श्रीशारीरकमीमांसाभाष्ये मध्वधिकरणम्॥
अधिकरणार्थः – वस्वादिपदं प्राप्तानामपि मधुविद्यादिषु अधिकारः
मधुविद्या (छा.उ. 3-1), ज्योतिषां ज्योतिर्विद्या च
९५. मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ १–३–३०॥
पूर्वोत्तरार्थयोः साङ्गत्यं, प्रकृतो विषयश्च
ब्रह्मविद्यायां देवादीनामधिकारोऽस्तीत्युक्तम् ॥
संशयाकारः
इदमिदानीं चिन्त्यते – येषूपासनेषु या देवता एवोपास्याः तेषु तासामधिकारोऽस्ति न इति,
जैमिनेर्मतम्
पूर्वः पक्षः
किं प्राप्तम्? नास्त्यधिकारस्तेषु मध्वादिष्विति जैमिनिर्मन्यते; कुत**😕** असम्भवात् – नह्यादित्यवस्वादिभिरुपास्या आदित्यवस्वादयोऽन्ये सम्भवन्ति। न च वस्वादीनां सतां वस्वादित्वं प्राप्यं भवति, प्राप्तत्वात्; मधुविद्यायामृग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यस्य रश्मिद्वारेण प्राप्तस्य रसस्याश्रयतया लब्धमधुव्यपदेशस्यादित्यस्यांशानां वस्वादिभिर्भुज्यमानानां उपास्यत्वं वस्वादित्वं च प्राप्यं श्रूयते असौ वा आदित्यो देवमधु (छां.३–१–१) इत्युपक्रम्य तद्यत्प्रथमममृतं तद्वसव उपजीवन्ति (छां.३.६.१) इत्युक्त्वा स य एतदेवममृतं वेद वसूनां एवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति (छां.३.६.३) इत्यादिना॥ ३०॥
९६. ज्योतिषि भावाच्च ॥ १–३–३१ ॥
उक्तस्यैव पक्षस्य उपष्टम्भकयुक्त्यन्तरम्
तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् (बृ.६.४.१४) इति ज्योतिषि परस्मिन्ब्रह्मणि उपासनं देवानां श्रूयते। देवमनुष्योभयसाधारणे परब्रह्मोपासने देवानामुपासकत्वकथनं देवानामितरोपासननिवृत्तिं द्योतयति। अत एषु वस्वादीनामनधिकारः॥३१॥
सिद्धान्तः, बादरायणमतम्
इति प्राप्तेऽभिधीयते
९७. भावं तु बादरायणोऽस्ति हि ॥ १–३–३२ ॥
आदित्यवस्वादीनामपि तेष्वधिकारभावं भगवान्बादरायणो मन्यते। अस्ति ह्यादित्यवस्वादीनामपि स्वावस्थब्रह्मोपासनेन वस्वादित्वप्राप्तिपूर्वकब्रह्मप्रेप्सासम्भवः। इदानीं वस्वादीनामपि सतां कल्पान्तरेऽपि वस्वादित्वप्राप्तिश्चापेक्षिता भवति।
उक्तार्थोपपादनम्
अत्र हि कार्यकारणोभयावस्थब्रह्मोपासनं विधीयते असौ वा आदित्यो देवमधु (छा.३.१.१.) इत्यारभ्य अथ तत ऊर्ध्व उदेत्य (छां.३.११.१) इत्यतः प्रागादित्यवस्वादिकार्यविशेषावस्थं ब्रह्मोपास्यमुपदिश्यते; अथ तत ऊर्ध्व उदेत्य (छां.३.११.१) इत्यादिना आदित्यान्तरात्मतयाऽवस्थितं कारणावस्थमेव ब्रह्मोपास्यमुपदिश्यते। तदेवं कार्यकारणोभयावस्थं ब्रह्मोपासीनः कल्पान्तरे वस्वादित्वं प्राप्य तदन्ते कारणं परं ब्रह्मैवाप्नोति।
मधुविद्यायाः ब्रह्मविद्यात्वम्
न ह वा अस्मा उदेति न निम्रोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपिनषदं वेद (छा.३.११.३) इति कृत्स्नाया मधुविद्याया ब्रह्मोपनिषत्त्वश्रवणाद्ब्रह्मप्राप्तिपर्यन्तवस्वादित्वफलस्य श्रवणाच्च वस्वादिभोग्यभूतादित्यांशस्य विधीयमानमुपासनं तदवस्थस्यैव ब्रह्मण इत्यवगम्यते। अत एवंविधमुपासनमादित्यवस्वादीनामपि सम्भवति। एवञ्च ब्रह्मण एवोपास्यत्वात् तं देवा ज्योतिषां ज्योतिः (बृ.६.४.१६) इत्यप्युपपद्यते। तदाह वृत्तिकारः अस्ति हि मध्वादिषु सम्भवो ब्रह्मण एव सर्वत्र निचाय्यत्वात् इति ॥
इति श्रीशारीरकमीमांसाभाष्ये मध्वधिकरणम्॥ ८॥