अथ श्रीशारीरकमीमांसाभाष्ये प्रथमे समन्वयाध्याये
अन्ययोगव्यवच्छेदत्रिपादी
द्वितीयः पादः
सर्वत्रप्रसिद्ध्यधिकरणम् ॥१॥
अस्पष्टजीवादिलिङ्गकवेदान्तवाक्यविचाररूपः
पादार्थः – परमात्मनः सर्वशरीरकत्वम्
पूर्वपादीयः जिज्ञासाधिकरणार्थः
प्रथमे पादे अधीतवेदः पुरुषः कर्ममीमांसाश्रवणाधिगतकर्मयाथात्म्यज्ञानः केवलकर्मणां अल्पास्थिरफलत्वमवगम्य, वेदान्तवाक्येषु चापातप्रतीतानन्तस्थिरफलब्रह्मस्वरूप तदुपासनसमुप-जातपरमपुरुषार्थलक्षणमोक्षापेक्षोऽवधारितपरिनिष्पन्नवस्तुबोधनशब्दशक्तिः वेदान्तवाक्यानां परस्मिन् ब्रह्मणि निश्चितप्रमाणभावस्तदितिकर्तव्यतारूपशारीरकमीमांसा-श्रवणमारभेतेत्युक्तं शास्त्रारम्भसिद्धये ॥१॥
जन्माद्यधिकरणार्थः
अनन्तविचित्रस्थिरत्रसरूपभोक्तृभोग्यभोगोपकरणभोगस्थानलक्षणनिखिलजगदुदयविभवलय-महानन्दैककारणं परं ब्रह्म यतो वा इमानि इत्यादिवाक्यं बोधयतीति च प्रत्यपादि॥२॥
शास्त्रयोनित्वाधिकरणार्थः
जगदेककारणं परं ब्रह्म सकलेतरप्रमाणाविषयतया शास्त्रैकप्रमाणकमित्यभ्यधाम॥३॥
समन्वयाधिकरणार्थः
शास्त्रप्रमाणकत्वं च ब्रह्म प्रवृत्तिनिवृत्त्यन्वयविरहेऽपि स्वरूपेणैव परमपुरुषार्थभूते परस्मिन् ब्रह्मणि वेदान्तवाक्यानां समन्वयान्निरुह्यत इत्यब्रूम॥४॥
ईक्षत्यधिकरणार्थः
निखिलजगदेककारणतया वेदान्तवेद्यं ब्रह्म च ईक्षणाद्यन्वयादानुमानिक-प्रधानादर्थान्तरभूतः चेतनविशेष एवेत्युपापीपदाम॥ ५॥
आनन्दमयाधिकरणार्थः
स च स्वाभाविकानवधिकातिशयानन्दविपश्चित्त्वनिखिलचेतनभयाभयहेतुत्वसत्यसङ्कल्पत्व-समस्त-चेतनाचेतनान्तरात्मत्वादिभिर्बद्धमुक्तोभयावस्थाज्जीव शब्दााभिलपनीयाच्चार्थान्तरभूत इति च समार्तिथामहि॥६॥
अन्तरधिकरणार्थः
स चाप्राकृताकर्मनिमित्तस्वासाधारणदिव्यरूप इत्युदैरिराम॥ ७॥
आकाशाधिकरणार्थः
आकाशप्राणाद्यचेतनविशेषाभिधायिभिर्जगत्कारणतया प्रसिद्धवन्निर्दिश्यमानः सकलेतरचेतन-अचेतनविलक्षणस्स एवेति समगरिष्महि॥ ८॥
ज्योतिरधिकरणार्थः
परतत्त्वासाधारणनिरतिशयदीप्तियुक्तज्योतिश्शब्दाभिधेयो द्युसम्बन्धितया प्रत्यभिज्ञानात्स एवेत्यातिष्ठामहि॥ ९ ॥
इन्द्रप्राणाधिकरणार्थः
परमकारणसाधारणामृतत्वप्राप्तिहेतुभूतः परमपुरुष एव शास्त्रदृष्ट्येन्द्रादिशब्दैरभिधीयत इत्यब्रूमहि ॥१०॥
आहत्य प्रथमपादार्थसारः
तदेवमतिपतितसकलेतरप्रमाणसम्भावनाभूमिस्सार्वज्ञ्यसत्यसङ्कल्पत्वाद्यपरिमितोदारगुणसागरतया स्वेतरसमस्तवस्तुविलक्षणः परं ब्रह्म पुरुषोत्तमो नारायण एव वेदान्तवेद्य इत्युक्तम्॥११॥
अनन्तरत्रिपाद्या अर्थः
अतः परं द्वितीयतृतीयचतुर्थेषु पादेषु यद्यपि वेदान्तवेद्यं ब्रह्मैव, तथापि कानिचिद्वेदान्तवाक्यानि प्रधानक्षेत्रज्ञान्तर्भूतवस्तुविशेषस्वरूपप्रतिपादनपराण्येवेत्याशङ्कय तन्निरसनमुखेन तत्तद्वाक्योदितकल्याणगुणाकरत्वं ब्रह्मणः प्रतिपाद्यते।
त्रिपाद्यामपि प्रतिपादम् अर्थसारः
तत्रास्पष्टजीवादिलिङ्गकानि वाक्यानि द्वितीये पादे विचार्यन्ते; स्पष्टलिङ्गकानि तृतीये, तत्तत्प्रतिपादनच्छायानुसारीणि चतुर्थे॥
३३. सर्वत्र प्रसिद्धोपदेशात् ॥ १-२-१ ॥
(अधिकरणार्थः – ब्रह्मण एव सर्वात्मभावेनावस्थानम्)
(शाण्डिल्यविद्या छा.उ.3.14)
इदमाम्नायते छान्दोग्ये – अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः (छा.३.१४.१) इत्यादि॥
जिज्ञास्यो विषयः
अत्र स क्रतुं कुर्वीत (छा.३.१४.१) इति प्रतिपादितस्योपासनस्योपास्यः मनोमयः प्राणशरीरः (छा.३.१४.१) इति निर्दिश्यत इति प्रतीयते ॥
संशयाकारः
तत्र संशयः – किं मनोमयत्वादिगुणकः क्षेत्रज्ञः; उत परमात्मा – इति ॥
पूर्वपक्षस्वरूपम्
किं युक्तम्? क्षेत्रज्ञ इति। कुतः? मनःप्राणयोः क्षेत्रज्ञोपकरणत्वात्, परमात्मनस्तु अप्राणो ह्यमनाः (मुं.२.१.२) इति तत्प्रतिषेधाच्च। न च सर्वं खल्विदं ब्रह्म (छां.३.१४.१) इति पूर्वनिर्दिष्टं ब्रह्मात्रोपास्यतया सम्बद्धुं शक्यते, शान्त उपासीत (छां.३.१४.१) इत्युपासनोपकरणशान्ति-निर्वृत्त्युपायभूतब्रह्मात्मकत्वोपदेशायोपात्तत्वात् ॥
सिद्धान्तमाशङ्क्य पूर्वपक्षस्थिरीकरणम्
न च स क्रतुं कुर्वीत (छां.३.१४.१) इत्युपासनस्योपास्यसाकाङ्क्षत्वाद्वाक्यान्तरस्थमपि ब्रह्म सम्बध्यत इति युक्तं वक्तुम्, स्ववाक्योपात्तेन मनोमयत्वादिगुणकेन निराकाङ्क्षत्वात्; मनोमयः प्राणशरीरः (छां.३.१४.१) इत्यनन्यार्थतया निर्दिष्टस्य विभक्तिविपरिणाममात्रेण उभयाकाङ्क्षानिवृत्तिसिद्धेः। एवं निश्चिते जीवत्वे एतद्ब्रह्म (छां.३.१४.१) इत्युपसंहारस्थ-ब्रह्मपदमपि जीव एव पूजार्थं प्रयुक्तमित्यध्यवसीयत इति॥
सिद्धान्तारम्भः
एवं प्राप्ते ब्रूमः- सर्वत्र प्रसिद्धोपदेशात्
सूत्रार्थविवरणम्
नोमयत्वादिगुणकः परमात्मा कुतः सर्वत्र – वेदान्तेषु परस्मिन्नेव ब्रह्मणि प्रसिद्धस्य मनोमयत्वादेरुपदेशात्। प्रसिद्धं हि मनोमयत्वादि ब्रह्मणः। यथा मनोमयः प्राणशरीरनेता (मुं.२.२.७) स एषोऽन्तर्हृादय आकाशः। तस्मिन्नयं पुरुषो मनोमयः। अमृतो हिरण्मयः (तै.शिक्षा ६.३) हृदा मनीषा मनसाऽभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति (तै.नारा.३) न चक्षुषा गृह्यते नापि वाचा (मु.३.१.८), मनसा तु विशुद्धेन तथा प्राणस्य प्राणः (केन.१.२), अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति (कौषी.३.२), सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते (छां.१.११.५) इत्यादिषु ॥
परमात्मनि मनःप्राणसम्बन्धोपपादनम्
मनोमयत्वं – विशुद्धेन मनसा ग्राह्यत्वम्। प्राणशरीरत्वं – प्राणस्याप्याधारत्वं नियन्तृत्वं च। एवं च सति एष म आत्माऽर्न्तहृदय एतद्ब्रह्म (छा.३.१४.४) इति ब्रह्मशब्दोऽपि मुख्य एव भवति। अप्राणो ह्यमनाः (मु.२.१.२) इति मन आयत्तं ज्ञानं प्राणायत्तां स्थितिं च ब्रह्मणो निषेधति।
स्वाभिमता अधिकरणयोजना, तत्र जिज्ञायविषयनिर्देशः
अथवा सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत (छा.३.१४.१) इत्यत्रैवोपासनं विधीयते – सर्वात्मकं ब्रह्म शान्तस्सन्नुपासीतेति। स क्रतुं कुर्वीत (छा.३.१४.१) इति तस्यैव गुणोपादनार्थोऽनुवादः। उपादेयाश्च गुणा मनोमयत्वादयः; यतस्सर्वात्मकं ब्रह्म मनोमयत्वादिगुणकमुपासीतेति वाक्यार्थः ॥
संशयस्वरूपनिर्देशः
तत्र सन्देहः – किमिह ब्रह्मशब्देन प्रत्यगात्मा निर्दिश्यते; उत परमात्मा – इति।
सयुक्तिकः पूर्वपक्षः
किं युक्तम्? प्रत्यगात्मेति। कुतः? तस्यैव सर्वपदसामानाधिकरण्यनिर्देशोपपत्तेः। सर्वशब्दनिर्दिष्टं हि ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत्। ब्रह्मादिभावश्च प्रत्यगात्मनोऽनाद्यविद्यामूलकर्मविशेषोपाधिको विद्यत एव; परस्य तु ब्रह्मणस्सर्वज्ञस्य सर्वशक्तेरपहतपाप्मनो निरस्तसमस्ताविद्यादिदोषगन्धस्य समस्तहेयाकरसर्वभावो नोपपद्यते ॥
जीवे ब्रह्मशब्दप्रयोगोपपत्तिः
प्रत्यगात्मन्यपि क्वचित्क्वचिद्ब्रह्मशब्दः प्रयुज्यते। अत एव परमात्मा परं ब्रह्मेति परमेश्वरस्य क्वचित्सविशेषणो निर्देशः। प्रत्यगात्मनश्च निर्मुक्तोपाधेर्बृहत्वं च विद्यते स चानन्त्याय कल्पते (श्वे.५.९) इति श्रुतेः। अविदुषस्तस्यैव कर्मनिमित्तत्वाज्जन्मस्थितिलयानां तज्जलानिति हेतुनिर्देशोऽप्युपपद्यते। तदयमर्थः – अयं जीवात्मा स्वतोऽपरिच्छिन्नस्वरूपत्वेन ब्रह्मभूतस्सन्ननाद्यविद्यया देवतिर्यङ्मनुष्यस्थावरात्मनाऽवतिष्ठते- इति।
सिद्धान्तस्वरूपम्
अत्र प्रतिविधीयते – सर्वत्र प्रसिद्धोपदेशात् – सर्वत्र – सर्व खल्विदम् (छा.३.१४.१) इति निर्दिष्टे सर्वस्मिन् जगति ब्रह्मशब्देन तदात्मतया विधीयमानं परं ब्रह्मैव, न प्रत्यगात्मा। कुतः? प्रसिद्धोपदेशात्, तज्जलान् (छां.३.१४.१) इति हेतुतः सर्वं खल्विदं ब्रह्म इति प्रसिद्धवदुपदेशात्। ब्रह्मणो जातत्वाद् ब्रह्मणि लीनत्वाद्ब्रह्माधीनजीवनत्वाच्च हेतोर्ब्रह्मात्मकं सर्वं खल्विदं जगदित्युक्ते यस्माज्जगज्जन्मस्थितिलया वेदान्तेषु प्रसिद्धास्तदेवात्र ब्रह्मेति प्रतीयते ॥
सूत्रोक्तार्थोपपादनम्
तच्च परमेव ब्रह्म; तथाहि यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्म (तै.भृ.१) इत्युपक्रम्य आनन्दो ब्रह्मेति व्यजानात्, आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते (तै.भृ.६) इत्यादिना पूर्वानुवाकप्रतिपादित- अनवधिकातिशयानन्दयोगिनो विपिश्चतः परस्माद्ब्रह्मण एव जगदुत्पत्तिस्थितलया निर्दिश्यन्ते; तथा स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः (श्वे.६.९) इति करणाधिपस्य जीवस्याधिपः परं ब्रह्मैव कारणं व्यपदिश्यते। एवं सर्वत्र परस्यैव ब्रह्मणः कारणत्वं प्रसिद्धम् ॥
जगद्ब्रह्मणोः तादात्म्यस्य स्थिरीकरणम्
अतः परब्रह्मणो जातत्वात्तस्मिन् प्रलीनत्वात्तेन प्राणनात्तदात्मकतया तादात्म्यमुपपन्नम्।अतस्सर्वप्रकारं सर्वशरीरं सर्वात्मभूतं परं ब्रह्म शान्तो भूत्वोपासीतेति श्रुतिरेव परस्य ब्रह्मणस्सर्वात्मकत्वमुपपाद्य तस्योपासनमुपदिशति। परं ब्रह्म हि कारणावस्थं कार्यावस्थं सूक्ष्मस्थूलचिदचिद्वस्तुशरीरतया सर्वदा सर्वात्मभूतम् ॥
लक्षणतः सर्वतादात्म्येऽप्यपुरुषार्थासंस्पर्शः
एवम्भूततादात्म्यस्य प्रतिपादने परस्य ब्रह्मणस्सकलहेयप्रत्यनीककल्याणगुणाकरत्वं न विरुध्यते, प्रकारभूतशरीरगतानां दोषाणां प्रकारिण्यात्मन्यप्रसङ्गात्, प्रत्युत निरतिशयैश्वर्यापादनेन गुणायैव भवतीति पूर्वमेवोक्तम्॥
जीवस्य सर्वतादात्म्यायोगः
यदुक्तं जीवस्य सर्वतादात्म्यमुपपद्यत इति; तदसत्, जीवानां प्रतिशरीरं भिन्नानामन्योन्य-तादात्म्यासम्भवात्। मुक्तस्याप्यनवच्छिन्नस्वरूपस्यापि जगत्तादात्म्यं जगज्जन्मस्थिति-प्रलयकारणत्वनिमित्तं न सम्भवतीति जगद्व्यापारवर्जम् (शारी.४.४.१७) इत्यत्र वक्ष्यते । जीवकर्मनिमित्तत्वात् जगज्जन्मस्थितिलयानां स एव कारणमित्यपि न साधीयः, तत्कर्मनिमित्तत्वेऽपि श्वरस्यैव जगत्कारणत्वात् ॥
सूत्रार्थोपसंहारः
अतः परमात्मैवाऽत्र ब्रह्मशब्दाभिधेयः। इममेव सूत्रार्थमभियुक्ता बहुमन्वते। यथाह वृत्तिकारः – सर्वं खल्विति सर्वात्मा ब्रह्मेशः इति॥ १॥
श्रुत्युक्तगुणयोगस्य ब्रह्मणि सर्वतादात्म्योपपादकत्वम्
३४. विविक्षतगुणोपपत्तेश्च ॥ १-२-२ ॥
वक्ष्यमाणाश्च गुणाः परमात्मन्येवोपपद्यन्ते मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादरः (छां.३.१४.२) इति। मनोमयः – परिशुद्धेन मनसैकेन ग्राह्यः; विवेकविमोकादिसाधनसप्तकानुगृहीत-परमात्मोपासननिर्मलीकृतेन हि मनसा गृह्यते। अनेन हेयप्रत्यनीककल्याणैकतानतया सकलेतरविलक्षणस्वरूपतोच्यते; मलिनमनोभिर्मलिनानामेव ग्राह्यत्वात्। प्राणशरीरः – जगति सर्वेषां प्राणानां धारकः। प्राणो यस्य शरीरम् आधेयं विधेयं शेषभूतं च स प्राणशरीरः। आधेयत्वविधेयत्वशेषत्वानि शरीरशब्दप्रवृत्तिनिमित्तानी- त्युपपादयिष्यते। भारूपः – भास्वररूपः; अप्राकृतस्वासाधारणनिरतिशयकल्याणदिव्यरूपत्वेन निरतिशयदीप्तियुक्त इत्यर्थः। सत्यसङ्कल्पः – अप्रतिहतसङ्कल्पः। आकाशात्मा – आकाशवत्सूक्ष्मस्वच्छस्वरूपः; सकलेतरकारणभूतस्य आकाशस्याप्यात्मभूत इति वा आकाशात्मा; स्वयं च प्रकाशते अन्यानपि प्रकाशयतीति वा आकाशात्मा। सर्वकर्मा क्रियत इति कर्म; सर्वं जगद्यस्य कर्म, असौ सर्वकर्मा; सर्वा वा क्रिया यस्यासौ सर्वकर्मा। सर्वकामः – काम्यन्त इति कामाः- भोग्यभोगोपकरणादयः; ते परिशुद्धाः सर्वविधास्तस्य सन्तीत्यर्थः। सर्वगन्धः सर्वरसः – अशब्दमस्पर्शम् (कठ.१.३.१५) इत्यादिना प्राकृतगन्धरसादिनिषेधादप्राकृताः स्वासाधारणा निरवद्या निरतिशयाः कल्याणाः स्वभोग्यभूतास्सर्वविधा गन्धरसास्तस्य सन्तीत्यर्थः। सर्वमिदमभ्यात्तः – उक्तं रसपर्यन्तं सर्वमिदं कल्याणगुणजातं स्वीकृतवान्। अभ्यात्तः इति भुक्ता ब्राह्मणाः इतिवत्कर्तरिक्तः प्रतिपत्तव्यः। अवाकी – वाकः उक्तिः; सोऽस्य नास्तीत्यवाकी। कुत इत्याह – अनादर इति अवाप्तसमस्तकामत्वेनादर्तव्याभावादादररहितः। अत एव अवाकी-अजल्पाकः; परिपूर्णैश्वर्यत्वात् ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगत्तृणीकृत्य जोषमासीन इत्यर्थः। त एते विविक्षता गुणाः परमात्मन्येवोपपद्यन्ते॥२॥
उक्तानां गुणानां, व्यतिरेकतः परमात्मनि दृढीकारः
३५. अनुपपत्तेस्तु न शारीरः॥ १-२-३ ॥
तमिमं गुणसागरं पर्यालोचयतां खद्योतकल्पस्य शरीरसम्बन्धनिबन्धनापरिमित-दुःखसम्बन्धयोग्यस्य बद्धमुक्तावस्थस्य जीवस्य प्रस्तुतगुणलेशसम्बन्धगन्धोऽपि नोपपद्यत इति नास्मिन् प्रकरणे शारीरपरिग्रहशङ्का जायत इत्यर्थः॥३॥
एतदधिकरणीयपरमसाध्यहेतुकथनम्
३६. कर्मकर्तृव्यपदेशाच्च ॥ १-२-४ ॥
एतमितः प्रेत्याभिसम्भिवताऽस्मि (छा.३.१४.४) इति प्राप्यतया परं ब्रह्म व्यपदिश्यते, प्राप्ततृतया च जीवः। अतः प्राप्ता जीव उपासकः, प्राप्यं परं ब्रह्मोपास्यमिति प्राप्तुरन्यदेवेदमिति विज्ञायते ॥४॥
विभक्तिविशेषनिर्देशात् ब्रह्मपदवाच्यः परमात्मा
३७. शब्दविशेषात् ॥ १-२-५ ॥
एष म आत्माऽन्तर्हृदये (छा.३.१४.३) इति शारीरष्षष्ठ्या निर्दिष्टः उपास्यस्तु प्रथमया। एवं समानप्रकरणे वाजिनां च श्रुतौ शब्दविशेषश्श्रूयते जीवपरयोः; यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वा एवमयमन्तरात्मन् पुरुषो हिरण्मयो यथा ज्योतिरधूमम् (शत.ब्रा.१.६.३) इति। अत्र अन्तरात्मन् इति सप्तम्यन्तेन शारीरो निर्दिश्यते; पुरुषो हिरण्मयः इति प्रथमयोपास्यः। अतः पर एवोपास्यः॥
हृदयस्थे ईश्वरतायाः उपबृंहणतः स्थापनम्
इतश्च शारीरादन्यः-
३८. स्मृतेश्च ॥ १-२-६ ॥
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनञ्च (भ.गी.१५.१५) यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् (गी.१५.१९), ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया। तमेव शरणं गच्छ (गी.१८-६१) इति शारीरमुपासकं, परमात्मानं चोपास्यं स्मृतिर्दर्शयति॥ ६॥
हृदयाख्याल्पदेशस्थितेः जीवत्वज्ञापकताशङ्कापरिहारौ
३९. अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ १-२-७ ॥
अल्पायतनत्वमर्भकौकस्त्वम्, तद्व्यपदेशः – अल्पत्वव्यपदेशः। एष म आत्माऽन्तर्हृादये (छा.३.१४.३) इत्यणीयसि हृदयायतने स्थितत्वात् अणीयान् व्रीहेर्वा यवाद्वा (छां.३.१४.३) इत्यादिनाऽणीयस्त्वस्य स्वरूपेण व्यपदेशाच्च नायं परमात्मा, अपि तु जीव एव; सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः (मुण्ड.१.१.६) इत्यादिभिः परमात्मनोऽपरिच्छन्नत्व -अवगमात्, जीवस्य चाराग्रमात्रत्वव्यपदेशादिति चेत् –
नैतदेवम्, परमात्मैव ह्यणीयानित्येवं निचाय्यत्वेन व्यपदिश्यते; एवं निचाय्यत्वेन – एवं द्रष्टव्यत्वेन, एवमुपास्यत्वेनेति यावत्। न पुनरणीयस्त्वमेवास्य स्वरूपमिति; व्योमवच्चायं व्यपदिश्यते, स्वाभाविकमहत्त्वं चात्रैव व्यपदिश्यते – ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः (छां.३.१४.१) इति। अत उपासनार्थमेवाल्पत्वव्यपदेशः। तथाहि –
अल्पायतनत्वाद्युपदेशस्य उपासनार्थत्वदृढीकरणम्
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत (मुण्ड.३.१४.४) इति सर्वोत्पत्तिप्रलयकारणत्वेन सर्वस्याऽत्मतया अनुप्रवेशकृतजीवयितृत्वेन च सर्वात्मकं ब्रह्मोपासीतेत्युपासनं विधाय अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिल्लोंके पुरुषो भवति तथेतः प्रेत्य भवति (छां.३.१४.४) इति यथोपासनं प्राप्यसिद्धिमभिधाय स क्रतुं कुर्वीत इति गुणविधानार्थमुपासनमनूद्य (छां.३.१४.४) मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धरस्सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः (छां.३.१४.४) इति जगदैश्वर्यविशिष्टस्य स्वरूपगुणांश्चोपादेयान् प्रतिपाद्य एष म आत्माऽन्तर्हृादयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाक-तण्डुलाद्वा (छां.३.१४.४) इत्युपासकस्य हृदयेऽणीयस्त्वेन तदात्मतयोपास्यस्य परमपुरुषस्योपासनार्थमवस्थानमुक्त्वा एष म आत्माऽन्तर्हृादये ज्यायान् पृथिव्या ज्यायानन्तरक्षाज्ज्यायान्दिवो ज्यायानेभ्योलोकेभ्यस्सर्वकर्मा सर्वकामस्सर्वरसस्सर्वमिदं अभ्यात्तः अवाक्यनादरः (छां.३.१४.१,४) इत्यन्तर्हृादयेऽवस्थितस्य उपास्यमानस्य प्राप्याकारं निर्दिश्य एष म आत्माऽन्तर्हादय एतद्ब्रह्म इत्येवं भूतं परं ब्रह्म परमकारुण्येनास्मदुज्जिजीवयिषया अस्मद्धृदये सन्निहितमितीदमनुसन्धानं विधाय एतमितः प्रेत्याभिसम्भवितास्मि (छां.३.१४.४) इति यथोपासनं प्राप्तिनिश्चयानुसन्धानं च विधाय इति यस्य स्यादद्धा न विचिकत्साऽस्ति (छां.३.१४.४) इत्येवंविधप्राप्यप्राप्तिनिश्चयोपेतस्योपासकस्य प्राप्तौ न संशयोऽस्तीत्युपसंहृतम्। अत उपासनार्थं अर्भकौकस्त्वमणीयस्त्वं च॥७॥
ब्रह्मणः जीवशरीरान्तर्वर्तित्वे सुखदुःखोपभोजशङ्कापरिहारौ
४०. सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ १-२-८ ॥
जीवस्येव परस्यापि ब्रह्मणश्शरीरान्तर्वर्तित्वमभ्युपगतं चेत् – तद्वदेव शरीरसम्बन्धप्रयुक्त-सुखदुःखोपभोगप्राप्तिरिति चेत् – तन्न, हेतुवैशेष्यात् – न हि शरीरान्तर्वर्तित्वमेव सुखदुःखोप-भोगहेतुः; अपि तु पुण्यपापरूपकर्मपरवशत्वम्; तत्त्वपहतपाप्मनः परमात्मनो न सम्भवति। तथा च श्रुतिः तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति (मुण्ड.३.११) इति ॥८॥
इति श्रीशारीरकमीमांसाभाष्ये सर्वत्रप्रसिद्ध्यधिकरणम्॥१॥