श्रीशारीरकमीमांसाभाष्ये आकाशाधिकरणम्॥८॥
अधिकरणार्थः
आकाशत्वेनोपास्यः परमात्मैव, न भौतिकाकाशः
आकाशविद्या – (छा.उ. 1-9)
पेटिकाभेदस्य तत्सङ्गतेश्च प्रतिपादनम्
विश्वास-प्रस्तुतिः
यतो वा इमानि भूतानि जान्यन्ते (तै.भृ.१.२)
इति जगत्कारणं ब्रह्मेत्य् अवगम्यते।
English
The text, ‘That from which these beings are born,’ teaches that Brahman is the cause of the world;
मूलम्
यतो वा इमानि भूतानि जान्यन्ते (तै.भृ.१.२)
इति जगत्कारणं ब्रह्मेत्य् अवगम्यते।
विश्वास-प्रस्तुतिः
किं तज् जगत्-कारणम् इत्य् अपेक्षायां
English
to the question thence arising of what nature that cause of the world is,
मूलम्
किं तज् जगत्-कारणम् इत्य् अपेक्षायां
विश्वास-प्रस्तुतिः
सदेव सोम्येदमग्र आसीत् (छा.६.२.१)
English
’ Being only this was in the beginning’;
मूलम्
सदेव सोम्येदमग्र आसीत् (छा.६.२.१)
विश्वास-प्रस्तुतिः
तत्तेजोऽसृजत (छा.६.२.३)
English
‘It sent forth fire’;
मूलम्
तत्तेजोऽसृजत (छा.६.२.३)
विश्वास-प्रस्तुतिः
आत्मा वा इदमेक एवाग्र आसीत् (ऐत.१.१.१)
English
‘The Self only this was in the beginning,’ &c.
मूलम्
आत्मा वा इदमेक एवाग्र आसीत् (ऐत.१.१.१)
विश्वास-प्रस्तुतिः
स इमाल्लोकानसृजत (ऐतरेय.१.१.२)
मूलम्
स इमाल्लोकानसृजत (ऐतरेय.१.१.२)
विश्वास-प्रस्तुतिः
तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः (तै.आन.१)
मूलम्
तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः (तै.आन.१)
विश्वास-प्रस्तुतिः
इति साधारणैश् शब्दैर् जगत्कारणे निर्दिष्टे
English
(thus) certain other texts give a reply in general terms
मूलम्
इति साधारणैश्शब्दैर्जगत्कारणे निर्दिष्टे
विश्वास-प्रस्तुतिः
ईक्षण-विशेष–आनन्द-विशेष–रूप–विशेषार्थ-स्वभावात्
प्रधान–क्षेत्र-ज्ञादि–व्यतिरिक्तं ब्रह्मेत्य् उक्तम्।
English
and thereupon it is shown on the basis of the special nature of that cause
as proved by the attributes of ’thought’ and ‘bliss,’
that Brahman is different from the pradhāna and the individual souls.
मूलम्
ईक्षणविशेष-आनन्दविशेषरूपविशेषार्थस्वभावात्प्रधानक्षेत्रज्ञादिव्यतिरिक्तं ब्रह्मेत्युक्तम्।
विश्वास-प्रस्तुतिः
इदानीं आकाशादि-विशेषशब्दैर् निर्दिश्य
जगत्-कारणत्व–जगद्-ऐश्वर्यादि-वादे ऽप्य्
आकाशादि-शब्दाभिधेयतया
English
where such special terms as Ether and the like are used
in sections setting forth the creation and government of the world,
मूलम्
इदानीं आकाशादि-विशेषशब्दैः निर्दिश्य
जगत्कारणत्वजगदैश्वर्यादिवादे ऽप्य् आकाशादिशब्दाभिधेयतया
विश्वास-प्रस्तुतिः
प्रसिद्ध–चिद्–अ-चिद्–वस्तुनो ऽर्थान्तरम्
उक्त-लक्षणम् एव ब्रह्मेति प्रतिपाद्यते –
English
they designate not the thing- sentient or non-sentient–
which is known from ordinary experience,
but Brahman as proved so far.
मूलम्
प्रसिद्धचिदचिद्-वस्तुनः अर्थान्तरं-उक्तलक्षणमेव ब्रह्मेति प्रतिपाद्यते –
विश्वास-प्रस्तुतिः
आकाशस्तल्लिङ्गात् इत्यादिना पादशेषेण-
English
The remaining part of this Pāda now is devoted to the task of proving that.
विषयवाक्यप्रदर्शनम्
मूलम्
आकाशस्तल्लिङ्गात् इत्यादिना पादशेषेण-
विश्वास-प्रस्तुतिः
२३. आकाशस्तिल्लङ्गात् ॥ १-१-२३॥
English
- Ether (is Brahman), on account of the characteristic marks.
मूलम्
२३. आकाशस्तिल्लङ्गात् ॥ १-१-२३॥
विश्वास-प्रस्तुतिः
इदम् आम्नायते छान्दोग्ये –
“अस्य लोकस्य का गतिर्” इति
English
We read in the Cḥāndogya (I, 9),
‘What is the origin of this world?’
मूलम्
इदमाम्नायते छान्दोग्ये – अस्य लोकस्य का गतिरिति
विश्वास-प्रस्तुतिः
“आकाश” इति होवाच
English
‘Ether,’ he replied.
मूलम्
आकाश इति होवाच
विश्वास-प्रस्तुतिः
सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते
English
‘For all these beings spring from the ether only,
मूलम्
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते
विश्वास-प्रस्तुतिः
आकाशं प्रत्यस्तं यन्ति
English
and return into the ether.
मूलम्
आकाशं प्रत्यस्तं यन्ति
विश्वास-प्रस्तुतिः
आकाशो ह्य् एवैभ्यो ज्यायान्
English
Ether is greater than these;
मूलम्
आकाशो ह्येवैभ्यो ज्यायान्
विश्वास-प्रस्तुतिः
आकाशः परायणम् (छा.१.९.१)
इति ॥
English
ether is their rest.’
मूलम्
आकाशः परायणम् (छा.१.९.१) इति ॥
संशय-प्रदर्शनम्
विश्वास-प्रस्तुतिः
तत्र सन्देहः –
किं प्रसिद्धाकाश एवात्राकाश-शब्देनाभिधीयते?
उतोक्त-लक्षणम् एव ब्रह्म
\– इति ॥
English
Here there arises the doubt whether the word ’ether’ denotes the well-known element or Brahman.
मूलम्
तत्र सन्देहः – किं प्रसिद्धाकाश एवात्राकाशशब्देनाभिधीयते उतोक्तलक्षणमेव ब्रह्म – इति ॥
पूर्व-पक्ष-प्रदर्शनम्
विश्वास-प्रस्तुतिः
किं प्राप्तम्? “प्रसिद्धाकाश” इति।
English
The Pūrvapakshin maintains the former alternative.
मूलम्
किं प्राप्तम्? प्रसिद्धाकाश इति।
विश्वास-प्रस्तुतिः
कुतः?
शब्दैक-समधिगम्ये वस्तुनि
य एवार्थो व्युत्पत्ति-सिद्धश् शब्देन प्रतीयते
स एव ग्रहीतव्यः।
English
For, he says, in the case of things to be apprehended through words
we must accept that sense of the word
which, proved by etymology, is immediately suggested by the word.
मूलम्
कुतः?
शब्दैकसमधिगम्ये वस्तुनि
य एवार्थो व्युत्पत्तिसिद्धश्शब्देन प्रतीयते
स एव ग्रहीतव्यः।
विश्वास-प्रस्तुतिः
अतः प्रसिद्धाकाश एव चराचरभूतस्य कृत्स्नस्य कारणम्।
English
We therefore conclude from the passage that the well-known Ether is the cause of the entire aggregate of things, moving or non-moving,
मूलम्
अतः प्रसिद्धाकाश एव चराचरभूतस्य कृत्स्नस्य कारणम्।
विश्वास-प्रस्तुतिः
अतस् तस्माद् अनतिरिक्तं ब्रह्म।
English
and that
hence Brahman is the same as Ether.
मूलम्
अतस्तस्मादनतिरिक्तं ब्रह्म।
अर्थ-विरोधात् व्युत्पत्ति-सिद्धार्थस्य त्याज्यत्व-शङ्का-परिहारौ
विश्वास-प्रस्तुतिः
नन्व् ईक्षा-पूर्वक-सृष्ट्य्-आदिभिर्
अचेतनाज् जीवाच् च व्यतिरिक्तं ब्रह्मेत्य् उक्तम्?।्-।
English
But has it not been shown that Brahman is something different from non-sentient things
because its creative activity is preceded by thought?
मूलम्
नन्वीक्षापूर्वकसृष्ट्यादिभिरचेतनाज्जीवाच्च व्यतिरिक्तं ब्रह्मेत्युक्तम्।
विश्वास-प्रस्तुतिः
सत्यम्, उक्तम्। अयुक्तं तु तत्।
English
This has been asserted indeed,
but by no means proved.
मूलम्
सत्यमुक्तम्, अयुक्तं तु तत्।
विश्वास-प्रस्तुतिः
तथा हि
यतो वा इमानि भूतानि जायन्ते तद्ब्रह्म (तै.भृ.१.अनु.)
इत्य् उक्ते
English
For the proper way to combine the different texts is as follows.
Having been told that’that from which these beings are born is Brahman’,
मूलम्
तथा हि यतो वा इमानि भूतानि जायन्ते तद्ब्रह्म (तै.भृ.१.अनु.) इत्युक्ते
विश्वास-प्रस्तुतिः
कुत इमानि भूतानि जायन्त
इत्य्-आदि-विशेषापेक्षायां
English
we desire to know more especially
what that source of all beings is,
मूलम्
कुत इमानि भूतानि जायन्त
इत्यादिविशेषापेक्षायां
विश्वास-प्रस्तुतिः
सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते (छा.१.९.१)
इत्य्-आदिना विशेष-प्रतीतेः –
English
and this desire is satisfied by the special information given by the text,
‘All these things spring from the ether.’
मूलम्
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते (छा.१.९.१) इत्यादिना विशेषप्रतीतेः –
विश्वास-प्रस्तुतिः
“जगज्-जन्मादि-कारणम् आकाश एवे"ति निश्चिते सति
English
It thus being ascertained that the ether only is the cause of the origin, and so on, of the world,
मूलम्
जगज्जन्मादिकारणमाकाश एवेति निश्चिते सति
विश्वास-प्रस्तुतिः
सदेव सोम्येदमग्र आसीत् (छा.६.२.१)
इत्य्-आदिष्व् अपि
English
((in) ‘Being only was this in the beginning’)
मूलम्
सदेव सोम्येदमग्र आसीत् (छा.६.२.१) इत्यादिष्वपि
विश्वास-प्रस्तुतिः
सद्-आदि-शब्दास् साधारणाकारास्
तम् एव विशेषम् आकाशम् अभिदधति।
English
we conclude that also such general terms as ‘Being’
denote the particular substance called ’ether.’
मूलम्
सदादिशब्दास्साधारणाकारास्तमेव विशेषमाकाशमभिदधति।
विश्वास-प्रस्तुतिः
आत्मा वा इदम् एक एवाग्र आसीत् (ऐत.१.१.१)
इत्य्-आदिष्व् आत्मशब्दोऽपि तत्रैव वर्तते।
English
And we further conclude that in passages such as
’the Self only was all this in the beginning’,
the word ‘Self’ (ātman) also denotes the ether;
मूलम्
आत्मा वा इदमेक एवाग्र आसीत् (ऐत.१.१.१) इत्यादिष्वात्मशब्दोऽपि तत्रैव वर्तते।
विश्वास-प्रस्तुतिः
तस्यापि +++(आत्म-शब्दस्य)+++ हि चेतनैकान्तत्वं न सम्भवति;
यथा “मृद्-आत्मको घटः” इति।
English
for that word is by no means limited to non-sentient things– cp., e.g., the phrase,
‘Clay constitutes the Self of the jar’–,
मूलम्
तस्यापि हि चेतनैकान्तत्वं न सम्भवति; यथा मृदात्मको घटः इति।
विश्वास-प्रस्तुतिः
“आप्नोतीत्य् आत्मे"ति व्युत्पत्त्या
सुतराम् आकाशे ऽप्य् आत्म-शब्दो वर्तते ॥
English
and its etymology also (ātman from āp, to reach) shows that
it may very well be applied to the ether.
मूलम्
आप्नोतीत्यात्मेति व्युत्पत्त्या सुतरामाकाशेऽप्यात्मशब्दो वर्तते ॥
तदैक्षतेतीक्षणादीनां गौणता-निर्वाहः
विश्वास-प्रस्तुतिः
अत एवम् “आकाश एव कारणं ब्रह्मे"ति निश्चिते सति
+ईक्षणादयस् तद्-अनुगुणा गौणा वर्णनीयाः।
English
It having thus been ascertained that the ether is the general cause or Brahman,
we must interpret such words as ’thinking’ (which we meet with in connexion with the creative activity of the general cause)
in a suitable, i.e. secondary, or metaphorical sense.
मूलम्
अत एवमाकाश एव कारणं ब्रह्मेति निश्चिते सतीक्षणादयस्तदनुगुणा गौणा वर्णनीयाः।
विश्वास-प्रस्तुतिः
यदि हि साधारण-शब्दैर् एव सद्-आदिभिः
कारणम् अभ्यधायिष्यत,
ईक्षणाद्य्-अर्थानुरोधेन
“चेतन-विशेष एव कारणम्” इति निरचेष्यत।
English
If the texts denoted the general cause by general terms only, such as ‘Being’,
we should, in agreement with the primary sense of ’thinking’, and similar terms, decide that that cause is an intelligent being;
मूलम्
यदि हि साधारणशब्दैरेव सदादिभिः कारणमभ्यधायिष्यत, ईक्षणाद्यर्थानुरोधेन चेतनविशेष एव कारणमिति निरचेष्यत।
विश्वास-प्रस्तुतिः
आकाश-शब्देन तु विशेष एव निश्चित
इति नार्थ-स्वाभाव्यान् निर्णेतव्यम् अस्ति।
English
but since, as a matter of fact,
we ascertain a particular cause on the basis of the word ’ether’,
our decision cannot be formed on general considerations of what would suit the sense.
मूलम्
आकाशशब्देन तु विशेष एव निश्चित इति नार्थस्वाभाव्यान्निर्णेतव्यमस्ति।
आकाशस्य कार्यताश्रुतेः परमकारणत्वानुपपत्ति-शङ्का-परिहारौ
विश्वास-प्रस्तुतिः
ननु “आत्मन आकाशसम्भूतः” (तै.आन.१.२) इत्य्
आकाशस्यापि कार्यत्वं प्रतीयते।
English
–But what then about the passage,
‘From the Self there sprang the ether’ (Taitt. Up. II, 1, 1),
from which it appears that the ether itself is something created?
मूलम्
ननु आत्मन आकाशसम्भूतः (तै.आन.१.२) इत्याकाशस्यापि कार्यत्वं प्रतीयते।
विश्वास-प्रस्तुतिः
सत्यम्, सर्वेषाम् एवाकाश-वाय्व्-आदीनां सूक्ष्मावस्था स्थूलावस्था चेत्य् अवस्था-द्वयम् अस्ति।
English
All elementary substances, we reply, such as ether, air, and so on, have two different states,
a gross material one, and a subtle one.
मूलम्
सत्यम्, सर्वेषामेवाकाशवाय्वादीनां सूक्ष्मावस्था स्थूलावस्था चेत्यवस्थाद्वयमस्ति।
विश्वास-प्रस्तुतिः
तत्राकाशस्य सूक्ष्मावस्था कारणम्
स्थूलावस्था तु कार्यम् ।
English
The ether, in its subtle state, is the universal cause;
in its gross state it is an effect of the primal cause;
मूलम्
तत्राकाशस्य सूक्ष्मावस्था कारणम् स्थूलावस्था तु कार्यम् ।
विश्वास-प्रस्तुतिः
“आत्मन आकाशस् सम्भूतः” (तै.आन.१.२)
इति
स्वस्माद् एव सूक्ष्म-रूपात्
स्वयं स्थूल-रूपस् सम्भूतइत्य् अर्थः।
English
in its gross state it thus springs from itself, i.e. ether in the subtle state.
मूलम्
“आत्मन आकाशस्सम्भूतः” (तै.आन.१.२)
इति स्वस्मादेव सूक्ष्मरूपात्स्वयं स्थूलरूपस्सम्भूत इत्यर्थः।
विश्वास-प्रस्तुतिः
सर्वाणि ह वा इमानि भूतान्य् आकाशादेव समुत्पद्यन्ते (छा.१.९.१)
इति सर्वस्य जगत
आकाशाद् एव प्रभवाप्ययादि-श्रवणात्
तद् एव हि कारणं ब्रह्मेति निश्चितम्।
English
The text, ‘All these beings spring from ether only’ (Cḥ. Up. I, 9, 1), declares that
the whole world originates from ether only,
and from this it follows that ether is none other than the general cause of the world, i.e. Brahman.
मूलम्
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते (छा.१.९.१)
इति सर्वस्य जगत आकाशादेव प्रभवाप्ययादिश्रवणात्तदेव हि कारणं ब्रह्मेति निश्चितम्।
विश्वास-प्रस्तुतिः
यत एवं प्रसिद्धाकाशाद् अनतिरिक्तं ब्रह्म,
अत एव चयद् एष आकाश आनन्दो न स्यात् (तै.आन.७.)
English
This non-difference of Brahman from the empirically known ether
also gives a satisfactory sense to texts such as the following:
‘If this ether were not bliss’ (Taitt. Up. II, 7, 1);
मूलम्
यत एवं प्रसिद्धाकाशादनतिरिक्तं ब्रह्म,
अत एव च
यदेष आकाश आनन्दो न स्यात् (तै.आन.७.)
विश्वास-प्रस्तुतिः
आकाशो ह वै नामरूपयोर् निर्वहिता (छा.८.१४.१)
इत्य् एवम्-आदि-निर्देशो ऽप्य् उपपन्नतरः।
English
‘Ether, indeed, is the evolver of names and forms’ (Cḥ. Up. VIII, 14, 1, and so on).
मूलम्
आकाशो ह वै नामरूपयोर्निर्वहिता (छा.८.१४.१)
इत्येवमादिनिर्देशोऽप्युपपन्नतरः।
विश्वास-प्रस्तुतिः
अतः “प्रसिद्धाकाशाद् अनतिरिक्तं ब्रह्म” +इति॥
English
It thus appears that Brahman is none other than the well-known elemental ether.
मूलम्
अतः प्रसिद्धाकाशादनतिरिक्तं ब्रह्मेति॥
सिद्धान्तः
चेतनत्व-लिङ्गानि
विश्वास-प्रस्तुतिः
एवं प्राप्ते ब्रूमः –
आकाशस् तल्-लिङ्गात् –
English
This primā facie view is set aside by the Sūtra.
मूलम्
एवं प्राप्ते ब्रूमः –
आकाशस्तल्लिङ्गात् –
विश्वास-प्रस्तुतिः
आकाश-शब्दाभिधेयः
प्रसिद्धाकाशाद् अचेतनाद् अर्थान्तरभूतो
यथोक्त-लक्षणः परमात्मैव।
English
The word ’ether’ in the text under discussion denotes the highest Self
with its previously established characteristics–
which is something quite different from the non-sentient elemental ether.
मूलम्
आकाशशब्दाभिधेयः प्रसिद्धाकाशादचेतनात् अर्थान्तरभूतो यथोक्तलक्षणः परमात्मैव।
विश्वास-प्रस्तुतिः
कुतः? तल्-लिङ्गात् -
+++(चित्-सहित-)+++निखिल-जगद्-एक-कारणत्वम्, +++(चित्-सहित-)+++सर्वस्माज्-ज्यायस्त्वम्, परायणत्वम्
इत्य्-आदीनि परमात्म-लिङ्गान्य् उपलभ्यन्ते।
English
For the qualities which the passage attributes to ether, viz. its being the one cause of the entire world, its being greater than all, and the rest of all, clearly indicate the highest Self.
मूलम्
कुतः? तल्लिङ्गात् -
निखिलजगदेककारणत्वम्, सर्वस्माज्ज्यायस्त्वम् परायणत्वम् इत्यादीनि परमात्मलिङ्गान्युपलभ्यन्ते।
विश्वास-प्रस्तुतिः
निखिलकारणत्वं हि
अ-चिद्-वस्तुनः प्रसिद्धाकाश-शब्दाभिधेयस्य नोपपद्यते,
चेतन-वस्तुनस् तत्-कार्यत्वासम्भवात्।
English
The non-intelligent elemental ether cannot be called the cause of all,
since intelligent beings clearly cannot be its effects;
मूलम्
निखिलकारणत्वं हि अचिद्वस्तुनः प्रसिद्धाकाशशब्दाभिधेयस्य नोपपद्यते, चेतनवस्तुनस्तत्कार्यत्वासम्भवात्।
विश्वास-प्रस्तुतिः
परायणत्वं च चेतनानां परम-प्राप्यत्वम्।
मूलम्
परायणत्वं च चेतनानां परमप्राप्यत्वम्।
विश्वास-प्रस्तुतिः
तच् चाचेतनस्य हेयस्य सकल-पुरुषार्थ-विरोधिनो न सम्भवति।
English
nor can it be called the ‘rest’ of intelligent beings,
for non-sentient things are evil and antagonistic to the true aim of man;
मूलम्
तच्चाचेतनस्य हेयस्य सकलपुरुषार्थविरोधिनो न सम्भवति।
विश्वास-प्रस्तुतिः
सर्वस्माज् ज्यायस्त्वं च निरुपाधिकं,
सर्वैः कल्याण-गुणैस् सर्वेभ्यो निरतिशयोत्कर्षः।
मूलम्
सर्वस्माज्ज्यायस्त्वं च निरुपाधिकं सर्वैः कल्याणगुणैस्सर्वेभ्यो निरतिशयोत्कर्षः।
विश्वास-प्रस्तुतिः
तद् अप्य् अचितो नोपपद्यते॥
English
nor can it be called ‘greater’ than all,
for it is impossible that a non-sentient element should possess all excellent qualities whatever
and thus be absolutely superior to everything else.
मूलम्
तदप्यचितो नोपपद्यते॥
प्रसिद्धवन्निर्देशः
विश्वास-प्रस्तुतिः
यद् उक्तं
जगत्-कारण-विशेषाकाङ्क्षायाम्
आकाश-शब्देन विशेष-समर्पणाद्
अन्यत् सर्वं तद्-अनुरूपम् एव वर्णनीयम्
इति, तद् अयुक्तम्,
English
Nor is the Pūrvapakshin right when maintaining that,
as the word ’ether’ satisfies the demand for a special cause of the world,
all other texts are to be interpreted in accordance herewith.
मूलम्
यदुक्तं जगत्कारणविशेषाकांक्षायामाकाशशब्देन विशेषसमर्पणादन्यत्सर्वं तदनुरूपमेव वर्णनीयमिति, तदयुक्तम्,
विश्वास-प्रस्तुतिः
सर्वाणि ह वा इमानि भूतान्य्
आकाशादेव समुत्पद्यन्ते (छा.१.९.१)
इति +++(“ह वै”→)+++ प्रसिद्धवन् निर्देशात्।
English
The words,
‘All these beings indeed spring from the ether only,’
merely give expression to something generally known,
मूलम्
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते (छा.१.९.१) इति प्रसिद्धवन्निर्देशात्।
विश्वास-प्रस्तुतिः
प्रसिद्धवन्-निर्देशो हि
प्रमाणान्तर-प्राप्तिम् अपेक्षते।
English
and statements of this nature presuppose other means of knowledge to prove them.
मूलम्
प्रसिद्धवन्निर्देशो हि प्रमाणान्तरप्राप्तिमपेक्षते।
विश्वास-प्रस्तुतिः
प्रमाणान्तराणि च
सद् एव सोम्येदम् अग्र आसीत् (छा.६.२.३)
इत्य् एवम्-आदीन्य् एव वाक्यानि।
English
Now these other means required are, in our case,
supplied by such texts as
‘Being only was this in the beginning,’
मूलम्
प्रमाणान्तराणि च सदेव सोम्येदमग्र आसीत् (छा.६.२.३) इत्येवमादीन्येव वाक्यानि।
विश्वास-प्रस्तुतिः
तानि च
यथोदित-प्रकारेणैव ब्रह्म प्रतिपादयन्तीति
तत्-प्रतिपादितं ब्रह्माकाश-शब्देन प्रसिद्धवन् निर्दिश्यते।
English
and these, as we have shown, establish the existence of Brahman.
To Brahman thus established, the text mentioning the ether
merely refers as to something well known.
मूलम्
तानि च यथोदितप्रकारेणैव ब्रह्म प्रतिपादयन्तीति तत्प्रतिपादितं ब्रह्माकाशशब्देन प्रसिद्धवन्निर्दिश्यते।
आकाशाभिधेयता
विश्वास-प्रस्तुतिः
सम्भवति च परस्य ब्रह्मणः प्रकाशकत्वाद् आकाश-शब्दाभिधेयत्वम् –
आकाशते, आकाशयति च इति ॥
English
Brahman may suitably be called ’ether’ (ākāśa),
because being of the nature of light it shines (ākāśate) itself,
and makes other things shine forth (ākāśayati).
मूलम्
सम्भवति च परस्य ब्रह्मणः प्रकाशकत्वादाकाशशब्दाभिधेयत्वम् – आकाशते, आकाशयति च इति ॥
विश्वास-प्रस्तुतिः
किञ्च अनेनाकाश-शब्देन विशेष+++(-अर्थ)+++-समर्पण-क्षमेणापि
+++(कार्ये जगति)+++ चेतनांशं प्रत्य् अ-सम्भावित-कारण-भावं अ-चेतन-विशेषम् +++(खाख्यम्)+++ अभिदधानेन
English
Moreover, the word ’ether’ is indeed capable of conveying the idea of a special being (as cause),
but as it denotes a special non-intelligent thing which cannot be admitted as the cause of the intelligent part of the world
मूलम्
किञ्च अनेनाकाशशब्देन विशेषसमर्पणक्षमेणापि चेतनांशं प्रत्यसम्भावितकारणभावं अचेतनविशेषमभिदधानेन
विश्वास-प्रस्तुतिः
तदैक्षत - बहु स्यां प्रजायेय (छा.६.२.३)
English
‘it thought, may I be many, may I grow forth,’
मूलम्
तदैक्षत बहु स्यां प्रजायेय (छा.६.२.३)
विश्वास-प्रस्तुतिः
सोऽकामयत। बहुस्यां प्रजायेय (तै.आन.६)
English
and
‘it desired, may I be many, may I grow forth.’
मूलम्
सोऽकामयत। बहुस्यां प्रजायेय (तै.आन.६)
विश्वास-प्रस्तुतिः
इत्यादि वाक्य-शेषावधारित-सार्वज्ञ्य–सत्य-सङ्कल्पत्वादि-
विशिष्टापूर्वार्थ-प्रतिपादन-समर्थ–वाक्यार्थान्यथा-करणं
न प्रमाण-पदवीम् अधिरोहति।
English
we must deny all authoritativeness to the attempt to tamper,
in the interest of that one word,
with the sense of other texts
which have the power of giving instruction as to an entirely new thing (viz. Brahman),
distinguished by the possession of omniscience,
the power of realising its purposes and similar attributes,
which we ascertain from certain complementary texts-such as (the above).
मूलम्
इत्यादि वाक्यशेषावधारितसार्वज्ञ्यसत्यसङ्कल्पत्वादि- विशिष्टापूर्वार्थप्रतिपादन-समर्थवाक्यार्थान्यथाकरणं न प्रमाणपदवीमधिरोहति।
विश्वास-प्रस्तुतिः
एवम् अपूर्वानन्त-विशेषण-विशिष्ट–
+अपूर्वार्थ-प्रतिपादन-समर्थ-
+अनेक-वाक्य–गति-सामान्यं च
+एकेनानुवाद–स्व-रूपेण +++(न त्व्-अपूर्वार्थ-ज्ञापकेन)+++
+अन्यथा कर्त्तुं न शक्यते।
English
We also point out that the agreement in purport of a number of texts capable of establishing the existence of a wonderful being possessing infinite wonderful attributes
is not lightly to be disregarded
in favour of one single text
which moreover (has not the power of intimating something not known before, but)
only makes a reference to what is already established by other texts.
मूलम्
एवमपूर्वानन्तविशेषणविशिष्टापूर्वार्थप्रतिपादन-समर्थानेकवाक्यगतिसामान्यं चैकेनानुवादस्वरूपेणान्यथा कर्त्तुं न शक्यते।
आत्म-शब्दानैकान्त्यं न
विश्वास-प्रस्तुतिः
यत् तु
आत्म-शब्दश् चेतनैकान्तो न भवति,
मृद्-आत्मको घटः इत्य्-आदि-दर्शनाद्
इत्य् उक्तम्; तत्रोच्यते –
English
As to the averment that
the word ‘Self’ is not exclusively limited to sentient beings,
we remark that
मूलम्
यत्तु आत्मशब्दश्चेतनैकान्तो न भवति, मृदात्मको घटः इत्यादिदर्शनादित्युक्तम्; तत्रोच्यते –
विश्वास-प्रस्तुतिः
यद्य् अपि चेतनाद् अन्यत्रापि क्वचिद् आत्म-शब्दः प्रयुज्यते;
English
that word is indeed applied occasionally to non-sentient things,
मूलम्
यद्यपि चेतनादन्यत्रापि क्वचिदात्मशब्दः प्रयुज्यते;
विश्वास-प्रस्तुतिः
तथापि शरीर-प्रतिसम्बन्धिन्य् आत्म-शब्दस्य प्रयोग-प्राचुर्यात् +++(4)+++
English
but prevailingly to that which is the correlative of a body, i.e. the soul or spirit;
मूलम्
तथापि शरीरप्रतिसम्बन्धिन्यात्मशब्दस्य प्रयोगप्राचुर्यात्
विश्वास-प्रस्तुतिः
आत्मा वा इदम् एक एवाग्र आसीत् (ऐत.१.१.१)
English
in texts such as
’the Self only was this in the beginning,’
मूलम्
आत्मा वा इदमेक एवाग्र आसीत् (ऐत.१.१.१)
विश्वास-प्रस्तुतिः
आत्मन आकाशस् सम्भूतः (तै.आन.१.२)
इत्य्-आदिषु
English
‘from the Self there sprang the ether,’
मूलम्
आत्मन आकाशस्सम्भूतः (तै.आन.१.२) इत्यादिषु
विश्वास-प्रस्तुतिः
शरीर-प्रतिसम्बन्धि-चेतन एव प्रतीयते।
English
we must therefore understand by the ‘Self,’ the universal spirit.
मूलम्
शरीरप्रतिसम्बन्धिचेतन एव प्रतीयते।
विश्वास-प्रस्तुतिः
यथा गो-शब्दस्यानेकार्थ-वाचित्वेऽपि
प्रयोग-प्राचुर्यात् सास्नादिमान् एव स्वतः प्रतीयते;
मूलम्
यथा गोशब्दस्यानेकार्थवाचित्वेऽपि प्रयोगप्राचुर्यात्सास्नादिमानेव स्वतः प्रतीयते;
विश्वास-प्रस्तुतिः
अर्थान्तर-प्रतीतिस् तु तत्-तद्–अ-साधारण-निर्देशापेक्षा;
मूलम्
अर्थान्तरप्रतीतिस्तु तत्तदसाधारणनिर्देशापेक्षा;
विश्वास-प्रस्तुतिः
तथा स्वतः प्राप्तं शरीर-प्रतिसम्बन्धि-चेतनाभिधानम् एव
English
The denotative power of the term ‘atman,’
which is thus proved by itself,
मूलम्
तथा स्वतः प्राप्तं शरीरप्रतिसम्बन्धिचेतनाभिधानमेव
विश्वास-प्रस्तुतिः
स ईक्षत - लोकान्नु सृजा इति (ऐ.१.१.१),
English
‘it desired, may I send forth the worlds’,
मूलम्
स ईक्षत लोकान्नु सृजा इति (ऐ.१.१.१),
विश्वास-प्रस्तुतिः
सोऽकामयत, बहु स्यां प्रजायेय (छा.१.९.१)
English
‘it desired, may I be many, may I grow forth.’
मूलम्
सोऽकामयत, बहु स्यां प्रजायेय (छा.१.९.१)
विश्वास-प्रस्तुतिः
इत्य्-आदि–तत्-तद्-वाक्य-विशेषा एव स्थिरीकुर्वन्ति।
English
is moreover confirmed by the(se) complementary passages
मूलम्
इत्यादितत्तद्वाक्यविशेषा एव स्थिरीकुर्वन्ति।
निगमनम्
विश्वास-प्रस्तुतिः
एवं वाक्य-शेषावधारित–अनन्य-साधारणानेकापूर्वार्थ-विशिष्टं
English
We thus arrive at the following conclusion:
Brahman, possessing all those manifold wonderful attributes
which are ascertained from the complementary passages,
मूलम्
एवं वाक्यशेषावधारित- अनन्यसाधारणानेकापूर्वार्थविशिष्टं
विश्वास-प्रस्तुतिः
निखिल-जगद्-एक-कारणं
सद् एव सोम्य (छां.६.२.१)
इत्यादि-वाक्य-सिद्धं ब्रह्मैव
English
which – by the passage
‘Being only this was in the beginning’–
is established as the sole cause of the world,
मूलम्
निखिलजगदेककारणं सदेव सोम्य (छां.६.२.१) इत्यादिवाक्यसिद्धं ब्रह्मैव
विश्वास-प्रस्तुतिः
अकाशशब्देन प्रसिद्धवत्
सर्वाणि ह वा इमानि भूतानि (छां.१.९.१)
इत्य्-आदि-वाक्येन निर्दिश्यत
इति सिद्धम् ॥ २३॥
English
is, in the text under discussion,
referred to as something already known,
by means of the term ’ether.’
मूलम्
अकाशशब्देन प्रसिद्धवत् सर्वाणि ह वा इमानि भूतानि (छां.१.९.१) इत्यादिवाक्येन निर्दिश्यत इति सिद्धम् ॥ २३॥
विश्वास-प्रस्तुतिः
इति श्रीशारीरकमीमांसाभाष्ये आकाशाधिकरणम् ॥ ८ ॥
English
–Here terminates the adhikaraṇa of’ ether.’
मूलम्
इति श्रीशारीरकमीमांसाभाष्ये आकाशाधिकरणम् ॥ ८ ॥