॥ श्रीशारीरकमीमांसाभाष्ये ज्योतिरधिकरणम् ॥
अधिकरणार्थः
ज्योतिष्ट्वेनोपास्यं, जिज्ञास्यं ब्रह्मैव, न आदित्यादिकम्
कौक्षेयज्योतिर्विद्या गायत्रीविद्या च छा.उ. 3-12,13
वक्ष्यमाणाधिकरणद्वयस्य पेटिकान्तरत्वम्
अतः परं जगत्कारणत्वव्याप्तेन येनकेनापि निरतिशयोत्कृष्टगुणेन जुष्टं ज्योतिरिन्द्रादिशब्दैरर्थान्तरप्रसिद्धैरप्यभिधीयमानं परं ब्रह्मैवेत्यभिधीयते – ज्योतिश्चरणाभिधानात् इत्यादिना
२५. ज्योतिश्चरणाभिधानात् ॥ १-१-२५ ॥
विषयवाक्यप्रदर्शनम्
इदमाम्नायते छान्दोग्ये – अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः (छा.३.१३.७) इति ॥
अधिकरणाङ्गभूतः संशयः
तत्र संशयः – किमयं ज्योतिश्शब्देन निर्दिष्टो निरतिशयदीप्तियुक्तोऽर्थः प्रसिद्धमादित्यादिज्योतिरेव कारणभूतं ब्रह्म, उत समस्तचिदचिद्वस्तुजातविसजातीयः परमकारणभूतोऽमितभास्सर्वज्ञः सत्यसङ्कल्पः पुरुषोत्तमः – इति ॥
सयुक्तिकं पूर्वपक्षस्वरूपम्
किं युक्तम्? प्रसिद्धमेव ज्योतिरिति। कुतः प्रसिद्धवन्निर्देशेऽप्याकाशप्राणादिवत् स्ववाक्योपात्तपरमात्मव्याप्तलिङ्गविशेषादर्शनात्, परमपुरुष-प्रत्यभिज्ञानासम्भवात्, कौक्षेयज्योतिषा ऐक्योपदेशाच्च प्रसिद्धमेव ज्योतिः कारणत्वव्याप्तनिरतिशयदीप्तियोगाज्जगत्कारणं ब्रह्मेति ॥
सिद्धान्तस्वरूपम्
एवं प्राप्ते प्रचक्ष्महे ज्योतिश्चरणाभिधानात् – द्युसम्बन्धितया निर्दिष्टं निरतिशयदीप्तियुक्तं ज्योतिः परमपुरुष एव। कुतः पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि (छां.३.१२.६) इत्यस्यैव द्युसम्बन्धिनश्चरणत्वेन सर्वभूताभिधानात्॥
एतदुक्तं भवति – यद्यपि अथ यदतः परो दिवो ज्योतिः (छा.३.१३.७) इत्यस्मिन्वाक्ये परमपुरुषासाधारणलिङ्गं नोपलभ्यते; तथापि पूर्ववाक्ये द्युसम्बन्धितया परमपुरुषस्य निर्देशादिदमपि द्युसम्बन्धिज्योतिस्स एवेति प्रत्यभिज्ञायत इति। कौक्षेयज्योतिषैक्योपदेशश्च फलाय तदात्मकत्वानुसन्धानविधिरिति न कश्चिद्दोषः। कौक्षेयज्योतिषश्च तदात्मकत्वं भगवता स्वयमेवोक्तम् अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः (भ.गी.१५.१४) इति॥
२६. छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगमात्तथाहि दर्शनम् ॥ १-१-२६ ॥
पूर्वस्मिन्वाक्ये गायत्री वा इदं सर्वम् (छां.३.१२.१) इति गायत्र्याख्यं छन्दोऽभिधाय तदेतदृचाऽभ्यनूक्तम् (छा.३-१२-५) इत्युदाहृतायाः तावानस्य महिमा (छां.३.१२.६) इत्यस्या ऋचोऽपि छन्दोविषयत्वान्नात्र परमपुरुषाभिधानमिति चेत् –
तन्न, तथा चेतोर्पणनिगमात् न गायत्रीशब्देन छन्दोमात्रमिहाभिधीयते, छन्दोमात्रस्य सर्वात्मकत्वानुपपत्तेः, अपि तु ब्रह्मण एव गायत्रीचेतोर्पणमिह निगम्यते। ब्रह्मणि गायत्रीसादृश्यानुसन्धानं फलायोपदिश्यत इत्यर्थः । सम्भवति च पादोऽस्य सर्वा भूतानि। त्रिपादस्यामृतं दिवि (छा.३.१२.६) इति चतुष्पदो ब्रह्मणश्चतुष्पदया गायत्र्या च सादृश्यम्। चतुष्पदा च गायत्री क्वचिद्दृश्यते। तद्यथा इन्द्रश्शचीपतिः। बलेन पीडितः। दुश्च्यवनो वृषा। समित्सुसासहिः इति। तथा ह्यन्यत्रापि सादृश्याच्छन्दोभिधायी शब्दोऽर्थान्तरे प्रयुज्यमानो दृश्यते। यथा संवर्गविद्यायाम् ते वा एते पञ्चान्ये पञ्चान्ये दश सम्पद्यन्त इत्यारभ्य सैषा विराडन्नात् (छा.४.३.८) इत्युच्यते॥ २६॥
इतश्च गायत्रीशब्देन ब्रह्मैवाभिधीयते –
२७. भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ १-१-२७ ॥
योग्यतायाः अर्थनिर्णायकत्वम्
भूतपृथिवीशरीरहृदयानि निर्दिश्य सैषा चतुष्पदा (छा.३.१२.५) इति व्यपदेशो ब्रह्मण्येव गायत्रीशब्दाभिधेय उपपद्यते।
२८. उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ १-१-२८ ॥
उपदेशाकारवैलक्षण्यतः पूर्वोत्तरवाक्ययोः अनैकार्थ्यम् इति शङ्का, तत्परिहारश्च
पूर्ववाक्ये त्रिपादस्यामृतं दिवि (छां.६.१२.६) इति दिवः अधिकरणत्वेन निर्देशादिह च दिवः पर इत्यवधित्वेन निर्देशादुपदेशस्य भिन्नरूपत्वेन पूर्ववाक्योक्तं ब्रह्म परस्मिन्न प्रत्यभिज्ञायत इति चेत् – तन्न, उभयस्मिन्नपि उपदेशे अर्थस्वभावैक्येन प्रत्यभिज्ञाया अविरोधात्; यथा वृक्षाग्रे श्येनो वृक्षाग्रात्परतश्श्येनः इति। तस्मात्परमपुरुष एव निरतिशयतेजस्को दिवः परो ज्योतिर्दीप्यत इति प्रतिपाद्यते ॥
अधिकरणार्थनिगमनम्
एतावानस्य महिमा। अतो ज्यायांश्च पुरुषः। पादोऽस्य विश्वाभूतानि। त्रिपादस्यामृतं दिवि (यजु.आर.३.१२) इति प्रतिपादितस्य चतुष्पदः परमपुरुषस्य वेदाहमेतं पुरुषं महान्तम्। आदित्यवर्णं तमस्स्तु पारे (ते.आर.३.१२) इत्यभिहिताप्राकृतरूपस्य तेजोऽप्यप्राकृतमिति तद्वत्तया स एव ज्योतिश्शब्दाभिधेय इति निरवद्यम्॥
इति श्रीशारीरकमीमांसाभाष्ये ज्योतिरधिकरणम्॥१०॥