शारीकमीमांसाभाष्ये ईक्षत्यधिकरणम्॥५॥
अधिकरणार्थः
सृष्ट्यनुगुणेक्षणकर्त अचेतनभूतप्रधानेतरत् परं ब्रह्म
सद्विद्याविचारः – छा.उ.6
५. ईक्षतेर्नाशब्दम् ॥ १-१-५ ॥
सङ्गतिप्रतिपादनम्
यतो वा इमानि (तै.भृगु.१.१) इत्यादिजगत्कारणवादिवाक्यप्रतिपाद्यं सर्वज्ञं सर्वशक्ति समस्तहेयप्रत्यनीककल्याणगुणैकतानं ब्रह्म जिज्ञास्यमित्युक्तम्। इदानीं जगत्कारणवादिवाक्यानां आनुमानिकप्रधानादिप्रतिपादनानर्हातोच्यते – ईक्षतेर्नाशब्दम् – इत्यादिना।
विषयप्रतिपादनम्
इदमाम्नायते छान्दोग्ये – सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्। तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छा.६.२.१) इत्यादि ॥
संशयस्वरूपम्
तत्र सन्देहः – किं सच्छब्दवाच्यं जगत्कारणं परोक्तमानुमानिकं प्रधानम्? उतोक्तलक्षणं ब्रह्म इति॥
पूर्वपक्षस्वरूपम्
किं प्राप्तम्? प्रधानमिति।
पूर्वपक्षयुक्तिः
कुतः? सदेव सोम्येदमग्र आसीदेकमेव (छां.६.२.१) इतीदंशब्दवाच्यस्य चेतनभोग्यभूतस्य सत्त्वरजस्तमोमयस्य वियदादिनानारूपविकारावस्थस्य वस्तुनः कारणावस्थां वदति। कारणभूतद्रव्यस्यावस्थान्तरापत्तिरेव हि कार्यता। अतो यद्द्रव्यं यत्स्वभावं च कार्यावस्थम्; तत्स्वभावं तदेव द्रव्यं कारणावस्थम्। सत्त्वादिमयं च कार्यमिति गुणसाम्यावस्थं प्रधानमेव हि कारणम्। तदेवोपसंहृतसकलविशेषं सन्मात्रमिति सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.६.२.१) इत्यभिधीयते। तत एव च कार्यकारणयोरनन्यत्वम्। तथा सत्येवैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिः। अन्यथा यथा सोम्यैकेन मृत्पिण्डेन (छा.६.१.४) इत्यादि मृत्पिण्डतत्कार्यदृष्टान्तदार्ष्टान्तिकयोर्वैरूप्यं चेति जगत्कारणवादिवाक्येन महर्षिणा कपिलेनोक्तं प्रधानमेव प्रतिपाद्यते। प्रतिज्ञादृष्टान्तरूपेणानुमानवेषमेव चेदं वाक्यमिति सच्छब्दवाच्यमानुमानिकमेव इति –
सिद्धान्तारम्भः
एवं प्राप्तेऽभिधीयते – ईक्षतेर्नाशब्दम् – इति। यस्मिन् शब्द एव प्रमाणं न भवति, तदशब्दम् आनुमानिकं प्रधानमित्यर्थः। न तज्जगत्कारणवादिवाक्यप्रतिपाद्यम्; कुतः? इक्षतेः – सच्छब्दवाच्यसम्बन्धिव्यापारविशेषाभिधायिन ईक्षतेर्धातोश्श्रवणात्। तदैक्षत बहु स्यां प्रजायेय (छा.६.२.३) इति ईक्षणक्रियायोगश्चाचेतने प्रधाने न सम्भवति। अत ईदृशेक्षणक्षमश्चेतनविशेषः सर्वज्ञस्सर्वशक्तिः पुरुषोत्तमस्सच्छब्दाभिधेयः। तथा च सर्वेष्वेव सृष्टिप्रकरणेष्वीक्षापूर्विकैव सृष्टिः प्रतीयते – स ईक्षत लोकान्नु सृजा इति स इमाल्लोकानसृजत (एै.१.१,२) स ईक्षाञ्चक्रे … स प्राणानसृजत (प्र.६.३,४) इत्यादिषु। ननु च कार्यानुगुणेनैव कारणेन भवितव्यम्। सत्यम्; सर्वकार्यानुगुण एव सर्वज्ञस्सर्वशक्तिस्सत्यसङ्कल्पः पुरुषोत्तमस्सूक्ष्मचिदचिद्वस्तुशरीरकः। यथाऽऽह – पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबृलक्रिया च (श्वे.६.अ.८), यस्सर्वज्ञस्सर्विवद्यस्य ज्ञानमयं तपः (मु.१.१.९) यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं ….. यस्य मृत्युश्शरीरम् … एष सर्वभूतान्तरात्मा (सुबा.७.१) इति। तदेतत् – न विलक्षणत्वात् (ब्र.सू.२.१.४) इत्यादिषु प्रतिपादयिष्यते। अत्र सृष्टिवाक्यानि न प्रधानप्रतिपादनयोग्यानीत्युच्यते। वस्तुविरोधस्तु तत्रैव परिहरिष्यते ॥
सिद्धान्तारम्भः
यत्तूक्तं प्रतिज्ञादृष्टान्तयोगादनुमानरूपमेवेदं वाक्यम् – इति, तदसत्, हेत्वनुपादानात्। येनाश्रुतं श्रुतम् (छां.६.१.६) इत्येकविज्ञानेन सर्वविज्ञाने प्रतिपिपादयिषिते सर्वात्मना तदसम्भवं मन्वानस्य तत्सम्भवमात्रप्रदर्शनाय हि दृष्टान्तोपादानम्। ईक्षत्यादिश्रवणादेव ह्यनुमानगन्धाभावः अवगतः॥५॥
तदैक्षत इति ईक्षणस्य गौणत्वशङ्का-परिहारौ
अथ स्यात् – न चेतनगतं मुख्यमीक्षणमिहोच्यते, अपि तु प्रधानगतं गौणमीक्षणम्, तत्तेज ऐक्षत – ता आप ऐक्षन्त (छां.६.२.३,४) इति गौणेक्षणसाहचर्यात् भवति चाचेतनेष्वपि चेतनधर्मोपचारः। यथा – वृष्टिप्रतीक्षाश्शालयः, वर्षेण बीजं प्रतिसञ्जहर्ष (रामा.सुन्दर.२६.६) इति। अतो गौणमीक्षणमितीमामाशङ्कामनुभाष्य परिहरति –
६. गौणश्चेन्नात्मशब्दात् ॥ १-१-६ ॥
यदुक्तं गौणेक्षणसाहचर्यात् सतोऽपीक्षणव्यपदेशस्सर्गनियतपूर्वावस्थाभिप्रायो गौण इति। ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा (छां.६.८.७) इति सच्छब्दप्रतिपादितस्य आत्मशब्देन व्यपदेशात्। एतदुक्तं भवति – ऐतदात्म्यमिदं सर्वम् … स आत्मा (छां.६.८.७.) इति चेतनाचेतनप्रपञ्चोद्देशेन सत आत्मत्वोपदेशोऽयं नाचेतने प्रधाने सङ्गच्छते – इति। अतस्तेजोऽबन्नानामपि परमात्मैवात्मेति तेजः प्रभृतयोऽपि शब्दाः परमात्मन एव वाचकाः। तथाहि – हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छां.६.३.२) इति परमात्मानुप्रवेशादेव तेजःप्रभृतीनां वस्तुत्वं तत्तन्नामभाक्त्वञ्चेति तत्तेज ऐक्षत, ता आप ऐक्षन्त (छां.६.२.३,४) इत्यपि मुख्य एवेक्षणव्यपदेशः। अतस्साहचर्यादपि तदैक्षत इत्यत्र गौणत्वाशङ्का दूरोत्सारितेति सूत्राभिप्रायः॥६॥
(कारणवस्त्वसाधारणेन मोक्षप्रदत्वेन सतः परमात्मत्वम्)
इतश्च न प्रधानं सच्छब्दप्रतिपाद्यम् –
७. तन्निष्ठस्य मोक्षोपदेशात् ॥ १-१-७ ॥
(तन्निष्ठस्येति सूत्रस्य अर्थविवरणम्)
मुमुक्षोश्श्वेतकेतोः तत्त्वमसि (छां.६.८.७) इति सदात्मकत्वानुसन्धानमुपदिश्य, तन्निष्ठस्य तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये (छां.६.१४.२) इति शरीरपातमात्रान्तरायो ब्रह्मसम्पत्तिलक्षणो मोक्ष इत्युपदिशति। यदि च प्रधानमचेतनं कारणमुपदिश्येत, तदा तदात्मकत्वानुसन्धानस्य मोक्षसाधनत्वोपदेशो नोपपद्यते। यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति (छां.१.१४.१) इति तन्निष्ठस्याचेतनसम्पत्तिरेव स्यात्। न च मातापितृसहस्रेभ्योऽपि वत्सलतरं शास्त्रमेवंविधतापत्रयाभिहति-हेतुभूतामचित्सम्पत्तिमुपदिशति। प्रधानकारणवादिनोऽपि हि प्रधाननिष्ठस्य मोक्षं नाभ्युपगच्छन्ति॥७॥
अचेतनीभूतप्रधानज्ञानस्य हानार्थमुपदेश्यत्वाशङ्कापरिहारः
इतश्च न प्रधानम् –
८. हेयत्वावचनाच्च ॥ १-१-८ ॥
सूत्रार्थविवरणम्
यदि प्रधानमेव कारणं सच्छब्दाभिहितं भवेत् – तदा मुमुक्षोश्श्वेतकेतोस्तदात्मकत्वं मोक्षविरोधित्वात् हेयत्वेनैव उपदेश्यं स्यात्। न च तत्क्रियते, प्रत्युतोपादेयत्वेनैव तत्वमसि (छां.६.८.७), तस्य तावदेव चिरम् (छां.६.१४.२) इत्युपदिश्यते॥ ८॥
तच्छब्देन प्रधानप्रतिपादने एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधः
इतश्च न प्रधानम् –
९. प्रतिज्ञाविरोधात् ॥ १-१-९ ॥
प्रधानकारणत्वे प्रतिज्ञाविरोधश्च भवति। वाक्योपक्रमे ह्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम्। तच्च कार्यकारणयोरनन्यत्वेन कारणभूतसद्विज्ञानात्तत्कार्यभूतचेतनाचेतनप्रपञ्चस्य ज्ञाततयैवोपपादनीयम् तत्तु प्रधानकारणत्त्वे चेतनवर्गस्य प्रधानकार्यत्वाभावात् प्रधानविज्ञानेन चेतनवर्गविज्ञानासिद्धेः विरुध्यते॥९॥
लयाधिष्ठानस्य कारणत्वोपपत्तिः
इतश्च न प्रधानम् –
१०. स्वाप्ययात् ॥ १-१-१० ॥
तदेव सच्छब्दवाच्यं प्रकृत्याह, स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषस्स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति (छां.६.८.१) इति सुषुप्तं जीवं सता सम्पन्नं, स्वमपीतः – स्वस्मिन्प्रलीनः इति व्यपदिशति। प्रलयश्च – स्वकारणे लयः। न चाचेतनं प्रधानं चेतनस्य जीवस्य कारणं भवितुमर्हाति। स्वमपीतो भवति – आत्मानमेव जीवोऽपीतो भवतीत्यर्थः। चिद्वस्तुशरीरकं तदात्मभूतं ब्रह्मैव जीवशब्देनाभिधीयत इति नामरूपव्याकरणश्रुत्योक्तम्। तज्जीवशब्दाभिधेयं ब्रह्म सुषुप्तिकालेऽपि प्रलयकाल इव नामरूपपरिष्वङ्गाभावात् केवलसच्छब्दाभिधेयमिति सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति (छां.६.८.१) इत्युच्यते। तथा समानप्रकरणे नामरूपपरिष्वङ्गाभावेन प्राज्ञेनैव परिष्वङ्गात् प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नाऽन्तरम् (बृ.६.३.२१) इत्युच्यते। आमोक्षाज्जीवस्य नामरूपपरिष्वङ्गादेव हि स्वव्यतिरिक्तविषयज्ञानोदयः। सुषुप्तिकाले हि नामरूपे विहाय सता सम्परिष्वक्तः पुनरपि जागरदशायां नामरूपे परिष्वज्य तत्तन्नामरूपो भवतीति श्रुत्यन्तरे स्पष्टमभिधीयते यदा सुप्तस्स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति (कौषी.४.१९), तस्माद्वा आत्मनः प्राणा यथायथं विप्रतिष्ठन्ते (कौषी.उ.४.४०); तथा त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा दंशो वा मशको वा यद्यद्भवन्ति तथा भवन्ति- इति च । तथा सुषुप्तं जीवं प्राज्ञेनात्मना सम्पिरष्वक्तः (बृ.६.३.२) इति च वदति॥
तस्मात् सच्छब्दवाच्यः परं ब्रह्म सर्वज्ञः परमेश्वरः पुरुषोत्तम एव। तदाह वृत्तिकारः – सता सोम्य तदा सम्पन्नो भवति इति, सम्पत्यसम्पत्तिभ्यामेतदध्यवसीयते – प्राज्ञेनाऽत्मना सम्परिष्वक्तः (बो.वृ) इति चाह इति॥१०॥
कारणं परमात्मैवेति श्रुत्यन्तरैरुपपादनम्
इतश्च न प्रधानम् –
११. गतिसामान्यात् ॥ १-१-११ ॥
आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्। स ईक्षत लोकान्नु सृजा इति। स इमांल्लोकानसृजत (ऐत.१.१) तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः। आकाशाद्वायुः। वायोरग्निः। अग्नेरापः। अद्भ्यः पृथिवी (तै.आनं.१) तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः (सुबा.२) इत्यादि सृष्टिवाक्यानां या गतिः – प्रवृत्तिः; तत्सामान्यात् – तत्समानार्थत्वादस्य, तेषु च सर्वेषु सर्वेश्वरः कारणमवगम्यते। तस्मादत्रापि सर्वेश्वर एव कारणमिति निश्चीयते॥११॥
प्रकृतश्रुतावेव सर्वेश्वरकारणत्वोक्तिप्रदर्शनम्
इतश्च न प्रधानम् –
१२. श्रुतत्वाच्च ॥ १-१-१२ ॥
श्रुतमेव ह्यस्यामुपनिषदि अस्य सच्छब्दवाच्यस्य आत्मत्वेन नामरूपयोर्व्याकर्तृत्वं, सर्वज्ञत्वं, सर्वशक्तित्वं, सर्वाधारत्वम्, अपहतपाप्मत्वादिकं, सत्यकामत्वं, सत्यसङ्कल्पत्वञ्च – अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छां.६.३.२), सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः (छां.६.८.६), ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा (छां.६.८.६,७), यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितम् (छां.८.१.३), तस्मिन् कामास्समाहिताः (छां.६.८.५), एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशाको विजघत्सोऽपिपासस्सत्यकामः सत्यसङ्कल्पः (छां.८.१.५) इति॥
तथा च श्रुत्यन्तराणि – न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम्। स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः (श्वे.६.९), सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते (तै.आ.३.१२.१३), अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा (तै.आ.३.११.२१), विश्वात्मानं परायणम् (तै.ना.१.११.अनु), पतिं विश्वस्याऽत्मेश्वरम् (तै.११), यच्च किञ्चिञ्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा। अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः (तै.उ.ना.११), एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः (सुबा.७) इत्यादीनि।
प्रधानस्य सच्छब्दाप्रतिपाद्यत्वनिगमनम्
तस्माज्जगत्कारणवादिवाक्यं न प्रधानादिप्रतिपादनयोग्यम्। अतस्सर्वज्ञस्सर्वशक्तिः सर्वेश्वरेश्वरो निरस्तनिखिलदोषगन्धः अनवधिकातिशयासङ्ख्येयकल्याणगुणगणौघमहार्णवः पुरुषोत्तमो नारायण एव निखिलजगदेककारणं जिज्ञास्यं ब्रह्मेति स्थितम्॥
एतेषां सूत्राणां ब्रह्माज्ञानवाद्यननुगुणत्वम्
अत एव निर्विशेषचिन्मात्रब्रह्मवादोऽपि सूत्रकारेण आभिश्श्रुतिभिः निरस्तो वेदितव्यः; पारमार्थिकमुख्येक्षणादिगुणयोगि जिज्ञास्यं ब्रह्मेति स्थापनात् ॥
निर्विशेषवादे हि साक्षित्वमप्यपारमार्थिकम्। वेदान्तवेद्यं ब्रह्म जिज्ञास्यतया प्रतिज्ञातम्। तच्च चेतनमिति ईक्षतेर्नाशब्दम् (ब्र.सू.५) इत्यादिभिस्सूत्रैः प्रतिपाद्यते। चेतनत्वं नाम चैतन्यगुणयोगः। अत ईक्षणगुणविरहिणः प्रधानतुल्यत्वमेव ॥
किञ्च निर्विशेषप्रकाशमात्रब्रह्मवादे तस्य प्रकाशत्वमपि दुरुपपादम्। प्रकाशो हि नाम स्वस्य परस्य च व्यवहारयोग्यतामापदयन्वस्तुविशेषः। निर्विशेषस्य वस्तुनस्तदुभयरूपत्वाभावात् घटादिवदचित्त्वमेव ॥
तदुभयरूपत्वाभावेऽपि तत्क्षमत्वमस्तीति चेत् – तन्न, तत्क्षमत्वं हि तत्सामर्थ्यमेव। सामर्थ्यगुणयोगे हि निर्विशेषवादः परित्यक्तस्यात्। अथ श्रुतिप्रामाण्यादयमेको विशेषोऽभ्युपगम्यत इति चेत् हन्त तर्हि तत एव सर्वज्ञता, सर्वशक्तित्वं, सर्वेश्वरेश्वरत्वं, सर्वकल्याणगुणाकरत्वं, सकलहेयप्रत्यनीकतेत्यादयः सर्वेऽभ्युपगन्तव्याः। शक्तिमत्त्वं च कार्यविशेषानुगुणत्वम्; तच्च कार्यविशेषैकनिरूपणीयम्; कार्यविशेषस्य निष्प्रमाणकत्वे तदैकनिरूपणीयं शक्तिमत्त्वमपि निष्प्रमाणं स्यात्। किञ्च निर्विशेषवस्तुवादिनो वस्तुत्वमपि निष्प्रमाणम्। प्रत्यक्षानुमानागमस्वानुभवाः सविशेषगोचरा इति पूर्वमेवोक्तम्। तस्माद्विचित्रचेतनाचेतनात्मकजगद्रूपेण बहु स्याम् (छा.६.५.६) इतीक्षणक्षमः पुरुषोत्तम एव जिज्ञास्य इति सिद्धम्॥ १२॥
इति श्रीशारीरकमींमासाभाष्ये ईक्षत्यधिकरणम् ॥५॥