तगुणत्वमुच्यते; तत्राह –

२४३. व्यतिरेको गन्धवत्तथा च दर्शयति ॥ २–३–२७ ॥

यथा पृथिव्याः गन्धस्य गुणत्वेनोपलभ्यमानस्य ततो व्यतिरेकः, तथा जानामीति ज्ञातृगुणत्वेन प्रतीयमानस्य ज्ञानस्याऽत्मनो व्यतिरेकस्सिद्धः; दर्शयति च श्रुतिः जानात्येवायं पुरुषः इति॥२७॥

ज्ञान-तदाश्रययोः श्रुतिकण्ठोक्तिः

२४४. पृथगुपदेशात् ॥ २–३–२८ ॥

स्वशब्देनैव, विज्ञानं विज्ञातुः पृथगुपदिश्यते न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते (बृ.६.३.३०) इति ॥२८॥

ज्ञातृत्वस्वरूपेऽप्यात्मनि ज्ञानशब्दप्रयोगौचित्यम्

यत्तूक्तं यो विज्ञाने तिष्ठन् (बृ.५.७.२२) विज्ञानं यज्ञं तनुते (तै.आन.५.१) ज्ञानस्वरूपमत्यन्तनिर्मलम् (वि.पु.१.२.६) इत्यादिषु ज्ञानमेवात्मेति व्यपदिश्यत इति, तत्राह –

२४५. तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २–३–२९ ॥

तुशब्दश्चोद्यं व्यावर्तयति; तद्गुणसारत्वात् – विज्ञानगुणसारत्वात् आत्मनो विज्ञानमिति व्यपदेशः। विज्ञानमेवास्य सारभूतो गुणः, यथा प्राज्ञस्यानन्दस्सारभूतो गुण इति प्राज्ञ आनन्दशब्देन व्यपदिश्यते – यदेष आकाश आनन्दो न स्यात् (तै.आन.७.१) आनन्दो ब्रह्मेति व्यजानात् (तै.भृ.६.१) इति; प्राज्ञस्य ह्यानन्दस्सारभूतो गुणः- स एको ब्रह्मण आनन्दः (तै.आन.८-४) आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन (तै.आन.७.१) इति। यथा वा सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इति विपश्चितः प्राज्ञस्य ज्ञानशब्देन व्यपदेशः सह ब्रह्मणा विपश्चिता (तै.आन.१.२) यस्सर्वज्ञः (मु.१.१.९) इत्यादिषु प्राज्ञस्य ज्ञानं सारभूतो गुण इति विज्ञायते॥

ज्ञानस्य स्वरूपानुबन्धिधर्मत्वतः आत्मनि ताच्छब्द्यम्

२४६. यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ २–३–३० ॥

विज्ञानस्य यावदात्मभाविधर्मत्वात्तेन तद्व्यपदेशो न दोषः; तथा च खण्डादयो यावत्स्वरूपभाविगोत्वादिधर्मशब्देन गौरिति व्यपदिश्यमाना दृश्यन्ते; स्वरूपनिरूपणधर्मत्वादित्यर्थः। चकारात् ज्ञानवदात्मनोऽपि स्वप्रकाशत्वेन विज्ञानमिति व्यपदेशो न दोष इति समुच्चिनोति॥३०॥

ज्ञानस्य आत्मस्वरूपानुबन्धिधर्मत्वाभावशङ्का-परिहारौ

यच्चोक्तं सुषुप्त्यादिषु ज्ञानाभावात् ज्ञानस्य न स्वरूपानुबन्धिधर्मत्वमिति, तत्राह –

२४७. पुंस्त्वादिवत्वस्य सतोऽभिव्यक्तियोगात् ॥ २–३–३१ ॥

तुशब्दश्चोदिताशङ्कानिवृत्त्यर्थः। अस्य – ज्ञानस्य सुषुप्त्यादिष्वपि विद्यमानस्य जागर्यादिष्वभिव्यक्तेः सम्भवात्स्वरूपानुबन्धिधर्मत्वोपपत्तिः । पुंस्त्वादिवत् – यथा पुंस्त्वाद्यसाधारणस्य धातोर्बाल्यावस्थायां सतोऽप्यनभिव्यक्तस्य युवत्वेऽभिव्यक्तौ पुंसस्तद्वत्ता न कादाचित्की भवति । सप्तधातुमयत्वं हि शरीरस्य स्वरूपानुबन्धि – तत्सप्तधातु त्रिमलं द्वियोनि चतुर्विधाहारमयं शरीरम् इति शरीरस्वरूपव्यपदेशात्।

आत्मप्रकाशस्य सार्वकालिकता

सुषुप्त्यादिष्वप्यहमर्थः प्रकाशत इति प्रागेवोक्तम्। तस्य विद्यमानस्य ज्ञानस्य विषयगोचरत्वं जागर्यादावुपलभ्यते। एते चात्मनो ज्ञातृत्वादयो धर्माः प्रागेवोपपादिताः । अतो ज्ञातृत्वमेव जीवात्मनः स्वरूपम् । स चायमात्माऽणुपरिमाणः । न प्रेत्य संज्ञाऽस्ति (बृ.४.४.१२) इत्यपि न मुक्तस्य ज्ञानाभाव उच्यते; अपि तु एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति (बृ.४.४.१२) इति संसारदशायां यद्भूतानुविधायित्वप्रयुक्तं जन्मनाशादिदर्शनम्, तन्मुक्तस्य न विद्यते न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम्। सर्वं हि पश्यः पश्यति सर्वमाप्नोति सर्वशः (छा.७.२६.२) नोपजनं स्मरन्निदं शरीरम् (छा.८.१२.३) मनसैतान् कामान् पश्यन् रमते (छा.८.१२.५) इत्यादिश्रुत्यैकार्थ्यात् ॥३१॥

आत्मनो ज्ञानत्व-जडत्वपक्षयोः विभुत्वे दूषणम्

सम्प्रति ज्ञानात्मवादे तस्य सर्वगतत्वे दूषणमाह –

२४८. नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा॥ २–३–३२ ॥

अन्यथा सर्वगतत्वपक्षे तस्य ज्ञानमात्रत्वपक्षे च नित्यमुपलब्ध्यनुपलब्धी सहैव प्रसज्येयाताम्; अन्यतरनियमो वा – उपलब्धिरेव वा नित्यं स्यात्, अनुपलब्धिरेव वा।

उपलब्ध्यनुपलब्ध्योः उभयोर्वा प्रसङ्गप्रकारः

एतदुक्तं भवति – लोके तावद्वर्तमानयोरात्मोपलब्ध्यनुपलब्ध्योरयं ज्ञानात्मा सर्वगतो हेतुस्स्यात् उपलब्धेरेव वा, अनुपलब्धेरेव वा; उभयहेतुत्वे सर्वदा सर्वत्रोभयं प्रसज्येत; यद्युपलब्धेरेव, सर्वस्य सर्वदा सर्वत्रानुपलम्भो न स्यात्। अथानुपलब्धेरेव, सर्वदा सर्वत्रोपलब्धिर्न स्यात् इति। अस्माकं शरीरस्यान्तरेवावस्थितत्वात् आत्मनस्तत्रैवोपलब्धिर्नान्यत्रेति व्यवस्थासिद्धिः । करणायत्तोपलब्धेरपि सर्वेषामात्मनां सर्वगतत्वेन सर्वैः करणैस्सर्वदा संयुक्तत्वाददृष्टादेरप्यनियमादुक्तदोषस्समानः॥३२॥

इति श्रीशारीरकमीमांसाभाष्ये ज्ञाधिकरणम्॥ ४॥