२६ अपशूद्राधिकरणम्

विस्तारः (द्रष्टुं नोद्यम्)

श्रीशारीरकमीमांसाभाष्ये अपशूद्राधिकरणम्॥

अधिकरणार्थः – त्रैवर्णिकेतरेषां ब्रह्मविद्यासु अनधिकारः

संवर्गविद्या, छा.उ. 4-1,2,3

संशयः

विश्वास-प्रस्तुतिः

ब्रह्म-विद्यायां शूद्रस्याप्य् अधिकारोऽस्ति न वेति विचार्यते;

Thibaut

The Sūtras now enter on a discussion of the question whether the Śūdras also are qualified for the knowledge of Brahman.

मूलम्

ब्रह्मविद्यायां शूद्रस्याप्यधिकारोऽस्ति न वेति विचार्यते;

पूर्वपक्षः

विश्वास-प्रस्तुतिः

किं युक्तम्? अस्तीति।

Thibaut

The Pūrvapakshin maintains that they are so qualified;

मूलम्

किं युक्तम्? अस्तीति।

विश्वास-प्रस्तुतिः

कुतः? अर्थित्व-सामर्थ्य-प्रयुक्तत्वाद् अधिकारस्य,
शूद्रस्यापि तत्-सम्भवात्।

Thibaut

for qualification, he says, depends on want and capacity,
and both these are possible in the case of Śūdras also.

मूलम्

कुतः? अर्थित्वसामर्थ्यप्रयुक्तत्वादधिकारस्य, शूद्रस्यापि तत्सम्भवात्।

शूद्रेषु कर्मानधिकारः - विद्याधिकारयोः उपपत्तिः

विश्वास-प्रस्तुतिः

यद्य् अप्य् अग्नि-विद्या-साध्येषु कर्मस्व् अन्-अग्नि-विद्यत्वाच् छूद्रस्यानधिकारः;
तथा ऽपि मनो-वृत्ति-मात्रत्वाद् ब्रह्मोपासनस्य
तत्राधिकारोऽस्त्य् एव,

Thibaut

The Śūdra is not indeed qualified for any works depending on a knowledge of the sacred fires,
for from such knowledge he is debarred;
but he possesses qualification for meditation on Brahman,
which after all is nothing but a certain mental energy.

मूलम्

यद्यप्यग्निविद्यासाध्येषु कर्मस्वनग्निविद्यत्वाच्छूद्रस्यानधिकारः; तथापि मनोवृत्तिमात्रत्वाद्ब्रह्मोपासनस्य तत्राधिकारोऽस्त्येव,

विश्वास-प्रस्तुतिः

शास्त्रीय-क्रियाऽपेक्षत्वे ऽप्य्
उपासनस्य तत्-तद्-वर्णाश्रमोचित-क्रियाया एवापेक्षितत्वाच्
छूद्रस्यापि स्व-वर्णोचित-पूर्व-वर्ण-शुश्रूषैव क्रिया भविष्यति।

Thibaut

The only works prerequisite for meditation are those works
which are incumbent on a man as a member of a caste or āśrama,
and these consist, in the Śūdra’s case, in obedience to the higher castes.

मूलम्

शास्त्रीयक्रियापेक्षत्वे ऽप्य् उपासनस्य तत्तद्-वर्णाश्रमोचित-क्रियाया एवापेक्षितत्वाच् छूद्रस्यापि स्व-वर्णोचित-पूर्व-वर्ण-शुश्रूषैव क्रिया भविष्यति।

विश्वास-प्रस्तुतिः

तस्माच् छूद्रो यज्ञे ऽनवकॢप्तः (यजु.का.७.१.१.१)

इत्यप्य् अग्नि-विद्या-साध्य-यज्ञादि-कर्मानधिकार एव
न्याय-सिद्धो ऽनूद्यते।

Thibaut

And when we read

’therefore the Śūdra is not qualified for sacrifices,'

the purport of this passage is only to make a confirmatory reference to something already settled by reason,
viz. that the Śūdra is not qualified for the performance of sacrifices
which cannot be accomplished by one not acquainted with the sacred fires
(and not to deny the Śūdra’s competence for devout meditation).

मूलम्

तस्माच् छूद्रो यज्ञे ऽनवकॢप्तः (यजु.का.७.१.१.१) इत्यप्य् अग्नि-विद्या-साध्य-यज्ञादिकर्मानधिकार एव न्यायसिद्धो ऽनूद्यते।

अश्रुत-वेद-वेदान्तस्यापि शूद्रस्य उपासनोपपत्तिः

विश्वास-प्रस्तुतिः

ननु अनधीत-वेदस्याश्रुत-वेदान्तस्य ब्रह्म-स्वरूप-तदुपासन-प्रकारानभिज्ञस्य कथं ब्रह्मोपासनं सम्भवति?

Thibaut

–But how can meditation on Brahman be undertaken by a man who has not studied the Vedas, inclusive of the Vedānta, and hence knows nothing about the nature of Brahman and the proper modes of meditation?

मूलम्

ननु अनधीत-वेदस्याश्रुत-वेदान्तस्य ब्रह्म-स्वरूप-तदुपासन-प्रकारानभिज्ञस्य कथं ब्रह्मोपासनं सम्भवति?

विश्वास-प्रस्तुतिः

उच्यते –
अनधीत-वेदस्याश्रुत-वेदान्त-वाक्यस्यापीतिहास-पुराण-श्रवणेनापि ब्रह्म-स्वरूप–तद्-उपासन-ज्ञानं सम्भवति।

Thibaut

–Those also, we reply, who do not study Veda and Vedānta may acquire the requisite knowledge by hearing Itihāsas and Purāṇas; and there are texts which allow Sūdras to become acquainted with texts of that kind;

मूलम्

उच्यते – अनधीत-वेदस्याश्रुत-वेदान्त-वाक्यस्यापीतिहास-पुराण-श्रवणेनापि ब्रह्म-स्वरूप-तदुपासन-ज्ञानं सम्भवति।

विश्वास-प्रस्तुतिः

अस्ति च शूद्रस्यापीतिहास-पुराण-श्रवणानुज्ञा

श्रावयेच् चतुरो वर्णान्
कृत्वा ब्राह्मणम् अग्रतः
(म.भा.शा.मो.३१४.४५)

इत्य् आदौ।

Thibaut

cp. e.g. ‘one is to make the four castes to hear texts, the Brāhmaṇa coming first.’

मूलम्

अस्ति च शूद्रस्यापीतिहास-पुराण-श्रवणानुज्ञा

श्रावयेच् चतुरो वर्णान्
कृत्वा ब्राह्मणम् अग्रतः
(म.भा.शा.मो.३१४.४५)

इत्य् आदौ।

विश्वास-प्रस्तुतिः

दृश्यन्ते चेतिहास-पुराणेषु विदुरादयो ब्रह्म-निष्ठाः।

Thibaut

Moreover, those Purāṇas and Itihāsas make mention of Śūdras, such as Vidura, who had a knowledge of Brahman.

मूलम्

दृश्यन्ते चेतिहास-पुराणेषु विदुरादयो ब्रह्म-निष्ठाः।

विश्वास-प्रस्तुतिः

तथोपनिषत्स्व् अपि
संवर्ग-विद्यायां शूद्रस्यापि ब्रह्म-विद्याधिकारः प्रतीयते –

Thibaut

And the Upanishads themselves, viz. in the so-called Saṁvarga-vidyā, show that a Śūdra is qualified for the knowledge of Brahman;

मूलम्

तथोपनिषत्स्व् अपि संवर्ग-विद्यायां शूद्रस्यापि ब्रह्म-विद्याधिकारः प्रतीयते –

विश्वास-प्रस्तुतिः

शुश्रूषुं हि जानश्रुतिम्
आचार्यो रैक्वश् शूद्रेत्य् आमन्त्र्य
तस्मै ब्रह्म-विद्याम् उपदिशति –

Thibaut

for there the teacher Raikva addresses Jānaśruti, who wishes to learn from him, as Śūdra, and thereupon instructs him in the knowledge of Brahman (Cḥ. Up. IV, 2, 3).

मूलम्

शुश्रूषुं हि जानश्रुतिम्
आचार्यो रैक्वश् शूद्रेत्य् आमन्त्र्य
तस्मै ब्रह्म-विद्याम् उपदिशति –

विश्वास-प्रस्तुतिः

आजहारेमाश् शूद्र,
अनेनैव मुखेनालापयिष्यथाः (छां.४.२.५)

इत्य्-आदिना।

मूलम्

आजहारेमाश् शूद्र,
अनेनैव मुखेनालापयिष्यथाः (छां.४.२.५)

इत्य्-आदिना।

विश्वास-प्रस्तुतिः

अतश् शूद्रस्याप्य् अधिकारस् सम्भवति॥

Thibaut

All this proves that Śūdras also have a claim to the knowledge of Brahman.

मूलम्

अतश् शूद्रस्याप्य् अधिकारस् सम्भवति॥

असामर्थ्यम्

विश्वास-प्रस्तुतिः

इति प्राप्ते, उच्यते– न शूद्रस्याधिकारस् सम्भवति, सामर्थ्याभावात्;

Thibaut

This conclusion we deny, on the ground of the absence of capability.

मूलम्

इति प्राप्ते, उच्यते– न शूद्रस्याधिकारस् सम्भवति, सामर्थ्याभावात्;

विश्वास-प्रस्तुतिः

न हि ब्रह्म-स्वरूप–तद्-उपासन–प्रकारम् अजानतः
तद्-अङ्ग-भूत-वेदानुवचन-यज्ञादिष्व् अनधिकृतस्य
उपासनोपसंहार-सामर्थ्य-सम्भवः;

Thibaut

It is impossible that the capability of performing meditations on Brahman
should belong to a person not knowing the nature of Brahman and the due modes of meditation,
and not qualified by the knowledge of the requisite preliminaries of such meditation, viz. recitation of the Veda, sacrifices, and so on.

मूलम्

न हि ब्रह्म-स्वरूप-तदुपासन–प्रकारम् अजानतः तदङ्गभूत-वेदानुवचन-यज्ञादिष्व् अनधिकृतस्य उपासनोपसंहार-सामर्थ्य-सम्भवः;

विश्वास-प्रस्तुतिः

अ-समर्थस्य चार्थित्व-सद्भावे ऽप्य्
अधिकारो न सम्भवति;

Thibaut

Mere want or desire does not impart qualification to a person destitute of the required capability.

मूलम्

असमर्थस्य चार्थित्व-सद्भावे ऽप्य् अधिकारो न सम्भवति;

वेदाध्ययनाभावः

विश्वास-प्रस्तुतिः

अ-सामर्थ्यं च वेदाध्ययनाभावात्; +++(5)+++

Thibaut

And this absence of capability is due, in the Śūdra’s case, to absence of legitimate study of the Veda.

मूलम्

असामर्थ्यं च वेदाध्ययनाभावात्;

विश्वास-प्रस्तुतिः

यथैव हि
त्रैवर्णिक-विषयाध्ययन-विधि-सिद्ध– स्वाध्याय-सम्पाद्य– ज्ञान-लाभेन
कर्म-विधयो ज्ञान–तद्-उपायादीन् अपरान् न स्वीकुर्वन्ति;
तथा ब्रह्मोपासन-विधयो ऽपि।

Thibaut

The injunctions of sacrificial works naturally connect themselves with the knowledge and the means of knowledge (i.e. religious ceremonies and the like) that belong to the three higher castes,
for these castes actually possess the knowledge (required for the sacrifices),
owing to their studying the Veda in agreement with the injunction which prescribes such study for the higher castes;
the same injunctions do not, on the other hand, connect themselves with the knowledge and means of knowledge belonging to others (than members of the three higher castes).
And the same naturally holds good with regard to the injunctions of meditation on Brahman.

मूलम्

यथैव हि त्रैवर्णिक-विषयाध्ययन-विधि-सिद्ध-स्वाध्याय-सम्पाद्य-ज्ञान-लाभेन कर्म-विधयो ज्ञान-तदुपायादीन् अपरान् न स्वीकुर्वन्ति; तथा ब्रह्मोपासन-विधयो ऽपि।

विश्वास-प्रस्तुतिः

अतो ऽध्ययन-विधि-सिद्ध-स्वाध्यायाधिगत-ज्ञानस्यैव ब्रह्मोपासनोपायत्वाच्
छूद्रस्य ब्रह्मोपासन-सामर्थ्यासम्भवः। +++(4)+++

Thibaut

And as thus only such knowledge as is acquired by study prompted by the Vedic injunction of study
supplies a means for meditation on Brahman,
it follows that the Śūdra for whom that injunction is not meant is incapable of such meditation.

मूलम्

अतो ऽध्ययन-विधि-सिद्ध-स्वाध्यायाधिगत-ज्ञानस्यैव ब्रह्मोपासनोपायत्वाच् छूद्रस्य ब्रह्मोपासन-सामर्थ्यासम्भवः।

इतिहास-पुराणयोः न

विश्वास-प्रस्तुतिः

इतिहास-पुराणे अपि वेदोपबृहणं कुर्वती एवोपाय-भावम् अनुभवतः;
न स्वातन्त्र्येण;

Thibaut

Itihāsas and Purāṇas hold the position of being helpful means towards meditation
in so far only as they confirm or support the Veda,
not independently of the Veda.

मूलम्

इतिहास-पुराणे अपि वेदोपबृहणं कुर्वती एवोपाय-भावम् अनुभवतः;
न स्वातन्त्र्येण;

विश्वास-प्रस्तुतिः

शूद्रस्येतिहास-पुराण-श्रवणानुज्ञानं पाप-क्षयादि-फलार्थम्;
नोपासनार्थम्।

Thibaut

And that Śūdras are allowed to hear Itihāsas and Purāṇas is meant only for the end of destroying their sins,
not to prepare them for meditation on Brahman.

मूलम्

शूद्रस्येतिहास-पुराण-श्रवणानुज्ञानं पाप-क्षयादि-फलार्थम्; नोपासनार्थम्।

विदुरादिषु जन्मान्तर-फलम्

विश्वास-प्रस्तुतिः

विदुरादयस् तु भवान्तराधिगत-ज्ञानाप्रमोषात् ज्ञानवन्तः
प्रारब्ध-कर्म-वशाच् चेदृश-जन्म-योगिन
इति तेषां ब्रह्म-निष्ठत्वम्।

Thibaut

The case of Vidura and other Śūdras having been ‘founded on Brahman,’ explains itself as follows:–
Owing to the effect of former actions,
which had not yet worked themselves out,
they were born in a low caste,
while at the same time they possessed wisdom
owing to the fact that the knowledge acquired by them in former births
had not yet quite vanished.

मूलम्

विदुरादयस् तु भवान्तराधिगत-ज्ञानाप्रमोषात् ज्ञानवन्तः प्रारब्ध-कर्म-वशाच् चेदृश-जन्म-योगिन इति तेषां ब्रह्म-निष्ठत्वम्।

Thibaut

(On these general grounds we object to Śūdras being viewed as qualified for meditation on Brahman.)

जानश्रुतेः शूद्र-पद-प्रयोगौचित्यम्

विश्वास-प्रस्तुतिः

यत् तु –
संवर्ग-विद्यायां शुश्रूषोश् शुद्रेति सम्बोधनं शूद्रस्याधिकारं सूचयति – इति;
तन् नेत्य् आह –

English

The Sūtra now refutes that argument, which the Pūrvapakshin derives from the use of the word ‘Śūdra’ in the Saṁvarga-vidyā.

मूलम्

यत् तु –
संवर्ग-विद्यायां शुश्रूषोश् शुद्रेति सम्बोधनं शूद्रस्याधिकारं सूचयति – इति;
तन् नेत्य् आह –

विश्वास-प्रस्तुतिः

९८. शुग् अस्य +++(शूद्रस्य)+++ -
तद्-अनादर-श्रवणात्,
तद्-आद्रवणात् सूच्यते हि ॥ १–३–३३ ॥

Thibaut
  1. (That) grief of him (arose),
    this is intimated by his (Jānaśruti’s) resorting to him (Raikva) on hearing a disrespectful speech about himself.
मूलम्

९८. शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ १–३–३३ ॥

विश्वास-प्रस्तुतिः

शुश्रूषोर् जानश्रुतेः पौत्रायणस्य ब्रह्म-ज्ञान-वैकल्येन
हंसोक्तानादर-वाक्य-श्रवणात्
तदैव ब्रह्म-विदो रैक्वस्य सकाशं प्रत्याद्रवणाच्
छुग् अस्य सञ्जातेति हि सूच्यते;

English

From what the text says about Jānaśruti Pautrāyaṇa having been taunted by a flamingo
for his want of knowledge of Brahman,
and having thereupon resorted to Raikva,
who possessed the knowledge of Brahman,
it appears that sorrow (śuc) had taken possession of him;

मूलम्

शुश्रूषोर् जानश्रुतेः पौत्रायणस्य ब्रह्म-ज्ञान-वैकल्येन
हंसोक्तानादर-वाक्य-श्रवणात्
तदैव ब्रह्म-विदो रैक्वस्य सकाशं प्रत्याद्रवणाच्
छुग् अस्य सञ्जातेति हि सूच्यते;

विश्वास-प्रस्तुतिः

अतस्
स शूद्रेत्य् आमन्त्र्यते,
न चतुर्थ-वर्णत्वेन।

English

and it is with a view to this that Raikva addresses him as Śūdra.

मूलम्

अतस् स शूद्रेत्य् आमन्त्र्यते, न चतुर्थ-वर्णत्वेन।

शूद्र-पद-व्युत्पत्तिः

विश्वास-प्रस्तुतिः

शोचतीति हि शूद्रः;

English

For the word Śūdra, etymologically considered, means one who grieves or sorrows (śocati).

मूलम्

शोचतीति हि शूद्रः;

विश्वास-प्रस्तुतिः

शुचेर् दश् च (उणादिषु) इति
र-प्रत्यये धातोश् च दीर्घे चकारस्य च
दकारे शूद्र इति भवति।

मूलम्

शुचेर् दश् च (उणादिषु) इति
र-प्रत्यये धातोश् च दीर्घे चकारस्य च
दकारे शूद्र इति भवति।

विश्वास-प्रस्तुतिः

अतश् शोचितृत्वम् एवास्य शूद्र-शब्द-प्रयोगेन सूच्यते;
न जातियोगः।

English

The appellation ‘śūdra’ therefore refers to his sorrow,
not to his being a member of the fourth caste.

मूलम्

अतश् शोचितृत्वम् एवास्य शूद्र-शब्द-प्रयोगेन सूच्यते;
न जातियोगः।

आख्यायिकार्थः

विश्वास-प्रस्तुतिः

जानश्रुतिः किल पौत्रायणो बहु-द्रव्य-प्रदो बह्व्-अन्न-प्रदश् च बभूव।

English

This clearly appears from a consideration of the whole story.
Jānaśruti Pautrāyaṇa was a very liberal and pious king.

मूलम्

जानश्रुतिः किल पौत्रायणो बहु-द्रव्य-प्रदो बह्व्-अन्न-प्रदश् च बभूव।

विश्वास-प्रस्तुतिः

तस्य धार्मिकाग्रेसरस्य धर्मेण प्रीतयोः कयोश्चिन् महात्मनोर्
अस्य ब्रह्म-जिज्ञासाम् उत्पिपादयिषतोर्
हंसरूपेण निशायाम् अस्याविदूरे गच्छतोर्
अन्यतर इतरम् उवाच –

English

Being much pleased with his virtuous life,
and wishing to rouse in him the desire of knowing Brahman,
two noble-minded beings, assuming the shape of flamingoes, flew past him at night time,
when one of them addressed the other,

मूलम्

तस्य धार्मिकाग्रेसरस्य धर्मेण प्रीतयोः कयोश्चिन् महात्मनोर्
अस्य ब्रह्म-जिज्ञासाम् उत्पिपादयिषतोर्
हंसरूपेण निशायाम् अस्याविदूरे गच्छतोर्
अन्यतर इतरम् उवाच –

विश्वास-प्रस्तुतिः

भो भो ऽयि भल्लाक्ष भल्लाक्ष
जानश्रुतेः पौत्रायणस्य
समं दिवा ज्योतिर् आततं,
तन् मा प्रसाङ्क्षीस्,
तत् त्वा मा प्रधाक्षीत् (छा.४.१.२)

इति।

English

‘O Bhallāksha.
The light of Jānaśruti has spread like the sky;
do not go near that it may not burn thee.’

मूलम्

भो भो ऽयि भल्लाक्ष भल्लाक्ष
जानश्रुतेः पौत्रायणस्य
समं दिवा ज्योतिर् आततं,
तन् मा प्रसाङ्क्षीस्,
तत् त्वा मा प्रधाक्षीत् (छा.४.१.२)

इति।

विश्वास-प्रस्तुतिः

एवं जानश्रुति-प्रशंसारूपं वाक्यम् उपश्रुत्य परो हंसः प्रत्युवाच –

English

To this praise of Jānaśruti the other flamingo replied,

मूलम्

एवं जानश्रुति-प्रशंसारूपं वाक्यम् उपश्रुत्य परो हंसः प्रत्युवाच –

विश्वास-प्रस्तुतिः

कम् वर् एनम् एतत् सन्तं
स-युग्वानम्+++(→रैक्वम्)+++ इव रैक्वम् आत्थ
(छा.४.१.३)

इति।

English

‘How can you speak of him, being what he is,
as if he were Raikva “sayuktvān”?’

मूलम्

कम् वर् एनम् एतत् सन्तं सयुग्वानम् इव रैक्वम् आत्थ (छा.४.१.३)

इति।

विश्वास-प्रस्तुतिः

कं सन्तम् एनं जानश्रुतिं
सयुग्वानं रैक्वं ब्रह्मज्ञम् इव गुण-श्रेष्ठम्
एतद् आत्थ;

English

i.e.

‘how can you speak of Jānaśruti, being what he is,
as if he were Raikva, who knows Brahman and is endowed with the most eminent qualities?

मूलम्

कं सन्तम् एनं जानश्रुतिं
सयुग्वानं रैक्वं ब्रह्मज्ञम् इव गुण-श्रेष्ठम्
एतद् आत्थ;

विश्वास-प्रस्तुतिः

स ब्रह्मज्ञो रैक्व एव लोके गुणवत्तरः;

English

Raikva, who knows Brahman, alone in this world is truly eminent.

मूलम्

स ब्रह्मज्ञो रैक्व एव लोके गुणवत्तरः;

विश्वास-प्रस्तुतिः

महता धर्मेण संयुक्तस्याप्य् अस्य अ-ब्रह्म-ज्ञस्य को गुणः, यद्-गुण-जनितं तेजो
रैक्व-तेज इव मां दहेद्

इत्य् अर्थः।

English

Janaśruti may be very pious,
but as he does not know Brahman.
What quality of his
could produce splendour capable of burning me like the splendour of Raikva?’

मूलम्

महता धर्मेण संयुक्तस्याप्यस्य अब्रह्मज्ञस्य को गुणः, यद्-गुण-जनितं तेजो रैक्व-तेज इव मां दहेद् इत्य् अर्थः।

रैक्क्व-परिचय-सम्पादनम्

विश्वास-प्रस्तुतिः

एवम् उक्तेन परेण “को ऽसौ रैक्व” इति पृष्टः,

English

The former flamingo thereupon asks who that Raikva is,

मूलम्

एवम् उक्तेन परेण “को ऽसौ रैक्व” इति पृष्टः,

लोके यत् किञ्चित् साध्व् अनुष्ठितं कर्म,
यच् च सर्व-चेतन-गतं विज्ञानम्,
तद् उभयं यदीय-ज्ञान-कर्मान्तर्भूतम्, स रैक्व इत्य् आह।

रैक्क्वोपसदनम्

तद् एतद् धंस-वाक्यं ब्रह्म-ज्ञान-विधुरतयात्म-निन्दा-गर्भं तद्वत्तया च रैक्व-प्रशंसारूपं जानश्रुतिर् उपश्रुत्य तत्क्षणाद् एव क्षत्तारं रैक्व-अन्वेषणाय प्रेष्य तस्मिन् विदित्वागते स्वयम् अपि रैक्वम् उपसद्य गवां षट्-छतं निष्कम् अश्वतरी-रथं च रैक्वायोपहृत्य रैक्वं प्रार्थयामास

अनु म एतां भगवो देवतां शाधि यां देवताम् उपास्से (छां.४.२.२) इति। त्वद्-उपास्यां परां देवतां ममानुशाधीत्य् अर्थः।

रैक्क्वेण शूद्रपदप्रयोगहेतुः

स च रैक्वस् स्व-योग-महिम-विदित-लोकत्रयो जानश्रुतेर् ब्रह्म-ज्ञान–विधुरता-निमित्तानादर-गर्भ-हंस-वाक्य-श्रवणेन शोकाविष्टतां तदनन्तरम् एव ब्रह्म-जिज्ञासयोद्योगं च विदित्वा ऽस्य ब्रह्म-विद्या-योग्यताम् अभिज्ञाय चिर-काल-सेवां विना द्रव्य-प्रदानेन शुश्रूषमाणस्यास्य यावच्छक्ति-प्रदानेन ब्रह्म-विद्या प्रतिष्ठिता भवतीति मत्वा तम् अनुगृह्णन् तस्य शोकाविष्टताम् उपदेश-योग्यता-ख्यापिकां शूद्र-शब्देनामन्त्रणेन ज्ञापयन्न् इदम् आह –

अहहारे त्वा शूद्र तवैव सह गोभिर् अस्तु (छा.४.२.३) इति। सह गोभिर् अयं रथस् तवैवास्तु; नैतावता मह्यं दत्तेन ब्रह्म-जिज्ञासया शोकाविष्टस्य तव ब्रह्म-विद्या प्रतिष्ठिता भवतीत्य् अर्थः।

पुनरुपसत्तिः, रैक्क्वेण उपदेशश्च

स च जानश्रुतिर् भूयो ऽपि स्व-शक्त्यनुगुणम् एव गवादिकं धनं कन्यां च प्रदायोपससाद। स रैक्वः पुनर् अपि तस्य योग्यताम् एव ख्यापयन् शूद्र-शब्देनामन्त्र्याह –

आजहारेमाश् शूद्र, अनेनैव मुखेनालापयिष्यथाः (छां.४.२.५) इति। इमानि धनानि शक्त्यनुगुणान्य् आजहर्थ; अनेनैव द्वारेण चिर-सेवया विना ऽपि मां त्वद्-अभिलषितं ब्रह्मोपदेश-रूप-वाक्यम् आलापियष्यसीत्य् उक्त्वा तस्मा उपदिदेश।

विवक्षितोपसंहारः

अतश् शूद्र-शब्देन विद्योपदेश-योग्यता-ख्यापनार्थं शोक एवास्य सूचितः; न चतुर्थ-वर्णत्वम्॥३३॥

९९. क्षत्रियत्वगतेश्च ॥ १–३–३४ ॥

द्विजत्वस्थिरीकरणम्

बहुदायी इति दान-पतित्वेन बहु-पाक्यः (छां.४.१.१) इत्यादिना सर्वत एवम् एतद् अन्नम् अत्स्यन्ति (छां.४.१.५) इत्य् अन्तेन बहुतर-पक्वान्न-प्रदायित्व-प्रतीतेः सह संजिहान एव क्षत्तारम् उवाच इति क्षत्तृ-प्रेषणाद् बहु-ग्राम-प्रदानाद् अवगत-जनपदाधिपत्याच् चास्य जानश्रुतेः क्षत्रियत्व-प्रतीतेश् च न चतुर्थ-वर्णत्वम् ॥३४॥

सूत्रसङ्गतिः

तदेवम् उपक्रम-गताख्यायिकायां क्षत्रियत्व-प्रतीतिर् उक्ता; उपसंहार-गताख्यायिकायाम् अपि क्षत्रियत्वम् अस्य प्रतीयत इत्य् अत्राह–

१००. उत्तरत्र चैत्ररथेन लिङ्गात् ॥ १–३–३५ ॥

क्षत्रियत्वस्थिरीकरणम्

अस्य जानश्रुतेर् उपदिश्यमानायाम् अस्याम् एव संवर्ग-विद्यायाम् उत्तरत्र कीर्त्यमानेनाभिप्रतारि-नाम्ना चैत्ररथेन क्षत्रियेणास्य क्षत्रियत्वं गम्यते। कथम्?

अथ ह शौनकं च कापेयम् अभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे (छा.४.३.५) इत्यादिना ब्रह्मचारिन् न इदम् उपास्महे (छा.४.३.७) इत्य् अन्तेन कापेयाभिप्रतारिणोर् भिक्षमाणस्य ब्रह्मचारिणश् च संवर्ग-विद्या-सम्बन्धित्वं प्रतीयते। तेषु चाभिप्रतारी क्षत्रियः, इतराव् ब्राह्मणौ, अतो ऽस्यां विद्यायां ब्राह्मणस्य तदितरेषु च क्षत्रियस्यैवान्वयो दृश्यते; न शूद्रस्य। अतो ऽस्यां विद्यायाम् अन्विताद् रैक्वाद् ब्राह्मणाद् अन्यस्य जानश्रुतेर् अपि क्षत्रियत्वम् एव युक्तम्; न चतुर्थ-वर्णत्वम्।

उक्तार्थे आक्षेपः तत्परिहारश्च

नन्व् अस्मिन् प्रकरणे ऽभिप्रतारिणश् चैत्ररथत्वं क्षत्रियत्वं च न श्रुतम्; तत् कथम् अस्याभिप्रतारिणश् चैत्ररथत्वम्? कथं वा क्षत्रियत्वम्? तत्राह लिङ्गात् – इति।

अथ ह शौनकं च कापेयम् अभिप्रतारिणं च काक्षसेनिम् (छा.४.३.५) इत्य् अभिप्रतारिणः कापेय-साहचर्याल् लिङ्गाद् अस्याभिप्रतारिणः कापेय-सम्बन्धः प्रतीयते; अन्यत्र च एतेन वै चैत्ररथं कापेया अयाजयन् (ताण्ड्य.२.१२.۵) इति कापेय-सबन्धिनश् चैत्ररथत्वं श्रूयते; तथा चैत्ररथस्य क्षत्रियत्वं तस्माच् चैत्ररथो नामैकः क्षत्रपतिर् अजायत (शतपथ.११.५.३.१३) इति; अतो ऽभिप्रतारिणश् चैत्ररथत्वं क्षत्रियत्वं च गम्यते॥३५॥

संस्कारापेक्षा श्रुतौ

विश्वास-प्रस्तुतिः

तद् एवं न्याय-विरोधिनि शूद्रस्याधिकारे लिङ्गं नोपलभ्यत इत्य् उक्तम्,

English

So far the Sūtras have shown that there is no inferential mark to prove what is contradicted by reasoning, viz. the qualification of the Śūdras.

मूलम्

तदेवं न्याय-विरोधिनि शूद्रस्याधिकारे लिङ्गं नोपलभ्यत इत्य् उक्तम्,

विश्वास-प्रस्तुतिः

इदानीं न्याय-सिद्धश् शूद्रस्यानधिकारश्
श्रुति-स्मृतिभिर् अनुगृह्यत
इत्य् आह –

English

The next Sūtra declares that the non-qualification of the Śūdra proved by reasoning is confirmed by Scripture and Smr̥ti.

मूलम्

इदानीं न्याय-सिद्धश् शूद्रस्यानधिकारश् श्रुति-स्मृतिभिर् अनुगृह्यत इत्य् आह –

विश्वास-प्रस्तुतिः

१०१. संस्कार-परामर्शात् तद्-अभावाभिलापाच् च ॥ १–३–३६ ॥

English
  1. On account of the reference to ceremonial purifications,
    and on account of the declaration of their absence.
मूलम्

१०१. संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ १–३–३६ ॥

उपनयनस्य त्रैवर्णिकता-स्थापकत्वम्

विश्वास-प्रस्तुतिः

ब्रह्म-विद्योपदेशेषूपनयन-संस्कारः परामृश्यते –

English

In sections the purport of which is to give instruction about Brahman
the ceremony of initiation is referred to,

मूलम्

ब्रह्म-विद्योपदेशेषूपनयन-संस्कारः परामृश्यते –

विश्वास-प्रस्तुतिः

उप त्वा नेष्ये (छा.४.४.५)

English

‘I will initiate you;’ (Ch. Up. IV, 4).

मूलम्

उप त्वा नेष्ये (छा.४.४.५)

विश्वास-प्रस्तुतिः

तं होपनिन्ये (श. ब्रा. ११ । ५ । ३ । १३)

इत्य्-आदिषु।

English

he initiated him

मूलम्

तं होपनिन्ये (श. ब्रा. ११ । ५ । ३ । १३)

इत्यादिषु।

विश्वास-प्रस्तुतिः

शूद्रस्य चोपनयनादि-संस्काराभावो ऽभिलप्यते –

English

And at the same time the absence of such ceremonies in the case of Śūdras is stated:

मूलम्

शूद्रस्य चोपनयनादि-संस्काराभावो ऽभिलप्यते –

विश्वास-प्रस्तुतिः

न शूद्रे पातकं किञ्चिन्
न च संस्कारम् अर्हति (मनु.१०.१२.६),

English

‘In the Śūdra there is not any sin,
and he is not fit for any ceremony’ (Manu X, 126);

मूलम्

न शूद्रे पातकं किञ्चिन्
न च संस्कारम् अर्हति (मनु.१०.१२.६),

विश्वास-प्रस्तुतिः

चतुर्थो वर्ण एक-जातिर्
न च संस्कारम् अर्हति (गौत.१०.अ.९)

इत्य्-आदिषु ॥ ३६॥

English

and

‘The fourth caste is once born, and not fit for any ceremony’ (Manu X, 4).

मूलम्

चतुर्थो वर्ण एक-जातिर्
न च संस्कारम् अर्हति (गौत.१०.अ.९)

इत्यादिषु ॥ ३६॥

उपदेशात् पूर्वं ब्राह्मणत्व-निर्णयः

विश्वास-प्रस्तुतिः

१०२. तद्+++(→ब्राह्मणत्व)+++-अभाव-निर्धारणे च प्रवृत्तेः ॥ १–३–३७ ॥

English
  1. And on account of the procedure,
    on the ascertainment of the non-being of that.
मूलम्

१०२. तदभावनिर्धारणे च प्रवृत्तेः ॥ १–३–३७ ॥

विश्वास-प्रस्तुतिः

नैतद् अब्राह्मणो विवक्तुम् अर्हति
समिधं सोम्याहर
(छां.४.४.५)

मूलम्

नैतद् अब्राह्मणो विवक्तुम् अर्हति
समिधं सोम्याहर
(छां.४.४.५)

विश्वास-प्रस्तुतिः

इति शुश्रूषोर् जाबालस्य
शूद्रत्वाभाव-निर्धारणे सत्य् एव विद्योपदेश-प्रवृत्तेश् च
न शूद्रस्याधिकारः॥ ३७॥

English

That a Śūdra is not qualified for knowledge of Brahman
appears from that fact also that as soon as Gautama has convinced himself that Jābāla, who wishes to become his pupil, is not a Śūdra,
he proceeds to teach him the knowledge of Brahman.

मूलम्

इति शुश्रूषोर् जाबालस्य
शूद्रत्वाभाव-निर्धारणे सत्य् एव विद्योपदेश-प्रवृत्तेश् च
न शूद्रस्याधिकारः॥ ३७॥

अध्ययनोपासन-निषेधः

विश्वास-प्रस्तुतिः

१०३ श्रवणाध्ययनार्थ-प्रतिषेधात् ॥ १–३–३८ ॥

English
  1. And on account of the prohibition of hearing, studying, and performance of (Vedic) matter.
मूलम्

१०३ श्रवणाध्ययनार्थप्रतिषेधात् ॥ १–३–३८ ॥

विश्वास-प्रस्तुतिः

शूद्रस्य वेद-श्रवण–तद्-अध्ययन–तद्-अर्थानुष्ठानानि प्रतिषिध्यन्ते

English

The Śūdra is specially forbidden to hear and study the Veda and to perform the things enjoined in it.

मूलम्

शूद्रस्य वेद-श्रवण–तद्-अध्ययन–तद्-अर्थानुष्ठानानि प्रतिषिध्यन्ते

विश्वास-प्रस्तुतिः

पद्यु?? ह वा एतच् छ्मशानं यच् छूद्रस्
तस्माच् छूद्र-समीपे नाध्येतव्यम्,

English

‘For a Śūdra is like a cemetery,
therefore the Veda must not be read in the vicinity of a Śūdra;’

मूलम्

पद्यु ह वा एतच् छ्मशानं यच् छूद्रस्
तस्माच् छूद्र-समीपे नाध्येतव्यम्,

विश्वास-प्रस्तुतिः

तस्माच् छूद्रो बहु-पशुर् अयज्ञीयः

इति।
बहु-पशुः - पशु-सदृश इत्यर्थः।

English

‘Therefore the Śūdra is like a beast, unfit for sacrifices.

मूलम्

तस्माच् छूद्रो बहु-पशुर् अयज्ञीयः

इति।
बहु-पशुः - पशु-सदृश इत्यर्थः।

विश्वास-प्रस्तुतिः

अनुपशृण्वतो ऽध्ययन–तद्-अर्थ-ज्ञान–तद्-अर्थानुष्ठानानि न सम्भवन्ति;

English

And he who does not hear the Veda recited
cannot learn it so as to understand and perform what the Veda enjoins.

मूलम्

अनुपशृण्वतो ऽध्ययन-तदर्थ-ज्ञान-तदर्थानुष्ठानानि न सम्भवन्ति;

विश्वास-प्रस्तुतिः

अतस् तान्य् अपि प्रतिषिद्धान्य् एव॥३८॥

English

The prohibition of hearing thus implies the prohibition of understanding and whatever depends on it.

मूलम्

अतस् तान्य् अपि प्रतिषिद्धान्य् एव॥३८॥

उक्तार्थस्य स्मृतितः सिद्धिः

विश्वास-प्रस्तुतिः

१०४. स्मृतेश्च ॥ १–३–३९ ॥

English
  1. And on account of Smr̥ti.
मूलम्

१०४. स्मृतेश्च ॥ १–३–३९ ॥

विश्वास-प्रस्तुतिः

स्मर्यते च श्रवणादि-निषेधः

अथ हास्य वेदम् उपशृण्वतस्
त्रपु-जतुभ्यां श्रोत्र-प्रतिपूरणम्,
उदाहरणे जिह्वाच्छेदो
धारणे शरीर-भेदः
(गौत.ध.२.१२.३)

इति,

English

Smr̥ti also declares this prohibition of hearing, and so on.

‘The ears of him who hears the Veda are to be filled with molten lead and lac;
if he pronounces it his tongue is to be slit;
if he preserves it his body is to be cut through.’

मूलम्

स्मर्यते च श्रवणादि-निषेधः

अथ हास्य वेदम् उपशृण्वतस् त्रपु-जतुभ्यां श्रोत्र-प्रतिपूरणम्, उदाहरणे जिह्वाच्छेदो धारणे शरीर-भेदः (गौत.ध.२.१२.३) इति,

विश्वास-प्रस्तुतिः

न चास्योपदिशेद् धर्मं
न चास्य व्रतम् आदिशेत्
(मनु.४.८०)

इति च;

English

And

‘He is not to teach him sacred duties or vows.’

मूलम्

न चास्योपदिशेद् धर्मं न चास्य व्रतम् आदिशेत् (मनु.४.८०) इति च;

विश्वास-प्रस्तुतिः

अतश् शूद्रस्यानधिकार इति सिद्धम्॥३९॥

English

– It is thus a settled matter that the Śūdras are not qualified for meditations on Brahman.

मूलम्

अतश् शूद्रस्यानधिकार इति सिद्धम्॥३९॥

शाङ्करासङ्गतिः

विश्वास-प्रस्तुतिः

ये तु -

निर्विशेष-चिन्-मात्रं ब्रह्मैव परमार्थः;

English

those who hold that

a Brahman consisting of pure non-differenced intelligence constitutes the sole reality;

मूलम्

ये तु -

निर्विशेष-चिन्-मात्रं ब्रह्मैव परमार्थः;

विश्वास-प्रस्तुतिः

अन्यत् सर्वं मिथ्याभूतम्;

English

that everything else is false;

मूलम्

अन्यत् सर्वं मिथ्याभूतम्;

विश्वास-प्रस्तुतिः

बन्धश् चापारमार्थिकः;

English

that all bondage is unreal;

मूलम्

बन्धश् चापारमार्थिकः;

विश्वास-प्रस्तुतिः

स च वाक्य-जन्य-वस्तु-याथात्म्य-ज्ञान-मात्र-निवर्त्यः;

English

that such bondage may be put an end to by the mere cognition of the true nature of Reality–such cognition resulting from the hearing of certain texts;

मूलम्

स च वाक्य-जन्य-वस्तु-याथात्म्य-ज्ञान-मात्र-निवर्त्यः;

विश्वास-प्रस्तुतिः

तन्-निवृत्तिर् एव मोक्षः –

English

and that the cessation of bondage thus effected constitutes final Release.

मूलम्

तन्-निवृत्तिर् एव मोक्षः –

विश्वास-प्रस्तुतिः

इति वदन्ति;
तैर् ब्रह्म-ज्ञाने शूद्रादेर् अनधिकारो वक्तुं न शक्यते;

English

We must here point out that the non-qualification of Śūdras for the cognition of Brahman can in no way be asserted by (them).

मूलम्

इति वदन्ति;
तैर् ब्रह्म-ज्ञाने शूद्रादेर् अनधिकारो वक्तुं न शक्यते;

विश्वास-प्रस्तुतिः

अनुपनीतस्य,
अनधीत-वेदस्याश्रुत-वेदान्त-वाक्यस्यापि
यस्मात् कस्माद् अपि

निर्विशेष-चिन्मात्रं ब्रह्मैव परमार्थो
ऽन्यत् सर्वं तस्मिन् परिकल्पितं मिथ्याभूतम्

इति वाक्याद्
वस्तु-याथात्म्य-ज्ञानोत्पत्तेः,

English

For (the following) may be secured by any one who learns from another person -

knowledge of the true nature of Reality, in the sense indicated, that

Brahman alone is real
and that everything else is falsely superimposed on Brahman.

मूलम्

अनुपनीतस्य,
अनधीत-वेदस्याश्रुत-वेदान्त-वाक्यस्यापि
यस्मात् कस्माद् अपि

निर्विशेष-चिन्मात्रं ब्रह्मैव परमार्थो
ऽन्यत् सर्वं तस्मिन् परिकल्पितं मिथ्याभूतम्

इति वाक्याद्
वस्तु-याथात्म्य-ज्ञानोत्पत्तेः,

विश्वास-प्रस्तुतिः

तावतैव बन्ध-निवृत्तेश् च।

English

and the release resulting from it,

मूलम्

तावतैव बन्ध-निवृत्तेश् च।

वेद-वाक्यानपेक्षा

विश्वास-प्रस्तुतिः

न च “तत् त्वम् अस्य्”-आदि-वाक्येनैव ज्ञानोत्पत्तिः कार्या
न वाक्यान्तरेणेति नियन्तुं शक्यम्;

English

That the cognition of such truth can be arrived at only on the basis of certain Vedic texts, such as ‘Thou art that,’ is a restriction which does not admit of proof;

मूलम्

न च तत्त्वमस्यादि-वाक्येनैव ज्ञानोत्पत्तिः कार्या न वाक्यान्तरेणेति नियन्तुं शक्यम्;

विश्वास-प्रस्तुतिः

ज्ञानस्यापुरुष-तन्त्रत्वात्,

English

for knowledge of the truth does not depend on man’s choice,

मूलम्

ज्ञानस्यापुरुष-तन्त्रत्वात्,

विश्वास-प्रस्तुतिः

सत्यां सामग्र्याम् अनिच्छतो ऽपि ज्ञानोत्पत्तेः।

English

and at once springs up in the mind even of an unwilling man as soon as the conditions for such origination are present.

मूलम्

सत्यां सामग्र्याम् अनिच्छतो ऽपि ज्ञानोत्पत्तेः।

विश्वास-प्रस्तुतिः

न च

वेद-वाक्याद् एव वस्तु-याथात्म्य-ज्ञाने सति
बन्ध-निवृत्तिर् भवति

इति शक्यं वक्तुम्,

English

Nor can it be proved in any way that bondage can be put an end to
only through such knowledge of the truth as springs from Vedic texts;

मूलम्

न च वेद-वाक्याद् एव वस्तु-याथात्म्य-ज्ञाने सति बन्ध-निवृत्तिर् भवतीति शक्यं वक्तुम्,

विश्वास-प्रस्तुतिः

येन केनापि वस्तु-याथाम्य-ज्ञाने सति भ्रान्ति-निवृत्तेः;

English

for error comes to an end through the knowledge of the true nature of things, whatever agency may give rise to such knowledge.

मूलम्

येन केनापि वस्तु-याथाम्य-ज्ञाने सति भ्रान्ति-निवृत्तेः;

विश्वास-प्रस्तुतिः

पौरुषेयाद् अपि -

निर्विशेष-चिन्मात्रं ब्रह्म परमार्थो
ऽन्यत् सर्वं मिथ्याभूतम्

इति वाक्याज् ज्ञानोत्पत्तेस्
तावतैव भ्रम-निवृत्तेश् च।

English

True knowledge, of the kind described,
will spring up in the mind of a man
as soon as he hears the non-scriptural declaration,

‘Brahman, consisting of non-differenced intelligence, is the sole Reality;
everything else is false,’

and this will suffice to free him from error.

मूलम्

पौरुषेयाद् अपि निर्विशेष-चिन्मात्रं ब्रह्म परमार्थो ऽन्यत् सर्वं मिथ्याभूतम् इति वाक्याद् ज्ञानोत्पत्तेस् तावतैव भ्रम-निवृत्तेश् च।

विश्वास-प्रस्तुतिः

यथा पौरुषेयाद् अप्य् आप्त-वाक्याच्
छुक्तिका-रजतादि-भ्रान्तिर् ब्राह्मणस्य शूद्रादेर् अपि निवर्तते,
तद्वद् एव शूद्रस्यापि वेद-वित्-सम्प्रदायागत-वाक्याद्
वस्तु-याथात्म्य-ज्ञानेन जगद्-भ्रम-निवृत्तिर् अपि भविष्यति ॥

English

When a competent and trustworthy person asserts that
what was mistaken for silver is merely a sparkling shell,
the error of a Śūdra no less than of a Brāhmaṇa comes to an end;
in the same way a Śūdra also will free himself from the great cosmic error
as soon as the knowledge of the true nature of things has arisen in his mind
through a statement resting on the traditional lore of men knowing the Veda.

मूलम्

यथा पौरुषेयाद् अप्य् आप्त-वाक्याच्
छुक्तिका-रजतादि-भ्रान्तिर् ब्राह्मणस्य शूद्रादेर् अपि निवर्तते,
तद्वद् एव शूद्रस्यापि वेद-वित्-सम्प्रदायागत-वाक्याद्
वस्तु-याथात्म्य-ज्ञानेन जगद्-भ्रम-निवृत्तिर् अपि भविष्यति ॥

वेद-विद्भिः शूद्रस्य ज्ञानासम्भवशङ्का – तत्परिहारौ

न चास्योपदिशेद् धर्मम् (मनु.४.८०) इत्यादिना वेद-विदश् शूद्रादिभ्यो न वदन्तीति च न शक्यं वक्तुम्, तत्त्वमस्यादि-वाक्यावगत-ब्रह्मात्म-भावानां वेद-शिरसि वर्तमानतया दग्धाखिलाधिकारत्वेन निषेध-शास्त्र-किङ्करत्वाभावात्, अतिक्रान्त-निषेधैर् वा कैश्चिद् उक्ताद् वाक्याच् छूद्रादेः ज्ञानम् उत्पद्यत एव।

पौरुषेयवाक्यात् बन्धहेतुभ्रमनिवृत्तिशङ्का – तत्परिहारौ

न च वाच्यं – शुक्तिकादौ रजतादि-भ्रम-निवृत्तिवत् पौरुषेय–वाक्य-जन्य-तत्त्व-ज्ञान-समनन्तरं शूद्रस्य जगद्-भ्रमो न निवर्तत इति; तत्त्वमस्यादि-वाक्य-श्रवण-समनन्तरं ब्राह्मणस्यापि जगद्-भ्रमानिवृत्तेः। निदिध्यासनेन द्वैत-वासनायां निरस्तायाम् एव तत्त्वमस्यादि-वाक्यं निवर्तक-ज्ञानम् उत्पादयतीति चेत् – पौरुषेयम् अपि वाक्यं शूद्रादेस् तथैवेति न कश्चिद् विशेषः।

निदिध्यासनं हि नाम ब्रह्मात्मत्व-भावाभिधायि वाक्यं यद् अर्थ-प्रतिपादन-योग्यम्, तद्-अर्थ-भावना; सैव विपरीत-वासनां निवर्तयतीति दृष्टार्थत्वं निदिध्यासन-विधेर् ब्रूषे, वेदानुवचनादीन्य् अपि विविदिषोत्पत्ताव् एवोपयुज्यन्ते इति शूद्रस्यापि विविदिषायां जातायां पौरुषेय-वाक्यान् निदिध्यासनादिभिर् विपरीत-वासनायां निरस्तायां ज्ञानम् उत्पत्स्यते; तेनैवापारमार्थिको बन्धो निवर्तिष्यते।

मुखान्तरेण ज्ञानसम्भवप्रदर्शनतः पराभिप्रायनिरसनम्

अथवा तर्कानुगृहीतात् प्रत्यक्षाद् अनुमानाच् च निर्विशेष-स्वप्रकाश-चिन्मात्र-प्रत्यग्-वस्तुनि अज्ञान-साक्षित्वं, तत्-कृत-विविध-विचित्र-ज्ञातृ-ज्ञेय-विकल्प-रूपं कृत्स्नं जगच् चाध्यस्तम् इति निश्चित्यैवम्भूत-परिशुद्ध-प्रत्यग्-वस्तुनि अनवरत-भावनया विपरीत-वासनां निरस्य तद् एव प्रत्यग्-वस्तु साक्षात्कृत्य शूद्रादयो ऽपि विमोक्ष्यन्त इति मिथ्याभूत-विचित्रैश्वर्य-विचित्र-सृष्ट्याद्यलौकिकानन्त–विशेषावलम्बिना वेदान्त-वाक्येन न किञ्चित् प्रयोजनम् इह दृश्यत इति शूद्रादीनाम् एव ब्रह्म-विद्यायाम् अधिकारस् सुशोभनः।

श्रुतिवैयर्थ्यरूपम् अनुपपत्त्यन्तरम्

विश्वास-प्रस्तुतिः

अनेनैव न्यायेन
ब्राह्मणादीनाम् अपि ब्रह्म-वेदन-सिद्धेर्
उपनिषच् च तपस्विनी दत्त-जलाञ्जलिस् स्यात्। +++(5)+++

English

And as the knowledge of Brahman may be reached in this way not only by Śūdras but also by Brāhmaṇas and members of the other higher castes, the poor Upanishad is practically defunct.

मूलम्

अनेनैव न्यायेन
ब्राह्मणादीनाम् अपि ब्रह्म-वेदन-सिद्धेर्
उपनिषच् च तपस्विनी दत्त-जलाञ्जलिस् स्यात्।

प्रकारान्तरेण श्रुतिजन्यज्ञानावश्यकत्वशङ्का तत्परिहारश्च

न च वाच्यं नैसर्गिक-लोक-व्यवहारे भ्राम्यतो ऽस्य केनचिद् अयं लौकिक-व्यवहारो भ्रमः, परमार्थस् त्व् एवम् इति समर्पिते सत्य् एव प्रत्यक्षानुमान-वृत्त-बुभुत्सा जायत इति तत्-समर्पिका श्रुतिर् अप्य् आस्थेयेति; यतो भव-भय-भीतानां साङ्ख्यादय एव प्रत्यक्षानुमानाभ्यां वस्तु-निरूपणं कुर्वन्तः प्रत्यक्षानुमान-वृत्त-बुभुत्सां जनयन्ति; बुभुत्सायां च जातायां प्रत्यक्षानुमानाभ्याम् एव विविक्त-स्वभावाभ्यां नित्य-शुद्ध-स्वप्रकाशाद्वितीय-कूटस्थ-चैतन्यम् एव सत्, अन्यत् सर्वं तस्मिन्न् अध्यस्तम् इति सुविवेचम्। एवम्भूते स्व-प्रकाशे वस्तुनि श्रुति-समधिगम्यं विशेषान्तरं च नाभ्युपगम्यते; अध्यस्तातद्रूप-निवर्तिनी हि श्रुतिर् अपि त्वन्-मते। न च सत आत्मन आनन्द-रूपता-ज्ञानाय उपनिषद् आस्थेया, चिद्रूपताया एव सकलेतरातद्रूप-व्यावृत्ताया आनन्द-रूपत्वात्।

उपासनोपायत्वे न सर्वाधिकारः

विश्वास-प्रस्तुतिः

यस्य तु -

मोक्ष-साधनतया वेदान्त-वाक्यैर् विहितं ज्ञानम् उपासन-रूपम्,

English

There are, on the other hand, those who hold that

the knowledge which the Vedānta-texts enjoin as the means of Release is of the nature of devout meditation;

मूलम्

यस्य तु मोक्ष-साधनतया वेदान्त-वाक्यैर् विहितं ज्ञानम् उपासन-रूपम्,

विश्वास-प्रस्तुतिः

तच् च पर-ब्रह्म-भूत-परम-पुरुष-प्रीणनम्,

English

that such meditation has the effect of winning the love of the supreme Spirit

मूलम्

तच् च पर-ब्रह्म-भूत-परम-पुरुष-प्रीणनम्,

विश्वास-प्रस्तुतिः

तच् च शास्त्रैक-समधिगम्यम्,

English

and is to be learned from scripture only;

मूलम्

तच् च शास्त्रैक-समधिगम्यम्,

विश्वास-प्रस्तुतिः

उपासन-शास्त्रं च
उपनयनादि-संस्कृताधीत-स्वाध्याय-जनितं ज्ञानं
विवेक-विमोकादि-साधनानुगृहीतम् एव
स्वो+++(क्तो)+++पायतया स्वीकरोति,

English

that the injunctions of meditation refer to such knowledge
only as springs from the legitimate study of the Veda on the part of a man
duly purified by initiation and other ceremonies,
and is assisted by the seven means (see above, p. 17);

मूलम्

उपासन-शास्त्रं चोपनयनादि-संस्कृताधीत-स्वाध्याय-जनितं ज्ञानं विवेक-विमोकादि-साधनानुगृहीतम् एव स्वोपायतया स्वीकरोति,

विश्वास-प्रस्तुतिः

एवं रूपोपासन-प्रीतः पुरुषोत्तम
उपासकं स्वाभाविकात्म-याथात्म्य-ज्ञान-दानेन
कर्म-जनिताज्ञानं नाशयन्
बन्धान् मोचयति

इति पक्षः;

English

and that

the supreme Person pleased by such meditation bestows on the devotee knowledge of his own true nature,
dissolves thereby the Nescience springing from works,
and thus releases him from bondage.

मूलम्

एवं रूपोपासन-प्रीतः पुरुषोत्तम
उपासकं स्वाभाविकात्म-याथात्म्य-ज्ञान-दानेन
कर्म-जनिताज्ञानं नाशयन्
बन्धान् मोचयति

इति पक्षः;

विश्वास-प्रस्तुतिः

तस्य यथोक्तया नीत्या शूद्रादेर् अनधिकार उपपद्यते॥

English

And on this view the proof of the non-qualification of the Śūdra, as given in the preceding Sūtras, holds good.

मूलम्

तस्य यथोक्तया नीत्या शूद्रादेर् अनधिकार उपपद्यते॥

विश्वास-प्रस्तुतिः

इति श्रीशारीरकमीमांसाभाष्ये अपशूद्राधिकरणम्॥

English

–Here terminates the adhikaraṇa of ’the exclusion of the Śūdras.’

मूलम्

इति श्रीशारीरकमीमांसाभाष्ये अपशूद्राधिकरणम्॥