०७ अन्तरधिकरणम्

आनन्दमयाधिकरणशेषभूतम्

श्रीशारीरमीमांसाभाष्ये अन्तरधिकरणम्॥७॥

अधिकरणार्थः

अक्ष्यादित्यान्तर्वर्तित्वेनोपास्यत्वमपि न जीवविशेषस्य, किन्तु परमात्मन एव

अन्तरादित्यविद्या, अन्तरक्षिविद्या च छा.उ.1-6-7) (निर्विशेषवस्तुनः

अवान्तरसङ्गतिप्रदर्शनम्

यद्यपि मन्दपुण्यानां जीवानां, कामाज्जगत्सृष्टिः, अतिशयितानन्दयोगो भयाभयहेतुत्वमित्यादि न सम्भवति, तथापि, विलक्षणपुण्यानां आदित्येन्द्र प्रजापतिप्रक्षृतीनां सम्भवत्येवेति इमां आशङ्कां निराकरोति –

२१. अन्तस्तद्धर्मोपदेशात् ॥ १-१-२१ ॥

विषयवाक्यप्रदर्शनम्

इदमाम्नायते छान्दोग्ये य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः। तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदित नाम स एष सर्वेभ्यः पाप्मभ्य उदितः उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद। तस्यर्क्च साम च गेष्णौ इत्यधिदैवतम् (छा.१.६.६,७,८) अथाध्यात्मम्, अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क तत्साम तदुक्थ्यं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम (छा.१.७.५) इति॥

संशयस्वरूपम्

तत्र सन्दिह्यते – किमयमक्ष्यादित्यमण्डलार्न्तवर्ती पुरुषः पुण्योपचयनिमित्तैश्वर्य आदित्यादिशब्दाभिलप्यो जीव एव; आहोस्वित्तदतिरिक्तः परमात्मा – इति।

पूर्वपक्षः

किं युक्तम्? उपिचतपुण्यो जीव एवेति।

पूर्वपक्षे युक्तिः

कुतः? सशरीरत्वश्रवणात्। शरीरसम्बन्धो हि जीवानामेव सम्भवति। कर्मानुगुणप्रियाप्रिययोगाय हि शरीरसम्बन्धः। अत एव हि कर्मसम्बन्धरहितस्य मोक्षस्य प्राप्यत्वमशरीरत्वेनोच्यते न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति। अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः (छा.८.१२.१) इति। सम्भवति च पुण्यातिशयात् ज्ञानाधिक्यम्, शक्त्याधिक्यञ्च। अत एव लोककामेशत्वादि तस्यैवोपपद्यते। तत एव चोपास्यत्वम्, फलदायित्वं, पापक्षपणकरत्वेन मोक्षोपयोगित्वं च। मनुष्येष्वप्युपचितपुण्याः केचित् ज्ञानशक्त्यादिभिरधिकतरा दृश्यन्ते; ततश्च सिद्धगन्धर्वादयः; ततश्च देवाः; ततश्चेन्द्रादयः। अतो ब्रह्मादिष्वन्यतम एवैकैकस्मिन् कल्पे पुण्यविशेषेणैवम्भूतमैश्वर्यं प्राप्तो जगत्सृष्ट्याद्यपि करोतीति जगत्कारणत्वजगदन्तरात्मत्वादि वाक्यमस्मिन्नेवोपचितपुण्यविशेषे सर्वज्ञे सर्वशक्तौ वर्तते । अतो न जीवादतिरिक्तः परमात्मा नाम कश्चिदस्ति। एवं च सति अस्थूलमनण्वह्रस्वम् (बृ.५.८.८) इत्यादयो जीवात्मनस्स्वरूपाभिप्राया भवन्ति। मोक्षशास्त्राण्यपि तत्स्वरूपतत्प्रात्युपायोपदेशपराणि – इति॥

सिद्धान्तः सयुक्तिकः

एवं प्राप्तेऽभिधीयते – अन्तस्तद्धर्मोपदेशात् ।

तत्र सूत्राक्षरार्थवर्णनम्

अन्तरादित्येऽन्तरक्षिणि च यः पुरुषः प्रतीयते, स जीवादन्यः परमात्मैव; कुतः? तद्धर्मोपदेशात् – जीवेष्वसम्भवंस्तदतिरिक्तस्यैव परमात्मनो धर्मोऽयमपहतपाप्मत्वादिः स एष सर्वेभ्यः पाप्मभ्य उदितः (छा.१.६.७) इत्यादिनोपदिश्यते। अपहतपाप्मत्वं हि अपहतकर्मत्वम्, कर्मवश्यतागन्धरहितत्वमित्यर्थः। कर्माधीनसुखदुःखभागित्वेन कर्मवश्या हि जीवाः। अतोऽपहतपाप्मत्वं जीवादन्यस्य परमात्मन एव धर्मः ॥ तत्पूर्वकं स्वरूपोपाधिकं लोककामेशत्वम्, सत्यसङ्कल्पत्वादिकम् सर्वभूतान्तरात्मत्वञ्च तस्यैव धर्मः। यथाह एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामस्सत्यसङ्कल्पः (छा.८.१.५) इति, तथा एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः (सुबाल.७) इति। सोऽकामयत। बहु स्यां प्रजायेयेति (तै.आन.६) इत्यादिसत्यसङ्कल्पत्वपूर्वक समस्तचिदचिद्वस्तुसृष्टियोगो निरुपाधिकभयाभयहेतुत्वम्, वाङ्मनसपरिमितिकृतपरिच्छेदरहितानवधिकातिशयान्दयोग इत्यादयोऽकर्मसम्पाद्यास्स्वाभाविका धर्मा जीवस्य न सम्भवन्ति॥

पूर्वपक्षस्य सयुक्तिकः निरासः

यत्तु शरीरसम्बन्धान्न जीवातिरक्त इत्युक्तम्; तदसत्, न हि सशरीरत्वं कर्मवश्यतां साधयति, सत्यसङ्कल्पस्येच्छयाऽपि शरीरसम्बन्धसम्भवात्। अथोच्यते – शरीरं नाम त्रिगुणात्मकप्रकृति-परिणामरूपभूतसङ्घातः; तत्सम्बन्धश्चापहतपाप्मनस्सत्यसङ्कल्पस्य पुरुषस्य इच्छया न सम्भवति, अपुरुषार्थत्वात्। कर्मवश्यस्य तु स्वरूपानभिज्ञस्य कर्मानुगुणफलोपभोगायानिच्छतोऽपि तत्सम्बन्धोऽवर्जनीयः – इति॥

भगवतः अकर्मवश्यस्याऽपि देहसम्बन्धः

स्यादेतदेवम्। यदि गुणत्रयमयः प्राकृतोऽस्य देहस्स्यात्; स तु स्वाभिमतस्स्वानुरूपोऽप्राकृत एवेति सर्वमुपपन्नम्॥

एतदुक्तं भवति – परस्यैव ब्रह्मणो निखिलहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपतया सकलेतरविलक्षणस्य स्वाभाविकानविधकातिशयासङ्ख्येयकल्याणगुणगणाश्च सन्ति। तद्वदेव स्वाभिमतानुरूपैकरूपाचिन्त्य-दिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्य-सौकुमार्य-लावण्ययौवनाद्यनन्तगुणगणनिधिदिव्यरूपमपि स्वाभाविकमस्ति। तदेवोपासकानुग्रहेण तत्तत्प्रतिपत्त्यनुरूपसंस्थानं करोत्यपारकारुण्यसौशील्यवात्सल्यौदार्य- जलनिधिः, निरस्तनिखिलहेयगन्धोऽपहतपाप्मा परमात्मा परं ब्रह्म पुरुषोत्तमो नारायणः इति॥

उक्तेर्थे प्रमाणानि

यतो वा इमानि भूतानि जायन्ते (तै.भृ.१), सदेव सोम्येदमग्र आसीत् (छा.६.२.१), आत्मा वा इदमेक एवाग्र आसीत् (ऐतरेय.१.१.१), एको ह वै नारायण आसीन्न ब्रह्मा नेशानः (महोप.१.१) इत्यादिषु निखिलजगदेककारणतयाऽवगतस्य परस्य ब्रह्मणः सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१), विज्ञानमनन्दं ब्रह्म (बृ.५.९.२८), इत्यादिष्वेवम्भूतं स्वरूपमित्यवगम्यते। निर्गुणम् (आत्मोप), निरञ्जनम् (श्वेता.६.१९), अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामः सत्यसङ्कल्पः (छा.८.५.१), न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यिधकश्च दृश्यते। पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.६.८), तमीश्वराणां परमं महेश्वरं तं दैवतानां परमञ्च दैवतम् (श्वे.६.७), स कारणं करणाधिपाधियो न चास्य कश्चिज्जनिता न चाधिपः (श्वे.६.९), सर्वाणि रूपाणि विचित्य धीरः। नामानि कृत्वाऽभिवदन्यदास्ते (तै.य.आर.३.१२), वेदाहमेतं पुरुषं महान्तम्। आदित्यवर्णं तमसः परस्तात् (तै.यजु.आर.३.१२), सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि (तै.नारा.१.अनु.८) इत्यादिषु परस्य ब्रह्मणः प्राकृतहेयगुणान् प्राकृतहेयदेहसम्बन्धं तन्मूलकर्मवश्यतासम्बन्धं च प्रतिषिध्य कल्याणगुणान् कल्याणरूपं च वदन्ति। तदिदं स्वाभाविकमेव रूपमुपासकानुग्रहेण तत्प्रतिपत्त्यनुगुणाकारं देवमनुष्यादिसंस्थानं करोति स्वेच्छयैव परमकारुणिको भगवान्। तदिदमाह श्रुतिः – अजायमानो बहुधा विजायते (तै.आर.३.१२) इति। स्मृतिश्च अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्। प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया। परित्राणाय साधूनां विनाशाय च दुष्कृताम् (भ.गी.४.६) इति। साधवो ह्युपासकाः, तत्परित्राणमेवोद्देश्येम्, आनुषङ्गिकस्तु दुष्कृतां विनाशः, सङ्कल्पमात्रेणापि तदुपपत्तेः। प्रकृतिं स्वाम्, इति प्रकृतिः – स्वभावः। स्वमेव स्वभावमास्थाय, न संसारिणां स्वभावमित्यर्थः। आत्ममाययेति स्वसङ्कल्परूपेण ज्ञानेनेत्यर्थः ।

माया वयुनं ज्ञानम् (वेदनिखण्टौ,धर्मवर्गे,२२.श्लो.) इति ज्ञानपर्यायमपि मायाशब्दं नैखण्टुका अधीयते। आह च भगवान् पराशरः – समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः। तद्विश्वरूपवैरूप्यं रूपमन्यद्धेरर्महत्॥ समस्तशक्तिरूपाणि तत्करोति जनेश्वर। देवतिर्यङ्मनुष्याख्या चेष्टावन्ति स्वलीलया। जगतामुपकाराय न सा कर्मनिमित्तजा – (वि.पु.६.७.७०) इति । महाभारते चावताररूपस्याप्यप्राकृतत्वमुच्यते न भूत सङ्घसंस्थानो देहोऽस्य परमात्मनः इति। अतः परस्यैव ब्रह्मण एवंरूपवत्त्वादयमपि तस्यैव धर्मः। अत आदित्यमण्डलाक्ष्यधिकरणः आदित्यादिजीवव्यतिरिक्तः परमात्मैव ॥ २१॥

२२. भेदव्यपदेशाच्चान्यः ॥ १-१-२२ ॥

जीवभेदसाधकं हेत्वन्तरम्

आदित्यादिजीवेभ्यो भेदो व्यपदिश्यतेऽस्य परमात्मनः – य आदित्ये तिष्ठान्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यश्शरीरं य आदित्यमन्तरो यमयति । (बृ.५.७.९) य आत्मनि तिष्ठान्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति (बृ.५.७.२२) इति । योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद यो मृत्युमन्तरे सञ्चरन्यस्य मृत्युश्शरीरं यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः (सुवाल.७) इति चास्यापहतपाप्मनः परमात्मनस्सर्वान् जीवान् शरीरत्वेन व्यपदिश्य तेषामन्तरात्मत्वेनैनं व्यपदिशति। अतस्सर्वेभ्यो हिरण्यगर्भादिजीवेभ्योऽन्य एव परमात्मेति सिद्धम्॥२॥

इति श्रीशारीरकमीमांसाभाष्ये अन्तरधिकरणम्॥७॥