अधिकरणानि – 33 सूत्राणि – 149
अध्यायार्थः
निखिलजगदेककारणं ब्रह्म वेदान्तवेद्यम् इति प्रथमाध्यायोक्तार्थ्यस्य सम्भावनीयसमस्तप्रकारदुर्धर्षणत्वप्रतिपादनम्
- ॥ प्रथमः स्मृतिपादः ॥
अधि – 10, सूत्राणि – 36
पादार्थः – ब्रह्मणः जगत्कारणत्ववादिनां वेदान्तानां, कापिलस्मृतिविरोधपरिहारः
स्मृत्यधिकरणम्॥१॥
अधिकरणार्थः
ब्रह्मणः जगत्कारणत्ववादिनां वेदान्तानां. कापिलस्मृतिविरोधशङ्कानिरासः
१३९. स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ २–१–१ ॥
सङ्गतिनिरूपणार्थं प्रथमाध्यायार्थसङ्ग्रहः
प्रथमेऽध्याये प्रत्यक्षादिप्रमाणगोचरादचेतनात्तत्संसृष्टात्तद्वियुक्ताच्च चेतनादर्थान्तरभूतं निरस्तनिखिलाविद्या-द्यपुरुषार्थगन्धमनन्तज्ञानानन्दैकतानमपरिमितोदारगुणसागरं निखिलजगदेककारणं सर्वान्तरात्मभूतं परं ब्रह्म वेदान्तवेद्यमित्युक्तम्॥
द्वितीयाध्यायार्थसारः
अनन्तरमस्यार्थस्य सम्भावनीयसमस्तप्रकारदुर्धर्षणत्वप्रतिपादनाय द्वितीयोऽध्याय आरभ्यते।
आद्याधिकरणकृत्यम्, अधिकरणारम्भाक्षेपतत्परिहारौ
प्रथमं तावत्कपिलस्मृतिविरोधाद्वेदान्तानामतत्परत्वमाशङ्क्य तन्निराक्रियते। कथं स्मृतिविरोधाच्छ्रुतेरन्यपरत्वम्? उक्तं हि । विरोधे त्वनपेक्ष्यं स्यात् (जै.सू.१.३.३) इति श्रुतिविरुद्धायास्स्मृतेरनादरणीयत्वम्। सत्यम्, औदुम्बरीं स्पृष्ट्वोद्गायेत् इत्यादिषु स्वत एवार्थनिश्चयसम्भवात्तद्विरुद्धा स्मृतिरनादरणीयैव; इह तु वेदान्तवेद्यतत्त्वस्य दुरवबोधत्वेन परमर्षिप्रणीतस्मृतिविरोधे सत्ययमर्थ इति निश्चयायोगात् स्मृत्या श्रुतेरतत्परत्वोपपादनमविरुद्धम्।
कापिलस्मृतेः अनवकाशत्वापत्त्या वेदान्तैरबाध्यता
एतदुक्तं भवति – प्राचीनभागोदितनिखिलाभ्युदयसाधन- भूताग्निहोत्रदर्शपूर्णमास-ज्योतिष्टोमादिकर्माणि यथावदभ्युपगच्छता श्रुतिस्मृतीतिहासपुराणेषु ऋषिं प्रसूतं कपिलम् (श्वे.५.२) इत्यादिवाक्यैराप्तत्वेन सङ्कीर्तितेन परमर्षिणा कपिलेन परमनिःश्रेय-सतत्साधनावबोधित्वेन उपनिबद्धस्मृत्युपबृंहणेन विना अल्पश्रुतैः मन्दमतिभिः वेदान्तार्थनिश्चयायोगाद्यथाश्रुतार्थग्रहणे चाप्तप्रणीतायास्साङ्ख्यस्मृतेस्सकलाया एवानवकाशप्रसङ्गाच्च स्मृतिप्रसिद्ध एवार्थो वेदान्तवेद्य इति बलादभ्युपगमनीयम् – इति ॥
मन्वादिस्मृतीनां सावकाशत्वशङ्का-तन्निराकरणे
न च वाच्यं मन्वादिस्मृतीनां ब्रह्मैककारणत्ववादिनीनामेवं सत्यनवकाशत्वदोषप्रसङ्ग इति; धर्मप्रतिपादनद्वारा प्राचीनभागोपबृंहण एव सावकाशत्वात्। अस्यास्तु कृत्स्नायास्तत्त्वप्रतिपादन-परत्वात् तथाऽनभ्युपगमे निरवकाशत्वमेव स्यात्। तदिदमाशङ्कते स्मृत्यनवकाशदोषप्रसङ्ग इति चेत् – इति॥
सिद्धान्तारम्भः
तत्र अन्यस्मृतीनामाशयोपस्थापनम्
तत्रोत्तरं – नान्यस्मृत्यनवकाशदोषप्रसङ्गात् – इति। अन्या हि मन्वादिस्मृतयो ब्रह्मैककारणतां वदन्ति; यथाऽऽह मनुः आसीदिदं तमोभूतम् (मनु.१.५) इत्यारभ्य ततस्स्वयर्म्भूभगवानव्यक्तो व्यञ्जयन्निदम्। महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः (मनु.१.६), सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु वीर्यमपासृजत् (मनु.१.८) इति। भगवद्गीतासु च अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा (गी.७-६), अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते (भ.गी.१०.८) इति च। महाभारते कुतस्सृष्टमिदं सर्वं जगत् स्थावरजङ्गमम्॥ प्रलये च कमभ्येति तन्मे ब्रूहि पितामह (म.भा.शा.८.९.१०) इति पृष्ट आह – नारायणो जगन्मूर्तिरनन्तात्मा सनातनः (म.भा.शान्तिपर्व २.२.३) इति। तथा तस्मादव्यक्तमुत्पन्नं विगुणं द्विजसत्तम इति। (म.भा.शा.मोक्ष.) अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते इति च। आह च भगवान्पराशरः विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम्। स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः इति (वि.पु.१.१.३१) आह चापस्तम्बः पूः प्राणिनस्सर्व एव गुहाशयस्य अहन्यमानस्य विकल्मषस्य (आप.धर्म.२२.१.२) इत्यारभ्य तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकस्स नित्यः (आप.धर्म.२३.१.२) इति ॥
कापिलस्मृतेः वेदान्तानुपबृंहणता
यदि कपिलस्मृत्या वेदान्तवाक्यार्थव्यवस्था स्यात्, तदैतासां सर्वासां स्मृतीनामनवकाशत्वरूपो महान् दोषः प्रसज्येत। अयमर्थः – यद्यपि वेदान्तवाक्यानां अतिक्रान्तप्रत्यक्षादि – सकलेतरप्रमाणसम्भावनाभूमिभूतार्थप्रतिपादन – परत्वात्तदर्थ-वैशद्याय अल्पश्रुतानां प्रतिपत्तॄणां तदुपबृंहणमपेक्षितम्; तथापि तदर्थानुसारिणीनामाप्ततमप्रणीतानां बह्वीनां स्मृतीनां तदुपबृंहणाय प्रवृत्तानामनवकाशत्वं मा प्रसाङ्क्षीदिति श्रुतिविरुद्धार्था कपिलस्मृतिरुपेक्षणीया। उपबृंहणं च श्रुतिप्रतिपन्नार्थविशदीकरणम्, तच्च विरुद्धार्थया स्मृत्या न शक्यते कर्तुम् ॥
मन्वादिस्मतीनां परमपुरुषाराधनरूपधर्मप्रतिपादकता
न च एतासां स्मृतीनां प्राचीनभागोदितधर्मांशविशदीकरणेन सावकाशत्वम्; परब्रह्मभूतपरमपुरुषाराधनत्वेन धर्मान्विदधतीनामेतासामाराध्यभूतपरमपुरुषप्रतिपादनाभावे सति तदाराधनभूतधर्मप्रतिपादनासम्भवात्। तथाहि परमपुरुषाराधनरूपता सर्वेषां कर्मणां स्मर्यते यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः (गी.१८-४६) ध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु। ब्रह्मलोकमवाप्नोति न चेहावर्तते पुनः (दक्ष.स्मृ.) यैस्स्वकर्मपरैर्नाथ नरैराराधितो भवान्। ते तरन्त्यखिलामेतां मायामात्मविमुक्तये (वि.पु.५.३०.१६) इति ॥
उक्त-स्मृतीनां साधकत्व-शङ्का-तत्परिहारौ
विश्वास-प्रस्तुतिः
न च ऐहिकामुष्मिक-सांसारिक–
फल-साधन–कर्म-प्रतिपादनेन
एतासां सावकाशत्वम्;
मूलम्
न च ऐहिकामुष्मिकसांसारिकफलसाधनकर्मप्रतिपादनेनैतासां सावकाशत्वम्;
विश्वास-प्रस्तुतिः
यतस् तेषाम् अपि कर्मणां
परम-पुरुषाराधनत्वम् एव स्वरूपम्;
मूलम्
यतस्तेषामपि कर्मणां परमपुरुषाराधनत्वमेव स्वरूपम्;
विश्वास-प्रस्तुतिः
यथोक्तं
येऽप्य् अन्य-देवता-भक्ता
यजन्ते श्रद्धया ऽन्विताः।
तेऽपि मामेव कौन्तेय
यजन्त्य् अ-विधि-पूर्वकम्।
मूलम्
यथोक्तं
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्।
विश्वास-प्रस्तुतिः
अहं हि सर्व-यज्ञानां
भोक्ता च प्रभुर् एव च।
न च माम् अभिजानन्ति
तत्त्वेनातश् च्यवन्ति ते॥
(भ.गी.९.२३,२४)
इति;
मूलम्
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च।
न च मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥
(भ.गी.९.२३,२४)
इति;
विश्वास-प्रस्तुतिः
तथा
यज्ञैस् त्वम् इज्यसे नित्यं
सर्व-देवमयाच्युत।
हव्य-कव्य-भुग् एकस् त्वं
पितृ-देव–स्व-रूप–धृक्॥
(वि.पु.५.२०.९७)
इति ॥
मूलम्
तथा
यज्ञैस्त्वमिज्यसे नित्यं सर्वदेवमयाच्युत। हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक्॥
(वि.पु.५.२०.९७)
इति ॥
आप्तत्वमात्रात् कपिलस्मृतेरादरणे अतिप्रसक्तिः
यदुक्तम् – ऋषिं प्रसूतं कपिलम् (श्वे-५-२) इति कपिलस्याप्ततया सङ्कीर्तनात् तत्स्मृत्यनुसारेण वेदान्तार्थव्यवस्थापनं न्याय्यम् – इति; तदसत्, बृहस्पतेश्श्रुतिस्मृतिषु सर्वेषामतिशयितज्ञानानां निदर्शनत्वेन सङ्कीर्तनात्तत्प्रणीतेन लोकायतेन श्रुत्यर्थव्यवस्थापनप्रसक्तेः – इति॥१॥
कपिलस्मृतेः भ्रान्तिमूलत्वोपपादनम्
अथ स्यात् कपिलस्य स्वयोगमहिम्ना वस्तुयाथात्म्योपलब्धेस्तत्स्मृत्यनुसारेण वेदान्तार्थो व्यवस्थापयितव्यः – इति; अत उत्तरं पठति –
१४०. इतरेषां चानुपलब्धेः ॥ २–१–२ ॥
चशब्दस्तुशब्दार्थश्चोदिताशङ्कानिवृत्त्यर्थः। इतरेषां – मन्वादीनां बहूनां स्वयोगमहिम-साक्षात्कृतपरावरतत्त्वयाथात्म्यानां निखिलजगद्भेषजभूतस्ववाक्यतया यद्वै किञ्च मनुरवदत् तद्भेषजम् (तै.सं.२.२.१०) इति श्रुतिप्रसिद्धानां कपिलदृष्टप्रकारेण तत्त्वानुपलब्धेः श्रुतिविरुद्धा कपिलोपलब्धिर्भ्रान्तिमूलेति न तया यथोक्तो वेदान्तार्थश्चालयितुं शक्य इति सिद्धम्॥२॥
इति श्रीशारीरकमीमांसाभाष्ये स्मृत्यधिकरणम्॥१॥