०२ महद्दीर्घाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये महद्दीर्घाधिकरणम् ॥२॥

अधिकरणार्थः

तार्किकाभिमतपरमाणुकारणतावादनिरासः

१८४. महद्दीर्घवद्वाह्रस्वपिरमण्डलाभ्याम् ॥ २–२–१० ॥

सङ्गतिप्रदर्शनम्

प्रधानकारणवादस्य युक्त्याभासमूलतया विप्रतिषिद्धत्वाच्चासामञ्जस्यमुक्तम्; सम्प्रति परमाणुकारणवादस्याप्यसामञ्जस्यं प्रतिपाद्यते महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् – इति।

सूत्राक्षरार्थप्रतिपादनम्

असमञ्जसमिति वर्तते; वाशब्दश्चार्थे। ह्रस्वपरिमण्डलाभ्याम् द्व्यणुकपरमाणुभ्यां, महद्दीर्घवत् – त्रयणुकोत्पत्तिवादवत्, अन्यच्च तदभ्युपगतं सर्वमसमञ्जसम्; परमाणुभ्यो द्व्यणुकादिक्रमेण जगदुत्पत्तिवादवदन्यदप्यसमञ्जसमित्यर्थः ॥

उक्तस्य असामञ्जस्यस्य विवरणम्

तथाहि – तन्तुप्रभृतयो ह्यवयवाः स्वांशैष्षड्भिः पार्श्वैस्संयुज्यमाना अवयविनमुत्पादयन्ति, परमाणवोऽपि स्वकीयैः षड्भिः पार्श्वैस्संयुज्यमाना एव द्व्यणुकादीनामुत्पादका भवेयुः, अन्यथा परमाणूनां प्रदेशभेदाभावे सति सहस्रपरमाणुसंयोगेऽप्येकस्मात्परमाणोरनतिरक्तपरिमाणतया अणुत्वह्रस्वत्वमहत्त्वदीर्घत्वादि असिद्धिस्स्यात् ॥

प्रदेशभेदाभ्युपगमे परमाणवोऽपि सांशाः स्वकीयैरंशैः, ते च स्वकीयैरंशैरित्यनवस्था।

न च वाच्यम् अवयवाल्पत्वमहत्त्वाभ्यां हि सर्षपमहीधरयोः वैषम्यम्, परमाणोरपि अनन्तावयवत्वे अवयवानन्त्यसाम्यात्सर्षपमहीधरयोः वैषम्यासिद्धेः अवयवापकर्षकाष्ठा अवश्याभ्युपगमनीया – इति । परमाणूनां प्रदेशभेदाभावे सत्येकपरमाणुपरिमाणातिरेकिप्रथिमा न जायेतेति सर्षपमहीधरयोरेवासिद्धेः । किं कुर्म इति चेत् – वैदिकः पक्षः परिगृह्यताम् ॥

एतत्सूत्रविषये परोक्तनिर्वाहानुवादपूर्वकं दूषणम्

यत्तु परैः ब्रह्मकारणवाददूषणपरिहारपरमिदं सूत्रं व्याख्यातम्;

तदसङ्गतं, पुनरुक्तं च; ब्रह्मकारणवादे परोक्तान् दोषान् पूर्वस्मिन् पादे परिहृत्य परपक्षप्रतिक्षेपो ह्यस्मिन् पादे क्रियते। चेतनाद्ब्रह्मणो जगदुत्पत्तिसम्भवश्च न विलक्षणत्वात् (ब्र.सू.२.१.४) इत्यत्रैव प्रपञ्चितः। अतो ह्रस्वपरिमण्डलाभ्यां महद्दीर्घाणुह्रस्वोत्पत्तिवदन्यच्च तदभ्युपगतं सर्वमसमञ्जसमित्येव सूत्रार्थः॥ १०॥

पूर्वसूत्रे वा शब्दसमुच्चितस्य असमञ्जसस्य प्रदर्शनम्

किमत्र अन्यदसमञ्जसमित्यत्राह –

१८५. उभयधाऽपि न कर्मातस्तदभावः ॥ २–२–११ ॥

परमाणुकारणवादे हि परमाणुगतकर्मजनिततत्संयोगपूर्वकद्वयणुकादिक्रमेण जगदुत्पत्तिः इष्यते, तत्र निखिलजगदुत्पत्तिकारणभूतपरमाणुगतमाद्यं कर्मादृष्टकारितं इत्यभ्युपगम्यते अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि (वैशे.सू.५.१३) इति। तदिदं परमाणुगतं कर्म स्वगतादृष्टकारितम्, आत्मगतादृष्टकारितं वा। उभयधाऽपि न सम्भवति, क्षेत्रज्ञपुण्यपापानुष्ठान-जनितस्यादृष्टस्य परमाणुगतत्वासम्भवात्। सम्भवे च सदोत्पादकत्वप्रसङ्गः। आत्मगतस्य चादृष्टस्य परमाणुगतकर्मोत्पत्तिहेतुत्वं न सम्भवति। अथादृष्टवदात्मसंयोगादणुषु कर्मोत्पत्तिः, तदा तस्यादृष्टप्रवाहस्य नित्यत्वेन नित्यसर्गप्रसङ्गः।

अदृष्टस्य विपाकापेक्षत्वेन सदोत्पादकत्वाभावशङ्का-परिहारौ

नन्वदृष्टं विपाकापेक्षं फलायालम्। कानिचिददृष्टानि तदानीमेव विपच्यन्ते, कानिचिज्जन्मान्तरे, कानिचित्कल्पान्तरे। अतो विपाकापेक्षत्वान्न सर्वदोत्पादकत्वप्रसङ्ग इति । नैतत्, अनन्तैरात्मभिस्सङ्केतपूर्वकमयुगपदनुष्ठितानेकविधकर्मजनितानामदृष्टानामेकस्मिन् काले एकरूपविपाकस्याप्रामाणिकत्वात्। अत एव युगपत्सर्वसंहारो द्विपरार्धकालमविपाकेन अवस्थानं च न सङ्गच्छते । नचेश्वरेच्छाहितविशेषादृष्टसंयोगादणुषु कर्म, आनुमानिकेश्वरासिद्धेः शास्त्रयोनित्वात् (ब्र.सू.१.१.३) इत्यत्रोपपादितत्वात्। अतो जगदुत्पत्तेरणुगतकर्मपूर्वकत्वाभावः ॥ ११ ॥

समवायाख्यसम्बन्धाभ्युपगमकृतम् असामञ्जस्यम्

१८६. समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ २–१–१२ ॥

समवायाभ्युपगमाच्चासमञ्जसम्, कुतः? साम्यादनवस्थितेः समवा-यस्याप्यवयविजातिगुण-वदुपपादकान्तरापेक्षासाम्यादुपपादकान्तरस्यापि तथेत्यनवस्थितेः असमञ्जसमेव।

सूत्राभिप्रायनिष्कर्षणम्

एतदुक्तं भवति – अयुतसिद्धानामाधाराधेयभूतानामिह प्रत्ययहेतुर्यस्सम्बन्धः, स समवाय इति समवायोऽभ्युपगम्यते। अपृथक्स्थित्युपलब्धीनां जात्यादीनां तथाभावस्य निर्वाहकत्वेन चेत्समवायोऽभ्युपगम्यते, समवायस्यापि तत्साम्यात्तथाभावहेतुरन्वेषणीयः तस्यापि तथेन्यनवस्थितिः। समवायस्य तदपृथक्सिद्धत्वं स्वभाव इति परिकल्प्यते चेत्- जातिगुणानामेवैष स्वभावः परिकल्पनीयः, न पुनरदृष्टचरं समवायमभ्युपगम्य तस्यैष स्वभाव इति कल्पयितुं युक्तम् – इति ॥ १२ ॥

वैशेषिकसम्मते समवाये विशिष्टो दोषः

समवायस्य नित्यत्वे अनित्यत्वे चायं दोषस्समानः, नित्यत्वे दोषान्तरं चाह –

१८७. नित्यमेव च भावात् ॥ २–२–१३ ॥

समवायस्य सम्बन्धत्वात्सम्बन्धस्य नित्यत्वे सम्बन्धिनो जगतश्च नित्यमेव भावादसमञ्जसम् ॥१३॥

कार्यसरूपाणामेव कार्यानुमेयत्वेन, परमाणूनाम् अनित्यत्वाद्यापत्तिः

१८८. रूपादिमत्वाच्च विपर्ययो दर्शनात् ॥ २–२–१४ ॥

परमाणूनां पार्थिवाप्यतैजसवायवीयानां चतुर्विधानां रूपरसगन्धस्पर्शवत्त्वाभ्युपगमादभिमत-नित्यत्वसूक्ष्मत्वनिरवयवत्वादिविपर्ययेणानित्यत्वस्थूलत्वसावयवत्वादि प्रसज्यते, रूपादिमतां घटादीनामनित्यत्वतथाविधकारणान्तरारब्धत्वादिदर्शनात्। न हि दर्शनानुगुण्येनादृष्टाऽर्थः कल्प्यमानः स्वाभिमतविशेषे व्यवस्थापयितुं शक्यः। दर्शनानुगुण्येन हि परमाणूनां रूपादिमत्त्वं त्वया कल्प्यते। अतोऽप्यसमञ्जसम्॥ १४॥

परमाणुषु रूपाद्यभ्युपगम-तद्भावपक्षयोः असामञ्जस्यापातकता

अथैतद्दोषपिरिजिहीर्षया परमाणूनां रूपादिमत्त्वं नाभ्युपगम्यते, तत्राह –

१८९. उभयधा च दोषात् ॥ २–२–१५॥

न केवलं परमाणूनां रूपादिमत्त्वाभ्युपगम एव दोषः, रूपादिविरहेऽपि कारणगुणपूर्वकत्वात्कार्यगुणानां पृथिव्यादयो रूपादिशून्यास्स्युः। तत्परिजिहीर्षया रूपादिमत्त्वाभ्युपगमे पूर्वोक्तदोष इत्युभयधा च दोषादसमञ्जसम्॥ १५॥

वैदिकापरिग्रहतः वैशेषिकस्यासामञ्जस्यम्

१९०. अपरिग्रहाच्चात्यन्तमनपेक्षा॥ २–२–१६॥

कापिलपक्षस्य श्रुतिन्यायविरोधपरित्यक्तस्यापि सत्कार्यवादादिना क्वचिदंशे वैदिकैः परिग्रहोऽस्ति, अस्य तु काणादपक्षस्य केनाप्यंशेनापरिग्रहादनुपपन्नत्वाच्चात्यन्तमनपेक्षैव निःश्रेयसार्थिभिः कार्या ॥१६॥

इति महद्दीर्घाधिकरणं समाप्तम् ॥२॥