०१ रचनानुपपत्त्यधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये

द्वितायाध्याये–द्वितीयः (तर्क) पादः

पादार्थः – सांख्यादिपक्षाणां, तर्कतः प्रतिक्षेपः । पाञ्चरात्रतन्त्रप्रामाण्यस्थापनं च

अधिकरणानि – 8, सूत्राणि – 42

रचनानुपपत्त्यधिकरणम्॥१॥

अधिकरणार्थः

ब्रह्मानधिष्टितस्य सांख्योक्तप्रधानस्य जगत्कारणत्वायोगः

१७५. रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च ॥ २–२–१ ॥

आदितः एतावदन्तं शारीरके निरूपिता अर्थाः – सङ्गतिः, द्वितीयपादप्रयोजनं च

उक्तं जगज्जन्मादिकारणं परं ब्रह्मेति; तत्र परैरुद्भाविताश्च दोषाः परिहृताः। इदानीं स्वपक्षरक्षणाय परपक्षाः प्रतिक्षिप्यन्ते; इतरथा कस्यचिन्मन्दधियस्तेषां पक्षाणां युक्त्याभासमूलतामजानतः प्रामाणिकत्वशङ्कया वैदिकपक्षे किञ्चिच्छ्रद्धावैकल्यं जायेतापि; अतः परपक्षप्रतिक्षेपायानन्तरः पादः प्रवर्तते ॥

कपिलमतनिरासप्राधान्ये हेतुः, पौनरुक्त्यनिरासश्च

तत्र प्रथमं तावत्कापिलमतं निरस्यते वैदिकानुमतसत्कार्यवादाद्यर्थसङ्ग्रहेणैतस्य सत्पक्षनिक्षेपसम्भावनाभ्रमहेतुत्वातिरेकात्। ईक्षतेर्नाशब्दम् (ब्र.सू.१.१.५) इत्यादिभिः वैदिकवाक्यानां अतत्परत्वमात्रमुक्तम्; अत्रैव तत्पक्षस्वरूपप्रतिक्षेपः क्रियत इति न पौनरुक्त्याशङ्का।

सांख्यमतप्रक्रियाप्रदर्शनम्

एषा हि साङ्ख्यानां दर्शनस्थितिः- मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त। षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ (सां.का.३) इति तत्त्वसङ्ग्रहः। मूलप्रकृतिर्नाम सुखदुःखमोहात्मकानि लाघवप्रकाशचलनोपष्टम्भनगौरवावरण-कार्याण्यत्यन्तातीन्द्रियाणि कार्यैकनिरूपणविवेकान्यन्यूनानतिरेकाणि समतामुपेतानि सत्त्वरजस्तमांसि द्रव्याणि। सा च सत्त्वरजस्तमसां साम्यरूपा प्रकृतिरेका स्वयमचेतनाऽनेकचेतनभोगापवर्गार्था नित्या सर्वगता सततविक्रिया न कस्यचिद्विकृतिः, अपि तु परमकारणमेव; महदाद्यास्तद्विकृतयोऽन्येषां च प्रकृतयस्सप्त; महानहङ्कारः शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति। तत्राहङ्कारस्त्रिधा – वैकारिकस्तैजसो भूतादिश्च, क्रमात्सात्त्विको राजसस्तामसश्च; तत्र वैकारिकस्सात्त्विक इन्द्रयादि; भूतादिस्तामसो महाभूतहेतुभूततन्मात्रहेतुः; तैजसो राजसस्तूभयोरनुग्राहकः; आकाशादीनि पञ्चमहाभूतानि श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि वागादीनि पञ्च कर्मेन्द्रियाणि मन इति केवलविकाराः षोडश; पुरुषस्तु निष्परिणामत्वेन न कस्यचित्प्रकृतिः न कस्यचिद्विकृतिः; तत एव निर्धर्मकश्चैतन्यमात्रवपुर्नित्यो निष्क्रियस्सर्वगतः प्रतिशरीरं भिन्नश्च; निर्विकारत्वान्निष्क्रियत्वाच्च तस्य कर्तृत्वं भोक्तृत्वं च न सम्भवति।

एवंभूतेऽपि तत्त्वे मूढाः प्रकृतिपुरुषसन्निधिमात्रेण पुरुषस्य चैतन्यं प्रकृतावध्यस्य प्रकृतेश्च कर्तृत्वं स्फटिकमणाविव जपाकुसुमस्यारुणिमानं पुरुषेऽध्यस्य अहं कर्ता भोक्ता इति मन्यन्ते। एवमज्ञानाद्भोगः, तत्वज्ञानच्चापवर्गः। तदेतत्प्रत्यक्षानुमानागमैस्साधयन्ति ॥

संप्रतिपन्नोंशः निरसनीयोंशश्च

तत्र प्रत्यक्षसिद्धेषु पदार्थेषु नातीव विवादपदमस्ति। आगमोऽपि कपिलादिसर्वज्ञज्ञानमूल इति सोऽपि प्रथमे काण्डे प्रमाणलक्षणे निरस्तप्रायः। यदिदं प्रधानमेव जगत्कारणमित्यनुमानम्, तन्निरसनेन तन्मतं सर्वं निरस्तं भवतीति तदेव निरस्यते।

तदीयानुमाननिरासार्थं तदीयप्रक्रियाशोधनम्

ते चैवं वर्णयन्ति – कृत्स्नस्य जगतः एकमूलत्वमवश्याभ्युपगमनीयम्, अनेकेभ्यः कार्योत्पत्त्यभ्युपगमे कारणानवस्थानात्। तन्तुप्रभृतयो ह्यवयवाः स्वांशभूतैष्षड्भिः पार्श्वैः परस्परं संयुज्यमाना अवयविनमुत्पादयन्ति; ते च तन्त्वादयः स्वावयवैस्तथाभूतैरुत्पाद्यन्ते; ते च तथाभूतैः स्वावयवैरिति परमाणुभिरपि स्वकीयैष्षड्भिः पार्श्वैस्संयुज्यमानैरेव स्वकार्योत्पादनमभ्युपेतव्यम्, अन्यथा प्रथिमानुपपत्तेः। परमाणवोऽप्यंशित्वेन स्वांशैस्तथैवोत्पाद्यन्ते, ते च स्वांशैरिति न क्वचित्कारणव्यवस्थितिः। अतः कारणव्यवस्थासिद्ध्यर्थमेकद्रव्यं विविधविचित्रपरिणामशक्तियुक्तं स्वयमप्रच्युतस्वरूपेव महदाद्यनन्तावस्थाश्रयः कारणमाश्रयणीयम्। तच्चैकं कारणं गुणत्रयसाम्यरूपं प्रधानमिति तत्कल्पने हेतूनुपन्यस्यन्ति –

अव्यक्तापरपर्यायप्रधानकल्पने हेतवः

भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च। कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य। कारणमस्त्यव्यक्तम् (सां.का.१५,१६) इति। अयमर्थः विश्वरूपमेव वैश्वरूप्यम्, विचित्रसन्निवेशं तनुभवनादि कृत्स्नं जगत्; तच्च जगद्विचित्रसन्निवेशत्वेन कार्यभूतं तत्सरूपाव्यक्तकारणकम्; कुतः? कार्यत्वात्; कार्यस्य हि सर्वस्य तत्सरूपात्कारणविशेषात् विभागस्तस्मिन्नेवाविभागश्च दृश्यते; यथा घटमकुटादेः कार्यस्य तत्सरूपान्मृत्सुवर्णादेः कारणाद्विभागस्तस्मिन्नेव चाविभागः; अतो विश्वरूपस्य जगतस्तत्सरूपात्प्रधानादुत्पत्तिस्तस्मिन्नेव लयश्चेति प्रधानकारणकमेव जगत्। गुणत्रयसाम्यरूपं प्रधानमेव जगत्सरूपं कारणम्; सत्त्वरजस्तमोमय-सुखदुःखमोहात्मकत्वाज्जगतः। यथा मृदात्मना घटस्य मृद्दव्यमेव कारणम्; तदेव हि तदुत्पत्त्याख्य-प्रवृत्तिशक्तिमत्, तथा दर्शनात्। अव्यक्तस्य गुणसाम्यरूपस्य देशतः कालतश्चापरिमितस्यैव कारणत्वं भेदानां महदहङ्कारतन्मात्रादीनां परिमितत्वादवगम्यते। महदादीनि च घटादिवत्परिमितानि कृत्स्नजगदुत्पत्तौ न प्रभवन्ति, अतस्त्रिगुणं जगद्गुणत्रयसाम्यरूपप्रधानैककारणमिति निश्चीयते॥

चेतनानधिष्ठितप्रधानकारणवादनिरासरूपः सिद्धान्तः

अत्रोच्यते – रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च – अनुमीयत इत्यनुमानम्; न भवदुक्तं प्रधानं विचित्रजगद्रचनासमर्थम्, अचेतनत्वे सति तत्स्वभावाभिज्ञानधिष्ठितत्वात्; यदेवं तत्तथा, यथा रथप्रासादादिनिर्माणे केवलदार्वादिकम्। दार्वादेरचेतनस्य तज्ज्ञानधिष्ठितस्य कार्यारम्भानुपपत्तेर्दर्शनात्, तज्ज्ञाधिष्ठितस्य कार्यारम्भप्रवृत्तेर्दर्शनाच्च न प्राज्ञानधिष्ठितं प्रधानं कारणमित्युक्तं भवति। चकारादन्वयस्यानैकान्त्यं समुच्चिनोति; न ह्यन्वितं शौक्ल्यगोत्वादि कारणत्वव्याप्तम् ॥

कार्ये अन्वयवतः कारणत्वमितिव्याप्तेः द्र्वयविश्रान्तता, सत्त्वादीनां गुणता च

न च वाच्यं मा भूदन्वितानामपि शौक्ल्यादिधर्माणां कारणत्वम्, द्रव्यस्य तु हेमादेः कार्येऽन्वितस्य कारणत्वव्याप्तिरस्त्येव; सत्त्वादीन्यपि द्रव्याणि कार्येऽन्वितानि कारणत्वव्याप्तानि इति; यतस्सत्त्वादयो द्रव्यधर्माः, न तु द्रव्यस्वरूपम्; सत्त्वादयो हि पृथिव्यादिद्रव्यगत-लघुत्वप्रकाशादिहेतुभूतास्तत्स्वभावविशेषा एव; न तु मृद्धिरण्यादिवद्द्रव्यतया कार्यान्विता उपलभ्यन्ते; गुणा इत्येव च सत्वादीनां प्रसिद्धिः ॥

सांख्यमते तदीप्सितकारणव्यवस्थाया अनुपपत्तिः

यच्च कारणव्यवस्थासिद्धये जगतः एकमूलत्वमुक्तम्, तदपि सत्वादीनामनेकत्वात् न उपपद्यते। अत एव कारणव्यवस्था च न सिद्ध्यति। साम्यावस्थास्सत्त्वादय एव हि प्रधानमिति त्वन्मतम्। अतः कारणबहुत्वादनवस्था तदवस्थैव।

न च तेषामपरिमितत्वेन व्यवस्थासिद्धिः, अपरिमितत्वे हि त्रयाणामपि सर्वगतत्वेन न्यूनाधिकभावाभावाद्वैषम्यासिद्धेः कार्यारम्भासम्भवात्। कार्यारम्भायैव परिमितत्वं अवश्याश्रयणीयम्॥१॥

सर्वस्याऽपि पक्षतया, प्राज्ञानधिष्ठताचेतनप्रवृत्तौ दृष्टान्तासिद्धिः

यत्र रथादिषु स्पष्टं चेतनाधिष्ठितत्वं दृष्टम्, तद्व्यतिरिक्तं सर्वं पक्षीकृतमित्याह – १७६. पयोम्बुवच्चेत्तत्रापि ॥ २–२–२ ॥

यदुक्तं प्रधानस्य प्राज्ञानधिष्ठितस्य विचित्रजगद्रचनानुपपत्तिरिति; तन्न, यतः पयोऽम्बुवत् प्रवृत्तिरुपपद्यते। पयसस्तावद्दधिभावेन परिणममानस्यानन्यापेक्षस्याऽद्यपरिस्पन्दप्रभृति-परिणामपरम्परा स्वत एवोपपद्यते; यथा च वारिदविमुक्तस्याम्बुन एकरसस्य नारिकेलतालचूत-कपित्थनिम्बतिन्त्रिण्यादिविचित्ररसरूपेण परिणामप्रवृत्तिः स्वत एव दृश्यते; तथा प्रधानस्यापि परिणामस्वभावस्यान्यानधिष्ठितस्यैव प्रतिसर्गावस्थायां, सदृशपरिणामेनावस्थितस्य सर्गावस्थायां गुणवैषम्यनिमित्तविचित्रपरिणाम उपपद्यते। यथोक्तं परिणामतस्सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात् (सा.का.१६) इति। तदेवमव्यक्तमनन्यापेक्षं प्रवर्तत इति चेत् – अत उत्तरं – तत्रापि इति; यत् क्षीरजलादिदृष्टान्ततया निदर्शितम्, तत्रापि प्राज्ञानधिष्ठाने प्रवृत्तिर्नोपपद्यते; तदपि पूर्वत्र पक्षीकृतमित्यभिप्रायः ॥

पूर्वोक्तविरोधशङ्का-तत्परिहारौ

उपसंहादर्शनान्नेति चेन्न क्षीरवद्धि (ब्र.सू.२.१.२४) इत्यत्र दृष्टपरिकरान्तररहितस्यापि स्वासाधारणपरिणाम उपपद्यत इत्येतावदुक्तम्, न प्राज्ञाधिष्ठितत्वं पराकृतम्, योऽप्सु तिष्ठन् (बृ.५.७.४) इत्यादिश्रुतेः ॥ २ ॥

१७७. व्यतिरेकानवस्थितेश्चानपेक्षत्वात्। २–२–३॥

प्राज्ञाधिष्ठानज्ञानापेक्षत्वे सर्गप्रतिसर्गव्यवस्थालोपः

इतश्च सत्यसङ्कल्पेश्वराधिष्ठानानपेक्षपरिणामित्वे सर्गव्यतिरेकेण प्रतिसर्गावस्थया अनवस्थितिप्रसङ्गाच्च न प्राज्ञानधिष्ठितं प्रधानं कारणम्; प्राज्ञाधिष्ठितत्वे तस्य सत्यसङ्कल्पत्वेन सर्गप्रतिसर्गविचित्र-सृष्टिव्यवस्थासिद्धिः ॥

प्राज्ञाधिष्ठानेऽपि व्यवस्थालोपशङ्का-तत्परिहारौ

न च वाच्यं प्राज्ञाधिष्ठितत्वेऽपि तस्यावाप्तसमस्त-कामस्य परिपूर्णस्य अनवधिकातिशयानन्दस्य निरवद्यस्य निरञ्जनस्य सर्गप्रतिसर्गव्यवस्थ-हेत्वभावात् विषमसृष्टौ निर्दयत्वप्रसङ्गाच्च समानोऽयं दोष इति; परिपूर्णस्यापि लीलार्थप्रवृत्ति-सम्भवात्, सर्वज्ञस्य तस्य परिणामविशेषापन्नप्रकृति-दर्शनरूपसर्गप्रतिसर्गविशेषहेतोस्सम्भवात्, क्षेत्रज्ञकर्मणामेव विषमसृष्टि-व्यवस्थापकत्वाच्च।

सृष्टिप्रलयादिव्यवस्थायाः जीवीयकर्मानुगुणप्रकृतिपरिणामायत्तता

नन्वेवं क्षेत्रज्ञपुण्यापुण्यरूपकर्मभिरेव सर्वा व्यवस्थास्सिध्यन्तीति कृतमीश्वरेणाधिष्ठात्रा; पुण्यापुण्यरूपानुष्ठितकर्मसंस्कृता प्रकृतिरेव पुरुषार्थानुरूपं तथा तथा व्यवस्थया परिणंस्यते; यथा विषादिदूषितानामन्नपानादीनामौषधविशेषाप्यायितानां च सुखदुःखहेतुभूतः परिणामविशेषो देशकालव्यवस्थया दृश्यते ।

अतस्सर्गप्रतिसर्गव्यवस्था देवादिविषमसृष्टिः कैवल्यव्यवस्था च सर्वप्रकारपरिणामशक्ति-युक्तस्य प्रधानस्यैवोपपद्यत इति।

जीवीयकर्मणः वेदैकगम्यत्वं, परमपुरुषप्रीत्यप्रीतिरूपत्वं च

अनभिज्ञो भवान् पुण्यापुण्यकर्मस्वरूपयोः; पुण्यापुण्यस्वरूपे हि शास्त्रैकसमधिगम्ये; शास्त्रं चानादिनिधनाविच्छिन्नपाठसम्प्रदायानाघ्रातप्रमादादिदोषगन्धवेदाख्याक्षरराशिः; तच्च परमपुरुष- आराधनतद्विपर्ययरूपे कर्मणी पुण्यापुण्ये, तदनुग्रहनिग्रहायत्ते च तत्फले सुखदुःखे – इति वदति। तदाह द्रमिडाचार्यः फलसंबिभत्सया हि कर्मभिरात्मानं पिप्रीषन्ति स प्रीतोऽलं फलायेति शास्त्रमर्यादा (द्रमिडाचार्यः) इति। तथाच श्रुतिः इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः (तै.उ.ना.२) इति। तथा च भगवता स्वयमेवोक्तं यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः (भ.गी.१८.४६) इति तानहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु (भ.गी.१६.१९) इति च ।

स भगवान् पुरुषोत्तमोऽवाप्तसमस्तकामस्सर्वज्ञस्सर्वेश्वरस्सत्यसङ्कल्पः स्वमाहात्म्यानुगुणलीलाप्रवृत्तः, एतानि कर्माणि समीचीनान्येतान्यसमीचीनानीति कर्मद्वैविध्यं संविधाय तदुपादानोचितदेहेन्द्रियादिकं तन्नियमनशक्तिं च सर्वेषां क्षेत्रज्ञानां सामान्येन प्रदर्श्य स्वशासनावबोधि शास्त्रं च प्रदर्श्य तदुपसंहारार्थं चान्तरात्मतयाऽनुप्रविश्यानुमन्तृतया च नियच्छंस्तिष्ठति। क्षेत्रज्ञास्तु तदाहितशक्तयः तत्प्रदिष्टकरणकलेबरादिकास्तदाधाराश्च स्वयमेव स्वेच्छानुगुण्येन पुण्यापुण्यरूपे कर्मणी उपाददते; ततश्च पुण्यापुण्यरूपकर्मकारिणं स्वशासनानुवर्तिनं ज्ञात्वा धर्मार्थकाममोक्षैर्वर्धयते, शासनातिवर्तिनं च तद्विपर्ययैर्योजयति; अतः स्वातन्त्र्यादिवैकल्यचोद्यानि नावकाशं लभन्ते ॥

भगवतो दयायाः स्वरूपस्य तद्विषयस्य च शोधनम्

दया हि नाम स्वार्थनिरपेक्षा परदुःखासहिष्णुता; सा च स्वशासनातिवृत्तिव्यवसायिन्यपि वर्तमाना न गुणायावकल्पते; प्रत्युतापुंस्त्वमेवावहति; तन्निग्रह एव तत्र गुणः, अन्यथा शत्रुनिग्रहादीनामगुणत्वप्रसङ्गात्। स्वशासनातिवृत्तिव्यवसायनिवृत्तिमात्रेणानाद्यनन्तकल्पोपचित-दुर्विषहानन्तापराधानङ्गीकारेण निरतिशयसुखसंवृद्धये स्वयमेव प्रयतते। यथोक्तं तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते। तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता (भ.गी.१०.१०,११) इति। अतः प्राज्ञानधिष्ठितं प्रधानं न कारणम् ॥ ३ ॥

अनपेक्षाया अपि प्रकृतेः परिणामप्रवृत्तिशङ्का-परिहारौ

अथ स्यात् – यद्यपि प्राज्ञानधिष्ठितायाः प्रकृतेः परिस्पन्दप्रवृत्तिरपि न सम्भवतीत्युक्तम्, तथाऽप्यनपेक्षाया एव परिणामप्रवृत्तिस्सम्भवति, तथा दर्शनात्; धेन्वादिनोपयुक्तं हि तृणोदकादि स्वयमेव क्षीराद्याकारेण परिणममानं दृश्यते। अतः प्रकृतिरपि स्वयमेव जगदाकारेण परिणंस्यते इति। तत्राह-

१७८. अन्यत्राभावाच्च न तृणादिवत् ॥ २–२–४ ॥

नैतदुपपद्यते, तृणादेः प्राज्ञानधिष्ठितस्य परिणामाभावाद्दृष्टान्तासिद्धेः; कथमसिद्धिः? अन्यत्राभावात् – यदि हि तृणोदकादिकमनडुहाद्युपयुक्तं प्रहीणं वा क्षीराकारेण पर्यणंस्यत, ततः प्राज्ञानधिष्ठितमेव परिणमत इति वक्तुमशक्ष्यत; नचैतदस्ति; अतो धेन्वाद्युपयुक्तं प्राज्ञ एव क्षीरीकरोति। पयोम्बुवच्चेत्तत्रापि (ब्र.सू.२.२.२) इत्युक्तमेवात्र प्रपञ्चितं तत्रैव व्यभिचारप्रदर्शनाय॥

पुरुषस्य स्वसान्निध्यमात्रेण प्रधाने प्रवृत्तिजनकत्वशङ्का-परिहारौ

१७९. पुरुषाश्मवदिति चेत्तथापि ॥ २–२–५ ॥

अथोच्येत – यद्यपि चैतन्यमात्रवपुः पुरुषो निष्क्रियः, प्रधानमपि दृक्छक्तिविकलम्; तथापि पुरुषसन्निधानादचेतनं प्रधानं प्रवर्तते, तथा दर्शनात्; गमनशक्तिविकलदृक्छक्तियुक्त-पङ्गुसन्निधानात्तच्चैतन्योपकृतो दृक्छक्तिविकलः प्रवृत्तिशक्तोऽन्धः प्रवर्तते; अयस्कान्ताश्म-सन्निधानाच्चायः प्रवर्तते। एवं प्रकृतिपुरुषसंयोगकृतो जगत्सर्गः प्रवर्तते। यथोक्तं – पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य। पंग्वन्धवदुभयोरपि संयोगस्तत्कृतस्सर्गः (सां.का.२१) इति । पुरुषस्य प्रधानोपभोगार्थं कैवल्यार्थं च पुरुषसन्निधानात्प्रधानं सर्गादौ प्रवर्तत इत्यर्थः । अत्रोत्तरं – तथापीति। एवमपि प्रधानस्य प्रवृत्त्यसम्भवस्तदवस्थ एव, पङ्गोर्गमनशक्तिविकलस्यापि मार्गदर्शनतदुपदेशादयः कादाचित्का विशेषाः सहस्रशस्सन्ति; अन्धोऽपि चेतनस्सन् तदुपदेशाद्यवगमेन प्रवर्तते; तथा अयस्कान्तमणेरप्ययस्समीपागमनादयस्सन्ति; पुरुषस्य तु निष्क्रियस्य न तादृशा विकारास्सम्भवन्ति । सन्निधानमात्रस्य नित्यत्वेन नित्यसर्गप्रसङ्गो नित्यमुक्तत्वेन बन्धाभावोऽपवर्गाभावश्च ॥ ५॥

प्रलयानन्तरं पुनः सृष्ट्यनुपपत्तितः, अनपेक्षप्रधानकारणत्वाभावः

१८०. अङ्गित्वानुपपत्तेश्च ॥ २–२–६ ॥

गुणानामुत्कर्षनिकर्षनिबन्धनाङ्गाङ्गिभावाद्धि जगत्प्रवृत्तिः प्रतिप्रतिगुणाश्रयविशेषात् (सांख्य.१६) इति वदद्भिर्भवद्भिरभ्युपगम्यते। प्रतिसर्गावस्थायां तु साम्यावस्थानां सत्त्वरजस्तमसां अन्योन्याधिक्यन्यूनत्वाभावादङ्गाङ्गिभावानुपपत्तेर्न जगत्सर्ग उपपद्यते ।

तदापि वैषम्याभ्युपगमे नित्यसर्गप्रसङ्गः। अतश्च न प्राज्ञानधिष्ठितं प्रधानं कारणम् ॥ ६॥

कालविशेषनियतशक्तिमत्प्रधानानुमानेऽपि दोषः

१८१. अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ २–२–७ ॥

दूषितप्रकारातिरक्तप्रकारान्तरेण प्रधानानुमितौ च प्रधानस्य ज्ञातृत्वशक्तिवियोगात्त एव दोषाः प्रादुःष्युः। अतो न कथंचिदप्यनुमानेन प्रधानसिद्धिः ॥ ७ ॥

प्रधानानुमानस्य अनुपयोगितया वैधर्म्यम्

१८२. अभ्युपगमेऽप्यर्थाभावात् ॥ २–२–८ ॥

अनुमानेन प्रधानसिद्ध्यभ्युपगमेऽपि प्रधानेन प्रयोजनाभावान्न तदनुमातव्यम्। पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य (सां.का.२१) इति प्रधानस्य प्रयोजनं पुरुषभोगापवर्गावभिमतौ, तौ च न सम्भवतः; पुरुषस्य चैतन्यमात्रवपुषो निष्क्रियस्य निर्विकारस्य निर्मलस्य तत एव नित्यमुक्तस्वरूपस्य प्रकृतिदर्शनरूपो भोगस्तद्वियोगरूपोऽपवर्गश्च न सम्भवति। एवंरूपस्यैव प्रकृतिसन्निधानात् तत्परिणामविशेषसुखदुःखदर्शनरूपभोगसम्भावनायां प्रकृतिसन्निधानस्य नित्यत्वेन कदाचिदप्यपवर्गो न सेत्स्यति ॥ ८ ॥

मिथो व्याहतार्थकत्वतः सांख्यदर्शने अनौचित्यपूर्णता

१८३. विप्रतिषेधाच्चासमञ्जसम् ॥ २–२–९ ॥

विप्रतिषिद्धं चेदं साङ्ख्यानां दर्शनम्। तथाहि – प्रकृतेः परार्थत्वेन दृश्यत्वेन भोग्यत्वेन च प्रकृतेर्भोक्तारमधिष्ठातारं द्रष्टारं साक्षिणं च पुरुषमभ्युपगम्य प्रकृत्यैव साधनभूतया तस्य कैवल्यमपि प्राप्यं वदन्त एव तस्य नित्यनिर्विकारचैतन्यमात्रस्वरूपतया अकर्तृत्वं, कैवल्यं च स्वरूपमेवाहुः; तत एव बन्धमोक्षसाधनानुष्ठानं मोक्षश्च प्रकृतेरेवेत्याहुः, एवंभूतनिर्विकारोदासीन-पुरुषसन्निधानात् प्रकृतेरितरेतराध्यासेन सर्गादिप्रवृत्तिं पुरुषभोगापवर्गार्थत्वं चाहुः सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात्। पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थप्रवृत्तेश्च। (सां.का.१७) तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य। कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च (सां.का.१९) इति; पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य (सां.का.५७) इत्युक्त्वैवमाहुः तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित्। संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः (सां.का.६२) इति; तथा तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्। गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः। पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य। पंग्वन्धवदुभयोरपि संयोगस्तत्कृतस्सर्गः (सां.का.२०,२१) इति ॥

सूत्रोक्तविप्रतिषेधोपपादनम्

साक्षित्वद्रष्टृत्वभोक्तृत्वादयो नित्यनिर्विकारस्याकर्तुरुदासीनस्य कैवल्यैकस्वरूपस्य न सम्भवन्ति। एवंरूपस्य तस्याध्यासमूलभ्रमोऽपि न सम्भवति, अध्यासभ्रमयोरपि विकारत्वात्। प्रकृतेश्च तौ न सम्भवतः, तयोश्चेतनधर्मत्वात्। अध्यासो हि नाम चेतनस्यान्यस्मिन् अन्यधर्मानुसन्धानम् । स च चेतनधर्मो विकारश्च। न च पुरुषस्य प्रकृतिसन्निधिमात्रेण अध्यासादयस्सम्भवन्ति, निर्विकारत्वादेव; सम्भवन्ति चेत् – नित्यं प्रसज्येरन्; सन्निधेः अकिञ्चित्करत्वञ्च – न विलक्षणत्वात् (शारी.२.१.४) इत्यत्र प्रतिपादितम्।

प्रकृतिरेव संसरति बध्यते मुच्यते चेत् – कथं नित्यमुक्तस्य पुरुषस्योपकारिणी सेत्युच्यते? वदन्ति हि नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः। गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति (सां.का.५९.६०) इति।

तथा प्रकृतिर्येन पुरुषेण, यथास्वभावा दृष्टा, तस्मात्पुरुषात्तदानीमेव निवर्तत इति चाहुः। रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात्। पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः॥ (सा.का.५९) प्रकृतेस्सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति। या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य (सा.का.६१) इति;

सांख्योक्तेऽर्थे असाङ्गत्योपपादनम्

तदप्यसङ्गतम्, पुरुषो हि नित्यमुक्तत्वान्निर्विकारत्वान्न तां कदाचिदपि पश्यति, नाध्यस्यति च। स्वयं च स्वात्मानं न पश्यति, अचेतनत्वात्। पुरुषस्य स्वात्मदर्शनं स्वदर्शनमिति नाध्यवस्यति च, स्वयमचेतनत्वात्, पुरुषस्य च दर्शनरूपविकारासम्भवात्। अथ सन्निधिमात्रमेव दर्शनमित्युच्यते; सन्निधेर्नित्यत्वेन नित्यदर्शनप्रसङ्ग इत्युक्तम्। स्वरूपातिरिक्त-कादाचित्कसन्निधिरपि नित्यनिर्विकारस्य नोपपद्यते। किंच मोक्षहेतुस्तु स्वसन्निधानरूपमेव दर्शनं चेत् बन्धहेतुरपि तदेवेति नित्यवद्बन्धो मोक्षश्च स्याताम् । अयथादर्शनं बन्धहेतुः, यथावत्स्वरूपदर्शनं मोक्षहेतुरितिचेत् – उभयविधस्यापि दर्शनस्य सन्निधानरूपतानतिरेकात् सदा उभयप्रसङ्ग एव। सन्निधेरनित्यत्वे तस्य हेतुरन्वेषणीयः, तस्यापीत्यनवस्था। अथैतद्दोष-परिजिहीर्षया स्वरूपसद्भाव एव सन्निधिरिति, तदा स्वरूपस्य नित्यत्वेन नित्यवद्बन्धमोक्षौ। अत एवमादेर्विप्रतिषेधात्साङ्ख्यानां दर्शनमसमञ्जसम् ।

मायावादिपक्षगतासामञ्जस्यप्रदर्शनम्

येऽपि कूटस्थनित्यनिर्विशेषस्वप्रकाशचिन्मात्रं ब्रह्माविद्यासाक्षित्वेन अपारमार्थिकबन्ध-मोक्षभागिति वदन्ति, तेषामप्युक्तनीत्याऽविद्यासाक्षित्वाध्यासादि असम्भवादसामञ्जस्यमेव; इयांस्तु विशेषः – साङ्ख्याः जननमरणप्रतिनियमादिव्यवस्थासिद्ध्यर्थं पुरुषबहुत्वमिच्छन्ति, ते तु तदपि नेच्छन्तीति सुतरामसामञ्जस्यम् ॥

प्रकृतौ वैषम्यकल्पनानौचित्यम्

यत्तु प्रकृतेः पारमार्थ्यापारमार्थ्यविभागेन वैषम्यमुक्तम्, तदयुक्तम् पारमार्थिकत्वेऽपि अपारमार्थिकत्वेऽपि नित्यनिर्विकारस्वप्रकाशैकरसचिन्मात्रस्य स्वव्यतिरिक्तसाक्षित्वाद्यनुपपत्तेः । अपारमार्थिकत्वे तु तस्याः दृश्यत्वबाध्यत्वाभ्युपगमात् सुतरामसङ्गतम्। औपाधिकभेदवादेऽपि उपाधिसम्बन्धिनो ब्रह्मणोऽयमेव स्वभाव इत्युपाधिसम्बन्धाद्यनुपपत्तेरसामञ्जस्यं पूर्वमेवोक्तम् ॥

इति श्रीशारीरकमीमांसाभाष्ये रचनानुपपत्त्यधिकरणम्॥१॥