॥श्रीशारीरकमीमांसाभाष्ये प्रमिताधिकरणम्॥६॥
अधिकरणार्थः – अङ्गुष्टपरिमाणपरिमितत्वेन श्रुत्युक्तः परमात्मैव, न कर्मवश्यो जीवः
अङ्गुष्टप्रमितविद्या – नाचिकेतविद्या वा कठ.उ. 4-12)
८८. शब्दादेव प्रमितः ॥ १–३–२३ ॥
विषयवाक्यप्रदर्शनम्
कठवल्लीषु श्रूयते अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वैतत् (कठ.२.४.१२) अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः। ईशानो भूतभव्यस्य स एवाद्य स उ श्वः। एतद्वैतत् (कठ.२.४.१३) अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः। तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवैषीकां धैर्येण। तं विद्याच्छुक्रममृतम् (कठ.२६.१७) इति।
संशयाकारः
तत्र सन्दिह्यते – किमयमङ्गुष्ठमात्रप्रमितः प्रत्यगात्मा, उत परमात्मा इति।
सयुक्तिकः पूर्वः पक्षः
किं युक्तम्? प्रत्यगात्मेति। कुत**😕** जीवस्यान्यत्राङ्गुष्ठमात्रत्वश्रुतेः प्राणाधिपस्सञ्चरति स्वकर्मभिः। अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः (श्वे.५.८.७) इति। नचान्यत्रोपासनार्थतयाऽपि परमात्मनोऽङ्गुष्ठमात्रत्वं श्रूयते। एवं निश्चिते जीवत्वे ईशानत्वं शरीरेन्द्रियभोग्यभोगोपकरणापेक्षयाऽपि भविष्यति॥ः
सिद्धान्तारम्भः
इति प्राप्ते ब्रूमः – शब्दादेव प्रमितः अङ्गुष्ठप्रमितः परमात्मा; कुत**😕** ईशानो भूतभव्यस्य (कठ.२.४.१३) इति शब्दादेव; न च भूतभव्यस्य सर्वस्येशितृत्वं कर्मपरवशस्य जीवस्योपपद्यते॥२३॥
उत्तरसूत्रार्थशङ्का
कथं तर्हि परमात्मनोऽङ्गुष्ठमात्रत्वमित्यत्राह –
८९. हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ १–३–२४ ॥
परमात्मनः अङ्गुष्टप्रमिततानिदानम्
परमात्मन उपासनार्थमुपासकहृदये वर्तमानत्वादुपासकहृदयस्याङ्गुष्ठप्रमाणत्वात्तदपेक्षयेदं अङ्गुष्ठप्रमितत्वमुपपद्यते, जीवस्याप्यङ्गुष्ठप्रमितत्वं हृदयान्तर्वर्तित्वात्तदपेक्षमेव; तस्याराग्रमात्रत्व-श्रुतेः। मनुष्याणामेवोपासकत्वसम्भावनाया शास्त्रस्य मनुष्याधिकारत्वान्मनुष्य-हृद्यस्य च तत्तदङ्गुष्ठप्रमितत्वात्खरतुरगभुजगादीनामनङ्गुष्ठप्रमितत्वेऽपि न कश्चिद्दोषः । स्थितं तावदुत्तरत्र समापयिष्यते॥२४॥
इति श्रीशारीरिकमीमांसाभाष्ये प्रमिताधिकरणम्॥६॥