०२ तेजोधिकरणम्

श्रीशारीरकमीमांसाभाष्ये तेजोऽधिकरणम्॥२॥

अधिकरणार्थः

तेज आदिशरीरकात् ब्रह्मण एव अबादिसृष्टिः, न केवलं तेज आदे-

२२६. तेजोऽतस्तथाह्याह ॥ २–३–१० ॥

अवान्तरसङ्गतिः, प्रकृताधिकरणीयो विचारश्च

ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य ब्रह्मकार्यत्वमुक्तम्, इदानीं व्यवहितकार्याणां किं केवलात्तत्तदनन्तरकारणभूताद्वस्तुन उत्पत्तिः, आहोस्वित्तत्तद्रूपाद्ब्रह्मण इति चिन्त्यते।

पूर्वः पक्षः सहेतुकः

किं युक्तम्? केवलात्तत्तद्वस्तुन इति। कुतः? तेजस्तावत् अतः – मातरिश्वन एवोत्पद्यते। वायोरग्निः (तै.उ.आन.१) इति ह्याह ॥१०॥

अपां तेजस एव केवलात् सृष्टिशङ्का

२२७. आपः॥ २–३–११ ॥

आपोऽपि अतः – तेजस एवोत्पद्यन्ते, अग्नेरापः (तै.उ.आन.१.२) तदपोऽसृजत (छा.६.२.३) इति ह्याह ॥११॥

पृथिव्या अपि केवलायाः, अप्सृष्टिशङ्का

२२८. पृथिवी ॥ २–३–१२ ॥

पृथिवी अद्भ्य उत्पद्यते – अद्भ्यः पृथिवी (तै.उ.आन.१.२) ता अन्नमसृजन्त (छां.६.२.४) इति ह्याह॥१२॥

‘अन्न’ शब्दस्य पृथिव्यभिधायकत्वम्

नन्वन्नशब्देन कथं पृथिव्यभिधीयते? अत आह

२२९. अधिकाररूपशब्दान्तरेभ्यः ॥ २–३–१३ ॥

महाभूतसृष्ट्यधिकारात्पृथिव्येवान्नशब्देनोक्तेति प्रतीयते। अदनीयस्य सर्वस्य पृथिवीविकारत्वात् कारणे कार्यशब्दः। तथा वाक्यशेषे भूतानां रूपसंशब्दने, यदग्नेरोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य (छा.६.४.१) इत्यप्तेजसोस्सजातीयमेवान्नशब्दवाच्यं प्रतीयते। शब्दान्तरं च समानप्रकरणे अग्नेरापः अद्भ्यः पृथिवी (तै.उ.आन.१.२) इति श्रूयते। अतः पृथिव्येवान्नशब्देनोच्यत इत्यद्भ्यः एव पृथिवी जायते ।

ब्रह्मणः सकाशादुत्पद्यमानानां सर्वासां पारम्परिकत्वम्

उदाहृतास्तेजः प्रभृतयः प्रदर्शनार्थाः। महदादयोऽपि स्वानन्तरवस्तुन एवोत्पद्यन्ते, यथाश्रुत्यभ्युपगमाविरोधात्। एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी (मु.२.१.३) तस्मादेतद्ब्रह्मनामरूपमन्नं च जायते (मु.१.१.९) तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः (तै.अन.१) तत्तेजोऽसृजत (छा.६.२.३) इत्यादयो ब्रह्मणः परम्परया कारणत्वेऽप्युपपद्यन्त इति॥१३॥

सिद्धान्तप्रतिपादनम्

एवं प्राप्ते प्रचक्ष्महे –

२३०. तदभिध्यानादेव तु तल्लिङ्गात्सः॥ २–३–१४ ॥

तुशब्दात्पक्षो व्यावृत्तः, महदादिकार्याणामपि तत्तदनन्तरवस्तुशरीरकस्स एव पुरुषोत्तमः कारणम्, कुतः? तदभिध्यानरूपात्तल्लिङ्गात्; अभिध्यानम् – बहु स्यामिति सङ्कल्पः, तत्तेज ऐक्षत बहु स्यां प्रजायेयेति (छा.६.२.३) ता आप ऐक्षन्त बह्व्यस्स्याम प्रजायेमहि (छा.६-२-४) इत्यात्मनो बहुभवनसङ्कल्परूपेक्षणश्रवणान्महदहङ्काराकाशादीनामपि कारणानां तथाविधेक्षापूर्विकैव स्वकार्यसृष्टिरिति गम्यते ॥

सृष्टिसङ्कल्पात्मकेक्षणस्य परब्रह्मासाधारणता

तथाविधं चेक्षणं तत्तच्छरीरकस्य परस्यैव ब्रह्मण उपपद्यते। श्रूयते च सर्वशरीरकत्वेन सर्वात्मकत्वं परस्य ब्रह्मणोऽन्तर्यामिब्राह्मणे यः पृथिव्यां तिष्ठन् (बृ.५-७-२२) योऽप्सु तिष्ठन् (बृह.५-७-२२) यस्तेजसि तिष्ठन् (बृह.५.७.२२) यो वायौ तिष्ठन् (बृह.५.७.२२) य आकाशे तिष्ठन् (बृह.५.७.२२) इत्यादि। सुबालोपनिषदि च यस्य पृथिवी शरीरम् (सुबा.७) इत्यारभ्य यस्याहङ्कारश्शरीरम् (सुबा.७.खं) यस्य बुद्धिश्शरीरम् (सुवा.७.खं) यस्याव्यक्तं शरीरम् (सुबा.७) इत्यादि॥१४॥

श्रुतायाः प्राणादिसृष्टेः पारम्परिकत्वतात्पर्याभावः

यच्चोक्तम् एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च (मु.२.१.३) इत्यादिषु श्रूयमाणा ब्रह्मणः प्राणादिसृष्टिः परम्परयाऽप्युपपद्यत इति; अत्रोच्यते –

२३१. विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ २–३–१५ ॥

तुशब्दोऽवधारणार्थः। अव्यक्तमहदहङ्काराकाशादिक्रमाद्विपर्ययेण यस्सर्वेषां कार्याणां ब्रह्मानन्तर्यरूपः क्रमः एतस्माज्जायते प्राणः (मु.२.१.३) इत्यादिषु प्रतीयते, स च क्रमः तत्तद्रूपाद्ब्रह्मणः तत्तत्कार्योत्पत्तेरेवोपपद्यते। परम्परया कारणत्वे ह्यानन्तर्यश्रवणमुपरुध्येत। अतः एतस्माज्जायते (मु.२.१.३) इत्यादिकमपि सर्वस्य ब्रह्मणः साक्षात्सम्भवस्योत्तम्भनम् ॥१५॥

२३२. अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ २–३–१६॥

‘एतस्मात्’ इत्यादेः ब्रह्मणः साक्षात्सम्भवपरत्वोत्तम्भकत्वाभावशङ्का – तत्परिहारौ

विज्ञानसाधनत्वादिन्द्रियाणि विज्ञानमित्युच्यन्ते, यदुक्तम् एतस्माज्जायते (मु.२.१.३) इत्यादिना सर्वस्य ब्रह्मणोऽनन्तरकार्यत्वं श्राव्यते; अतश्चानेन वाक्येन सर्वस्य साक्षाद्ब्रह्मण उत्पत्तिरभिध्यानलिङ्गावगता उत्तभ्यत इति; तन्नोपपद्यते – क्रमविशेषपरत्वादस्य वाक्यस्य; अत्रापि सर्वेषां क्रमप्रतीतेः। खादिषु तावत् श्रुत्यन्तरसिद्धः क्रमोऽत्रापि प्रतीयते – तैस्सहपाठलिङ्गाद्भूतप्राणयोरन्तराले विज्ञानमनसी अपि क्रमेणोत्पद्येते इति प्रतीयते। अतस्सर्वस्य साक्षाद्ब्रह्मण एव सम्भवस्योत्तम्भनमिदं वाक्यं न भवतीति चेत्-तन्न, अविशेषात् एतस्माज्जायते प्राणः (मु.२-१-३) इत्यनेनाविशेषात्। विज्ञानमनसोः खादीनां च एतस्माज्जायते (मु.२-१-३) इत्यनेन साक्षात्सम्भवरूपसम्बन्धस्याभिधेयस्य सर्वेषां प्राणादिपृथिव्यन्तानामविशिष्टत्वात्स एव विधेयः, न क्रमः। श्रुत्यन्तरसिद्धक्रमविरोधाच्च नेदं क्रमपरम्, पृथिव्यप्सु प्रलीयते (सुबा.२-ख) तमएकीभवति (सुबाल.२-खं) इत्यन्तेन क्रमान्तरप्रतीतेः। अतोऽव्यक्तादिशरीरकात्परस्माद्ब्रह्मण एव सर्वकार्याणामुत्पत्तिः। तेजः प्रभृतयश्च शब्दास्तदात्मभूतं ब्रह्मैवाभिदधति ॥१६॥

सर्वशब्दानां ब्रह्मवाचित्वे व्युत्पत्तिविरोधशङ्कापरिहारः

नन्वेवं सर्वशब्दानां ब्रह्मवाचित्वे सति तैस्तैश्शब्दैः तत्तद्वस्तुव्यपदेशो व्युत्पत्तिसिद्ध उपरुद्ध्येत; तत्राह –

२३३. चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥२–३–१७॥

तुशब्दश्चोदिताशङ्कानिवृत्त्यर्थः, निखलजङ्गमस्थावरव्यपाश्रयस्तत्तच्छब्दव्यपदेशः भाक्तः – वाच्यैकदेशे भज्यत इत्यर्थः, समस्तवस्तुप्रकारिणो ब्रह्मणः प्रकार भूतवस्तुग्राहिप्रत्यक्षादिप्रमाणविषयत्वात् वेदान्तश्रवणात्प्राक्प्रकार्यप्रतीतेः, प्रकारिप्रतीतिभावभावित्वाच्च तत्पर्यवसानस्य, लोके तत्तद्वस्तुमात्रे वाच्यैकदेशे ते ते शब्दाः भङ्क्त्वा भङ्क्त्वा व्यपदिश्यन्ते।

सूत्रस्य योजनाभेदेन अर्थबोधनम्

अथवा तेजःप्रभृतिभिश्शब्दैः तत्तद्वस्तुमात्रवाचितया व्युत्पन्नैर्ब्रह्मणो व्यपदेशो भाक्तस्स्यात् अमुख्यस्स्यादित्याशङ्क्य चराचरव्यपाश्रयस्तु इत्युच्यते। चराचरव्यपाश्रयः तद्व्यपदेशः – तद्वाचिशब्दः, चराचरवाचिशब्दो ब्रह्मण्यभाक्तः मुख्य एव; कुतः?, ब्रह्मभावभावित्वात्सर्वशब्दानां वाचकभावस्य; नामरूपव्याकरणश्रुत्या हि तथाऽवगतम्॥१७॥

इति श्रीशारीरकमीमांसाभाष्ये तेजोधिकरणम् ॥ २ ॥