३० संख्योपसंग्रहाधिकरणम्

श्रीशारीरकमीमासांभष्ये संख्योपसंग्रहाधिकरणम्॥३॥

अधिकरणार्थः – कापिलमतानङ्गीकारेऽपि पञ्चजनशब्दार्थसिद्धिः

ज्योतिषां ज्योतिर्विद्या बृ.उ. 6-4-16)

१२०. न संख्योपसंग्रहादपि नानाभावादितरेकाच्च ॥ १–४–११ ॥

विषयवाक्यप्रदर्शनम्

वाजसनेयिनस्समामनन्ति यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः। तमेवम्मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् (बृ.३.४.१७) इति।

संशयस्वरूपम्

किमयं मन्त्रः कापिलतन्त्रसिद्धतत्त्वप्रतिपादनपरः, उत नेति सन्दिह्यते।

पूर्वपक्षः

किं युक्तम्? तन्त्रसिद्धतत्त्वप्रतिपादनपर इति कुत**😕** पञ्चशब्दविशेषितात्पञ्चजन-शब्दात्पञ्चविंशतितत्त्वप्रतीतेः।

एतदुक्तं भवति – पञ्चजनाः (बृ.६.४.१७) इति समासस्समाहारविषयः। पञ्चानां जनानां समूहाः पञ्चजनाः; पञ्चपूल्य इतिवत्। पञ्चजना इति लिङ्गव्यत्ययश्छान्दसः। ते च समूहाः कतीत्यपेक्षायां पञ्चजनशब्दविशेषणेन प्रथमेन पञ्चशब्देन समूहाः पञ्चेति प्रतीयन्ते; यथा पञ्च पञ्चपूल्य इति। अतः पञ्च पञ्चजनाः (बृ.६४.१७) इति पञ्चविंशतिपदार्थावगतौ ते कतम इत्यपेक्षायां मोक्षाधिकारान्मुमुक्षुभिः ज्ञातव्यतया स्मृतिप्रसिद्धाः प्रकृत्यादय एव ज्ञायन्ते। मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त। षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः (सांख्य.का.) इति हि कापिलानां प्रसिद्धिः अतस्तन्त्रसिद्धतत्त्वप्रतिपादनपरः।

सिद्धान्तारम्भः

पञ्चजनशब्दस्य प्राकृततत्त्वपरत्वाभावः

इति प्राप्ते प्रचक्ष्महे – न सङ्ख्योपसङ्ग्रहादपि – इति पञ्च पञ्चजनाः (बृ.६.४.१७) इति पञ्चविंशतिसङ्ख्योपसङ्ग्रहादपि न तन्त्रसिद्धतत्त्वप्रतीतिः। कुत**😕** नानाभावात् – एषां पञ्चसङ्ख्याविशेषितानां पञ्चजनानां तन्त्रसिद्धेभ्यस्तत्त्वेभ्यः पृथग्भावात् यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः (बृ.३.४.१७) इत्येतेषां यच्छब्दनिर्दिष्टब्रह्माश्रयतया ब्रह्मात्मकत्वं हि प्रतीयते तमेवम्मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् (बृ.३.४.१७) इत्यत्र तमिति परामर्शेन यच्छब्दनिर्दिष्टं ब्रह्मेत्यवगम्यते। अतस्तेभ्यः पृथग्भूताः पञ्चजना इति न तन्त्रसिद्धा एते।

पञ्चविंशत्यतिरेकेण वाक्यावगतस्य प्राकृतेतरत्वज्ञापकता

अतिरेकाच्च – तन्त्रसिद्धेभ्यस्तत्त्वेभ्योऽत्र तत्त्वातिरेकोऽपि भवति; यच्छब्दनिर्दिष्ट आत्मा आकाशश्चात्रातिरिच्येते। अतः तं षड्विंशकमित्याहुस्सप्तविंशमथापरे (मान्त्रिक.उ) इति श्रुतिप्रसिद्धसर्वतत्त्वाश्रयभूतस्सर्वेश्वरः परमपुरुषोऽत्राभिधीयते । न सङ्ख्योपसङ्ग्रहादपि इत्यपिशब्दस्य पञ्च पञ्चजनाः (बृ.६.४.१७) इत्यत्र पञ्चविंशतितत्त्वप्रतिपत्तिरेव न सम्भवतीत्यभिप्रायः। कथम्? पञ्चभिरारब्धसमूहपञ्चकासम्भवात्। न हि तन्त्रसिद्धतत्त्वेषु पञ्चसु पञ्चस्वनुगतं यत्सङ्ख्यानिवेशनिमित्तं जात्याद्यस्ति; न च वाच्यं – पञ्च कर्मेन्द्रियाणि, पञ्च ज्ञानेन्द्रियाणि, पञ्च महाभूतानि, पञ्च तन्मात्राणि, अवशिष्टानि पञ्च – इत्यवान्तरसङ्ख्यानिवेशनिमित्तमस्त्येव इति; आकाशस्य पृथङ्निर्देशेन पञ्चभिरारब्धमहाभूत-समूहासिद्धेः।

पञ्चजनशब्दस्य संज्ञया अर्थविशेषपरत्वम्

अतः पञ्चजना (बृ.६.४.१७) इत्ययं समासो न समाहारविषयः; अयं तु दिक्सङ्ख्ये संज्ञायाम् (अष्टा.२.१.५०) इति संज्ञाविषयः; अन्यथा पञ्चजनाः इति लिङ्गव्यत्ययश्च। पञ्चजना नाम केचित्सन्ति; ते च पञ्चसङ्ख्यया विशेष्यन्ते, पञ्च पञ्चजनाः इति, सप्तसप्तर्षय इतिवत्॥११॥

संज्ञायाः पञ्चेन्द्रियपरत्वम्

के पुनस्ते पञ्चजनाः इत्यत आह –

१२१. प्राणादयो वाक्यशेषात् ॥ १–४–१२ ॥

प्राणस्य प्राणमुत चक्षुषश्चक्षुश्श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः (बृ.६–४–१८) इति वाक्यशेषाद्ब्रह्माश्रयाः प्राणादय एव पञ्च पञ्चजनाः इति विज्ञायन्ते ॥१२॥

काण्वपाठानुरोधे इन्द्रियपरत्वानुपपत्तिशङ्का – समाधाने

अथ स्यात् – काण्वानां माध्यन्दिनानां च यस्मिन् पञ्चपञ्चजनाः (बृ.६–४–१७) इत्ययं मन्त्रस्समानः, प्राणस्य प्राणम् (बृ.६.४.१८) इत्यादिवाक्यशेषे काण्वानामन्नस्य पाठो न विद्यते; तेषां पञ्च पञ्चजनाः प्राणादय इति न शक्यं वक्तुम् – इति; अत्रोत्तरम्॥

१२२. ज्योतिषैकेषामसत्यन्ने ॥ १–४–१३ ॥

एकेषां काण्वानां पाठे असत्यन्ने ज्योतिषा पञ्चजनाः इन्द्रियाणीति ज्ञायन्ते; तेषां वाक्यशेषः प्रदर्शनार्थः। एतदुक्तं भवति यस्मिन् पञ्च पञ्चजनाः (बृ.६–४–१७) इत्यस्मात्पूर्वस्मिन्मन्त्रे तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् (बृ.६–४–१६) इति ज्योतिषां ज्योतिष्ट्वे ब्रह्मण्यभिधीयमाने ब्रह्माधीनस्वकार्याणि कानिचिज्जोतींषि प्रतिपन्नानि; तानि च विषयाणां प्रकाशकानीन्द्रियाणीति यस्मिन् पञ्च पञ्चजनाः इत्यनिर्धारितविशेषनिर्देशेनावगम्यन्ते – इति ।

उक्तार्थस्य विशदीकरणम्

प्राणस्य (बृ.६–४–१८) इति प्राणशब्देन स्पर्शनेन्दियं गृह्यते, वायुसम्बन्धित्वात्स्पर्शनेन्द्रियस्य मुख्यप्राणस्य ज्योतिश्शब्देन प्रदर्शनायोगात्। चक्षुष इति चक्षुरिन्द्रियम्, श्रोत्रस्येति श्रोत्रेन्द्रियम्, अन्नस्येति घ्राणरसनयोस्तन्त्रेणोपादानम्, अन्नशब्दोदितपृथिवीसम्बन्धित्वाद्घ्राणेन्द्रियमनेन गृह्यते अद्यतेऽनेनेत्यन्नमिति रसनेन्द्रियमपि गृह्यते। मनस इति मनः। घ्राणरसनयोस्तन्त्रेणोपादानमिति पञ्चत्वमप्यविरुद्धम्। प्रकाशकानि मनःपर्यन्तानीन्द्रियाणि पञ्चजनशब्दनिर्दिष्टानि तदविरोधाय घ्राणरसनयोस्तन्त्रेणोपादानम्। तदेवम् यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः (बृ.६.५.१७) इति पञ्चजनशब्दनिर्दिष्टानीन्द्रियाण्याकाशशब्दप्रदर्शितानि महाभूतानि च ब्रह्मणि प्रतिष्ठितानीति सर्वतत्त्वानां ब्रह्माश्रयत्वप्रतिपादनान्न तन्त्रसिद्धपञ्चविंशतितत्त्वप्रसङ्गः। अतस्सर्वत्र वेदान्ते सङ्ख्योपसङ्ग्रहे तदभावे वा न कापिलतन्त्रसिद्धतत्त्वप्रतीतिरिति स्थितम्॥

इति श्रीशारीरकमीमांसाभाष्ये सङ्ख्योपसङ्ग्रहाधिकरणम्॥