श्रीभगवद्रामानुजविरचितेश्रीशारीरकमीमांसाभाष्येद्वितीये अविरोधाध्याये–तृतीयः वियत्पादः
अधिकरणानि – 7, सूत्राणि – 52
पादार्थः – वियदादेः प्रपञ्चस्य ब्रह्मकार्यत्वचिन्ता
(54) वियदधिकरणम् ॥१॥
सूत्राणि 1-9
अधिकरणार्थः
आकाशस्य ब्रह्मकार्यत्वचिन्ता
२१७. न वियदश्रुतेः ॥ २–३–१ ॥
पादसङ्गतिप्रदर्शनम्
साङ्ख्यादिवेदबाह्यतन्त्राणां न्यायाभासमूलतया विप्रतिषेधाच्चासामञ्जस्यमुक्तम्; इदानीं स्वपक्षस्य विप्रतिषेधादिदोषगन्धाभावख्यापनाय ब्रह्मकार्यतयाऽभिमतचिदचिदात्मकप्रपञ्चस्य कार्यताप्रकारो विशोध्यते।
संशयाकारः
तत्र वियदुत्पद्यते, न वा – इति संशय्यते।
सयुक्तिकः पूर्वः पक्षः
किं युक्तम्? न वियदुत्पद्यत इति। कुतः? अश्रुतेः; संभावितस्य हि श्रवणसंभवः; असंभावितस्य तु गगनकुसुमवियदुत्पत्त्यादेः शब्दाभिधेयत्वं न संभवति। न खलु निरवयवस्य सर्वगतस्याकाशस्य आत्मन इवोत्पत्तिर्निरूपयितुं शक्यते ॥
पूर्वपक्षनिर्वाहः, उत्पत्तिश्रुतेरर्थविरोधश्च
अत एव उत्पत्त्यसंभवात् छान्दोग्ये सृष्टिप्रकारे तेजःप्रभृतीनामेवोत्पत्तिराम्नायते – तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छा.६-२-३) इति। तैत्तरीयकाथर्वणादिषु तस्माद्वा एतस्मादात्मन आकाशस्संभूतः (तै.आन.१.अनु) एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः (मु.२-१-३) इत्यादिषु श्रूयमाणा वियदुत्पत्तिः अर्थविरोधाद्बाध्यत इति॥१॥
श्रुत्या वियदुत्पत्तेस्सिद्धान्तः
एवं प्राप्तेऽभिधीयते –
२१८. अस्ति तु ॥ २–३–२ ॥
अस्ति तु आकाशस्योत्पत्तिः; अतीन्द्रियार्थविषया हि श्रुतिः प्रमाणान्तराप्रतीतामपि वियदुत्पत्तिं प्रतिपादयितुं समर्थैव। न च श्रुतिप्रतिपन्नेऽर्थे तद्विरोधि निरवयवत्वादिहेतुकं अनुत्पत्त्यनुमानमुदेतुं अलम्; आत्मनोऽनुत्पत्तिर्न निरवयवत्वप्रयुक्तेति वक्ष्यते ॥२॥
आकाशोत्पत्तिश्रुतेः गौणत्वशङ्का
पुनश्चोदयति –
२१९. गौण्यसम्भवाच्छब्दाच्च ॥ २–३–३ ॥
तस्माद्वा एतस्मादात्मन आकाशस्संभूतः (तै.उ.आन.१.अनु) इत्यादिवियदुत्पत्तिश्रुतिर्गौणीति कल्पयितुं युक्तम्, तत्तेजोऽसृजत (छा.६.२.३) इति सिसृक्षोः ब्रह्मणः प्रथमं तेज उत्पद्यत इति तेज उत्पत्तिप्राथम्येन वियदुत्पत्तिप्रतिपादनासम्भवात्, वायुश्चान्तरिक्षं चैतदमृतम् (बृ.४.३.३) इति वियतोऽमृतत्वशब्दाच्च॥३॥
‘सम्भूत’ शब्दस्यैकस्य आकाशांशे गौणत्वस्य अग्न्यंशे मुख्यतायाश्चानुपपत्तिः
कथमेकस्य संभूतशब्दस्य आकाशापेक्षया गौणत्वम्, अग्न्याद्यपेक्षया मुख्यत्वमिति चेत् तत्राह –
२२०. स्याच्चैकस्य ब्रह्मशब्दवत्।२–३–४॥
एकस्यैव तस्माद्वा एतस्मादात्मन आकाशस्संभूतः (तै.उ.आन.१) इत्याकाशे मुख्यत्वासंभवात् गौणतया प्रयुक्तस्य सम्भूतशब्दस्य वायोरग्निः (तै.उ.आन.१) इत्यादिष्वनुषक्तस्य मुख्यत्वं स्यादेव; ब्रह्मशब्दवत् – यथा ब्रह्मशब्दः, तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते (मु.१.१.९) इत्यत्र प्रधाने गौणतया प्रयुक्तस्तस्मिन्नेव प्रकरणे तपसा चीयते ब्रह्म ततोऽन्नमभिजायते (मु.१.१.८) इति ब्रह्मणि मुख्यतया प्रयुज्यते; तद्वत्। अनुषङ्गे च श्रवणावृत्ताविवाभिधानावृत्तिर्विद्यत एवेत्यर्थः॥४॥
वियदनुत्पत्तिशङ्कायाः परिहारः
परिहरति –
२२१. प्रतिज्ञाहानिरव्यतिरेकात् ॥ २–३–५ ॥
छान्दोग्यश्रुत्यनुसारेणान्यासां वियदुत्पत्तिवादिनीनां श्रुतीनां गौणत्वं कल्पयियतुं न युज्यते, यतः छान्दोग्यश्रुत्यैव वियदुत्पत्तिरङ्गीकृता, येनाश्रुतं श्रुतम् (छा.६.१.३) इत्यादिना ब्रह्मविज्ञानेन सर्वविज्ञान-प्रतिज्ञानात्। तस्या हि प्रतिज्ञायाः अहानिराकाशस्यापि ब्रह्मकार्यत्वेन तदव्यतिरेकादेव भवति॥४॥
छान्दोग्यश्रुतितः आकाशोत्पत्तिप्रतीतिः
२२२. शब्देभ्यः ॥ २–३–६॥
इतश्च वियदुत्पत्तिः छान्दोग्ये प्रतीयते, सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.६.२.१) इति प्राक्सृष्टेरेकेत्वावधारणशब्दात्; ऐतदात्म्यमिदं सर्वम् (छा.६.८.७) इत्येवमादिशब्देभ्यश्च कार्यत्वेन ब्रह्मणोऽव्यतिरेकप्रतीतेः। नच तत्तेजोऽसृजत (छा.६.२.३) इति तेजस उत्पत्तिश्रुतिर्वियदुत्पत्तिं वारयति। वियदुत्पत्यवचनमात्रेण तेजसः प्रतीयमानं प्राथम्यं श्रुत्यन्तरप्रतिपन्नां वियदुत्पत्तिं न निवारियतुमलम्॥६॥
सर्वस्यापि कार्यताश्रुत्या आकाशस्यापि कार्यत्वावश्यंभावः
२२३. यावद्विकारन्तु विभागो लोकवत् ॥ २–३–७॥
तुशब्दाश्चार्थे, एैतदात्म्यमिदं सर्वम् (छां.६.८.७) इत्यादिभिराकाशस्य विकारत्ववचनेन तस्याकाशस्य ब्रह्मणो विभागः उत्पत्तिरप्युक्तैव। लोकवत् – यथा लोके एते सर्वे देवदत्तपुत्रा इत्यभिधाय तेषु केषाञ्चित्तत उत्पत्तिवचनेन सर्वेषामुत्पत्तिरुक्ता स्यात्, तद्वत्। एवं व सति वायुश्चान्तिरक्षञ्चैतदमृतम् (बृ.४.३.३) इति सुराणामिव चिरकालस्थायित्वाभिप्रायम्॥७॥
आकाशोत्पत्तिसिद्ध्या वायूत्पत्तेरुक्तप्रायता
२२४. एतेन मातिरश्वा व्याख्यातः॥ २–३–८ ॥
अनेनैव हेतुना मातरिश्वनो वायोरप्युत्पत्तिर्व्याख्याता। वियन्मातिरश्वनोः पृथग्योगकरणं तेजोऽतस्तथाह्याह (ब्र.सू.२.३.१०) इति मातरिश्वपरामर्शार्थम्॥८॥
उत्पत्तेरभावः ब्रह्ममात्रवृत्तिता
२२५. असम्भवस्तु सतोऽनुपपत्तेः ॥ २–३–९ ॥
तुशब्दोऽवधारणार्थः; असम्भवः – अनुत्पत्तिः। सतः – ब्रह्मण एव; तद्व्यतिरिक्तस्य कस्यचिदप्यनुत्पत्तिर्न सम्भवति, अनुपपत्तेः। एतदुक्तं भवति – वियन्मातिरश्वनोरुत्पत्तिप्रतिपादनं उदाहरणार्थम्; उत्पत्त्यसम्भवस्तु सतः परमकारणस्य परस्यैव ब्रह्मणः । तद्व्यतिरिक्तस्य कृत्स्नस्याव्यक्तमहदहङ्कारतन्मात्रेन्द्रियवियत्पवनादिकस्य प्रपञ्चस्यैकविज्ञानेन सर्वविज्ञान-प्रतिज्ञादिभिरवगतकार्यभावस्यानुत्पत्तिर्नोपपद्यत इति॥९॥
इति श्रीशारीरकमीमांसाभाष्ये वियदधिकरणम्॥१॥