सूत्रार्थरत्नावली

[[सूत्रार्थरत्नावली Source: EB]]

[

** ॥ ॐ ॥
॥ सूत्रार्थरत्नावली ॥
। अथ प्रथमाध्यायः ॥
**

** ॥ अथ प्रथमः पादः ॥**

प्रायेणान्यत्र प्रसिद्धानां नामात्मकशब्दानां परमात्मनि समन्वयः प्रदर्श्यतेऽस्मिन्पादे।
<1-1-1>
%1.अधिकरणं ॥%

अत्र ब्रह्मजिज्ञासा कर्तव्येति समर्थ्यते।

%(1)ॐ ॥ अथातो ब्रह्मजिज्ञासा ॥ ॐ ॥%

ननु शास्त्रमिदमनारंभणीयम् । न्यायानुसंधानरूपविचारस्यैवाकर्तव्यत्वात्। तदकर्तव्यं च निर्विषयत्वादिहेतुभ्यः। तथाहि। विषयाभिमतं ब्रह्म न जीवचैतन्याद्भिद्यते। मानाभावात्। मानं भवत्प्रत्यक्षं वाऽनुमानं वाऽऽगमो वा। नाद्यः। घटपटवज्जीवेश्वरयोर्भेदानुपलंभात्। न द्वितीयः। कामगामित्वात्। न तृतीयः। परस्पराश्रयत्वात्। उपक्रमादिभिर्निर्णीततात्पर्यकस्य भेदागमस्य यजमानप्रस्तर इत्याद्यागमस्य प्रतीतार्थाप्रामाण्यप्रसंगेन भेदे प्रामाण्यायोगात्। उपक्रमादिभिर्निर्णीततात्पर्यस्यागमस्य भेदे प्रामाण्यं वाच्यं। तथा च शास्त्रेणोपक्रमाद्यनुसंधानरूपविचारप्रवृत्तौ निर्णीततात्पर्येण वेदेन भेदसिद्धिः। तत्सिद्धौ जीवभिन्नस्य ब्रह्मणः संधिग्धत्वापत्त्या शास्त्रेण प्रवृत्तिरिति। जीवात्मकत्वे च स्प्रकाशत्वेन नित्यसिद्धत्वान्न विषयत्वं। नापि परप्रयोजनं। परप्रयोजनं भवत्स्वर्गाद्यभ्युदयो वा मोक्षो वा स्यात्। नाद्यः। लघूपायेन तत्सिद्धेः। ना पि मोक्षः। जिज्ञासानंतरं मोक्षानुपलंभात्। अस्तु वा जीवव्यतिरिक्तं ब्रह्म। तथाऽपि नापरोक्षद्वारा विचारस्य तद्धेतुत्वं। साक्षात्कृतब्रह्मणामपि वसिष्ठादीनां तदनुपलंभात्। विषयप्रयोजनाभावात्। अथ शब्दोक्ताधिकारिविशेषसंभवेन ब्रह्मजिज्ञासायामधिकारी न विद्यते। अत एव न संबंधोऽपीति प्राप्ते पराकुर्वत्सूत्रमाह ॥

%ॐ अथातो ब्रह्मजिज्ञासेति ॥% अस्यार्थः ॥ अथ अध्ययनशमदमादिरूपाधिकारसंपत्त्यनंतरं। अतः स्वजन्यज्ञानजन्यमोक्षाख्यफलयुक्तत्वात्। ॐ गुणपूर्णस्य ब्रह्मणो विष्णोः जिज्ञासा श्रवणादिरूपो विचारः कर्तव्य इत्यर्थः ॥

एवंच कर्तव्यैव ब्रह्मजिज्ञासा। सप्रयोजनत्वात्। न च निर्विषयत्वेन सत्प्रतिपक्षता। जीवभिन्नस्य ब्रह्मण एव विषयत्वसंभवेन निर्विषयत्वासिद्धेः। न च भेदे मानाभावः। तद्विजिज्ञासस्वेति (तै.उ.3-1-1) श्रुतिसिद्धपूर्णत्वस्यैव मानत्वात्। न च जडेऽसाधारण्यं। जीवासंभावितगुणपूर्णत्वस्यैव हेतुत्वेन विवक्षितत्वात्। न चानुमानस्य कामगामित्वं। भिन्नोऽचिंत्य इति श्रुतिमूलत्वात्। न चोपक्रमाद्यनुसंधानरूपविचारप्रवृत्तौ भिन्नोऽचिंत्य (कोशिक श्रु.) इत्याद्यागमानां भेदे तात्पर्यनिर्णयः। तस्मिन्सति प्रकृतानुमानस्य प्रमाणत्वेन जीवभन्नविषयत्वसिद्धिः। तत्सिद्धौ च विचारप्रवृत्तिरित्यन्योन्याश्रय इति वाच्यं। तात्पर्यसंदेहे सत्येव विचारापेक्षणात्। अन्यथोपक्रमादीनामपि स्वार्थे तात्पर्यनिर्णयायोपक्रमाद्यंतरमन्वेषणीयं स्यादित्यनवस्था। तथा च जीवभिन्नस्य ब्रह्मणः संदिग्धत्वेन न निर्विषयत्वेन सत्प्रतिपक्षः। व्याप्यस्य प्रयोजनस्य सद्भावेन व्यापकस्याधिकारिणोऽपि सिद्धेः। न तदभावेनापि सत्प्रतिपक्षः। ननु साक्षात्कृत ब्रह्मणामपि वसिष्ठादीनां मोक्षानुपलंभेन सत्प्रयोजनत्वमसिद्धमिति चेन्न। अनुपलंभः किं प्रत्यक्षेण। उत प्रत्यक्षमात्रेण। नाद्यः। परमाण्वादीनामप्यभावप्रसंगात्। द्वितीयेऽपि वर्तमानकाले सत्त्वानुपलंभः। उत कदाऽपि। नाद्यः। ज्योतिष्टोमाद्यनुष्ठानभावप्रसंगात्। नात्यः। ब्रह्मप्रलयानंतरं वसिष्ठादीनां मोक्षोपलंभश्रवणात्। अत एव संबंधाभावश्च परास्तः। तदभावेनापि सत्प्रतिपक्षः। तस्माद्विचारः कर्तव्य एवेति शास्त्रमारंभणीयमिति सिद्धं ॥

॥ इति जिज्ञासाधिकरणं ॥

<1-1-2>
%2.अधिकरणं ॥%

अत्र ब्रह्मलक्षणमुच्यते ॥

%(2) ॐ ॥ जन्माद्यस्य यतः ॥ ॐ ॥%

ननु जीवेदं ब्रह्म न विष्णुः। जीवप्रापकरूढिसद्भावात्। न च विष्णुप्रापकयोगसद्भावाद्विष्णुरेव ब्रह्म योगाद्रूढेर्मुख्यत्वाद्बाधकं विना मुख्यार्थत्यागायोगात्। न च जिज्ञास्यत्वमेव बाधकं। जिज्ञासापदस्य ज्ञानेच्छावाचकत्वेन विचारार्थकत्वाभावात्। ततश्च जीवस्य ब्रह्मपद मुख्यार्थत्वादस्य ब्रह्मणोजीवत्वे सिद्धे तस्य च स्वप्रकाशत्वेन संदिग्धस्याविचार्यत्वात्प्रकृतानुगुणमेव जिज्ञासापदेन लक्षणीयमिति जिज्ञासाया अविहितत्वान्न ब्रह्मजिज्ञासा संभवतीति प्राप्ते सूत्रं पठति।

%॥ ॐ ॥ जन्माद्यस्य यत इति ॥% अस्यार्थः ॥ अस्य प्रमितजीवजडात्मकप्रपंचस्य। यतः यस्मात्। जन्मादि सृष्टिस्थितिसंहारनियमनज्ञानाज्ञानबंधमोक्षरूपाष्टकं। भवतीति श्रुतं तदेव ब्रह्म नान्यदित्यर्थः ॥

एवंच ब्रह्मशब्दस्य विष्णौ योगरूढत्वाद्विष्णुरेवेदं ब्रह्म। ब्रह्मशब्दस्य जीवे रूढत्वेऽपि रूढमात्राद्विद्वद्रूढेः प्राबल्येन निर्णयोपपत्तेः। अस्तु वा जीव एवरूढिस्तथाऽपि यतोवेति पूर्ववाक्योक्तकारणत्वपालकत्वसंहारकत्वमुक्तप्राप्यत्वानामयोगप्रसंगेन मुख्यार्थस्यापि त्याज्यत्वात्। न च तेषां जीवे संभवः। य उत्रिधा (ऋ.य1-154-4) त्वित्यादिना तेषां विष्ण्वैकनिष्ठत्वस्य सिद्धत्वाज्जिज्ञासाशब्दो विचारे रूढः। यदि वा लाक्षणिकः। उभयथाऽप्यात्मा वाऽरे इति (बृ.उ.6-5-6) श्रुतिसमाख्यानाद्विचार एवेति तद्विरोधेन न जीऽवोत्र विवक्षितः। ततश्च जीवातिरिक्तस्य ब्राह्मणः प्रागुक्तं जिज्ञास्यत्वं सिद्धं ॥

॥ इति जन्माधिकरणं ॥

<1-1-3>
%3. अधिकरणं ॥%

अत्र पूर्वोक्तजगज्जन्मादिकारणत्वरूपब्रह्मलक्षणस्य रुद्रादिष्वतिव्याप्तिपरिहाराय जगत्कारणे प्रमाणमुच्यते।

%(3) ॐ ॥ शास्त्रयोनित्वात् ॥ ॐ ॥%

ननु रुद्रादेरात्माश्रयप्रसंगेन रुद्रादिकारणत्वायोगान्नातिव्याप्तिः। सिद्धांत्यभिमतलक्षणस्य तत्राभावात् सिद्धांत्यनभिमतरुद्रव्यतिरिक्तजगत्कारणत्वोपपादनेनातिव्याप्तिदानस्यानुचितत्वात्। किंच सूत्रकाराभिमतं विष्णुजन्यबंधादियोगित्वं रुद्रादावंगीक्रियते न वा। आद्ये न तस्य कारणत्वसंभवः। बद्धस्य देवदत्तादितुल्यत्वात्। द्वितीयेऽसंभव एव वक्तव्यः। सिद्धांत्यभिमतस्य रुद्राजगन्निष्ठज्ञानाबंधादिकर्तृत्वस्य विष्णावभावादिति चेत्। स्यादयं दोषः। यदि सूत्रकृदभिमतलक्षणस्यातिव्याप्तिरुच्येत। न चैवं। किं नाम मयो वेति (तै.उ.3-1-1) श्रुत्युक्त लक्षणस्यैव। नच रुद्रादिनिष्ठबंधादि कारणत्वं श्रुत्यभिप्रेतं। रुद्रस्य विष्णुसमानत्वेन बंधाज्ञानादिशून्यत्वात्। अविद्यमानरुद्रादिनिष्ठबंधादिकर्तृत्वस्य श्रुत्यर्थत्वे घटस्य बंधादिकर्तृत्वमपि श्रुत्यर्थः स्यात्। ततश्च महदाकर्तृत्वमेव श्रुत्यर्थः। न सूत्रकारोक्तः। तस्य रुद्रादावनुमानेन सिद्धत्वादित्यतिव्याप्तिरेव। अत एव न छलप्रसंगोऽपि। प्रमाणं तु शिवो जगत्कर्ता तदिच्छुत्वे सति तत्कर्तृविष्णुसमानत्वात्। इति मानं। अस्य च सकललोकसिद्धत्वेन नासिध्यादिक्षुद्रोपद्रबः। ततश्च तद्विजिज्ञासस्वेति (तै.उ.3-1-1) वाक्ये रुद्रादिग्रहणे बाधकाभावात्। रूढिसद्भावाच्च। अतो रुद्र एव विवक्षितो न विष्णुरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ शस्त्रयोनित्वादिति ॥% अस्यार्थः ॥ शिवो जगत्कर्ता तदिच्छुत्वे सति तत्कर्तृविष्णुसमानत्वादित्याद्यनुमानैर्न रुद्रादेर्जगत्कारणत्वं कल्प्यं। कुतः। शास्त्रयोनित्वात्। शास्त्रं ऋगादिरूपं। योनिः ज्ञप्तिकारणं यस्य तच्छास्त्रयोनित्वं। तस्माज्जगत्कारणं ब्रह्म। शास्त्रेकसमधिगम्यत्वादित्यर्थः।

एवंच विष्णोरेव जगत्कारणत्वं न रुद्रादीनां। रुद्रादिबंधकारणत्वादेरुद्रादावसंभवात्। न च रुद्रादिकारणत्वादि न यतो वेति श्रुत्यर्थ इति वाच्यं। इमानीत्यनेनोत्पत्त्यादिमत्तया प्रमाणप्रमितसर्वपदार्थग्रहणात्। रुद्रस्य चोत्पत्त्यादिमत्तया प्रमाणप्रमितत्वात्। अस्तु वा महदादिकर्तृत्वमेव यतो वेति श्रुत्यर्थः। तथाऽपि न रुद्रादावतिव्याप्तिः। कारणत्वस्य शास्त्रैकसमधिगम्यत्वेनानुमानप्रसत्त्म्यभावात्। वाद्युक्तानुमानस्य प्रतिपक्षासिध्यादिदोषग्रस्तत्वेनासाधकत्वात्। न च सकललोकसिद्धत्वान्नासिद्धिः। अस्मदादीनामसंमतत्वेन सकललोकप्रसिध्यभावात्। पामरप्रतीतेश्चातिप्रसंगेनासाधकत्वात्। तथा च शिवादिग्रहणे श्रुत्युक्तलक्षणासंभवरूपबाधकसद्भावात्। तद्विजिज्ञासस्वेति विष्णुरेव विवक्षित इति स एव जिज्ञास्य इति सिद्धं ॥

॥ इति शास्त्रयोनित्वाधिकरणं ॥

<1-1-4>

%4.अधिकरणं ॥%

अत्र विष्णोरेव जगत्कारणत्वेन शास्त्रगम्यत्वं नेतरेषामपीति समर्थ्यते।

%(4) ॐ ॥ तत्तु समन्वयात् ॥ ॐ ॥%

ननु विष्णोरिवान्येषामपि जगत्कारणत्वेन शास्त्रयोनित्वसंगीकार्यं। वेदव्याख्यानरूपपञ्चरात्राद्यागमाद्विष्णौ तात्पर्यावधारणवत्सर्वज्ञवादिप्रणीतवेदव्याख्यानरूपपाशुपताद्यागमाच्छिवादिष्वपि। कारणत्वाभिधायकवेदैकदेशतात्पर्यावधारणात्। सर्ववेदव्याख्यानप्रामाण्यसंभवे पञ्चरात्रादिप्रामाण्यमंगाकृत्य शैवाद्यागमप्रामाण्यनगंकीकारे कारणाभावात्। भागविशेषे विष्णुप्रतिपादकत्वस्य स्पष्टोपलम्भवद्भागाविशेषे शिवादिपरत्वस्य स्पष्टमुपलम्भेन प्रतीतिसध्रीचीनत्वस्योभयत्रसाभ्यात्। न च बहूनां कारणत्वासम्भवः। गुरुतरभारोद्धरणादौ प्रत्येकमसमर्थानां बहूनां कर्तृत्वस्य सर्वानुभवसिद्धत्वात्। न च सर्वे वेदा इत्यादिश्रुतिवरोधः। विष्णुप्रसिद्धशब्दलिंगाद्युपेताः सर्वे वेदा (कठ.2-15) इत्यर्थत्वात्तस्याः। न चैको नारायण (महोपनिषत्) इत्यादिरुद्रादिकारणतानिषेधकवाक्यविरोधः। तेषां विष्णुकारणताप्राशस्त्यपरत्वेनोदितानुदितहोमनिंदावाक्यवच्छिवादिकारणतानिषेधे तात्पर्याभावात्। न चोपक्रमादिविरोधः। उपक्रमादितो व्याख्यानस्य सर्वज्ञप्रणीतत्वेन बलवत्त्वात्। तस्माद्विष्णुवच्छिवादीनामपि कारणत्वेन शास्त्रयोनित्वादतिव्याप्तं जगत्कारणत्वमिति प्राप्ते सूत्रमाह ॥

%ॐ ॥ तत्तु समन्वयादिति ॥% अस्यार्थः ॥ तु शब्द एवार्थे। तदेव विष्ण्वाख्यं ब्रह्मैव। सं मुख्यतः शास्त्रयोनि। न रुद्रादिः। कुतः। समन्वयात् समीचीनोपक्रमादितात्पर्यलिंगादित्यर्थः ॥

एवं च शिवादीनां प्रमाणाभावेन जगत्कारणत्वाभावान्नातिव्याप्तिः। न च शेवाद्यागमनिर्णीततात्पर्यक वेदस्तत्र मानं। उपक्रमादिविरुद्धस्य शिवादौ वेदे तात्पर्यग्राहकस्य शैवाद्यागमस्यामानत्वात्। न च वैपरीत्यं। तेषामंतरंगत्वेन बलवत्त्त्वात्। शैवाद्यागमस्य तात्पर्यावधारणाय चोपक्रमादीनामनुसर्तव्यत्वेन नोपजीव्यत्वाच्च। न च प्रतीतिसध्रीचीनत्वेनागमस्य प्रामाण्यं। उपक्रमाद्यनुसंधानपूर्वकप्रतीतिसध्रीचीनत्वस्याभावात्। आपाततः प्रतीतिसध्रीचीनत्वस्याप्रयोजकत्वात्। उदितहोमादिनिंदाया उदितहोमादेर्विहितत्वेन निंदायां तात्पर्याभावेऽपि शिवादिकारणत्वस्याप्रामाणिकत्वेन तन्निषेधकवाक्यानां स्वार्थे तात्पर्यसद्भावाच्च तस्मादनीतव्याप्तं जन्मादिकारणत्वं ब्रह्मलक्षणमिति सिद्धं ॥

॥ इति समन्वयाधिकरणं ॥

%5.अधिकरणं ॥%

अत्र संशब्दोक्तं वाच्यत्वं कार्त्स्न्यं चाक्षिप्य समाधीयते।

%(5) ॐ ॥ ईक्षतेर्नाशब्दं ॥ ॐ ॥%

ननु पूर्वसूत्रे तच्छब्दोक्तं ब्रह्म शब्दगोचरं शास्त्रोक्तकारणं न शास्त्रमुख्यार्थत्वं न। कुतः। अवाच्यत्वात्। मुख्यार्थत्वस्य च यतो वाचो निवर्ततेत्यादि (तै.उ.2-4-1) श्रुतिसिद्धत्वात्। न ह्यवाच्यस्य मुख्यार्थता संभवतीति न शास्त्रोक्तं जगत्कारणत्वं तस्येति प्राप्ते सूत्रमाह ॥

%ॐ ॥ ईक्षतेर्नाशब्दमिति ॥% अस्यार्थः ॥ तत् ब्रह्म। अशब्दं न अशब्दवाच्यं न किंतु वाच्यमेव। कुतः । ईक्षतेः ईक्षतिर्ज्ञानं । तद्विषयत्वादित्यर्थः ॥

एवंचेक्षणीयत्वाऽन्यथाऽनुपपत्त्या वाच्यत्वस्यैव सिद्धत्वेनावाच्यत्वस्यासिद्धेः। नचेक्षणीयत्वमसिद्धमिति वाच्यं। स एतस्मादिति (प्र.5-5-) श्रुतिसिद्धत्वात्। न च वाच्यत्वानुमानस्य यतो वाच इत्यादि श्रुतिबाधः। यतो वाच इति श्रुतेः प्रसिद्धत्वाभिधायकत्वेनावाच्यत्वानभिधायकत्वात्। अप्रसिद्धेरवाच्यमिति (गारुडे) स्मृतेः। ततश्चावाच्यत्वरूपबाधकाभावात्कारणत्वं विष्णोरेवेति सिद्धं ॥

<1-1-6>

%(6) ॥ ॐ ॥ गौणश्चेन्नात्मशब्दात् ॥ ॐ ॥%

नन्वीक्षणीयत्वहेतोर्व्यधिकरणासिद्धत्वात्। आत्मन्येवामात्मानं पश्येदित्यादिश्रुत्युक्त आत्मा गौणो नाम सत्त्वादिगुणबद्धो जीव एव। अतस्तदन्यथाऽनुपपत्त्या वाच्योऽपि स एव स्यान्न निर्गुणः परमात्मेति प्राप्ते सूत्रमाह ॥

%ॐ गौणश्चेन्नात्मशब्दादिति ॥% अस्यार्थः ॥ गौणः सत्त्वादिगुणबद्धो जीव एव। स एतस्मादिति (प्र-5-5) ईक्षातिश्रुत्युक्त इति चेन्न। कुतः। आत्मशब्दात् ईक्षणीयवस्तुनि आत्मानं पश्येदित्यात्मशब्दश्रवणादित्यर्थः ॥

॥ एवंच यो गुणैः सर्वत इति द्वे वाव ब्रह्मणा (तलवकारब्राह्मणं) इत्यादिवाक्येष्वात्मशब्दश्रवणात्। तस्य सत्वादिगुणशून्यत्वेनोक्तत्वात्। स एतस्मादिति श्रुतेस्तत्परत्वस्यैव वक्तव्यत्वात्। समाख्यालब्धस्यैव श्रुत्यर्थत्वात्। आत्मपर मुख्यार्थेै निर्गुणे दृश्यतयेक्षतिश्रुतिप्रतिपाद्ये संभवति सत्यमुख्यार्थस्य गौणस्य ग्रहणायोगात्। निर्गुणब्रह्मैवोदितं। अतः स एव वाच्यो न जीव इति सिद्धं ॥

<1-1-7>

%(7) ॥ ॐ ॥ तन्निष्ठस्य मोक्षोपदेशात् ॥ ॐ ॥%

नन्वात्मशब्दो मुख्यत एव गौणात्मपरःस्यात्। उक्तश्रुतिस्मृतिष्वात्मशब्दस्य निर्गुणे विष्णौ मुख्यत्वेन जीवेष्वमुख्यत्वेनेत्यनुक्तेनात्मानात्मशब्दयोश्चेतनाचेतनविषयत्वसंभवात्। तच्छब्दयोः प्रसिद्धचेतनाचेतनपरत्वे श्रुतेरार्जवं स्यात्। प्रसिद्धार्थापरित्यागाद्रूपशब्दस्यानेकार्थाकल्पनाच्च। दुःखादिदोषस्यौपाधिकत्वेन जीवस्यापि स्वभावतो निर्दोषतया श्रुतेः स्वभावविषयत्वोपपत्तेरित्याशंकां परिहर्तुं सूत्रं पठति ॥

%ॐ ॥ तन्निष्ठस्य मोक्षोपदेशादिति ॥% अस्यार्थः ॥ तन्निष्ठस्य परमात्मज्ञानिनः। मोक्षोपदेशात् यस्यानुवित्त (बृ.उ.6-4-13) इत्यादौ मोक्षस्य श्रुतत्वात्। आत्मशब्दमुख्यवाच्यो न जीव इत्यर्थः।

एवंच गुणबद्धजीवज्ञानिनस्तत्ज्ञानाङ्गुणबंधनिवृत्तिरूपो मोक्षो न संभवति। यस्यानुवित्त इति श्रुतौ ब्रह्मज्ञानिनो मोक्षोपदेशस्य श्रवणात्। अयमात्मा ब्रह्मेति (मां.उ.1-2, बृ.उ.4-5-19) श्रुत्याऽऽत्मशब्दस्य विष्णावेव मुख्यत्वात्। न गौण आत्मा किंतु निर्गुणब्रह्म एवेति सिद्धं।

<1-1-8>

%(8) ॥ ॐ ॥ हेयत्वावचनाच्च ॥ ॐ ॥%

युक्त्म्यंतरेणात्मशब्दोदितो न गौण इत्याह सूत्रकृत् ॥

%ॐ ॥ हेयत्वावचनाच्चेति% ॥ अस्यार्थः ॥ हेयत्वावचनात् ब्रह्मणो मोक्षार्थं प्राधान्येनाज्ञेयत्वरूपहेयत्वस्याप्रतिपादनात् प्रत्युत जानथेति अहेत्ववचनाच्च। न गौण आत्मशब्दवाच्यः ॥ किंतु निर्गुणविष्णुरेवेत्यर्थः ॥

एवंच न केवलं तन्निष्ठस्य मोक्षोपदेशात्किंतु तमेवैकमिति (मुं.उ.2-2-5) श्रुतावात्मनो हेयत्वावचनात्। अन्यावाचो विमुंचथेति मुमुक्षुभिर्हेयत्ववचनाच्च। गौण आत्मशब्दवाच्यो न किंतु निर्गुणो विष्णुरेवेत्याशयः। तथा चात्मशब्दादीक्षतिश्रुत्युक्तोऽपि निर्गुण एवेति सिद्धं। तस्येक्षत्यन्यथाऽनुपपत्त्या वाच्यत्वमिति सिद्धं ॥

<1-1-9>

%(9) ॐ ॥ स्वाप्ययात् ॥ ॐ ॥%

युक्त्यंतरेणापि निर्गुणस्य विष्णोर्वाच्यत्वमुपपादयत्सूत्रमुपन्यस्यति ॥

%ॐ ॥ स्वाप्ययादिति ॥% अस्यार्थः ॥ स्वस्य स्वस्मिन् अप्ययात् अप्ययपदोक्त लयवचनात्। आत्मानं विलापयतीति श्रुत्युक्तो निर्गुण एव न गौणः। अत एव चासौ शब्दवाच्य इत्यर्थः।

॥ एवंच पूर्णमद इति (बृ.उ.7-1-1) श्रुतौ स्वाप्ययपदोपलक्षितपूर्णत्वस्य वचनात्। स्वस्य स्वस्मिन्नेवाप्ययवचनाच्च। स देव इति (स्कांदे) स्पष्टस्मृतावाच्मन्येव विलापयतीति स्वस्य स्वस्मिन्नेवाप्ययवचनात्। तस्य च हरिगुणनिष्ठतायाः स्मृतौ वचनात्। गौण आत्मनि निर्दोषस्य लयाभावाच्च। अंय निर्गुण एव न गौण इति सिद्ध ॥

<1-1-10>

%(10) ॐ ॥ गतिसामान्यात् ॥ ॐ ॥%

नन्वस्तु निर्गुणस्य विष्णोर्वाच्यत्वोपपत्तौ सत्यां कारणत्वेन शास्त्र्गग्यत्वं। तथा चोपक्रमादिबलात्प्रसिद्धशाखास्वेव कारणत्वेन प्रतिपाद्यत्वं पर्यवसितं। अप्रसिद्धशाखासु पुनरन्योऽपि कारणत्वेनोच्यतां। न च ता न संति। तासामानंत्येनेयत्ताऽनिश्चयादिति प्राप्ते सूत्रकृदाह ॥

%ॐ ॥ गतिसामान्यदिति ॥% अस्यार्थः ॥ गतेः नानाशाखजन्यज्ञानस्य। सामान्यात् एकरूपत्वश्रवणात्। न विष्णोरन्यः कारणत्वेन शाखांतरप्रतिपाद्य इत्यर्थः ॥

॥ एवंच सर्वे वेदा इति पैंगिश्रुत्या सर्वे वेदा इतिहासाश्च विषयकृतो वा प्रकारकृतो वा विरोधाभावेन ज्ञानरूपमेकमेव ब्रह्मस्वरूपं ज्ञापयंति। एवं सर्वशाखोत्पाद्यज्ञानस्यैकविधत्वोक्तेर्न कासुचिच्छाखास्वन्यथोक्तेश्च विष्णुरेव कारणत्वेन सर्वशाखासु प्रतिपाद्य इति फलितं ॥

%(11) ॐ ॥ श्रुतत्वाच्च ॥ ॐ ॥%

इतश्च निर्गुणं ब्रह्म वाच्यमिति सिंहावलोकनन्यायेनाह सूत्रकृत् ॥

%॥ ॐ ॥ श्रुतत्वाच्चेति ॥% अस्यार्थः ॥ एको देव इति (श्वे.6-11) श्रुत्युक्तत्वाच्च नाशाब्दवाच्यं ब्रह्मेत्यर्थः ॥

॥ एवंचैको देवः सर्वभूतेष्विति श्वेताश्वतश्रुतौ सत्त्वादिगुणबंधविधुरस्य निर्गुणस्य वाच्यत्वोक्तेः। अवाच्यस्य पदार्थस्य न श्रुतिपदेनोक्तत्वात्। अवाच्यस्य ब्रह्मणो लक्ष्यत्वकल्पनस्यान्याय्यत्वात्। तस्य सर्वशब्दवाच्यतयैव परेणांगीकृतत्वात्। ततश्चावाच्यत्वरूपबाधकाभावादुपक्रमादिलिंगैर्विचारे क्रियमाणे तस्यैव कारणत्वावगतेर्गतिसामान्याच्च कारणत्वं तस्यैवेति सिद्धं ॥

॥ इति ईक्षत्यधिकरणं ॥

%6.अधिकरणं ॥%

अत्र लोकतोऽन्यत्रप्रसिद्धानंदमयशब्दोपलक्षितगुणिवाचिशब्दानां च ब्रह्मणि समन्वयः क्रियते।

<1-1-12>

%(12) ॐ ॥ आनंदमयोऽभ्यासात् ॥ ॐ ॥%

नन्वानंदमयश्चतुर्मुखावभिन्नौ। नामसांकर्यात्। विद्यते खलु चतुर्मुखनिष्ठो ब्रह्मशबद आनंदमये। आनंदमयमधिकृत्यास्ति ब्रह्मेति (तै.उ.2-6-1) ब्रह्मशब्द श्रवणात्। आनंदमयसमानार्थकशतानंदनाम च हिरण्यगर्भे वर्तते। रुद्रो वाऽऽनंदमयः। यश्चासावादित्य (तै.उ.2-8-5) इत्यानंदमयस्य सूर्ये प्रोक्तत्वेन सूर्यांतर्गतत्वस्य च रुद्रलिंगत्वात्। सूर्याधिष्ठातृत्वेन्द्रलिंगत्वादिन्द्रोवा। ब्रृहस्पतिलिंगत्वाद्‌बृहस्पतिर्वा। सोऽकामयतेति (तै.उ.2-6-2) स्वाभिमन्यमानस्य बहुभावकामित्वाच्चित्प्रकृतिर्वा। बहुभावादचित्प्रकृतिर्वा। तत्तद्देहगतसर्वजीवा वा। अन्नरसमय (तै.उ.2-1-3) इत्युक्तजीवप्रायपाठात्। अन्नमयादीनामन्नादिविकाराभिमानित्वेन जीवत्वस्य वक्तव्यत्वात्। न च ब्रह्मशब्दो बाधकः। ब्रह्माणी जीवाः सर्वेऽपीति जीवेऽपि ब्रह्मशब्दश्रवणात्। इति प्राप्ते समादधत्सूत्रमाह।

%॥ ॐ ॥ आनंदमयोऽभ्यासदिति ॥% अस्यार्थः ॥ आनंदमयादिशब्दवाच्यो विष्णुरेव न प्रकृत्यादिः। कुतः। अभ्यासात् प्रतिप्रकारणमानंदमयादौ ब्रह्मशब्दश्रवणादित्यर्थः ॥

॥ एवंचासन्नैव स भवति। असद्‌ब्रह्मोति चेद्वेद। अस्तिब्रह्मोति चेद्वेदे (तै.उ.2-6-1) त्यादिश्रुतिस्मृतिषु ब्रह्मशब्दस्य विष्णावेव परममुख्यत्वस्योक्तत्वात्। आनंदमयशब्दवाच्योऽपि विष्णुरेवेति सिद्धं ॥

<1-1-13>

%(13) ॐ ॥ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ ॐ ॥%

नन्वत्र विकारार्थक मयट् शब्दप्रयोगात्। ज़प्रकृतेर्विकारात्मकत्वाच्चेतनप्रकृत्यादीनां च विकाराभिमानित्वात्। प्रकृत्यादीनामेवानंदमयादिशब्दवाच्यत्वं स्यान्नतु परमात्मनः। तस्याविकारित्वादनभिमानित्वादिति प्राप्ते तन्निरासार्थमुक्तमाक्षिप्य समादधत्सूत्रमाह ॥

%ॐ ॥ विकारशब्दान्नेति चेन्न प्राचुर्यादिति ॥% अस्यार्थः ॥ विकारशब्दात् विकारार्थकमयट्‌शब्दात्। आनंदमयादिर्विष्णुर्नेति चेन्न। कुतः। प्राचुर्यात् मयट्‌शब्दस्य प्राजुर्यपदोक्तपूर्णत्वाभिधायकत्वादित्यर्थः ॥

एवंच मयट्‌शब्दस्य प्रचुरानंदत्वात्। अन्नमयादीनामपि ब्रह्मत्वेन तद्गतमयटो विकारार्थकत्वाभावात्। न चान्नमयादिशब्दानामन्नमयादिप्राटचुयार्थकत्वेऽल्पार्थता। अद्यतेऽत्तिचे (तै.उ.2-2-2) त्यादिना सर्वभूतोपजीव्यत्वसर्वात्तृत्वयोरेवान्नमयशब्दार्थत्वात्। उपजीव्यत्वमेवाद्यत्वमित्याशयात्। प्रायपठितमयटामर्थद्वयकल्पनानौचित्यात् आनंदादिस्वरूपे हरौ प्रचुरप्रकाशो रविरितिवद्विशेषेण तथा व्यवहारस्योपपत्तेरानंदमयादिर्विष्णुरेवेति सिद्धं ॥

<1-1-14>

%(14) ॐ ॥ तद्धेतुव्यपदेशाच्च ॥ ॐ ॥%

आनंदमयमात्रस्य विष्णुत्वे हेत्वंतररूपं प्राचुर्यमेव मय़र्थ इत्यत्र च हेतुं प्रतिपादयत्सूत्रमुपन्यस्यति॥

ॐ ॥ %तद्धेतुव्यपदेशाच्चेति% ॥ अस्यार्थः ॥ चःसनमुच्चये। तस्य आनंदमयस्य। विष्णुत्वे लोकचेष्टकत्वाख्यहेतोः। व्यपदेशात् कोह्येवान्यादिति (तै.2-7) श्रुतावुक्तत्वाच्च आनंदमयो विष्णुरेवेत्यर्थः ॥

॥ एवंच न केवलं ब्रह्मशब्दाभ्यासात् किंत्वानंदमयप्रकरणे विष्णोरानंदपूर्णत्वेनानंदमयत्वे प्राचुयंस्यैव मयडर्थत्वे च लोकचेष्टकत्वाख्य हेतूक्तेश्चानंदपूर्णत्वेनैवानंदमयशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

<1-1-15>

%ॐ ॥ मांकवर्णिकमेव च गीयते ॥ ॐ ॥%

ननु ब्रह्मशब्दस्यापरब्रह्माणि जीवेऽप्युपपत्तेः। तस्य परब्रह्माणि मुख्यत्वेऽपि विष्णोरानंदमयावयवत्वोक्त्यादिना बाधकेनामुख्यार्थस्यैव ग्रहणोपपत्तेरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ मांत्रवर्णिकमेव च गीयत इति ॥% अस्यार्थः ॥ यतः मांत्रवर्णिकं सस्यं ज्ञानमनंतं ब्रह्मेति [तै.2-1] मंत्रवर्णोक्तं ब्रह्म। गीयते आनंदमयादिशब्दैः प्रतिपाद्यते। अत आनंदमयादिशब्दवाच्यं ब्रह्मैवेत्यर्थः ॥

॥ एवंच सत्यज्ञानादिशब्दानामन्नमयादिशब्दानां चानुसंधाने सत्येकार्थत्वप्रतीतेः। न चानंदमयस्यैव ब्रह्म्तेव ब्रह्मणस्तत्पुच्छत्वोक्तिविरोधः। स शिरः स दक्षिण इति (चतुर्वेदशिखायां) श्रत्याऽवयविन एवावयत्वोक्तेः आनंदमयादिशब्दवाच्यं ब्रह्मैवेति सिद्धं ॥

<1-1-16>

%॥ ॐ ॥ नेतरोऽनुपपत्तेः ॥ ॐ ॥%

ननु ब्रह्मशब्दस्य साधारणत्वात्। तद्धेतुव्यपदेशस्य विष्णुनिष्ठतया स्पष्टमप्रतिभानात्। मंत्रवर्णसमाख्यायाश्चान्यलिंगादिभ्यो दुर्बलत्वेन सावकाशत्वात्। अनन्यथासिद्धहेत्वंतरस्य चाभावात्। आनंदमयादयो विरिंचादय एव स्युरिति प्राप्ते सूत्रमवतारयति ॥

%ॐ॥ नेतरोऽनुपपत्तेरिति ॥% अस्यार्थः ॥ इतरः चतुर्मुखादिः न। कुतः। अनुपपत्तेः ब्रह्मविदाप्नोति परमिति [तै.उ.2-2-2] मोक्षजनकज्ञानविषयत्वायोगादित्यर्थः ॥

एवंच ब्रह्मशब्दशतानंदत्वाष्टमूर्तित्वबहुभावादिरूपोक्तप्रापकेनान्नमयादिशब्दैर्विरिंचादिरेव नोच्यते। विष्ण्वन्यविरिंचादिज्ञानान्मोक्षानुपपत्तेः। ब्रह्मविदाप्नोति परमिति श्रुतौ आनंदमयादेर्मुक्तिहेतुज्ञानविषयत्वोक्तेरानंदमयादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

<1-1-17>

%(17) ॥ ॐ ॥ भेदव्यपदेशाच्च ॥ ॐ ॥%

हेत्वंतरेण ब्रह्मादिनामानंदमयत्वं पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ भेदव्यपदेशाच्चेति ॥% अस्यार्थः ॥ चतुर्मुखादेरानंदमयस्य भेदकधर्मोक्तेश्च। नानंदमय इतर इत्यर्थः ॥

॥ एवंच ते ये शतमित्यत्र (तै.उ.2-4-8) विरिंचस्य रुद्राच्छतगुणानंदत्वोक्तेरानंदमयस्य च यतो वाच (तै.उ.2-4-1) इत्यादिनाऽपरिमितानंदत्वोक्तेः। रुद्रस्य विरिंचाच्छतांशोनानंदत्वोक्तेः। बृहस्पत्यादीनामुत्तरोत्तरापेक्षया शतांशोनानंदत्वोक्तेः। अदृश्यत्वादौ (तै.2-7) प्रकृत्याद्ययोग्यस्वातंत्र्यादिभेदकधर्मश्रवणात्। ब्रह्मादिजीवसमुदायस्य स यश्चायमि (तै.2-8) त्यत्राप्रकृष्टोत्कृष्टसर्वजीवस्थितिरूपभेदकधर्मोक्तेः। तत्त्वमसीत्यादि (छां.6-8) श्रुतीनामर्थोतरकल्पनाच्च। जीवेश्वरयोर्भेदस्य स्थापितत्वादानंदमयादिर्विष्णुरेवेति सिद्धं ॥

<1-1-18>

%(18) ॥ ॐ ॥ कामाच्च नानुमानापेक्षा ॥ ॐ ॥%

ननु भेदोक्तेः श्रुतिविरोधाभावेऽपि जीवो ब्रह्माभिन्नशेतनत्वाद्ब्रह्मवत्। भेदो मिथ्या भेदत्वाच्चंद्रभेदवत्। विमतानि शरीराणि मद्भोगायतनानि शरीरत्वान्मच्छरीरवदित्याद्यनुमानविरोधः स्यादेवेति प्राप्ते सूत्रमवतारयति ॥

%॥ ॐ ॥ कामाच्च नानुमानापेक्षेति ॥% अस्यार्थः ॥ अद्वैतश्रुत्यनुकूलानुमानस्याभावात्। केवलानुमानस्य च कामात्। इच्छामनुसृत्य प्रवृत्तत्वात्। नानुमानापेक्षा। अतींद्रियार्थविषये शुष्कानुमानापेक्षा न कार्येत्यर्थः ॥

एवंच प्रत्यक्षादि विरुद्धस्य श्रुतिसहाय्यरहितस्य चानुमानस्य तत्त्वज्ञानं प्रति कारणत्वाभावात्। ईश्वरो न स्वतंत्रश्चेतनत्वाद्देवदत्तादिवदित्यप्यनुमातुं शक्यत्वात्। प्रत्यक्षादिविरुद्धस्यापि प्रमाणत्वे चेतनत्वादेरपि प्रामाण्यंस्यादविशेषादिति विपक्षेबाधकतर्कस्य संभवात्। यथा कामेति स्कांदवाक्ये केवलानुमानस्य कामगामित्वेनोक्तत्वात्। जीवेशयोर्भेदस्य सिद्धत्वेनानंदमयादि ब्रह्मैवेति सिद्धं ॥

<1-1-19>

%(19) ॥ ॐ ॥ अस्मिन्नस्य च तद्योगं शास्ति ॥ ॐ ॥%

नन्वस्त्वानंदमयेन ब्रह्मणा हिरण्यगर्भादिजीवानां भेदः। तथाऽपि स व्यावहारिको न पारमार्थिको मुक्तावपि। उदाहृतश्रुतीनां सांसारिकभेदपरत्वोपपत्तेरिति प्राप्ते सूत्रमाह।

%ॐ ॥ अस्मिन्नस्य च तद्योगं शास्तीति ॥% अस्यार्थः ॥ युक्तिसमुच्चये च शब्दः। यतः अस्मिन् आनंदमयप्रकरणे। मोक्षेऽपि अस्य जीवस्य। तद्योगं आनंदमयादीनां संबंधं। शास्ति श्रुतिः प्रतिपादयति। अतोऽपि आनंदमयादिर्ब्रह्मैव न देहादिरित्यर्थः ॥

॥ एवंचानिलयनेऽभय (तै.2-7) मित्येतमानंदमयमि (तै.2-8) त्यादिषु ब्रह्मज्ञानिनः सर्वज्ञेन ज्ञैतेनैव चतुर्मुखेन च सह स्वयोग्यकामानां मुक्तौ प्राप्तेः। देहादुत्क्रांतजीवस्य पूर्णानंदस्य परमात्मनः समीपप्रापकत्वोक्तेश्च। जीवेशयोर्भेदः पारमार्थिक इति सिध्याऽऽनंदमयादिरब्रह्मैवेति सिद्धं ॥

॥ इति आनंदमयाधिकरणं ॥

%7. अधिकरणं ॥%

अत्राधिदैवगतान्यत्र प्रसिद्धेंद्रादिनामसमन्वयसिध्यर्थं देहांतःस्थत्वरूपलिंगसमन्वयः क्रियते।

<1-1-20>
%(20) ॐ ॥ अंतस्तद्धर्मोपदेशात् ॥ ॐ ॥%

नन्वंतःस्थत्वेन श्रुत्योच्यमान इंद्रो भवेत्। इंद्रश्रुतेः ॥ (तै.आ.3-11-6) सूर्यो वा दिवस्पतित्वलिंगातं। वरुणलिंगाद्वरुणो वा। त्वष्टृश्रुतेस्वष्टा वा। अग्निबृहस्पतिश्रुतिभ्यामग्निबृहस्पती वा न चेंद्रादिशब्दा अन्यत्र नेतुं शक्यंते। तेषां देवेष्वेव रूढत्वात्। तेषामैश्वर्यादिशब्दप्रवृत्तिनिमित्तत्वाच्च न चादृश्यत्वादिलिंगादंतःश्थो विष्णुः। श्रुत्यादिभ्यो लिंगमात्रस्य दुर्बलत्वात्। इति प्राप्ते सूत्रमाह।

%॥ ॐ ॥ अंतस्तद्धर्मोपदेशादिति ॥% अस्यार्थः ॥ अंतः अंतः प्रविष्टमिति [तै.आ.3-11] हृदयांतः श्रुतं ब्रह्मैव नेंद्रादिः। कुतः। तद्धर्मोपदेशात्। तस्मिन् अंतःश्रुतेः। क्षीराब्धिमध्यवर्त्तित्वप्रलयोदधिस्थितत्वब्रह्मांडवीर्यत्वादिरूपविष्णुधर्माणां अंतः समद्र [तै.आ.3-11-1] इत्यादौ श्रतत्वादित्यर्थः ॥

॥ एवंच निरवकाशलिंगैः सावकाशान्यप्रापकश्चतिलिंगानां बाधोपपत्तेरयमंतःस्थो विष्णुरेवेति सिद्धं ॥

<1-1-21>

%(21) ॐ ॥ भेदव्यपदेशाचाचन्यः ॥ ॐ ॥%

ननु समुद्रस्थत्वादिलिंगादंतःस्थो विष्णुस्तर्हि तेनांतःस्थेन विष्णुनेंद्रादीनामभेदोऽस्तु। इंद्रादिप्रापकश्रुत्यादेरपि सद्भावात्। श्रुत्यादेश्च स्वभावतो लिंगस्य निरवकाशतया बलक्त्वेनान्यतरबाधेनान्यतरपक्षनिर्णयायोगात् ततश्च पूर्वोत्तरपक्षद्वयेऽन्योन्यं बाध्यबाधकभावशून्ये सति तदन्यथाऽनुपत्त्यांऽतःस्थेन विष्णुनेंद्रादीनामभेदः प्राप्त इत्याशंकां परिहरनन्मूत्रमुपन्यस्याति।

%॥ ॐ ॥ भेदव्यपदेशाच्चान्य इति ॥% अस्यार्थः ॥ न केवलमंतःस्थो विष्णुः किंत्विंद्रादिभ्योऽन्यश्च। कुतः। भेदव्यपदेशात्। तस्य तदंतर्यामित्वतत्प्रेरकत्वादिरूपभेदकधर्मश्रवणादित्यर्थः ॥

॥ एवंच इंद्रस्यात्मा, (तै.आ.3-11-3) वायोरात्मानं, (तै.आ.3-11-4) अंतरादित्ये, (तै.आ.3-11-6) इत्यादि श्रुतिषु भेदकधर्मश्रवणात्। न चोभयप्रापकान्यथाऽनुपपत्त्यैतत्कल्प्यं निरवकाशेन विष्णुलिंगेन सावकाशान्यप्रापकश्रुतिलिंगानां बाधोपपत्तेः। तस्मादयमंतःस्थो विष्णुरेवेति सिद्धं ॥

॥ इति अंतःस्थत्वाधिकरणं ॥

%8.अधिकरणं ॥%

अत्र भगवति लोकतोऽन्यत्रप्रसिद्धाकाशपदोपलक्षिताधिभौतिकाशेषशब्दसमन्वयः क्रियते।

<1-1-22>
%(22) ॐ ॥ आकाशस्तल्लिंगात् ॥ ॐ ॥%

नन्वस्य लोकस्येति श्रुत्युक्ताकाशो भूताकाश एव। आकाशशब्दस्य तत्र रूढत्वात्। न चाथमाकाशो विष्णुः। आकाशशब्दस्य तत्र यौगिकत्वेन सत्प्रतिपक्षतेति वाच्यं। योगस्य हीनबलत्वेनाप्रतिपक्षत्वात्। न चाकाशशब्दप्रवृत्तिनिमित्तस्यावकाशत्वस्य समवायेनाकाशवृत्तित्ववत्स्वातंत्र्यलक्षणेन संबंधेन हरावपि सत्त्वादुभयत्रापि रूढेरविशिष्टतेति न रूढ्या भूताकाशत्वनिर्णय इति वाच्यं। आकाशस्याचेतनत्वाद्भगवदधैनत्वाभावेनाकाशत्वस्य स्वस्वामिभावसंबंधेन तद्वृत्तित्वाभावात्। एवं छंदोगश्रुत्युक्ताकाशे भूताकाशे सति तैत्तरीयश्रुत्युक्तकाशोऽपि रूढिबलादेव भूताकाशः। सर्वाणि हवेति तदाकाशस्य भूतकारणतयोक्तत्वात्। कार्यगतचेष्टायाः कारणाधीनतादर्शनेन को ह्येवान्यादिति (तै.2-7) श्रुत्युक्तजगच्चेष्टकत्वलिंगस्य सावकाशत्वेनाबाधकत्वात्। अत आकाशो न विष्णुरिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ आकाशस्तल्लिंगादिति ॥% अस्यार्थः ॥ आकाशः आकाशशब्दवाच्यो विष्णुरेव। न प्रसिद्धाकाशः। कुतः। तल्लिंगात् छंदोग (छां.1-9) श्रत्युक्ताकाशे परोवरीयस्त्वादिरूपलिंगस्य श्रवणादित्यर्थः ॥

॥ एवंच परोवरीयस्त्वादिनिरवकाशविष्णुलिंगात्। आकाशशब्दस्य महायोगविद्वद्रूढिसद्भावेन तत्रैव मुख्यत्वात्। ततश्च छंदोगश्रुत्युक्ताकाशस्य विष्णुत्वे तैत्तरीयोक्तोऽपि जगच्चेष्टकत्वलिंगबलादेव विष्णुः। चेष्टकत्वस्य कर्तर्येव मुख्यत्वात्। मुख्ये संभवत्यमुख्यग्रहणायोगात्। सर्वचेष्टकत्वस्य सर्वोत्तमत्वव्याप्तत्वेन भूताकाशे सर्वोत्तमत्वस्याभावेन सर्वचेष्टकत्वाभावात्। न चाचेतनस्यापि चेतनानुग्रहेणानंदः संभवति। अप्रामाणिकत्वात्। तस्मादाकाशो विष्णुरेवेति सिद्धं ॥

॥ इति आकाशाधिकरणं ॥

%9.अधिकरणं ॥%

अत्र लोकतोऽन्यत्रप्रसिध्यात्मिकाशेषशब्दोपलक्षकप्राणशब्दस्य ब्रह्मणि समन्वयः क्रियते।

<1-1-23>
%(23) ॐ ॥ अत एव प्राणः ॥ ॐ ॥%

नन्वयं प्राणो वायुरेव। प्राणशब्दस्य तत्र रूढत्वात्। विष्णौ रूढेरभावात्प्राणश्रुतेस्तत्र सावकाशत्वाभावात्। यौगिकार्थस्य जीवनकारणत्वस्यान्वयव्यतिरेकाभ्यां वायावेव दर्शनात्। ततश्च प्राणो वायुरेवेति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अत एव प्राण इति ॥% अस्यार्थः ॥ तद्वैत्वं प्राणोऽभव इत्युक्तप्राणो विष्णुरेव। नान्यः। कुतः। अत एव श्रीश्चत इति [तै.आ.3-13] श्रीपतित्वलिंगादेवेत्यर्थः ॥

एवंच निरवकाश श्रीलक्ष्मीपतित्वलिंगात्। ईशानः प्राणदः प्राण इति विद्वद्रूढेर्महायोगस्य च विष्णौ सत्त्वेन श्रुतेः सावकाशत्वात्। प्राणगतजीवनान्वयव्यातिरकेस्यापि न प्राणेनेति श्रुतेर्भगवदधीनत्वात्। अतः प्राणशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

॥ इति प्राणाधिकरणं ॥

%10.अधिकरणं ॥%

अत्र तत्तत्सूत्रगताशेषशब्दोपलक्षकस्य लोकतोऽन्यत्रप्रसिद्धस्य ज्योतिर्नाम्नो ब्रह्मणि समन्वयः क्रियते।

<1-1-24>
%(24) ॥ ॐ ॥ ज्योतिश्चरणाभिधानात् ॥ ॐ ॥%

नन्वाग्निरेवेदं ज्योतिः। तस्य सूक्तस्याग्नि (ऋ.6-9-6) सूक्तत्वात्। न च लिंगात्प्रकरणस्य दुर्बलत्वेन गुहाहितत्व (तै.उ.2-1) लिंगात्प्रकरणबाधः। ज्योतिःश्रुतेरग्नौनिरूढत्वात्। विष्णौ तदभावात्। न च लिंगस्य निरवकाशत्वेन श्रुतिप्रकरणबाधकत्वमिति वाच्यं। लिंगस्यापि जाठरजातवेदसि सावकाशत्वात्। लिंगस्य निरवकाशत्वेऽपि तस्यैविधमेव प्राबल्यं। श्रुतिप्रकरणयोस्त्वनेकप्रयुक्तप्राबल्यात्। श्रुतेश्च स्वभावत्वप्रयुक्तप्राबल्यमपीति श्रुतिप्रकरणाभ्यामेव लिंगस्य बाधो युक्तः। अतो ज्योतिषोऽग्नित्वमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ ज्योतिश्चरणाभिधानादिति ॥% अस्यार्थः ॥ ज्योतिः ज्योतिःशब्दवाच्यं ब्रह्मैव न त्वन्यत्। कुतः। चरणाभिधानात् कर्णादीनां विचरणाभिधानात्। ज्योतिषः साकल्येन कर्णादिविदूरत्व (ऋ.7-98-1) श्रवणादित्यर्थः ॥

॥ एवंच कर्णादिविदूरत्वाख्यविष्णुलिंगात्। बहुत्वस्वभावबलवत्त्वरूपोभयविधप्राबल्यादपि निरवकाशत्वप्राबल्यस्य बलवत्त्वेन लिंगेन श्रुतिप्रकरणबाधोपपत्तेः। महायोगविद्वद्रूढिसद्भावेन श्रुतेर्विष्णावेव मुख्यत्वात्। अतो विष्णुरेवेदं ज्योतिस्तस्यैव गुहानिहितत्वं चेति सिद्धं ॥

॥ इति ज्योतिरधिकरणं ॥

%11.अधिकरणं ॥%

अत्राधिवेदगतगायत्र्याद्यशेषशब्दसमन्वयःक्रियते।

<1-1-25>
%(25) ॥ ॐ छंदोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनं ॥ ॐ ॥%

ननु गात्रत्री छंद एव। तच्छब्दस्य तत्रैव रूढत्वात्। वाग्वै गायत्रीति (छां.3-12-1) वाक्यविधानात्। न च गायत्र्या भगवदधीनत्वेन गायत्री शब्दस्तत्रैव मुख्य इति वाच्यं। गायत्र्या वेदविशेषत्वान्नित्यत्वेन पराधीनत्वाभावात्। अतो गायत्री छंदोविशेष एवेति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ छंदोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तताहि दर्शनमिति ॥% अस्यार्थः ॥ छंदोभिधानात्। ननु छंदोगश्रुतिस्थगायत्रीपदेन चतुर्विंशत्यक्षरात्मकछंदसः प्रतिपादनाद्गायत्रीशब्दवाच्यो विष्णुर्नेति चेन्न। कुतः। तथा हि दर्शनं। हि यस्मात्। तथा गानत्राणकर्तृत्वनिमित्तेन। दर्शनं विष्णोः गायत्रीशब्दवाच्यत्वप्रतिपादिका (छां.3-12-1) श्रुतिरस्ति। तस्माद्व्यार्थं गायत्रीपदेन विष्णोरबिधानमित्यत उक्तं। तथेत्यादि। तथा चेतोर्पणनिगदात् विष्णोस्तथा गायत्र्यादिशब्दप्रवृत्तिनिमित्तवत्त्वेन चेतसि अर्पणाय उपासनाय। निगदात् श्रुतौ प्रतिपादनादित्यर्थः। तथा च न वैयर्थ्यमिति भावः ॥

॥ एवंच गानत्राणकर्तृत्वलिंगात्। नच लिंगस्य निरवकाशत्वायोगेन श्रुतिबाधायोगः। गायत्रीश्रुतेः पौराणिकरूढ्या श्रुत्युक्तयोगेन च तत्र मुख्यत्वात्। स्वभावेति वचनाङ्गायत्र्या भगवदधीनत्वात्। गायत्रीशब्दवाच्योविष्णुरेवेति सिद्धं ॥

<1-1-26>
%(26) ॐ ॥ भूतादिपादव्यपदेशोपपत्तेश्चैवं ॥ ॐ ॥%

हेत्वंतरेणापि गायत्र्या विष्णुत्वं साधयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ भूतादिपादव्यपदेशोपपत्तेश्चैवमिति ॥% अस्यार्थः ॥ एवमित्यस्यावृत्तिः। एवं गायत्रीशब्दवाच्यं ब्रह्मेत्येवमेवयुक्तं। कुतः। एवं भूतादिपादव्यपदेशोपपत्तेः। पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवीति (छां.3-12-6) एवं रूपभूतामृतांशवत्त्वोक्तेश्च। तस्य च विष्णावेवोपपत्तेः अन्यत्रानुपपत्तेश्चेत्यर्थः ॥

॥ एवंच छांदोग्ये सैषां चतुष्पदेति(छां.3-12-5)वाक्येन गायत्रीनामकस्य भगवतः प्रागुक्तगायत्रीभूतवाक्‌पृथिवीशरीरहृदयलक्षणषड्‌विधत्वमनूद्यांशचतुष्टयरूपवत्त्वरूपं चतुष्पादत्वं विधाय स्वोक्तार्थ एव पुरुषसूक्तमंत्रः समाख्यारूपत्वेनोदाहृतः। भगवतश्चतुष्पादत्वं ऋङ्‌मत्रेण स्पष्टमानुकूल्येनोक्तं। न च गायत्र्यामिव भूतभिन्नत्वेन विष्णावपि भूतपादत्वोक्तिरनुपपन्ना। सुवर्णकोशमिति (तै.आ.3-19) श्रुतेः। न च पुरुषसूक्तं न विष्णुप्रकरणमितिवाच्यं। तस्मिन्कालै महाराजेति (स्कांदे)स्मृत्या तत्प्रकरणस्य विष्णुत्वनिश्चयात्। अतो गायत्रीशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

<1-1-27>
%(27) ॐ ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ ॐ ॥%

ननु गायत्रीज्योतिप्रकरणयोरुपदेशभेदेन भिन्नार्थत्वादित्यादिनोक्तमाक्षिप्य समादधत्सूत्रमाह

%॥ ॐ ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधादिति ॥% आस्यार्थः ॥ उपदेशभेदात् गायत्रीज्योतिषोः द्युस्थत्व (छां.3-12-6) दिवःपरत्व (छां.3-13-7) रूपविरुद्धधर्मबोधकश्रुतिभेदान्नेति चेत्तद्वयं विष्ण्वाख्यमेकं वस्तु न किंतु भिन्नगेवेतिचेन्न। कुतः। उभयस्मिन् श्रुतिवाक्येऽपि एकस्यप्रतिप्दायत्वेऽपि। अविरोधात् त्रिसप्तलोकविवक्षया विरोधाभावादित्यर्थः ॥

॥ एवंच विवक्षाभेदेनैकस्यैव द्युस्थत्वदिवः परत्वयोः संभवेन भिन्नार्थत्वाभावात्। अतो गायत्री विष्णुरेवेति सिद्धं ॥

॥ इति छंदोभिधानाधिकरणं ॥

%12.अधिकरणं ॥%

अत्र लोकतोऽन्यत्रप्रसिद्धप्राणनाम्नो विष्णौ समन्वयः प्रतिपाद्यते।

<1-1-28>
%(28) ॐ ॥ प्राणस्तथाऽनुगमात् ॥ ॐ ॥%

ननु तावा एता (ऐ.आ.2-1-4) इत्युक्त प्राणो न विष्णुः। इंद्रियगणे गणितत्वात्। जीवो वा। एष इम लोकमभ्यार्चदिति (ऐ.आ.2-2-1-1) जीवलिंगात्। मुख्यप्राणो वा। ता अहिंसंतेति (ऐ.आ.2-1-4-9) तल्लिंगात्। इति प्राप्ते सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ प्राणस्तथाऽनुगमादिति ॥% अस्यार्थः ॥ तथा तद्वैत्वमिति (तै.आ.3-14-4) तैत्तरीयोक्तप्राणवत् ता वा इत्यैतरेयोक्तप्राणोऽपि विष्णुरेव। कुतः। अनुगमात् देवतोपास्यादिविष्णुलिंगब्रह्मशब्दानां असकृच्छ्रवणादित्यर्थः ॥

एवं च स एषोऽसुरित्यत्र (ऐ.आ.2-1-8) दुष्टनिरसनादसुत्वेन प्रकृष्टानंदरूपत्वात्प्राणत्वेन देवानां ज्ञानाद्यैश्वर्यप्रदत्वादसुराणामज्ञानाद्यैश्वर्यहेतुत्वाच्च भूत्यभूतित्वेन च ता वा एता इत्यत्र सर्ववेदोक्तत्वेन तदयं प्राण (ऐ.आ.2-3-8) इत्यत्र देहरथित्वेन तं देवाः प्रामयंत (ऐ.आ.2-1-5) इत्यत्र सर्वदेवतोपास्यत्वेन चोक्तत्वात्। न च पूर्वपक्षिलिंगस्य निरवकाशत्वेनापि प्राबल्यं। ब्राणयंत (ऐ.आ.2-1-5) इत्यत्र सर्वदेवतोपास्यत्वेन चोक्तत्वात्। न च पूर्वपक्षिलिंगस्य निरवकाशत्वेनापि प्राबल्यं। प्राणैः सह गणितत्वस्यांतर्यामिनिष्ठतासंभवात्। प्राबल्येऽप्येकप्रकारेण प्रबलात्पूर्वपक्षिलिंगात्प्रकारद्वयेनापि प्रबलस्य सैद्धांतिक लिंगस्याधिक्येन निर्णयोपपत्तेः। अस्मिन्प्रकरणे एतद्ब्रह्म, (ऐ.आ.2-1-1-1) ब्रह्मणो लोकः, (ऐ.आ.2-1-3-1) ब्रह्मेमं पुरुषं, (ऐ.आ.2-1-4-1) उदरं ब्रह्मेत्याचक्षते, (ऐ.आ.2-1-4-5) अ इतिब्रह्म, (ऐ.आ.2-3-8-7) इत्यादिनिरवकाशब्रह्मशब्दाभ्यासात्। अतोऽयं प्राणो विष्णुरेवेति सिद्धं ॥

<1-1-29>
%(29) ॐ ॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबंधभूमा ह्यस्मिन् ॥ ॐ ॥%

ननु नायं प्राणो विष्णुः। किंत्विंद्र एव। प्राणो वाऽहमिति (ऐ.आ.2-2-3) वाक्येन बृहतीसहस्रवक्तुर्विश्वामित्रस्येंद्रेण प्राणतयाऽऽत्मनः स्वस्यैवोपदेशादित्याक्षिप्य समादधत्सूत्रमाह ॥

%॥ ॐ ॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबंधभूमा ह्यस्मिन्निति ॥% अस्यार्थः ॥ द्वितीयार्थे षष्ठी। वक्तुः बृहतीसहस्रवक्तारं। विश्वामित्रं प्रतींद्रेण। आत्मोपदेशात् आत्मनः स्वस्य प्राणतयोपदेशात्। इंद्र एवायं प्राणः न विष्णुरिति चेत् नेतिशेषः। तस्यावृत्तिः अनुगमादित्यनुवर्तते। तथा च प्रागुक्तानुगमहेतोर्नेंद्रः प्राणः। तथा सति उपदेशविरोध इत्यपि न। कुतः। यस्यात् अस्मिन्प्रकरणे भगवतः अध्यात्मसंबंधभूमा इंद्रविश्वामित्रादिरूपबहुदेहसंबंधः उक्तोऽस्ति। तस्मादित्यर्थः ॥ यद्वा ॥ हि यस्मात्। अस्मिन् इंद्रे। अध्यात्मसंबंधभूमा। अधि अधिकस्य। आत्मनः। संबंधस्य आवेशस्य। भूमा बाहुल्यं विद्यते। तस्मादित्यर्थः ॥

॥ एवंच प्राणो विष्णुरेवेति सिद्धं ॥

<1-1-30>
%(30) ॐ ॥ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ॐ ॥%

ननु यादि प्राणशब्देनेंद्रेणापि विष्णुरेव स्वात्मादिसर्वगततयोच्यते तर्हि मयि प्राण इति निर्देशः स्यात्। न त्वहमिति। विष्णावहमित्यादिरूपोपदेशायागोदिति प्राप्ते परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ शास्त्रदृष्ट्या तूपदेशो वामदेववदिति ॥% अस्यार्थः ॥ तु शब्द एवार्थे। वामदेववत् यथांऽतर्यामिविवक्षया वामदेवर्षिः। अहं मनुरभवमिति स्वस्य मनुसूर्याद्यैक्यमाह। तद्वत् शास्त्रदृष्ट्या शास्ति सर्वमिति शास्त्रं अंतर्यामि तद्दृष्टया तद्विवक्षयैवोपदेशः प्राणोऽहमिति व्यपदेशः। नत्वैक्येनेत्यर्थः ॥

॥ एवंचेंद्रस्य प्राणतयाऽऽत्मोपदेशस्यांतर्यामिविवक्षया प्रवृत्तत्वात्। अन्यथा त्वं प्राण इति व्यपदेशानुपपत्तेः। ईश्वरपक्षे त्वहमादिशब्दानां शास्त्रदृंष्ट्या प्रवृत्तत्वेन बाधकाभावात्। तत्तन्नाम्नोच्यते विष्णुरिति (पाद्मे) वचनात्। प्राणोऽयं विष्णुरेवेति सिद्धं ॥

<1-1-31>
%(31) ॐ ॥ जीवमुख्यप्राणलिंगान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिद्द तद्योगात् ॥ ॐ ॥%

पुनरुक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ जीवमुख्यप्राणलिंगान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वाददिह तद्योगादिति ॥% अस्यार्थः ॥ जीवमुख्यप्राणलिंगात् शतायुष्ट्‌वादिजीवलिंगानां इंद्रियदेवैः संवादादिरूपमुख्यप्राणलिंगानां च श्रवणात् ॥ (ऐ.आ.2-2-4) प्राणोऽन्य एव न विष्णुरिति चेन्न। कुतः। अनुगमात्। न च लिंगविरोधः। तल्लिंगानामंतर्यामिवषयत्वेनोपपत्तेरित्यादिकमध्याहार्यं। किमर्थमंतर्यामिकथनमित्यत उक्तं। उपासात्रैविध्यादिति। अंतर्बहिःसर्वगतभेदेन ब्रह्मोपासनस्य त्रिविधत्वात्। इह प्रकरणे। तत्त्रैविध्यस्याश्रितत्वात्। उक्तत्वात्। तद्योगात् तेषामधिकारिणां त्रिविधोपासनायोग्यत्वादित्यर्थः ॥

॥ एवंच तत्तच्छब्दैस्तत्तदधिकारिभेदनोपासनार्थं अंतर्यामिकथनं युक्तमिति भावः। तस्मादयं प्राणो विष्णुरेवेति प्रागुक्तः प्राण आनंदमयश्च स एवेति युक्ता तज्जिज्ञासेति सिद्धं ॥

**॥ इति पादांत्यप्राणाधिकरणं ॥

॥ इति प्रथमाध्यायस्य प्रथमः पादः ॥**

———————————————————-

॥ हरिः ॐ ॥
%॥ अथ प्रथमाध्यायस्य द्वितीयः पादः ॥%

लिंगात्मकानां शब्दानां विष्णौ प्रवृत्तिः प्रदर्श्यतेऽस्मिन्पादे प्राधान्येन।
<1-2-1>
%1.अधिकरणं ॥%

अत्रान्यत्र प्रसिद्धसर्वगतत्वरूपभावलिंगे ब्रह्मणि समन्वीयते।

%॥ (1) ॐ ॥ सर्वत्र प्रसिद्धोपदेशात् ॥ ॐ ॥%

नन्वादित्य एवायं सर्वगतो भवेत्। तस्यैतस्यासावादित्य (ऐ.आ.3-2-3) इत्यादि बव्हादित्यचश्रुतेः। सूर्य आत्मेति सौरमंत्रोदाहरणाच्च। एतमस्यामेतमिति क्षित्यादिषूक्त्वादित्येऽनुक्तत्वलिंगाच्च ॥ यद्वा ॥ सर्वजीवानामेतत्सर्वगतत्वं। चक्षुर्मयत्वादिलिंगात्। न च चक्षुर्मयत्वादिलिंगमंतर्यामिविषयं। तस्यापरिच्छिन्नत्वेन सर्वेषु भूतोऽष्वित्युक्ताल्पौकस्त्वायोगात्। तस्माद्विष्ण्वन्यस्यैव सर्वगतत्वेन तस्यैव प्रागुक्तं प्राणत्वमानंदमयत्वं चेति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ सर्वत्र प्रसिद्धोपदेशादिति ॥% अस्यार्थः ॥ तत्त्विति वर्तते। सर्वत्र पृथिव्यादिषु। उच्यमानं वस्तु तत्तु नारायणाख्यं ब्रह्मैव नत्वन्यत्। कुतः। प्रसिद्धोपदेशात् एतमेव ब्रह्मेति (ऐ.आ.3-2-3-12) सर्वगते वस्तुनि नारायणवाचित्वेन श्रुत्यादिप्रसिद्धब्रह्मशब्दश्रवणादित्यर्थः ॥

॥ एवंचैतमेवेति सर्वभूतगते वस्तुनि नारायणैकनिष्ठत्वेन स यस्चायमिति (ऐ.आ.3-2-3) श्रुतिप्रसिद्धब्रह्मशब्दोपदेशात्सर्वेषु भुतेष्वंतर्गततयोच्यमानो नारायण एवेति सिद्धं ॥

<1-2-2>
%(2) ॐ ॥ विविक्षितगुणोपपत्तेश्च ॥ ॐ ॥%

युत्त्म्यंतरेण विष्णोरेवात्रोक्तसर्वगतत्वं प्रतिपादयत्सूत्रमवतारयति ॥

%॥ ॐ ॥ विवक्षितगुणोपपत्तेश्चेति ॥% अस्यार्थः ॥ चः समुच्चयेऽवधारणे वा। सर्वगते श्रुत्येति शेषः। ततश्च विवक्षितानामितः परं सर्वगते श्रुत्या तन्निष्ठतया वक्तुं योग्यानां वक्ष्यमाणानां वाऽश्रुतत्वादिगुणानां विष्णोरेव योग्यत्वेन तस्मिन्नेवोपपत्तेरन्यत्रानुपपत्तेश्च विष्णुरेव सर्वगत इत्यर्थः ।थ।

॥ एवंच स योऽतोऽश्रुतः, (ऐ.आ.3-2-4) न ते विष्णो, (ञ.7-99-2) स सविता, (चतुर्वेदशिखायां) इत्यादिश्रुतिभिः सर्वत्रगतनिष्ठतया वक्तुं योग्यानां वक्ष्यमाणानामश्रुतत्वादिगुणानां विष्णोरेव योग्यत्वेन सर्वत्रोच्यमानो नारायण एवेति सिद्धं ॥

<1-2-3>
%(3) ॐ ॥ अनुपपत्तेस्तु न शारीरः ॥ ॐ ॥%

ननु यथा ब्रह्मशब्दादश्रुतत्वादिलिंगैश्च विष्णुः सर्वगत इत्युच्यते तथाऽऽदित्यो रस (ऐ.आ.3-2-3) इत्यादित्यशब्दाच्चक्षुर्मय इति (ऐ.आ.3-2-1) श्रुतौ ज्ञानकरणात्मकदेहाभिमानित्वेन जीवे प्रसिद्धचक्षुर्मयत्वादिलिंगैश्चादित्यः सर्वजीव वा भवेयुरिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अनुपपत्तेस्तु न शारीर इति ॥% अस्यार्थः ॥ तु शब्द एवार्थे। शारीरः जीवः। आदित्यो वा। न सर्वगतः। कुतः। अनुपपत्तेः एकस्य जीवस्य सर्वशरीरस्थत्वायोगादेवेत्यर्थः ॥

॥ एवंच सर्वजीवस्य समानभोगरूपोपपत्तिविरुद्धत्वात्। एकैकस्य जीवस्य सर्वशरीरस्थत्वानुपपत्तेः एकस्य जीवस्यादित्यस्य वा सर्वशरीरस्थत्वे सर्वसुखदुःखादिभोगप्राप्त्या सर्वगतत्वायोगेन श्रुतेर्बाधितविषयत्वप्रसंगात्। तस्मात्सर्वभूतेष्वंतर्गततयोच्यमानो नारायण एवेति सिद्धं ॥

<1-2-4>
%(4) ॐ ॥ कर्मकर्तृव्यपदेशाच्च ॥ ॐ ॥%

युत्त्म्यंतरेण शारीरस्य सर्वगतत्वं पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ कर्मकर्तृव्यपदेशाच्चेति ॥% अस्यार्थः ॥ सर्वगते वस्तुनि आत्मानमिति (ऐ.आ.3-2-3) कर्मत्वस्य जीवेच शंसतीति तद्विरुद्धकर्तृत्वस्य व्यपदेशात् उक्तत्वाच्च न जीवः सर्वगत उत्यर्थः ॥

॥ एवंच सर्वत्रोक्तस्य सर्वगतस्य प्रकृतस्यैतमात्मानमित्यैतरेयश्रुतौ शंसनक्रियायां स एतमात्मानमिति कर्मत्वेन शारीरस्य च तस्यामेव कर्तृत्वेन व्यपदेशात्। एकस्यां क्रियायां तयोरुत्सर्गतो भिन्नत्वनियमादपवादकारणाभावाच्च सर्वत्रोच्यमानो विष्णुरेवेति सिद्धं ॥

<1-2-5>
%(5) ॐ ॥ शब्दविशेषात् ॥ ॐ ॥%

ननुब्रह्मशब्दाद्विष्णुरेव सर्वगत इति न युज्यते। तच्छब्दस्य जीवेऽपि वृत्तेः। न चासौ जीवेऽमुख्य इति तदग्रहः। चक्षुर्मयत्वादिबाधकबलेनामुख्यार्थस्यापि ग्रहणोपपत्तेः। न चाश्रुतत्वादिगुणशून्यरूपबांधकेन न जीवः। श्रुत्वाप्येनमिति गीतयां जीवस्याद्भुतत्वादिश्रवणात्। नाप्येकशरीरस्थत्वानुपपत्तिर्बाधिका। तस्या विष्णावपि साम्यात्। न च चक्षुर्मयत्वादिबाधकान्नजीवः। एकस्यैव कर्मकर्तृत्वयोरुपपत्तेः। ततश्च सर्वगतो जीव एवेति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ शब्दविशेषादिति ॥% अस्यार्थः ॥ एतमेव ब्रह्मेति (ऐ.आ.3-2-3) वाक्ये ब्रह्मशब्दस्यावधारणार्थक एवशब्दाख्यविशेषणवत्त्वात्। ब्रह्मशब्दो न जीवपर इत्यर्थः ॥

एवंच निर्दिष्टवाक्ये हेतुत्वेन प्रकृतब्रह्मशब्दस्य सावधारणत्वरूपविशेषवत्त्वात्। एवकारशिरस्क ब्रह्मशब्दवाच्यत्वे जीवस्य मुख्यब्रह्मत्वप्राप्तं स्यात्। तच्चायुक्तं। तस्याब्रह्मत्वेन प्रसिद्धत्वात्। अतः सर्वगतो विष्णुरेवेति सिद्धं ॥

<1-2-6>
%(6) ॐ ॥ स्मृतेश्च ॥ ॐ ॥%

श्रुतिसमाख्ययाऽपि विष्णोः सर्वगतत्वं साधयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ स्मृतेश्चेति ॥% अस्यार्थः ॥ समुच्चये। न केवलं श्रुत्युक्तत्वाद्‌ब्रह्मशब्दो न जीवपर इति। किंतु अहमात्मा गुडाकेश (भ.गी.10-20) इत्यादिस्मृतिसद्भावाच्च ब्रह्मशब्दो न जीवपर इत्यर्थः ॥

॥ एवंच निर्दिष्टस्मृतिवाक्यात्। जीवेशयोर्भेदमिथ्यात्वकल्पनस्य सूत्रकृताऽविवक्षितत्वात्। द्वासुपर्णेत्यादि (मुं.उ.3-1-1) प्रमाणविरुद्धत्वेन च तथा न कल्पनीयत्वात्सर्वगतो विष्णुरेवेति सिद्धं ॥

<1-2-7>
%(7) ॐ ॥ अर्भकौकस्त्वात्तद्वपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ॐ ॥%

ननु सर्वेषु भुतेष्वित्यत्पस्थाने साकल्येन स्थितिकथनात्। जीवधर्मव्यपदेशाच्च। सर्वगतो जीव एव न विष्णुः अपरिच्छिन्ने जीवधर्मरहिते च तस्मिंस्तदुभयव्यपदेशायोगादिति प्राप्ते समादधत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्चीति ॥% अस्यार्थः ॥ अर्भकौकस्त्वात् सर्वेषु भुतेष्विति (ऐ.आ.3-2-3) सर्वगतवस्तुनः सर्वप्राणिहृदयाकाशरूपाल्पस्थानकत्वकथनात्। तद्व्यपदेशात् तस्य जीवस्य तच्छ्रुतिलिंगादिना व्यपदेशात् उक्तत्वाच्च। नेति चेत् ब्रह्मैव सर्वगतमित्युक्तं नेति चेत्। न। कुतः। तेषां विष्णावेधोपपत्तेरिति शेषः। न च वैयर्थ्यं। एवं निचाय्यत्वात् एवमर्भकौकस्त्वादिरूपेण विष्णोरेवोपास्यत्वात्। तथा च नवैयर्थ्यमिति भावः। श्रुतिलिंगादिनां ब्रह्मपरत्वेन न तद्विरोध इति भावः। व्याप्तस्य विष्णोः कथमल्पस्थानस्थितिरित्यत उक्तं। व्योमवच्चेति। यथाऽऽकाशस्य व्याप्तस्यापि गृहाद्येकदेशावस्थितिः तद्वद्विष्णोरपीत्यर्थः ॥

॥ एवंचापरिच्छिन्नादिरूपस्यार्भकौस्वादिकथनमप्रयोजनं। उतायुक्तं। नाद्यः। तस्य तेन रूपेणोपास्यत्वेन व्यपदेशस्य सप्रयोजनत्वात्। न द्वितीयः। सर्वगतस्यापि व्योम्नोंऽशस्य साकल्येनाल्पौकस्त्वदर्शनेन तदभेदादाकाशस्याल्पौकस्त्ववद्भगवतः साकल्येनाल्पौकस्त्वोपपत्तेः। ईश्वरस्य सर्वेंद्रियस्वामित्वेन चक्षुर्मयत्वादेरप्युपपत्तेः। न चादित्येऽनुक्तत्वलिंगविरोधः। यश्चासावादित्य इति पूर्ववाक्य आदित्यस्थत्वस्योक्तत्वेनानुक्तत्वस्यासिद्धत्वात्। अतः सर्वगतो विष्णुरेवेति सिद्धं ॥

<1-2-8>
%(8) ॐ ॥ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ॐ ॥%

पुनरुक्तमाक्षिप्य समादधत्सूत्रमाह ॥

%॥ ॐ ॥ संभोगप्राप्तिरिति चेन्न वैशेष्यादिति ॥% अस्यार्थः ॥ यतो ब्रह्मणः व्योमवत्सर्वजीवशरीरस्थत्वे संभोगप्राप्तिः समानभोगप्राप्तिरित्यतो बाधकान्न ब्रह्म सर्वगतमिति चेन्न। कुतः। वैशेष्यात् विष्णोः सामर्थ्यविशेषवत्त्वादित्यर्थः। तथा च न तस्य जीवसमानभोगप्राप्तिरिति भावः ॥

॥ एवंच सर्वज्ञताऽल्पज्ञताभेदात्। सामर्थ्यवैशेष्याच्चाग्निस्तंभनवतो दाहाभाववत्समानभोगाप्राप्तेः सर्वगतोविष्णुरेवेति सिद्धं ॥

॥ इति सर्वगतत्वाधिकरणं ॥

%2.अधिकरणं ॥%

अत्र लोकतोऽन्यत्र प्रसिद्धादितिशब्देन सहोक्तात्तृत्वलिंगस्य हरौ समन्वयः क्रियते ।

<1-2-9>
%(9) ॐ ॥ अत्ता चराचरग्रहणात् ॥ ॐ ॥%

ननु जन्मादिसूत्रोक्तसंहर्तृत्वापरपर्यायात्तृत्वं स यद्यदेवेति (बृ.3-2-5) वाक्येनादितेरेवास्तु। अदितुश्रुते (कठ.4-7) रदितित्वमिति निरवकाशलिंगाच्च। न च योगबलाददितिश्रुतिर्विष्णुविषया। अदितित्वलिंगस्य निरवकाशत्वात्। न च स इति पुल्लिंगानुपपत्तिः। पुंशाक्तियुक्तत्वेन कूटस्थोऽक्षरउच्यत (भ.गी.15-16) इत्यादिवत्पुल्लिंगोपपत्तेश्चेति प्राप्ते सीत्रं पठति ॥

%॥ ॐ ॥ अत्ता चराचरग्रहणादिति ॥% अस्यार्थः ॥ अत्ता सर्वं वाऽत्तीत्युक्तसर्वात्ता विष्णुरेव। नत्वदितिः। कुतः। चराचरग्रहणात् चराचरस्य चेतनाचेतनात्मकप्रपंचस्य सर्वमिति श्रुतावद्यतयोक्तत्वादित्यर्थः ॥

एवंचाद्यत्वेन चराचस्य ग्रहणात्। न चादितिश्रुतिविरोधः। अदितिश्रुतेर्यो देवानां नामधेति (ऋ.10-82-3) श्रुतिबलेन विष्णुपरत्वस्य वक्तुं शक्यत्वात्। न चादितित्वरूपाखंडधर्मविरोधः। विष्णोरपि विद्वद्रूढिविषयत्वेनादितित्वरूपाखंडधर्मस्यापि तत्रावर्जनीयत्वात्। अतो विष्णोरेवैतद्वाक्यप्रतिपाद्यत्वेनात्तृत्वान्न पूर्वोक्त लक्षणस्यातिव्याप्तिरिति सिद्धं ॥

<1-2-10>
%(10) ॐ ॥ प्रकरणाच्च ॥ ॐ ॥%

यदा निरवकाशसर्वात्तृत्वलिंगमात्रात्सावकाशादितिश्रुत्यादितित्वलिंगयोर्बाधेनात्ता विष्णुरेवेति सिद्धं। तदा किमुवाच्यं निरवकाशप्रकारणसमुच्चितलिंगादित्यर्थं प्रतिपादयत्सूत्रं पठति ॥

%॥ ॐ ॥ प्रकारणाच्चेति ॥% अस्यार्थः ॥ नैवेह किंचनेति विष्णुप्रकरणबलाच्च विष्णुरेवास्ता इत्यर्थः ॥

॥ एवंच नेहासीत्किंचने (ब्रह्मवैवर्ते) त्यप्संवत्सरसृष्टयादिना। निरवकाशविष्णुप्रकरणबलादत्ता विष्णुरेवेति सिद्धं ॥

॥ इति अत्तृत्वाधिकरणं ॥

%3.अधिकरणं ॥%

अत्र लोकतोऽन्यत्र प्रसिद्धकर्मफलभोक्तृत्वलिंगस्य विष्णौ समन्वयः प्रतिपाद्यते।

<1-2-11>
%(11) ॐ ॥ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ॐ ॥%

ननु ऋतं पिबंताविति वाक्योक्तौ जीवौ न त्वेकः परमेश्वरः। द्विवचनश्रुतेः (कठ.1-3-1) एकस्मिन्द्विवचनायोगात्। एवंच हरिवज्जीवस्यापि स्वातंत्र्येण पातृत्वेन तद्वदेवसर्वात्तृत्वमपि। स्वतंत्रस्य तदनगीकारे कारणाभावात्। ततश्चातिव्याप्तिः ॥ यद्वा ॥ तद्वाक्योक्तौ जीवपरौ। द्विवचनश्रुतेः। एवमपि जीव एव पाता न विभुः। कर्मबंधविधुरस्य कर्मफलात्तृत्वायोगात्। न च सर्वं वाऽत्तीति सर्वात्तृत्वोक्तिविरोधः। अनश्रन्नन्य इति (मुं.उ.3-1-1) श्रुतिविरोधेन संकोचसंभवात्। न च पिबंताविति द्वयोः पातृत्वोक्तिविरोधः। छन्निन्यायेन पातृत्वोपचारांगीकारात्। तथाऽपि जीवेशत्वे को हेतुरिति चेत्। एकस्य पातृत्वान्यथाऽनुपपत्त्या जीवत्वे सिद्धे द्वितीयस्य सजातीयस्यैव ग्राह्यत्वात्। न च द्वावपि जीवौ युक्तौ। एकस्मिन् शरीरे भोक्तजीवद्वयायोगात्। तस्माज्जीवेशावेव ग्राह्यौ। तथाऽपि जीवस्यैव पातृत्वेन न तस्य लक्षणत्वाभिमतं सर्वात्तृत्वमित्यसंभवः ॥ यद्वा ॥ पुनरस्तुद्वावपि जीवौ। न चैकस्मिन् शरीरे बोक्तृजीवद्वयायोगाः। व्रीह्यादिशरीर उत्पत्स्यमानजीवस्य प्रमाणांतरसिद्धत्वान्न तु तु न तस्य भोक्तृत्वमिति चेन्न। तच्छरीरावच्छेदेन पातृत्वाभावेऽपि वस्तुतः पातृत्वसद्भावात्। एवं चेश्वरस्य कर्मफलात्तृत्वाभावेनासंभव एवेति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ गुहां प्रविष्टावात्मानौ हि तद्दर्शनादिति ॥% अस्यार्थः ॥ तत्त्विति विपरिणामेनानुवर्तते। आत्मानौ आदेयं मातेति व्युत्पत्त्या ऋतं पिबंताविति (कठ.1-3-1) श्रुतिस्थपिबच्छब्दोदितशुभफलकर्मभोक्तारौ आत्मांतरात्माख्यौ विष्णुरूपे एव। न तु जीवेश्वरौ। कुतः। हि यस्मात्। तौ गुहां प्रविष्टौ। तस्मादित्यर्थः। हि शब्देन गुहास्थितत्वलिंगस्य यो वेदेति (तै.2-1) श्रतिप्रसिद्धिं सूचयति। द्विरूपतया शरीरगुहास्थितत्वे प्रमाणमाह। तर्द्दशनादिति। तस्य हरेः द्विरूपतया शरीरहृदयगुहास्थितत्वस्य तस्य घर्मा समंतेति (ऋ.10-114-1) श्रतावुक्तत्वादित्यर्थः ॥

॥ एवंचोक्तवाक्ये यौ पिबंतौ तौ विष्णुरूपे एव। गुहाप्रविष्टत्वलिंगात्। न चैतल्लिंगं जीवेऽप्यस्तीति न विष्णुत्वनिर्णायकमिति वाच्यं। यो वेदनिहितमिति गुह्यनिहितत्वस्येश्वरे प्रसिद्धत्वेन प्रसिद्धस्यैव ग्राह्यत्वात्। न च द्विवचनश्रुतिविरोधः। रूपद्वयाभिप्रायेण सावकाशत्वात्। न चैकैकेनैव रूपेण प्रवेशेन रूपद्वयाभावः। धर्मा समंतात्रिवृतमिति प्रमाणेनैकस्मिन्नपि शरीरे रूपद्वयस्यैव सिद्धत्वात्। न च विष्णोः पातृत्वांगीकारेऽनश्रन्नन्य इत्यादिश्रुतिविरोध। शुभं पिबत्यसाविति (पाद्मे) प्रमाणेन विष्णोः पातृत्वस्य सिद्धत्वेन तस्या अशुभभोगाभावविषयत्वात्। न च पूर्णस्य कर्मबंधविधुरत्वेन कर्मफलभोगानुपपत्तिः। नियोगतो भोगासंभवेऽपि स्वेच्छया तत्संभवात्। ततश्च विष्णोरेव पातृत्वेनात्तृत्वलक्षणं युक्तमिति सिद्धं ॥

<1-2-12>
%(12) ॐ ॥ विशेषणाच्च ॥ ॐ ॥%

यदा निरवकाशगुहानिहितत्वलिंगस्य सावकाशाद्विवचनश्रुतितोऽपि प्राबल्याद्विष्णोः प्रकृत्यर्थभोक्तृत्वसंभवाच्च स एव पातेति सिध्यति। किं पुनर्निरवकाशश्रुत्याऽपीत्यर्थं प्रतिपादयत्सूत्रं पठति ॥

%॥ ॐ ॥ विशेषणाच्चेति ॥% अस्यार्थः ॥ चो युक्तिसमुच्चये। यः सेतुरिति (कठ.1-3-2) एकवचनेन विशेषणादेक एव पाता। स च सेतुत्वब्रह्मत्वादिना विशेषितत्वाद्विष्णुरेव न जीव इत्यर्थः ॥

॥ एवंच न केवलं गुहाप्रविष्टत्वलिंगबलादेव पिबंतौ विष्णुरूपे किंतु यः सेतुरीजानानामिति श्रुतौ ब्रह्मैकवचनशब्दाभ्यां विशेषणादपि विष्णुरेव पातेति सिद्धं ॥

॥ इति गुहाधिकरणं ॥

%4.अधिकरणं ॥%

अत्र चक्षुरंतःस्थत्वलिंगं ब्रह्माणि समन्वीयते।

<1-2-13>
%(13) ॐ ॥ अंतर उपपत्तेः ॥ ॐ ॥%

ननु य एषोंऽतरक्षिणीति (छां.4-15) वाक्योक्तोऽग्निरेवाक्षिस्थो भवेत्। य एष आदित्य (छां.4-11) इत्यग्नेरेवादित्यस्थत्वाभिधानात् न चाग्नेरादित्यस्थत्वेऽप्यक्षिस्थत्वं कुत इति वाच्यं। आदित्यश्चक्षुर्भूत्वेति श्रुतेः। अक्ष्यादित्ययोरकेत्वात्। आदित्यस्थत्वेनाग्नेरक्षिस्थत्वसिद्धेः। न च सोऽहमस्मी (छां.4-10-5) त्युपदिष्टः कुतोऽग्निरिति। अस्मिन्नुपदेशे बव्हग्निश्रुतिसद्भावात्। न च यश्चासाविति समाख्याबलाद्विष्णुरेवादित्यस्थः। सोऽहमस्मीत्यभ्यासादभ्यासस्य च समाख्यातो बलवत्त्वात्। न च विष्णुग्रहणेऽपूर्वताया अभ्यासस्यापि बाधः। स च एवं विद्वानित्यर्थवादात्। अर्थवादस्य चापूर्वयाः प्राबल्यात्। अत आदित्यस्थोऽग्निस्ततोऽक्षिस्थश्चेति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अंतर उपपत्तेरिति ॥% अस्यार्थः ॥ य एषोंऽतरक्षिणीति श्रुत्युक्तोंऽतरः चक्षुरंतस्थितो विष्णुरेव न त्वग्निः। कुतः। उपपत्तेः एतदमृतत्वब्रह्मशब्दादीनां अंतरे श्रवणात्। तेषां च विष्णावेवोपपत्तेरित्यर्थः ॥

॥ एवंचैतदमृतमभयमि (छां.4-15-1) त्यमृतत्वाभयत्वादिलिंगश्रवणाद्‌ब्रह्मादिशब्दश्रुतेश्च विष्णुरेव चक्षुरंतर इति सिद्धं ॥

<1-2-14>
%(14) ॐ ॥ स्थानादिव्यपदेशाच्च ॥ ॐ ॥%

युक्त्यंतरेण विष्णोश्चक्षुरंतःस्थत्वं साधयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ स्थानादिव्यपदेशाच्चेति ॥% अस्यार्थः ॥ ब्रह्मस्थानभूताक्षिशक्तेः तदधिष्ठातृब्रह्मशक्तेश्च व्यपदेशात् सर्पिर्वोदकं वा सिंचती (छां.4-15) त्युक्तत्वाच्चक्षुरंतःस्थो विष्णुरेवेत्यर्थः ॥

॥ एवंच सर्पिर्वोदकमिति श्रुतौ स्थानशक्तेर्वामनि (छां.4-15-3) र्भामनिरिति (चतुर्वेदशिखायांस्वरूपशक्तेश्चोक्तत्वात्। तयोश्चान्यत्रासंभवात्। चक्षुरंतःस्थो विष्णुरेवेति सिद्धं ॥

<1-2-15>
%(15) ॐ ॥ सुखविशिष्टाभिधानादेव च ॥ ॐ ॥%

प्रकरणबलाच्चक्षुरंतःस्थत्वं विष्णोः प्रतिपादयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ सुखाविशिष्टाभिधानादेव चेति ॥% अस्यार्थः ॥ चः समुच्चये। सुखविशिष्टाभिधानात् कं ब्रह्मेत्यादि (छां.4-10) प्रकरणे विशिष्टसुखस्य पूर्मसुखस्य अभिधानादेव चक्षुरंतरो विष्णुरेव। किमु खं ब्रह्मेति पूर्णज्ञानादपीत्यर्थः ॥

॥ एवंचोपक्रमे प्राणो ब्रह्म कं ब्रह्मोति श्रवणेनास्य प्रकरण स्यवैष्णवत्वात् तत्र पूर्णसुखस्य खं ब्रह्मेति पूर्णज्ञानस्य चाभिधानात्। पूर्णानंदत्वस्य निरवधिक पूर्णानंदत्वाभिप्रायकत्वात्। मुख्ये सत्यमुख्यायोगात् अतश्चक्षुरंतरो विष्णुरेवेति सिद्धं ॥

<1-2-16>
%(16) ॐ ॥ श्रुतोपनिषत्कगत्यभिदानाच्च ॥ ॐ ॥%

नन्वेतदुपक्रमे सुखज्ञानयोरभिधानेऽपि नाक्षिस्थप्रकरणस्य वैष्णवत्त्वं युक्तं। छांदोग्ये प्राणो ब्रह्मेति ((छां.4-10) विद्यां य एष आदित्य इति (छां.4-11) विद्यां चोक्त्त्वाऽग्निभिरुपकोसलं प्रति `अस्मद्विद्या चात्मविद्या चोक्ता’ इत्युक्तत्वेनाद्याया विष्णुविषयत्वस्य द्वितीयायाश्चाग्निविषयत्वस्यैव युक्तत्वात् य एषोंतराक्षिणी (छां.4-15) त्यक्षिस्थविद्याया आदित्यविद्ययैकार्थत्वात्। न चोपक्रमविरोधः। व्हयाग्यग्निमितिवदुपक्रमस्योपपत्तेः। आत्मविद्यायाः पृथगुक्तत्वेनास्मद्विद्याया अंतर्यामिपरत्वायोगात्। तस्मादग्निविषयत्वमेव चक्षुंरतःस्थविद्याया इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ श्रुतोपनिषत्कगत्यभिधानाच्चेति ॥% अस्यार्थः ॥ श्रुतोपनिषदां श्रुतमतध्यातैताद्विद्यानां पुंसां। केन वायुना। कयोः कार्यपरब्रह्मणोः ॥ गतेः प्राप्तेः। स एनान्ब्रह्मगमयतीति (छां.4-15) श्रुतावाभिधानाच्च चक्षुरंतरो विष्णोरेवेत्यर्थः ॥

॥ एवंच स एनानित्युपसंहारेऽभिधानेनाक्षिस्थविद्याया विष्णुविषयत्वात्। अन्यविद्याया अन्यप्राप्त्ययोगादस्य प्रकरणस्य वैष्णवत्त्वं सिद्धं ॥

<1-2-17>
%(17) ॐ ॥ अनवस्थितेरसंभवाच्च नेतरः ॥ ॐ ॥%

ननु सोऽहमस्मी (छां.4-10-5) त्याद्युपदेशस्यांतर्यामिविषयत्वकल्पनया विष्णोरक्षिस्थत्वाग्रहणे उपदेशबलेनैवाग्नेरक्षिस्थत्वं किं न स्यादित्यतो बाधकसद्भावादिति समादधत्सूत्रं पठति ॥

%॥ ॐ ॥ अनवस्थितेरसंभवाच्च नेतर इति ॥% आस्यार्थः ॥ इतरः अग्निः। चक्षुरंतरो न किंतु विष्णुरेव। कुतः। अनवस्थितेः जीवस्याग्नेर्जीवांतरनियामकत्वे तस्यापि जीवत्वाविशेषात् तस्यापि नियामकांतराभ्युपगमे तस्याप्येवमेवमित्यनवस्थानात् अग्न्यादिजीवस्य जीवांतरनियामकत्वासंभवाच्चेत्यर्थः ॥

॥ एवंचाग्नेरपि जीवत्वेन नियामकत्वासंभवेन चक्षुर्गतत्वसंभावनाविरहात्। अस्तु वा कथंचित्संभावना। तथाऽपि नासौ चक्षुरंतरोऽभ्युपगंतव्यः। अग्नेरपि जीवत्वेन तत्प्रेरणाय जीवांतरस्य भाव्यत्वात्। तस्याप्येवं तस्याप्येवमित्यनवस्थितेः। तस्माद्विष्णुरेवाक्ष्यादित्यस्थो दृष्टिगोचरोऽतः स एवानंदमयस्तज्ज्ञानादेव मीक्ष इति सिद्धं ॥

॥ इति अंतराधिकरणं ॥

%5.अधिकरणं ॥%

अत्रांतःस्थत्वरूपभावसहितं नियमनिक्रियात्मकं लिंगं ब्रह्मणि समन्वीयते।

<1-2-18>
%(18) ॐ ॥ अंतर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ ॐ ॥%

ननु प्रकृतिरेवांतर्यामी। यस्य पृथिवीत्यादिना (बृ.5-7-3) पृथिव्यादिशरीरत्वव्यपदेशात्। शरीरशब्दस्य स्वरूपेऽपि प्रयोगदर्शनेन तस्य तत्रोपपत्तेः। न च यः पृथिव्यामित्यादिना पृथिव्यादिस्थत्वोक्तिविरोधः। व्याप्तं कार्येषु कारणमिति वचनात्। तस्य तत्रोपपत्तेः। न च प्रकृतेरचेतनत्वेन पृथिव्यादिनियामकत्वायोगः। कार्यस्य कारणाधीनत्वेन चेतनप्रकृतेरपि नियामकत्वोपचारोपपत्तेः। न चामृतत्वविरोधः। तस्य विष्णाविवात्रापि योगेनोपपत्तेः। तत्तजीवानां वैतदंतर्यामित्वं। पृथिव्यादिशरीरत्वादेस्तेप्वति सुघटत्वात्। ततश्च प्रवृत्यादेरेवांतर्यामित्वेन तत्र श्रुतममृतन्वं नाक्षिस्थस्य विष्णुत्वसाधकमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अंतर्याम्यधिदैवादिषु तद्धर्मव्यपदेशादिति ॥% अस्यार्थः ॥ एषत आत्मांऽतर्यामीति (बृ.5-7-3) श्रुत्युक्तोंऽतर्यामी विष्णुरेव न प्रधानादि। कुतः। अधिदैवादिषु अधिदैवाध्यात्माधिभूतादिप्रकरणेषु। तद्धर्मव्यपदेशात् तस्मिन् अंतर्यामिणि तस्य यं पृथिवी न वेदेति (बृ.5-7-3) श्रुतौ उक्तस्याविदितत्वादिब्रह्मधर्मस्य व्यपदेशात् उक्तत्वादित्यर्थः ॥

एवंच पृथिव्यादिदेवताऽविदितत्वांतराख्यधर्मव्यपदेशादंतर्यामी विष्णुरेवेति सिद्धं ॥

<1-2-19>
%(19) ॐ ॥ न च स्मार्तमतद्धर्माभिलापात् ॥ ॐ ॥%

एवं निरवकाशलिंगेन विष्णोरंतर्यामित्वं समर्थ्य प्रकृत्यादेरंतर्यामित्वं तत्प्रकृतिजीवसाधारणं युक्त्या पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ न च स्मार्तमतद्धर्माभिलापादिति ॥% अस्यार्थः ॥ चः समुच्चये। स्मार्त कापिलस्मृत्युक्तं। प्रधानं जीवश्च अंतर्यामी न। कुतः। अतद्धर्माभिलापात् तद्धर्माणां प्रधानजीवधर्माणां त्रिगुणत्वसंसारित्वादीनां। अनभिलापात् अनुक्तत्वादित्यर्थः ॥

॥ एवंच विष्ण्वसाधारणपृथिव्याद्यविदित्वादिधर्मोपदेशवत्कपिलस्मृत्युक्तप्रकृतिप्रधानजीवासाधारणोपादानत्वडत्वत्रिगुणत्वसंसारित्वादिधर्माणामनुक्तत्वादंतर्यामी विष्णुरेवेति सिद्धं ॥

<1-2-20>
%(20) ॐ ॥ शारीरश्चोभयोऽपि हि भेदेनैनमदीयते ॥ ॐ ॥%

जीवस्यांतर्यामित्व तत्साधकाभावेन निरस्तमपि पुनर्बाधकाख्यविशेषयुक्त्या निराकुर्वत्सूत्रमुपन्यस्याति ॥

%॥ ॐ ॥ शारीरश्चोभयेऽपि हि भेदेनैनमधीयत इति ॥% आस्यार्थः ॥ चो नञोऽनुकर्षणार्थः ॥ हि यस्मात्। उभये माध्यंदिनाः काण्वाश्च। आत्मनोंऽतरं (बृ.5-7-22) विज्ञानादंतर (बृ.5-7-22) इति। एनं जीवं। अंतर्यामिणः सकाशात्। भेदेन भिन्नत्वेन। अधीयते पठंति। तस्माच्छारीरो जीवश्च नांतर्यामीत्यर्थः ॥

॥ एवंचोभयशाखिभिरात्मानमंतर इति विज्ञानादंतर इति च जीवस्यब्रह्मणो भेदेनोपदेशादंतर्यामी विष्णुरेवेति सिद्धं ॥

॥ इति अंतर्याभ्यधिकरणं ॥

%6.अधिकरणं ॥%

अत्रादृश्यत्वाद्यभावाख्यलिंगं ब्रह्मणि समन्वीयते।

<1-2-21>
%(21) ॐ ॥ अदृश्यत्वादिगुणको धर्मोक्तेः ॥ ॐ ॥%

ननु यत्तदद्रेश्यमि (मुं.1-1-6) त्युक्तादृश्यत्वादिगुणको न विष्णुः किंतु जडप्रकृतिः। अक्षरात्संभवतीहेति (मुं.1-1-7) अरशब्दश्रवणात्। न चाक्षरशब्दो विष्णावपि सावकाशः। तत्परतः पराभिधानात्। न च विष्णोः परोऽस्ति। पृथिव्यादिदृष्टांतेनोपादानतया जगत्कारणत्वाभिधानाच्च। चित्प्रकृतेरेवैतददृश्यत्वादिकं। तस्यामक्षरशब्दस्य कूटस्थ इति (भ.गी.15-16) स्मृतिसिद्धत्वात्। विकारित्वेन जगत्कारणत्ववचनं विकाराभिमानित्वाद्युज्यते। अश्ररात्परत (मुं.2-1-2) इत्येतदपि परतोऽक्षरादिति सामानाधिकरण्येनोपपद्यते। हिरण्यगर्भस्य वेतददृश्यत्वादिकं। सब्रह्मविद्यामित्यादि (मुं.उ.1-1-1) ब्रह्मशब्दात्। रुद्रस्य वैतददृश्यत्वादिकं। कर्तारमीशमि (मुं.उ.3-1-3) तीशशब्दश्रवणादिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अदृश्यत्वादिगुणको धर्मोक्तेरिति ॥% अस्यार्थः ॥ अदृश्यत्वादिगुणकः यत्तदद्रश्यमिति श्रुत्युक्तादृश्यत्वादिधर्मविशिष्टाक्षरशब्दवाच्यो विष्णुरेव। न प्रकृत्यादिः। कुतः। धर्मोक्ते ऋगादिपरविद्याविषयत्वरूपविष्णुधर्मस्य ययेति श्रुत्युक्तत्वादित्यर्थः ॥

एवंचाथ परायये (मुं.1-1-5) त्यदृश्यत्वादिगुणकस्य परविद्याविषयत्वाभिधानाददृश्यत्वादिगुणको विष्णुरेवेति सिद्धं ॥

<1-2-22>
%(22) ॐ ॥ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ ॐ ॥%

ननु विष्णुप्रापकपरविद्याविषयत्ववज्जडप्रकृतिविरिंचरुद्रप्रापकानामपि भावात्त एवादृशत्वादिगुणकाः किं न स्युरित्यतो विशेषयुक्त्या पराकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ विशेषणभेदव्यपदेशाभ्यां च नेतराविति ॥% अस्यार्थः ॥ चः समुच्चये इतरौ प्रकृतिद्वयं विरिंचरुद्रौ च। नादृश्यत्वादिगुणकौ। कुतः। विशेषणभेदव्यपदेशाभ्यां प्रतिज्ञाद्वये क्रमेणैककैहेत्वन्वयः। यः सर्वज्ञ इति (मुं.1-1-9) सार्वज्ञ्यादिविशेषणात्। तस्मादेतदिति (मुं.1-1-9) अदृश्यत्वादिगुणकाक्षराद्विरिंचरुद्रयेर्भेदोक्तेश्चेत्यर्थः ॥

॥ एवंच जडप्रकृतित्वविरोधिसार्वज्ञ्यादिविशेषणस्य तस्मादेतदिति विरिंचत्वविरोधि जुष्टं यदापश्यत्यन्यमिति (मुं.3-1-2) रुद्रत्वविरोधिभेदव्यपदेशस्य चाभावेनासंभवात्। न च परतःपराभिधानान्न विष्णुरिति वाच्यं। अपरं त्वक्षरमिति (स्कांदे) त्र्यक्षराभिधानेन परतो मध्यमाक्षरात्परत्वसंभवेनाविरोधाददृश्यत्वादिगुणको विष्णुरेवेति सिद्धं ॥

<1-2-23>
%(23) ॥ ॐ ॥ रूपोपन्यासाच्च ॥ ॐ ॥%

युत्क्यंतरेण विष्णोरेवादृश्यत्वादिगुणकत्वं साधयत्सूत्रमवतारयति ॥

%॥ ॐ ॥ रूपोपन्यासाच्चेति ॥% अस्यार्थः ॥ यदा पश्यःपश्यत (मुं.3-1-3) इति विष्ण्वसाधारणस्वर्णरूप प्रतिपादनाच्चादृश्यत्वादिगुणको विष्णुरेवेत्यर्थः ॥

एवंच विष्ण्वसाधारणरुक्मरूपप्रतिपादनात्। एको नारायण इत्यत्र शुक्लादिरूपाणां मनुष्यादौ मिश्रीकरणस्योक्तत्वाददृश्यत्वादिगुणको विष्णुरेवेति सिद्धं ॥

॥ इति अदृश्यत्वाधिकरणं ॥

%7.अधिकरणं ॥%

अत्र पाचकत्वाद्यनेकलिंगसमन्वयसिध्यर्थं ब्रह्मणि वैश्वानरनामसमन्वयः क्रियते ॥

<1-2-24>
%(24) ॐ ॥ वैश्वानरः साधारणशब्दविशेषात् ॥ ॐ ॥%

ननु नायं वैश्वानरो विष्णुः। साधकशून्यत्वात्। सर्वगतत्वलिंगस्यान्यवप्रसिद्धवैश्वानरश्रुत्या बाधितत्वात्। न च लिंगस्य निरवकाशत्वेन तेन श्रुतिबाधः। श्रुतेरपि। निरवकाशत्वात्। वैस्वानरश्रुतेर्निबाधसाधकशून्यत्वेनाग्निविष्ण्वोः साधारणन्येन चान्यनिश्चायकत्वाभावात्। अतो वैश्वानरो न विष्णुरिति प्राप्ते सूत्रमा ॥

%॥ ॐ ॥ वैश्वानरः साधारणशब्दविशेषादिति ॥% अरयार्थः ॥ वैश्वानरः यस्त्वेतमित्यादि(छां.5-18-1) वाक्यगतवैश्वानरादिशब्दवाच्यो विष्णुरेव नत्वग्निः। कुतः। साधारणशब्दविशेषात्। अग्निविष्ण्वोः साधारणस्य वैश्वानरशब्दस्य आत्मानं वैश्वानरमिति श्रुतावात्मशब्देन विशेषितत्वादित्यर्थः ॥

॥ एवंच साधारणस्यापि वैश्वानरशब्दस्य विष्ण्वैकनिष्ठतया श्रुत्यादिसिद्धेनात्मानं वैश्वानरमित्यात्मशब्दविशेषितत्वाद्विष्णुपरत्वसंभवात्। प्रसिद्ध्यादेरन्यथोपपन्नत्वेन निर्णयकारणाभावाच्छब्दविशेषादात्मशब्दाद्वैश्वानरो विष्णुरेवेति सिद्धं ॥

<1-2-25>
%(25) ॥ ॐ ॥ स्मर्यमाणमनुमानं स्यादिति ॥ ॐ ॥%

ननु नायं वैश्वानरो विष्णुरेवेति घटते। सामानाधिकरण्यविरोधात्। विष्णुत्वनिश्चायकवदग्नित्वनिश्चायकसद्भावादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ स्मर्यमाणमनुमानं स्यादितीति ॥% अस्यार्थः ॥ इति स्मर्यमाणं अहं वैश्वानरोभूत्वे (भ.गी.15-14) त्युक्तं विष्णोर्वैश्वानरत्वं। अनुमानं वैश्वानरविद्यायाः गीतोक्तभगवत्परत्वस्यानुमापकं। स्यात् भवेदित्यर्थः ॥

॥ एवंच गीतास्मृतेर्वैश्वानरविद्यासमानोक्तिरूपत्वादस्यास्तत्समाख्यानान्निर्णयकत्वेन वैश्वानरो विष्णुरेवेति सिद्धं ॥

<1-2-26>
%(26) ॐ ॥ शब्दादिभ्योंऽतः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसंभवात्पुरुषविधमपि चैनमधीयते ॥ ॐ ॥%

ननु वैश्वानरमृत अजातमग्निमी (ऋ6-7-1) त्यग्निशब्दस्य वैश्वानरे तध्दुतं भवति। हृदयं गार्हपत्य (छां5-18-2) इत्याग्निलिंगस्य येनेदमन्नं पच्यत (बृ.7-9-1) इत्यादिना पाचकत्वेनांतः-प्रतिष्ठानस्य च श्रवमात्। एतेषां विष्णावनवकाशात्। इत्यादिना वैश्वानरस्य विष्णुत्वमाक्षिप्य समादधत्सूत्रमाह ॥

%॥ ॐ ॥ सभ्दादिभ्योंऽतःप्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसंभवात्पुरुषविधमपि चैनमधीयत इति ॥% अस्यार्थः ॥ युक्तिसमुच्चये च शब्दः। शब्दादिभ्यः अग्निशब्द होमाधिकरणत्वलिंगादित्यर्थः। अंतःप्रतिष्ठानात् पाचकत्वेन शरीरांतरावस्थानाच्च। वैश्वानरो न विष्णुः किंतु अग्निरेवेति चेन्न। कुतः। तथा दृष्ट्युपदेशात्। अग्न्यादिनामलिंगकर्मवत्त्वेन दृष्ट्युपदेशात् उपासनोपदेशादित्यर्थः। तथा च अग्न्यादिश्रुतिलिंगानां विष्णौ सावकाशत्वान्न तद्विरोध इति भावः। किंचात्रोक्तात्मत्वब्रह्मत्वादीनां अग्न्यादावसंभवाच्च वैश्वानरो विष्णुरेव। अपि च यतः छंदोगाः एनं वैश्वानरं। पुरुषविधं पुरुषसूक्तप्रतिपाद्यनारायणमानगुणकमेव। अधीयते अभिदधति। अतोऽपि विष्णुरेवेत्यर्थः। च शब्देन पुरुषसूक्तस्य विष्णुपरत्वं बहुप्रमाणसिद्धमिति सूचयति ॥

॥ एवंच सर्वनामा सर्वकर्मेत्यादिना महोपनिषदि तत्तन्नामलिंगत्वेन दृष्ट्युपदेशात्। को न आत्मा किं ब्रह्मोति (छां.5-11-1) विष्णेरेवारंभात्। चंद्रमा मनसो जात (तै.5-18-2) इत्यादीना वैश्वानरस्य तद्विधत्वाभिधानाच्च। ततश्च वैश्वानरो विष्णुरेवेति सिद्धं ॥

<1-2-27>
%(27) ॐ ॥ अतएव न देवता भूतंच ॥ ॐ ॥%

ननु वैश्वानरशब्दस्य तेजसि भूतेऽग्निदेवतायां च प्रसिद्धत्वादत्राप्यसौ तत्परः स्यादिति प्राप्ते तन्निरासाय सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अत एव न देवता भूतं चेति ॥% अस्यार्थः ॥ देवता अग्न्यादिरूपा। भूतं तदभिमन्यमानतेजोभूतं च। वैश्वानरशब्द वाच्यं न। कुतः। अतएव निरवकाशात्मशब्दादि हेतेरेवेत्यर्थः ॥

एवंच निरवकाशात्मशब्दश्रवणाद्वैश्वानरशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

<1-2-28>
%(28) ॐ ॥ साक्षादप्यविरोधं जैमिनिः ॥ ॐ ॥%

ननु लोके वेदे चाग्न्यादिपदानामीशादन्यत्र व्यवहारप्रसिद्धिदर्शनात्। तस्य च कारणांतराभावात्तदन्यथाऽनुपपत्त्याऽन्येषां वाच्यत्वमंगीकार्यं। अन्यथा तद्विरोधः स्यादिति प्राप्ते तन्निरासाय सूत्रं व्याचष्टे ॥

%॥ ॐ ॥ साक्षादप्याविरोधं जैमिनिरिति ॥% अस्यार्थः ॥ साक्षात् मुख्यवृत्त्या। अपि ब्रह्मणोऽग्न्यादिशब्दवाच्यत्वेऽपि। अविरोधं अज्ञानादिनिमित्तांतरेण अग्न्यादौ तत्तच्छब्दविरोधाभावं। जैमिनिराचार्यो वक्तीत्यर्थः ॥

॥ एवंचाग्न्यादिशब्दानां ब्रह्मवदग्न्याद्यवाचित्वेप्यग्न्यादिज्ञानार्थमभिज्ञैरन्यत्र व्यवहारात्। अनभिज्ञैस्तु परममुख्यार्थभगवदज्ञानादेव मुख्यार्थेऽग्न्यादावेव प्रयोगेण प्रसिध्युपपत्तेरग्न्यादिशब्दा विष्णुवाचकाः। न च जैमिन्यादिमतानां व्यासमतेन परस्परं विरोधः। व्यासचित्तस्थितं मतापरपर्यायं ज्ञानाख्यमहाकाशमपेक्ष्य गृहाद्यवच्छिन्नाकाशत्वपरिमितविषयाणि कानिचिदेतान्यूरीकृत्य जैमिन्याद्या व्यवहरंति। व्यासचित्तस्थिताकाशादिति (स्कांद) स्मृतेः। अतस्तेषां मतानामविरोध इति सिद्धं ॥

<1-2-29>
%(29) ॐ ॥ अभिव्यक्तेरित्याश्मरथ्यः ॥ ॐ ॥%

ननु लौकिकप्रसिद्धेरज्ञानादिमूलत्वेनान्यथोपपत्तावपि वैदिकाग्न्यादिसूक्तमंत्रादिप्रसिध्यन्यथाऽनुपत्त्याऽग्न्यादीनां सूक्तादिगताग्न्यादिशब्दवाच्यत्वं स्यात्। तत्राज्ञानादिमूलकत्वकल्पनाऽयोगेनान्यथोपपत्त्यभावात्। नापि व्यवहारार्थत्वेनान्यथोपपत्तिः। अनादित्वादिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अभिव्यक्तेरित्याश्मरथ्य इति ॥% अस्यार्थः ॥ अभिव्यक्तेः अग्न्यादिषु ब्रह्मोपास्तौ कृतायां तेषु ब्रह्मणोऽभिव्यक्तेः। तन्निमित्तोऽग्न्यादिसूक्तनियम इति आश्मरथ्याचार्यो मन्यत इत्यर्थः ॥

॥ एवंचाग्न्यादिसूक्तैरुपासकानामग्न्यादौ च भगवदभिव्यक्त्या सूक्तनियमसंभवादग्न्यादिशब्दवाच्यो विष्णुरेवेति सिद्धं। ततश्चाश्मरथ्याचार्यमतेनाविरोध इति सिद्धं ॥

<1-2-30>
%(30) ॐ ॥ अनुस्मृतेर्बादरिः ॥ ॐ ॥%

॥ प्रकारांतरेण सूक्तादिनियमस्यान्यथोपपत्तिं कथयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अनुस्मृतेर्बादरिरिति ॥% अस्यार्थः ॥ अनुस्मृतेः तत्तसूक्ताद्युपासकैरग्न्यादिष्वेव ब्रह्मणोऽनुस्मृतेः अनुसंधानाद्धेतोः। अग्न्यादिसूक्तव्यवस्थेति बादरिर्वक्तीत्यर्थः ॥

॥ एवंचाग्न्यादिसूक्तैरुपासकानामग्न्यादौ विष्णोः स्मर्तव्यत्वात्सूक्तनियमसंभवादग्न्यादिशब्दवाच्यो विष्णुरेवेति सिद्धं। तथाच बदरात्मजस्य शुकाचार्यस्य मतस्याविरोध इति स्थितं ॥

<1-2-31>
%(31) ॐ ॥ संपत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ॐ ॥%

रीत्यंतरेण सूक्तनियमस्यान्यथोपपत्तिं प्रतिपादयत्सूत्रं व्याचष्टे ॥

%॥ ॐ ॥ संपत्तेरिति जैमिनिस्तथा हि दर्शयतीति ॥% अस्यार्थः ॥ हि यस्मात्। तं यथेति हि प्रसिद्धाश्रुतिः तथा दर्शयति यथा जैमिनिमतं तथा प्रतिपादयति। तस्माज्जैमिनिः स्वोक्त्यनुकूलश्रुत्यनुसारेम संपत्तेः अग्न्यादिसूक्तोपासकानामग्न्यादिप्राप्तिहेतोः। तद्विवक्षया सूक्तादिनियम इति आहेत्यर्थः ॥

॥ एवंचाग्न्यादिसूक्तादिषु मुख्यतः पर ब्रह्मण एव प्रतिपाद्यत्वेऽपि सूक्तादिनियमो युज्यते। भगवदुपासकानामग्न्यादिप्राप्तिर्भवति। अतो लौकिकव्यवहाराविरोध इति जैमिनिर्मन्यते। अतः सूक्तनियमोऽभ्युपगंतव्य इति सिद्धं ॥

<1-2-32>
%(32) ॐ ॥ आमनंति चैनमस्मिन् ॥ ॐ ॥%

नन्वग्न्यादिसूक्तादिभिर्ब्रह्मोपासकस्याग्न्यादिप्राप्तिर्भवतीति वक्तुं न युक्तं। मद्भक्ता यांती (गी.7-23) त्यादेरन्योपासकस्यान्यप्राप्त्ययोगात्। श्रुतेति सूत्रे तदनभ्युपगमाच्चेति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ आमनंति चैनमस्मिन्निति ॥% अस्यार्थः ॥ चः शंकानिवर्तकः। यस्मात् एनं विष्णुं। अग्न्यादौ आमनंति तत्स्थतया योऽग्नौ तिष्ठन्नि (बृ.5-7-5) त्याद्याः श्रुतयः प्रतिपादयंति। तस्मात्कथमग्न्यादिषु विष्णूपास्त्याऽग्न्यादि प्राप्तिर्भवतीति शंका निवृत्ता। कुतः। अग्न्यादिपदेन तत्स्थभगवत्प्राप्तेरेवाभिप्रेतत्वादित्यर्थः ॥

॥ एवंच तत्तत्सूक्तोपासकानामग्न्यादिपदेन तदंतर्गतविष्णुप्राप्तेर्विवक्षितत्वात्। विष्णूपासकस्याग्न्यादिप्राप्त्युक्तेरयोगात्। न च विष्णोरग्न्याद्यंतर्गतत्वासिद्धिः। योऽग्नौ तिष्ठन्नित्यादिश्रुतेः। अतोऽग्न्यादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

॥ इति वैश्वानराधिकरणं ॥
॥ इति प्रथमाध्यायस्य द्वितीयः पादः ॥

———————————————————

॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अथ प्रथमाध्यायस्य तृतीयः पादः ॥

तत्र चान्यत्र च प्रसिद्धानां शब्दानां विष्णौ समन्वयः प्रायेणास्मिन्पादे क्रियते।

%1.अधिकरणं ॥%

अत्रोभयत्र प्रसिद्धसर्वाधारत्वलिंगं ब्रह्मणि समन्वीयते।

<1-3-1>
%(1) ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॥ ॐ ॥%

ननु रुद्रस्यैव द्युभ्वाद्यायतनत्वं भवेत्। अत्रोक्तप्राणाधारत्वस्य प्राणानां ग्रंथिरसी(महा ना. 16-2)त्यादिना तस्मिन्प्रतीतेः। मन ओतंचोत्यादिना मन आयतनत्वस्य तस्मिन्नैवोक्तत्वात्। प्राणाधारत्वलिंगेन प्राणेश्वर (धृतसूक्ते.)इत्यादिना तस्य प्रतीतेः। जीवस्य वा भवेत्। स एषोंऽतश्चरत (मुं. 2-2-6)इत्यादिना जीवलिंगप्रतीतेः। इति प्राप्ते सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ द्युभ्वाद्यायतनं स्वशब्दादिति ॥% अस्यार्थः ॥ द्युभ्वाद्यायतनं यस्मिन्निति (मुं. 2-2-5.) वाक्योक्तस्वर्ग भूम्यादि सर्वाश्रयो विष्णुरेव। न त्वन्यः। कुतः। स्वशब्दात् स्वेति शब्दः स्वशब्दः स्वशब्दगृहीत ब्रह्मवाचकात्मशब्दादित्यर्थः ॥

॥ एवंच तमेवैकमात्मानमि(मुं. 2-2-5.)त्यात्मशब्दाद्विष्णोर्द्युभ्वाद्यायतनत्वमिति सिद्धं ॥

<1-3-2>
%(2) ॐ ॥ मुक्तोपसृप्यव्यपदेशात् ॥ ॐ ॥%

ननु विष्णौ मुख्योऽप्यात्मशब्दोऽरा इव रथनाभावित्यत्र बहुधाजायमानत्वरूपजीवलिंगात्। तस्य जीववादेव प्राणित्वसिद्धेः। ततश्च जीव एव द्युभ्वाद्यायतनं इति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ मुक्तोपसृप्यव्यपदेशादिति ॥% अस्यार्थः ॥ द्युभ्वाध्यायतनत्वं न विष्णोरन्यस्य। किंतु विष्णोरेव। कुतः। मुक्तोपसृप्यव्यपदेशात्। भावप्रधानोऽयं। द्युभ्वाद्यायतनस्य वस्तुनोऽमृतस्यैषसेतुरिति मुक्तप्राप्यत्ववचनात्तस्य चान्यत्रायोगादित्यर्थः ॥

॥ एवंचामृतस्यैषसेतु(मुं. 2-2-5.)र्ब्रह्मविदाप्नोति परमि(तै. 2-1.)त्यादिषु मुक्तप्राप्यत्ववचनाद्विष्णोर्द्युभ्वाद्यायतनत्वमिति सिद्धं ॥

<1-3-3>
%(3) ॐ ॥ नानुमानमतच्छब्दात् ॥ ॐ ॥%

ननु विष्णुप्रापकवत् रुद्रप्रकृत्योरपि प्रापकसद्भावात्तयोर्द्युभ्वाद्यायतनत्वं स्यादिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ नानुमानमतच्छब्दादिति ॥% अस्यार्थः ॥ अनुमानं अनुमानमिति वा। मनुमानसिद्धप्रामाण्ययुतपाशुपताद्यागमैः सर्वाश्रयतया कल्पितं। रुद्रप्रधानादिकं द्युभ्वाद्यायतनंव। कृतः। अतच्छब्दात् भस्मधरोग्रत्वादितच्छुतिलिंगाद्यभावादित्यर्थः ॥

॥ एवंच रुद्रादिशब्दानां सावकाशत्वेन प्राणानामि(महा ना. 16-2.)त्यादिवाक्यस्य रुद्रपरवानिर्णयेनासाधकत्वात्। निरवकाशानां च भस्मधरोग्रादि शब्दानामभावात्। ततश्च विष्णोर्द्युभ्वाद्यायतनवमिति सिद्धं ॥

<1-3-4>
%(4) ॐ ॥ प्राणभृच्च ॥ ॐ ॥%

ननु स एष (मुं. 2-2-6.) इत्यत्र जायमानत्वरूपजीवलिंगश्रवणात्प्राणित्वसिद्धेश्च जीवसामान्यस्य वायुना वै गौतमसूत्रेणायं लोक इति (बृ. 5-7-2.) विषयभूतलोकाधारत्वस्य वायुनिष्ठत्वेन श्रवणाद्वायोर्वा द्युभ्वाद्यायतनत्वं स्यादिति प्राप्ते सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ प्राणभृच्चेति ॥% जीवोऽप्यत एव द्युभ्वाद्यायतन इत्यर्थः ॥

॥ एवंच प्रागुक्तसावकाशसाधकसद्भावेऽपि निरवकाशात्मशब्दाभावादेव तत्प्रापकत्वेनाभिमतस्य बहुधा जन्मादेरजायमान इति (तै.आ. 3-13-1.) श्रुतेर्विष्णावेव संभवाच्च न जीवस्य वायोर्वा द्युभ्वाद्यायतनत्वमिति सिद्धं ॥

<1-3-5>
%(5) ॐ ॥ भेदव्यपदेशात् ॥ ॐ ॥%

ननु जीवलिंगस्य किं विष्णुत्वप्रतिपादनायासेन जीवस्यैव द्युभ्वाद्यायतनत्वे विष्णोस्तल्लाभसंभवात्। न चोक्तहेतुविरोधः। जीवेशाभेदाभिप्रायेण जीवेऽप्यात्मशब्दाद्युक्तिसंभवाज्जीव एव द्युभ्वाद्यायतनत्वेन प्रतिपाद्यो भवेदिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ भेदव्यपदेशादिति ॥% अस्यार्थः ॥ अन्यमीशमिति जीवेशयोर्भेदोक्तेर्न तयोरैक्यमित्यर्थः।

॥ एवंच जुष्ठं यदा पश्यती(मुं. 3-1-1.)त्यत्र दर्शनकर्तृत्वेन प्रकृतजीवस्येशपदोक्तेश्वराद्भेदोक्ते र्विष्णुरेव द्युभ्वाद्यायतनत्वेन प्रतिपाद्य इति सिद्धं ॥

<1-3-6>
%(6) ॥ ॐ ॥ प्रकरणात् ॥ ॐ ॥%

ननु जीवस्य कस्माच्चिदीशादन्यत्व मुच्यते न तु परमात्मनः। ततश्च न तयोर्भेद इति प्राप्ते पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ प्रकरणादिति ॥% अस्यार्थः ॥ अन्यमि(मुं. 3-1-1.)त्यादेर्विष्णुप्रकरणत्वात्। अत्र जीवस्य विष्णुभेद एवोच्यते। न त्वन्यस्माद्भेद इत्यर्थः ॥

॥ एवंच द्वेविद्य(मुं. 1-1-4.)इत्यस्य परविद्याविषयवस्तुनोऽत्राधीतत्वेन विष्णुप्रकरणत्वात्परमात्मन एव भेदव्यपदेशावगतेर्विष्णुरेव द्युभ्वाद्यायतन इति सिद्धं ॥

<1-3-7>
%(7) ॐ ॥ स्थित्यदनाभ्यां च ॥ ॐ ॥%

एवं न केवलं जुष्टमिति भेदश्रुतेर्जीवेशभेदोऽत्र प्रकरणे विवक्षित इति ज्ञायते किंतु लिंगादपीत्याह सूत्रकृत् ॥

%॥ ॐ ॥ स्थित्यदनाभ्यां चेति ॥% अस्यार्थः ॥ ईशजीवयोर्द्वासुपर्णे(मुं. 3-1-1.) त्यादिवाक्योक्तं कर्मफलानुपजीवनस्तितितदुपजीवनरूपहेतुभ्यां च न तयोरैक्यं वाच्यमित्यर्थः ॥

॥ एवंच निर्दिष्टश्रुत्या जीवेशयोर्भेदस्य सिद्धत्वान्न जीवः किंतु विष्णुरेव द्युभ्वाद्यायतन इति सिद्धं ॥

॥ इति द्युभ्वाधिकरणं ॥

%2.अधिकरणं ॥%

अत्र भूमनाम्नो विष्णौ समन्वयः क्रियते।

<1-3-8>
%(8) ॐ ॥ भुमा संप्रसादादध्युपेदशात् ॥ ॐ ॥%

ननु भूमाख्यः प्राणो भवेत्। प्राणो वेति (छां. 7-15-1.)प्राणस्योत्तमत्वमुक्त्वा तदुत्तममनुकत्वा भूम्न आम्नातत्वात्। उत्क्रांत प्राणान् शूलेने(छां. 7-15-3.)त्यनेनोक्त्रमणलिंगश्रवणात्। न चेदं लिंगे विष्णाववकाशमर्हति। सर्वगतत्वात्। प्राणशब्दस्य वायुवाच्यत्वात्। ततश्चानंदमयोऽपि स एवेति प्राप्ते सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ भूमा संप्रसादादध्युपदेशादिति ॥% अस्यार्थः ॥ भूमा यो वै भूमेति (छां. 7-23.) श्रुतौ भूमशब्दोक्तपूर्णो। विष्णुरेव। कुतः। संप्रसादात् भूम्नस्तत्सुखमित्यनेन संप्रसादशब्दितपूर्णसुखरूपत्वाभिधानात्। किंच अध्युपदेशात् नामादेरपि तदुपरि नामादिदेवतोत्तमत्वेन भूम्‌नोऽभिदानाच्चेत्यर्थः ॥

॥ एवंच विष्णुरेवायं भूमा। पूर्णसूखत्वात्। तस्य चान्यत्र निरवकाशत्वात्। किंचास्य भूम्नः सर्वेषामुपर्युपदेशः श्रूयते। न चास्यान्यत्रावकाशः। न चोपक्रमे प्राणशब्दश्रवणेन कथमसौ विष्णुरिति वाच्यं। प्राणशब्देनापि विष्णोरुक्तत्वात्। न चोत्क्रमणादि लिंगविरोधः। तमुत्क्रंतमिति(बृ. 6-4-2.)श्रुतिसिद्धत्वेन तस्य विष्णावेव मुख्यत्वात्। अथवाऽयं प्राणो वायुरेव। तथाऽपि न तस्य भूमत्वप्राप्तिः। एष तु वेत्यादिना सूचित प्रश्नाद्यध्याहारेण प्राणाद्विष्णोर्भूयस्त्वमुक्त्वा भूम्न आम्नानात्। सर्वेषां नामादीनामुपरि विष्णोः सर्वोत्तम त्वेनाभिधानात्। भूमा विष्णुरेवेति सिद्धं ॥

<1-3-9>
%(9) ॐ ॥ धर्मोपपत्तेश्च ॥ ॐ ॥%

युक्त्यंतरेण विष्णोर्भूमत्वप्रतिपादयत्सूत्रं पठति ॥

%॥ ॐ ॥ धर्मोपपत्तेश्चेति ॥% अस्यार्थः ॥ स एवाधस्तादित्यादिना (छां. 7-25.) भूम्नि सर्वगतत्वादिधर्मश्रवणात्। तस्य च विष्णोरेवोपपत्तेः। विष्णुरेव भूमेत्यर्थः ॥

॥ एवंच प्राणपदेन वाय्यंतर्गतस्य विष्णोरभिधानात्। आत्मन आकाश(तै.आ. 2-1.)इत्यत्र संभूतपदेन भूतस्य तदभिमानिदेहस्य स्वरूपोत्पत्त्यभिधानेऽपि तदभिमानिनो हरेश्च देहसंबंधप्रादुर्भावयोश्चाभिधानवत् भूमा वाव प्राणादित्यनेन स्वरूपोत्तमत्वस्य भूम्नोऽभिधानेऽपि वाय्वंतर्गताद्रूपात्प्रसादोन्मुखत्वरूपोत्तमत्वविशिष्टभूमाभिधानसंभवेन प्रश्नप्रतिवचनसहिष्णुत्वसंभवात्। किंच स एवाधस्तादित्यादिना भूम्नि सर्वगतत्वादयो धर्माः श्रूयंते। नैतेऽन्यत्रावकाशा लभंते। ततश्च निरवकाशेभ्यः सर्वगतत्वादिभ्यो भूमा विष्णुरेवेति तस्यैवानंदमयत्वमिति सिद्धं ॥

॥ इति भूमाधिकरणं ॥

%3.अधिकरणं ॥%

अत्राक्षर नामसमन्वयः क्रियते।

<1-3-10>
%(10) ॐ ॥ अक्षरमंबरांतधृतेः ॥ ॐ ॥%

नन्वेतदक्षरं मध्यमं श्रीतत्वमेव। अदृष्टमिति श्रुतेः (बृ. 5-8-11)। अहं सोममित्यादिना (ऋ. 10-125-2.) तद्धर्मत्वेनावगतचंद्रसूर्याद्याधारत्वस्य सूर्याचंद्रमसावि(बृ. 5-8-9.)त्यादिनाऽक्षरप्रतीतेश्च। न च श्रीतत्वलिंगतया प्रसिद्धचंद्रसूर्याद्याधारत्वबलाद्यद्यक्षरं श्रीतत्वमुच्यते। तर्हि विष्णुलिंगतया प्रसिद्धादृश्यत्वादिबलाद्विष्णुरेव किं न स्यादिति वाच्यं। अदृश्यत्वादीनां येत्त्वक्षरमनिर्देश्यमि(भ.गी. 12-3.) त्यादिना सावकाशत्वात्। न चाक्षरश्रुतेरदृश्यत्वादिलिंगानां च मध्यमोत्तमाक्षरयोः साम्येऽत्र मध्यममेवोच्यत इति निर्बेधे को हेतुरिति वाच्यं। न तदश्नाति किंचनेत्यक्षरस्यानशनोक्तेः। तच्च विष्णोर्विरुद्धं। अत्ता चराचर ग्रहणादित्युक्तत्वात्। न च मध्यमाक्षरस्यानशनांगीकारे विरोधीऽस्ति। अत एतदक्षरं मध्यमं श्रीतत्वमेवेति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अक्षरमंबरांतधृतेरिति ॥% अस्यार्थः ॥ अक्षरं तद्वा एतदित्यक्षरशब्दवाच्यं ब्रह्मैव। न चित्प्रकृतिः। कुतः अंबरान्तधृतेः। स्मिन्नक्षरे एतस्मिन्खल्वक्षर(बृ. 5-8-11.) इति आकाशांतपदार्थधारकत्वश्रवणादित्यर्थः ॥

एवंचाकाश एव तदोतंच प्रोतंचे(बृ. 5-8-7.)त्याकाशाख्यप्रकृतेः सर्वाधारत्वमुक्त्वा एतस्मिन्खल्वक्षर इत्यादिनाऽक्षरस्य तदाधारत्वश्रवणादक्षरशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

<1-3-11>
%(11) ॐ ॥ सा च प्रशासनात् ॥ ॐ ॥%

युक्त्यंतरेण विष्णोरेवाक्षरत्वं प्रतिपादयत्सूत्रं व्याचष्टे ॥

%॥ ॐ ॥ सा च प्रशासनादिति ॥% अस्यार्थः ॥ चो यतः। सा अंबरांतधृतिः। प्रशासनात् विष्णोराज्ञमात्रादेव भवतीति एतस्य वेति श्रुता उक्ता। अतोऽपि ब्रह्मैवाक्षर शब्दवाच्यं। न चेतनप्रकृतिरित्यर्थः ॥

एवंचाक्षरस्याज्ञामात्रेण सर्वाधारत्वश्रवणात्। सप्तार्धगर्भेति (ऋ. 1-164-36.) श्रुतेः। अतोऽक्षरशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

<1-3-12>
%(12) ॐ ॥ अन्यभावव्यावृत्तेश्च ॥ ॐ ॥%

युक्त्यंतरेण विष्णोरक्षत्वं प्रतिपादयत्सूत्रमाह ॥

%॥ ॐ ॥ अन्यभावव्यावृत्तेश्चेति ॥% अस्यार्थः ॥ अन्यभावानां विष्ण्वन्यवस्तुस्वभावानां स्थूलत्वादीनां। अस्थूलमनण्विति (बृ. 5-8-8.)श्रुतावक्षरे व्यावृतेरभावस्य कथनाच्च ब्रह्मैवाक्षरमित्यर्थः ॥

एवंचास्थूलमित्यादिनाऽन्यवस्तुस्वभावानां स्थौल्यादीनां व्यावृत्त्यभिधानादक्षरशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

॥ इति अक्षराधिकरणं ॥

%4.अधिकरणं ॥%

त्रानेकप्रकरणात्मकं `सदेव’ इत्यादिस्थानं समन्वीयते।

<1-3-13>
%(13) ॐ ॥ ईक्षतिकर्मव्यपदेशशात्सः ॥ ॐ ॥%

ननु सत् प्रधानमेव भवेत्। न विष्णुः। सतो बहु स्यामिति(छां. 6-2.) बहुधाभावाख्यविकारित्वश्रवणात्। न च विकारीत्वं परमात्मनि संभवति। अविकारः सदा शुद्ध इत्यादिना तस्याविकारित्वात्। ततश्च प्रधानमेव सदिति तस्यैव जगत्कर्तृत्वमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ ईक्षतिकर्मव्यपदेशात्स इति॥% अस्यार्थः ॥ सदेवेत्यादि(छां. 6-2.) प्रकरणस्थितसदादिशब्दवाच्यः विष्णुरेव न प्रधानं। कुतः। ईक्षतिकर्मव्यपदेशात् तदैक्षतेति (छां. 6-2-3.) चेतननिष्ठैक्षतेति शब्दोपलक्षितदर्शनाख्यक्रियाभिधानादित्यर्थः ॥

॥ एवंच तदैक्षतेति ईक्षत्याख्यव्यापारश्रवणात्तेन प्रेक्षापूर्वकारित्वलाभात्। ईक्षणस्याचेतने प्रधाने कथमप्ययोगात्। माभूत्तर्ह्यचेतना प्रकृतिः। चेतना प्रकृतिः किं न स्यादिति चेत्। चेतनप्रकृतेः स्त्रीत्वेन स्वातंत्र्येण सर्जकत्वायोगात्। न च बहुभावाख्यप्रधानलिंगश्रवणेन स न विष्णुरिति वाच्यं। अजायमानो बहुधा विजायत (तै.आ. 3-13.1.)इत्याविकारस्यापि बहुभावश्रवणेन तस्य सावकाशत्वात्। सदिति विष्णुरेवोक्तस्तस्यैव स्रष्टत्वमिति सिद्धं ॥

॥ इति सदधिकरणं ॥

%5.अधिकरणं ॥%

अत्र सर्वाधारतयाऽन्वेष्टव्यतया च साक्षाद्वा व्यवधानेन वा सामान्यतो हृत्पद्मस्थत्वलिंगस्य ब्रह्माणि समन्वयः क्रियते।

<1-3-14>
%(14) ॐ ॥ दहर उत्तरेभ्यः ॥ ॐ ॥%

नन्वाकाश एव हृपद्मस्थो भवेत्। दहरोऽस्मिन्निति (छां. 8-1.) पद्मस्थे दहराकाशस्थितिश्रवणात्। तस्यांते सुषिरमिति(महा ना. 11.)व्याख्यानाच्च। आकाशशब्देन यदि सुषिरमेवाभिमतं तस्मिंश्च यदंतरिति हृत्पद्मस्थाकाशगतः सर्वाधारतयोच्येत तर्हि वाक्यान्वयानुपपत्तेः। तथाहि। तस्मिन्नित्यत्र विष्णुत्वाभिप्राये किं तत्र विद्यत इति प्रश्नस्य ब्रह्म विद्यत इति परिहारं विना यावन्वा इत्यादरेभिप्रायासंगतिः। आकाशपक्षे त्वस्त्यस्यान्वयः। हृदयाकाशस्थमुपास्यमित्युक्ते किं तत्र स्थितमिति प्रश्ने यावान्वेति प्रागुक्ताकाशस्य विशिष्योभेऽस्मिन्नित्यादिपरिहारसंश्लोषात्। न च यावानित्यादिनाऽऽकाशाख्यो विष्णुः सर्वाधारतया परिहारे कभ्यत इत्यन्वयोपपत्तिः। तमिन्सर्वं प्रतिष्ठितमिति साक्षात्सुषिरस्यैव सर्वाधारत्वोक्तिविरोधात्। अत आकाशस्यैव सर्वाधारतया हृत्पद्मस्थत्वं। अतो भगवदितरदेव चंद्रादित्याधाराक्षरमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ दहर उत्तरेभ्य इति ॥% अस्यार्थः ॥ दहरे दहरं पुण्‍रीकं वेश्मेति वाक्योक्तहृत्पद्मस्थाल्पाकाशे स्थितो विष्णुरेव जीवादिः। कतुः। उत्तरेभ्यः य आत्मा अपहतपाप्मे(छां. 8-7.)त्याद्युत्तरवाक्योक्तनिर्गतपाप्मत्वादिधर्म्येभ्य इत्यर्थः ॥

एवंच दहरपद्मस्थो विष्णुरेव भवेत्। अपहतपाप्मेत्याद्युत्तरवाक्ये हृत्पद्मस्थस्यापहतपाप्मत्वादिगुणश्रवणात्। पापाद्यभवास्यान्यत्र कथंचिद्योगेऽपि सर्वथा सत्यकामत्वादिकस्यायोगात्। योऽशनयेति(बृ. 5-5.)श्रुतेः। निरपेक्षगुणानामन्यत्राभावात्। नित्यतीर्णेति(पाद्म.)वचनत्। सापेक्षनिरपेक्षयोर्निरपेक्षस्य स्वीकार्यत्वात्। अतो हृत्पद्मस्थो विष्णुरेवेति सिद्धं ॥

<1-3-15>
%(15) ॐ ॥ गतिशब्दाभ्यां तथा हि दृष्टं लिंगं च ॥ ॐ ॥%

युक्त्यंन्तरेण विष्णोर्हृत्पद्मस्थत्वं प्रतिपादयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ गतिशब्दाभ्यां तथा हि दृष्टं लिंगं चेति ॥% अस्यार्थः ॥ गतिशब्दाभ्यां अहरहर्गच्छन्त्य एतं ब्रह्मलोकमिति (छां. 8-3-2.) वाक्ये श्रुताभ्यां सुप्तप्राप्यत्वब्रह्मशब्दाभ्यां हेतुभ्यां। दहरहृतपद्मस्थं ब्रह्मैव। किंच यतः अरश्चेति (छां. 8-5-3.) श्रुतौ तथा सुप्तप्राप्यत्ववत्। हि विष्णुनिष्ठत्वेन प्रसिद्धं। लिंगं अरण्याख्यसुधासमुद्राश्रयलोकवत्त्वरूपज्ञापकं। हृत्पद्मस्थे दृष्टं उक्तं। अतोऽपि दहरहृत्पद्मस्थो विष्णुरेवत्यर्थः ॥

एवंचाहरर्हगच्छन्त्य इति सुप्तप्राप्यत्वाभिधानात्। सुप्तप्राप्यावस्य विष्णुलिंगत्वात्। सता सोभ्येति (छां. 6-8.) श्रुतेः। अरण्यनामामृतसमुद्रद्वयाश्रयलोकवत्त्वरूपलिंगस्य हृत्पद्मस्थ्स्य दृष्टावाच्च। अरश्चेति श्रुतेः। ततश्च विष्णुरेव हृत्पद्मस्थ इति सिद्धं।

<1-3-16>
%(16) ॐ ॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धे ॥ ॐ ॥%

हेत्वंतरेण विष्णोर्हृत्पद्मस्थत्वं प्रतिपादयत्सूत्रं पठति ॥

%॥ ॐ ॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेरिति ॥% अस्यार्थः ॥ धृतेः स एष सेतुर्विधृतिरिति (छां. 8-4.) हृत्पद्मस्थस्य सर्वाधारत्वश्रवणाच्च विष्णुरेव हृत्पद्मस्थः। किंच छांदाग्ये हृत्पद्मस्थनिष्टतयोक्तस्य महिम्नः सर्वेश्वरत्वादेः। अस्मिन् एष सर्वेश्वर इति वाजसनेयवाक्ये। उपलब्धेःश्रवणात्। तत्समाख्यानादपि विष्णुरेव हृत्पद्मस्थः। ननु समाख्यानादपि कुतो विष्णुरेवेत्यत उक्तं। अस्येत्यादि। अस्य विष्णुमहिम्नः। अस्मिन् वाजसनेयकवाक्ये। श्रवणादेवेत्यर्थः ॥

एवंच वाजसनेयके वाक्ये य एषोतर्हृदय (बृ. 6-4-22.) इत्याद्युक्त्वैष सर्वेश्वर इत्यादिना हृदये विष्णोरुक्तत्वेन तत्सामाख्यानात्। एतस्मिन्खल्वक्षरे, (बु. 5-8-11.) सहिसर्वाधिपतिः, (महा ना. 11.) सर्वेशो विष्णुरेवैकः, (सकांदे.) इत्यादि श्रुतिस्मृतीषूक्तलिंगानामन्यत्र सावकाशत्वाभावात्। अतो हृत्पद्मस्थो विष्णुरेवेति सिद्धं ॥

<1-3-17>
%(17) ॐ ॥ प्रसिद्धेश्च ॥ ॐ ॥%

समाख्यारूपयुक्त्यंतरेण विष्णोर्हृत्पद्मगताकाशस्थत्वं साधयत्सूत्रं पठति ॥

%॥ ॐ ॥ प्रसिद्धेश्चेति ॥% अस्यार्थः ॥ दहरं विपाप्ममिति (महा ना. 10-7.) श्रुतौ विष्णोर्हृत्पद्मस्थत्वप्रसिद्धेश्च स एव हृत्पद्मस्थ इत्यर्थः ॥

एवंच दहरं विपाप्ममिति समाख्यारूपश्रुत्यंतरे विष्णोर्हृत्पद्मस्थत्वप्रसिद्धेः। न च प्रश्नोत्तरयोरसंगतिः। ब्रह्मपुरशब्देनैव हृत्पद्मस्थस्य ब्रह्मत्वे सिद्धे स्वरूपमात्रे प्रश्नायोगात्। कीदृशं तदिति भावेन किं तदिति प्रश्ने ब्रह्मस्वरूपन िरूपणाय यावानित्यादिपरिहारसंश्लेषात्। न च साक्षात्पद्मगतस्य विष्णुत्वाभ्युपगमे सुषिरशब्दस्याकाशवाचित्वेन पद्मगताकाशस्यैव विष्णुत्वांगीकारे वा दहरपद्मस्याकाशत्वं विष्णोस्त्वाकाशगतत्वमिति तस्यैव सर्वाधारत्वमित्यभ्युपगमेऽपि वा साक्षात्सुषिरस्य सर्वाधारत्वोक्तेः सुषिरश्रुतिवि रोधः। यथा मंदिरस्थमंजूषांतमपि वस्तु मंदिरस्थमिति संगीयते तथेहापि सुषिरश्रुतेः सुषिरस्याकाशस्यैव साक्षात्सर्वाधारत्वप्रतिपादिकायास्तस्यांत इति (महा ना. 11.) सुषिरपदघटितश्रुतेः पद्मगतसुषिरांतस्थपरमात्मानमपेक्ष्य प्रवृत्तत्वात्। अतो हृत्पद्मस्थो विष्णुरेवेति सिद्धं ॥

<1-3-18>
%(18) ॐ ॥ इतरपरामर्शात्स इति चेन्नासंभवात् ॥ ॐ ॥%

नन्वाकाशस्य सर्वाधारतया हृत्पद्मस्थत्वं जीवस्यैव भवेत्। उत्तरत्र परंज्योतिरित्युक्त(छां. 8-12-3.) हृत्पद्मस्थात्मतया परामर्शात्। दहरस्थत्वलिंगात्। न चान्वयानुपपत्तिः। विष्णुपक्षे वाक्ययोजनावज्जीवपक्षेऽपि योजयितुं शक्यत्वादित्यादिना भगवतो हृत्पद्मस्थत्वमाक्षिप्य समादधत्सूत्रमाह।

%॥ ॐ ॥ इतरापरामर्शात्स इति चेन्नासंभवादिति ॥% अस्यार्थः ॥ इतरपरामर्शात्। स्वेन रूपेणाभिनिष्पद्यक (छां. 8-12-3.) इत्युक्तस्य जीवस्य हृत्पद्मस्थात्मतया एष आत्मे (छां. 4-15-1.) त्येतच्छब्देन परामर्शात् ग्रहणात्। जीव एव हृत्पद्मस्थ इति चेन्न। कुतः। असंभवात् हृत्पद्मनिष्ठतया श्रुतानामपहतपाप्मत्वादिगुणानां जीवे स्वातंत्र्येणासंभवादित्यर्थः।

एवं च जीवस्यापहतपाप्मत्वाद्यसंभवेन विष्णुरेव हृत्पद्मस्थ इति सिद्धं।

<1-3-19>
%(19) ॐ ॥ उत्तराच्चेदाविर्भूतस्वरूपमस्तु ॥ ॐ ॥%

नन्वेष संप्रसाद इत्युक्तजीवस्य स तत्र पर्येतीत्यादिना सत्यकामत्वप्रतीतेस्तत एव विशोकत्वादिसिद्धेरुक्तगुमसंभवादिति जीव एव हृत्पद्मस्थ इति प्राप्ते समादधत्सूत्रं पठति ॥

%॥ ॐ ॥ उत्तराच्चेदाविर्भूतस्वरूपस्त्विति ॥% अस्यार्थः ॥ तु शब्द एवार्थे। नेतिशे षः। तथा च उत्तरात् स तत्र पर्येता(छां. 8-12-3.)त्युत्तरवाक्यात्। जीवस्य सत्यकामत्वादिप्रतीतेः। तत एव विशोकत्वादेः संभवात्। स एव हृत्पद्मस्थ इति चेन्न। कुतः। यतस्तद्वाक्ये स्वेनेत्युत्तरवाक्यबलात् आविर्भूतस्वरूपः मुक्त एव प्रतिपाद्यः। न जीवमात्रं। मुक्तश्च न स्वोतोऽपहतपाप्मत्वादिगुणकः। अतो न तस्यापि हृत्पद्मस्थत्वमित्यर्थः ॥

एवंचोत्तरवाक्ये मुक्तजीवस्योच्यमानत्वेन हृत्पद्मस्थस्य देहांतर्वर्तितया मुक्तत्वायोगात्। न चैतद्वाक्यस्य मुक्तविषयत्वेऽपि मुक्तस्यापि जीवत्वेऽपहतपाप्मत्वादिसंभवाभावेन जीव एव तद्गुणको हृत्पद्मगततया भाविभाविनोच्यत इति वाच्यं। मुक्तस्यापीश्वरप्रसादादेव तद्गुणाविर्भावेन स्वतोऽपहतपाप्मत्वाद्यसंभवात्। हृत्पद्मस्थो विष्णुरेवेति सिद्धं ॥

<1-3-20>
%(20) ॐ ॥ अन्यार्थश्च परामर्शः ॥ ॐ ॥%

ननु `एषः’ इति(छां. 8-3-4)जीवं परामृश्य `आत्मा’ इति तस्य हृत्पद्मस्थात्मत्वाभिधानादमुख्यापहतपाप्मत्वादिगुणोऽपि जीव एतच्छब्दपरामर्शबलाद्धृत्पद्मस्थात्मा स्यादिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अन्यार्थश्च परामर्श इति ॥% अस्यार्थः ॥ चः एवार्थे। परामर्शः एष आत्मेति वाक्यगतैत्छब्दः। अन्यार्थः परंज्योतिरित्युक्तपरमात्मार्थ एव न जीवार्थ इत्यर्थः ॥

एवंचैष आत्मेति परमात्मानमेवैष इति परामृश्य तस्यात्मत्वोक्तेर्न जीवः किंतु विष्णुरेव हृत्पद्मस्थ इति सिद्धं ॥

<1-3-21>
%(21) ॐ ॥ अल्पश्रुतेरिति चेत्तदुक्तं ॥ ॐ ॥%

ननु यथा जीवेऽसंभाव्यमानापहतपाप्मत्वादिगुणश्रवणान्नजीवस्तथा परमात्मन्यसंभाव्यमानजीवलिंगस्याप्यल्पस्थानस्थितत्वस्य श्रवणात्। ततश्च हृत्पद्मस्थो जीव एवेति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ अल्पश्रुतेरिति चेत्तदुक्तमिति ॥% अस्यार्थः ॥ अल्पश्रुतेः दहर (छां. 7-1-1.) इत्यल्पस्थानस्थितत्वोक्तेः। जीव एव हृत्पद्मस्थ इति चेत्। नेति शेषः। कुतः। यतस्तदुक्तं। तत्तु अल्पस्थानस्थितत्वं। उक्तं निचाय्यत्वादेव व्योमवच्चेत्यत्र व्याप्तस्यापि विष्णोः उपासनार्थमुच्यत इत्युक्तं आत्मांतर्हृदय इति श्रुत्युक्तं च। अत इत्यर्थः ॥

एवंच निचाय्यात्वादेवमित्यत्र सर्वगतस्यापि विष्णोर्व्योमवदल्पस्थानस्थितेरुक्तत्वात्। एषम(छां. 3-14-3.)इत्यत्र सर्वगततया श्रुत्युक्तत्वाच्च हृत्पद्मस्थो विष्णुरेवेति सिद्धं ॥

॥ इति दहराधिकरणं ॥

%6.अधिकरणं ॥%

अत्रानुकूल्येन गृह्यमाणत्वं लिंगं ब्रह्मणि समन्वीयते।

<1-3-22>
%(22) ॐ ॥ अनुकृतेस्तस्य च ॥ ॐ ॥%

ननु ज्ञानिसुखस्यैवानुकूल्येन गृह्यमाणत्वं भवेत्। परमं सुखमिति (कठ. 5-13, 14.) सुखश्रुतेः। तेषां सुखमिति ज्ञानिसुखस्यैव प्रकृतत्वात्। तस्यैवतच्छब्देन परामर्शस्य युक्तत्वात्। न च वाच्यं भगवतोऽपि प्रकृतत्वात्तत्परामर्शोऽयमिति। तस्य नपुंसकशब्देनाप्रकृतस्य तदित्यादिपरमार्शायोगात्। संभवत्समीपपरामर्शं विहाय दूरस्थपरामर्शग्रहणे कारणाभावादिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अनुकृतेस्तस्यचेति ॥% अस्यार्थः ॥ चः समुच्चये। तस्येति श्रुतिप्रतीकग्रहणं। अनुकृतिः अनुक्रिया। तथाच कथं नु तद्विजानीयामिति (कठ. 5-14.) ज्ञानार्थं प्रार्थितत्वरूपानुकूल्येन गृह्यमाणं ब्रह्मैव। कुतः। अनुकृतेः तमेव भांतमनुभाति सर्वमिति (कठ. 2-5-15) वाक्यशेषे सूर्यादीनां भगवत्क्रियानुसारिप्रकाशाख्य क्रियाकर्तृत्वश्रवणात्। तस्य भासा सर्वमिदं विभातीति (कठ. 2-5-15) जगतः परमात्मप्रभाप्रकाशत्वश्रुतेरित्यर्थः ॥

एवंच तमेव भांतमिति सूर्यादितेजसां विष्ण्वधीनत्वश्रवणात्। तस्य भासेति सर्वजगत्प्रकाशकत्वोक्तेश्च। अहं तत्तेज इति (चतुर्वेदशिखायां.)श्रुत्या यदादित्यगतमिति (भ.गी. 15-12.) स्मृत्याच तल्लिंगद्वयस्य विष्णुलिंगत्वावगतेः न च सुखश्रुतिविरोधः। परमं सुखमिति (कठ. 5-13, 14.) सुखश्रुतेरपि तत्परत्वात्। चेतनश्चेतनानामिति परमात्मनोऽपि प्रकृतत्वात्। यदनिर्देश्यं परमं सुखं कथं नु तद्विजानीयामित्यानुकूल्येन गृण्हंति। तदनिर्देश्यं सुखमेतत्प्रकृतपरमात्मनो रूपमिति मन्यंत इति वाक्ययोजनया परमात्मनः परामर्शोपपत्तेः। सूर्यादिप्रकाशनियामकत्वादीनां लिंगानामन्यत्रानवकाशेन दूरस्थ परामर्शस्यैव न्याय्यत्वात्। ततश्चानुकूल्येन गृह्यमाणो विष्णुरेवोति सिद्धं ॥

<1-3-23>
%(23) ॥ ॐ ॥ अपि स्मर्यते ॥ ॐ ॥%

यदेताल्लिंगद्वयस्य विष्णुनिष्ठत्वमहमिति। (चतुर्वेदशिखायां.) श्रुत्योपपादितं तत्स्मृत्याऽप्युपपादयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अपि समर्यत इति ॥% अस्यार्थः ॥ न केवलं हेतुकृतानुकृत्वादेर्विष्णुधर्मत्वं श्रूयते। किंतु कृष्णादिभिर्यदादित्यगतं तेज (भ.गी. 15-12.)इत्यादिस्मृत्यादिषूच्यत इत्यर्थः ॥

एवंच यदादित्यगतमित्यादिस्मृत्युक्तत्वेनापि विष्णुधर्मत्वश्रवणादानुकूल्येन गृह्यमाणं ब्रह्मैवेति सिद्धं ॥

॥ इति अनुकृत्याधिकरणं ॥

%7.अधिकरणं ॥%

अत्रेशाननामसमन्वयः क्रियते ॥

<1-3-24>
%(24) ॥ ॐ ॥ शब्दादेव प्रमितः ॥ ॐ ॥%

नन्वीशानो वायुरेव भवेत्। एवमेवैष (प्रश्न. 3-4.) इत्यत्र प्राणव्यवस्थापकत्वं योऽयं मध्यमेति (बृ. 3-5-21.) मध्यमत्वं कुविदंग इति (ऋ. 7-91-1.) सर्वदेवोपास्यत्वमेवमादिवायुधर्माणां श्रवणात्। न चेदमानिष्टं। वायोरपि जीज्ञास्यताऽभ्युपगमात्। विष्णुजिज्ञास्यत्वस्याबाधात्। ततश्चेशानपदोक्तगुमस्य वायुनिष्ठत्वान्न विष्णोः सर्वगुणपूर्णत्वमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ शब्दादेव प्रमित इति ॥% अस्यार्थः ॥ विष्णुरेव ईशानो भूतभव्यस्येति (कठ. 4-12.) ईशानशब्दवाच्यत्वेन प्रमितः तत्त्वतो निश्चितः। न तु वायुः। कुतः। शब्दादेव मध्ये वामनमिति (कठ. 5-3.) निरवकाशवामनश्रुतेरेवेत्यर्थः ॥

एवंच वामनश्रुतिसद्भावात्। तस्याश्च महायोगरूढिसिद्धायास्तत्प्रमापकत्वात्। लिंगापेक्षया श्रुतेः प्राबल्यात्। तेषामपि लिंगानां तद्वैत्वं प्राण (तै.आ. 3-14-4.) इत्यत्र वैष्णवत्त्वस्य सिद्धत्वात्। विष्णुरेवेशान इति सिद्धं ॥

<1-3-25>

%(25) ॥ ॐ ॥ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ ॐ ॥%

ननु माभूत्प्राणव्यवस्थापकत्वादिलिंगेनेशनस्य वायुत्वसिद्धिः। अंगुष्ठमात्रत्वलिंगेन तु सिध्येदेव। तस्य विष्णावसंभवात्। यद्यपि विष्णौ परिमितत्वं संभवति। तथाऽप्यंगुष्ठमात्र इति (महा.ना. 16-3.) विशिष्योक्तिबललभ्यपरिमाणांतरव्यवच्छेदस्यासंभव एवेति प्राप्ते समादधत्सूत्रमाह ॥

%॥ ॐ ॥ हृद्यपेक्षया तु मनुष्याधिकारत्वादिति ॥% अस्यार्थः ॥ तु शब्द ेवार्थे। अपि शब्दार्थेच। तथा च सर्वगतस्यापि विष्णोः अंगुष्ठमात्रत्वोक्तिः हृद्यपेक्षया अंगुष्ठपरिमितहृदयाकाशापेक्ष्यैव। न तावता विष्णोः परिच्छिन्नत्वं ज्ञेयमित्यर्थः। ननु पश्वादीनामंगुष्ठाभावात्कथंतन्मात्रवचनं सर्वाधिकारिकमित्यत उक्तं। मनुष्याधिकारत्वादिति। तथा चैतद्विद्योपासनस्य मनुष्याधिकारिकत्वात्। तान्प्रत्येतद्विद्याप्रवृत्तिसंभवात्। एश्वादीनामंगुष्ठाभावेपि न दोष इति भावः ॥

एवंच हृद्यवकाशेऽभिव्यक्तस्य परमात्मनोंऽगुष्ठमितत्वेन तथोपासनायैव श्रुतावंगुष्ठमात्रत्वस्योक्तत्वेन परिमाणांतरव्यवच्छेदाभिप्रायकल्पनायोगात्। यद्यपीतरप्राणिनामंगुष्ठाभावस्तथाऽपि मनुष्याणामेव वेदविद्याधिकारात्तान्प्रत्यंगुष्ठमात्रत्वोक्तेर्युक्तत्वात्। तस्मादीशानो विष्णुरेवेति ईशानपदोक्तं गुणक्त्वं जीज्ञास्यत्वं च तस्यैवेति सिद्धं ॥

॥ इति वामनाधिकरणं ॥

%8.अधिकरणं ॥%

अत्र देवानां ब्रह्मविद्याधिकारः समर्थ्यते।

<1-3-26>
%(26) ॥ ॐ ॥ तदुपर्यपि बादरायणः संभवात् ॥ ॐ ॥%

ननु न देवानां वेदविद्याधिकारः संभवति। तेषामनादिनित्यपदत्वे वा विद्यादिना प्राप्तपदत्वेवाऽधिकारासंभवात्। देवानां प्राप्तपदत्वेनावाप्तमोक्षेतरसकलपुरुषार्थानां सर्वज्ञत्वे मोक्षप्राप्तिं जानतां क्वापि कामनाऽसंभवात्। देवानामुत्पत्तिविनाशित्वे ततः पूर्वं देवताऽभावेन देवत्वप्राप्त्यर्थं देवैरनुष्ठीयमानशतकृत्वादिकर्मणां व्यंग्यत्वेन देवादिपदाप्रापकत्वात। न हि व्यंगं कर्म फलजनकं। बाह्यकृतयज्ञादेरपि फलजनकत्वप्रसंगात्। तथा चासतो वंध्यापुत्रस्याधिकारादरशनाद्देवानां नाधिकार इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ तदुपर्यपि बादरायणः संभवादिति ॥% अस्यार्थः ॥ तदुपर्यपि देवत्वयोग्यमनुष्याणां न केवलं मनुष्यत्वदशायां किंतु देवादित्वप्राप्त्यनंतरमपि वेदविद्याधिकारोऽस्ति। कुतः। संभवात् तेषाम्यप्यधिकारप्रयोजकविशिष्टबुद्धेर्योगादिति बादरायणो भगवान्वक्तात्यर्थः ॥

एवंच न देवानां तिर्यगादीनामिव वेदविद्याधिकारोऽसंभावितः। संभावकस्य विशिष्टबुध्यादेर्भावात्। सत्यां च संभावनायामयं प्रयोग उपजायते। देवा वेदविद्याधिकारवंतः। तदुपर्यपि देवत्वप्राप्त्युपर्यपि देवाधिकारोपयोगिनोः सामर्थ्यविद्वत्वयोरर्थित्वस्य मोक्षगतातिशययोग्यत्वादेव संभवात्। न च देवा न विद्याधिकारिणोऽमनुष्यत्वार्त्तिर्यगादिवदिति मानं। विशिष्टबुध्यादिराहित्यस्योपाधित्वात्। न च जरितार्यादिष्वनधिकारेऽपि विशिष्टबुध्यादेः सत्वेन विशिष्टबुध्यादिराहित्याभावेन साध्याव्यापकत्वान्नायमुपाधिरिति। तेषामधिकारत्वे नानधिकाररूपसाध्यस्य तत्राभावात्। अयमग्ने जरितेति ((ऋ. 10-142.1.) श्रुतेः। ननु तेषामप्यधिकारे पूर्वाधिकरणविरोधः। अमनुष्यत्वादित्यधिकारानिषेधादिति चेन्न। भावानवबोधात्। पूर्वाधिकारिणेंऽगुष्ठाभावेनांगुष्टमात्रविद्यायामनधिकार उक्तः। इह तु तत्रोक्तसमंगीकृत्य विद्यांतराधिकाराभिधानात्। अतो देवानां वेदविद्याधिकार इति सिद्धं ॥

<1-3-27>
%(27) ॐ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ ॐ ॥%

ननु यद्देवानां सादिविनाशित्वमिति द्वितीयकल्पमंगीकृत्य वेदविद्याधिकारकथनं तदयुक्तं। देवानां सादिविनाशित्वे ततः पूर्वं देवताऽभावेन पूर्वकल्पे प्रवृत्तकर्मण्युद्देशाभावाद्वैयर्थ्याख्यविरोधापत्तेरित्याक्षिप्य समादधत्सूंत्रं पठति ॥

%॥ ॐ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनादिति ॥% अस्यार्थः ॥ देवदीनां सादित्वे कर्मणि पूर्वकल्पे प्रवृत्तयज्ञादिकर्मणि विषये। विरोधः उद्देश्याभावनिमित्तवैयर्थ्याख्यविरोधः स्यादिति चेन्न। कुतः। अनेकप्रतिपत्तेः। अनेकेषां योग्यमनुप्याणां। देवतापदप्राप्तेर्दशनात् यत्र पूर्व इति (तै.आ. 3-12.) श्रुतावुक्तत्वादित्यार्थः ॥

एवंच तेषां प्रवाहतोऽनादिनित्यत्वेनैतद्देवानामभावेऽपि देवतांतरसद्भावात्। तेह नाकमिति श्रुतौ एकैकगणशोऽनंतानां देवत्वादियोग्यमनुष्याणां विद्याकर्मभ्यां पूर्व पूर्व देवतापदप्राप्तेर्दर्शनात्। ततश्च वैयर्थ्याख्यविरोधाभाव इति सिद्धं ॥

<1-3-28>
%(28) ॥ शब्द इति चेन्नातःप्रभवात्प्रत्यक्षानुमानाभ्यां ॥ ॐ ॥%

ननु वेदानित्यत्वे प्रामाण्यायोगेन नित्यत्वं तादंगीकार्यं। वाचा विरूपेति (ऋ. 8-64-6.) श्रुतेः। तद्वाच्या देवा यद्यनित्यास्तार्हि पूर्वदेवतापरित्यागेनान्यदेवतावाचकत्वमग्युपेयं। न चैतद्धटते। वाक्यस्यार्थेन स्वाभाविकसंबंधात्। न हि किमपि वाक्यं कंचित्कालं कंचिदर्थं प्रतिपाद्य तमपहाय कालंतरेऽर्थांतरं प्रतिपादयतीति भाविकसंबंधात्। न हि किमपि वाक्यं कंचित्कालं कंचिदर्थं प्रतिपाद्य तमपहाय कालांतरेऽर्थांतरं प्रतिपादयतीति दृष्टचरं येन वेदेऽपि तथा स्यात्। वदे तथात्वमंगीकुर्वाणेन वेदस्यार्थेन सग्बन्धः काल्पनिक इत्यंगीकार्यः। तथा काल्पनिकसम्बन्धस्याप्रामाण्यप्रयोजकत्वाद्वेदाप्रामाण्यं। काल्पनिकसम्बन्धस्य प्रामाण्यप्रयोजकत्वेऽपि वेदप्रामाण्यं न घटते। प्रामाणिकत्वेन पूर्वदेवताप्रवाहनियमेऽपि प्रमाणाभावेनोत्तरकल्पेष्वपि देवताप्रवाहनियमाभावेन काल्पनिकसम्बन्धस्याप्यभावादित्याक्षिप्य समादधत्सूत्रमाह ॥

%॥ ॐ ॥ शब्द इति चेन्नातः प्रभवाप्रत्यक्षानुमानाभ्यामिति ॥% अस्यार्थः ॥ विरोध इति वर्तते। देवानामाद्यन्तवत्त्वे शब्दे वेदे। अप्राण्याख्यविरोधः स्यात्। नित्यत्वेन श्रुतिसिद्धवेदवाचां कदाचिद्वाच्यहीनत्वादिति भावः। इति चेन्न। अतः धाता यथेति (महाना. 5-7) वेदवाक्यात्। तथा प्रत्यक्षानुमानाभ्यां। महतां प्रत्यक्षात्। देवानां प्रवाहतः उत्पत्तिसाधकलिंगाच्च। प्रभवात्। प्रतिकल्पं नियमेन प्रभवशब्दितोत्पत्त्यवगमाच्चोक्तं युक्तमिति भावः ॥

एवंच सूर्याचंद्रमसाविति श्रुतेः। महतां प्रत्यक्षात्। उत्तरकऽल्पः देववान् अप्रलयकालत्वादित्यनुमानस्य च भावात्। न च संबंधस्य काल्पनिकत्वान्न प्रामाण्यप्रयोजकत्वमिति वाच्यं। अन्यान्यदेवतासंबंधस्यानादिनिधनेति प्रामाण्यसिद्धत्वेनाकाल्पनिकत्वात्। तथा च वैयर्भ्याख्यविरोधाभाव इति सिद्धं ॥

<1-3-29>
%(29) ॥ ॐ ॥ अत एव च नित्यत्वं ॥ ॐ ॥%

युक्त्यंतरेण देवप्रवाहस्य नित्यतां साधयत्सूत्रमुपन्यस्यति

%॥ ॐ ॥ अत एव च नित्यत्वमिति ॥% अस्यार्थः ॥ अत एव पूर्वपक्ष्युक्तवेदनित्यत्वादेव। तदन्यथाऽनुपपत्त्याऽपि तद्वाच्यदेवताप्रवाहस्य नित्यवं सिध्यतीत्यर्थः ॥

एवंच परेणाभिहितवेदनित्यत्वस्यान्यताऽनुपपत्त्यैव देवताप्रवाहनित्यत्वस्य सिद्धत्वात्। वाच्यस्य नित्यत्वाभावे एवं रूपाया वाचो नित्यत्वं नोपपद्यते। उत्पत्तिविनाशित्वात्स्वरूपनित्यत्वायोगेन तेषां प्रवाहरूपेणैव नित्यत्वं सिद्धं ॥

<1-3-30>
%(30) ॐ ॥ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॥ ॐ ॥%

ननु देवताप्रवाहस्य नित्यत्वेऽपि वेदप्रामाण्यस्यानुपपद्यमानत्वं भवेत्। पूर्वकल्पमुक्तानामुत्तरकल्पे पुनरावर्तनन्वे मुक्तेरपुनरावृत्तित्वात्। तदन्येषां पुनरावर्तनत्वे धर्मिभूतदेवानित्यत्वहेतुकं विरोधाभावेऽपि नामरूपादिधर्मवैचित्र्यकृतविरोधापत्तेः। वाचकवेदस्य प्रतिकल्पं पाठभेदाभावेनैकविधत्वात्। वाच्यदेवानां च नानाविधनामरूपवत्त्वादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्चंति ॥% अस्यार्थः ॥ आ वृत्तावपि पूर्वकल्पे मुक्तानां देवानां पुनः स्वपदेषु असत्त्वेऽपि। अविरोधः तत्प्रतिपादकैकविधवेदाप्रामाण्याख्यविरोधो नास्ति। कुतः। समाननामरूपत्वात् एतत्कल्पोत्पन्नानामपि देवानां प्राचीनतुल्यनामरूपत्वात्। तथा च प्रतिपाद्यस्याप्येकविधत्वात् न तद्बोधकवेदाप्रामाण्यमिति भावः एकविधत्वमेव कुत इत्यत उक्तं। दर्शनात्स्मृतेश्चेति। यथा पूर्वमिति (महाना. 5-7.) श्रुतेः। अनादिनिधनेति स्मृतेश्चेत्यर्थः ॥

एवंचेंद्रादिदेवतानां वेदे यादृशे नामरूपे प्रतिपाद्येते तयोरेव कल्पांतरे जायमानानां देवानाभभ्युपगमात्। तत्प्रामाणिकत्वे यथा पूर्वमिति श्रुतेरनादिनिधनेति स्मृतेश्च सद्भावात्। तथा च वेदाप्रामाण्याख्यविरोधाभाव इति सिद्धं ॥

<1-3-31>
%(31) ॐ ॥ मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ ॐ ॥%

ननु न देवानां वेदविद्याधिकारो युक्तः। वेदविद्या मुख्यफलार्थास्तदितरफलार्धाश्चेति। द्विविधाः। मोक्षेतरफला अपि ब्रह्मकर्मभेदान्मधुविद्याऽग्निष्टोमविद्या चेति द्विविधाः। तत्र तावन्न देवानां मोक्षेतरफलकद्विविधविद्यास्विकारो युज्यते। तत्साध्यानां मोक्षेतरफलानां मध्ये केषांचिद्योग्यानां प्राप्तत्वेनायोग्यानां च प्राप्तुमशक्यत्वेनार्थित्वाभावादिति जैमिनिमतावलंबेन वेदविद्याधिकारत्वस्य सामान्यनिषेप्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ मध्वादिष्वसंभवादनधिकारं जैमिनिरिति ॥% मध्वादिषु असौवाऽऽदित्यो देव मध्वि (छां. 3-1-1.) त्याद्युक्तं मध्वादिविद्यासु। अनधिकारं देवानामधिकाराभावं। जैमिनिराचार्यो मन्यते कुतः। असंभवात् तेषामर्थित्वतत्पदयोग्यत्वाद्ययोगादित्य्रथः ॥

एवंच कक्षद्वयमध्ये प्रथमे तथा द्वितीयस्य प्रथमेऽसंभवात्। द्वितीयस्य द्वितीयेऽर्थित्वाभावाच्चाधिकारस्य निषेधान्नत्वधिकारमात्रस्य निषेधात्। जैमिन्याचार्यमताविरोध इति सिद्धं ॥

<1-3-32>
%(32) ॐ ॥ ज्योतिषि भावाच्च ॥ ॐ ॥%

ननु मास्तुमोक्षेतरफलविद्यास्वधिकारो देवानां। तथाऽपि सत्यं ज्ञानि(तै. 2-1-1)त्यादिमोक्षार्थविद्यास्वधिकारो भविष्यति। तत्रार्थित्वसंभवादित्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ ज्योतिषि भावाच्चेति ॥% अस्यार्थः ॥ ज्योतिषि देवानां ज्ञाने। भावात् सर्ववस्तूनां विषांतयतर्भूतत्वात् सिद्धज्ञानानां देवानां न ज्ञानार्थता युज्यत इति न मोक्षविद्यास्वधिकार इत्यर्थः ॥

एवंच देवानां सार्वज्ञ्येन सर्वब्रह्मकर्मविद्यासाध्यज्ञानानां नियमेन प्राप्तत्वेनात एव वेदद्रष्टृत्वात्। ततश्च तेषामुभयविद्यासाध्यज्ञानेऽर्थिताया असंभवात्। तस्माज्जैमिनिमताविरोध इति सिद्धं ॥

<1-3-33>
%(33) ॐ ॥ भावं तु बादरायणोऽस्ति हि ॥ ॐ ॥%

एवं देवैर्मोक्षेतरयोग्यफलानां प्राप्तत्वात्। अयोग्यानां प्राप्तुमशक्यत्वात्। मोक्षस्यापि ब्रह्मज्ञानित्वेनार्थतो लब्धत्वात्। अर्थित्वाभावेन तेषां कास्वपि विद्यास्वधिकाराभावेन जैमिनिमतावलंबिना समर्थिते पुनरधिकारं समर्थयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ भावं तु बादरायणोऽस्ति हीति ॥% अस्यार्थः ॥ बादरायणस्तु। हि यस्मात्। देवानामप्यस्ति विद्यासाध्यपूर्वप्रकाशविशेषो मोक्षफलेऽतिशयश्चास्ति। तस्माद्भावं देवानामधिकारसद्भावं मन्यत इत्यर्थः। जैमिनिमतं तु देवानां प्राप्तज्ञानफलार्थमनधिकाराभिप्रायमित्यवधेयं ॥

एवंच यद्यपि देवाः प्राप्तपदा ब्रह्मज्ञानित्वात्सिद्धमोक्षतदिरफलाः प्राप्तुमशक्यायोग्यफलाश्च। तथाऽपि प्राप्तपदानामपि देवानां मध्वादिविद्यासूक्तोपासना क्रमकरणाभ्यां फलविशेषभावेन स्वस्वयोग्यरय ज्ञानमात्रेणासाध्यस्य मोक्षफलेऽतिशस्य भावेन सिद्धेरर्थित्वसंभवात्। मोक्षफल आनंदातिशयरूपविद्याफलस्य भावेन ज्ञानार्थमप्यधिकारसंभवात्। यावत्सेवापर इति स्कांदवचनात्। भगवद्व्यतिरिक्तानां निरुपचरितसार्वज्ञ्याभावेन विद्याविचारेण ज्ञानलाभसंभवात्। जैमिनिमतस्य देवानां प्राप्तफलार्थमनधिकाराभिप्रायेणाविरुद्धत्वात्। एवं भगवता बादायणेन देवानां मध्वाद्यशेषाविद्यास्वधिकाराभावस्योक्तत्वात्। ततश्च सर्वदेवोपास्यत्वं विष्णोर्युक्तमिति सिद्धं ॥

॥ इति देवताधिकरणं ॥

%9.अधिकरणं ॥%

अत्र त्रिवर्णेतरस्य शूद्रस्य वेदोक्तब्रह्मविद्याधिकारो निराक्रियते ॥

<1-3-34>
%(34) ॐ ॥ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ॐ ॥%

ननु शूद्राणां वेदविद्याधिकारो भवेत्। अहहारेत्वेति (छां. 4-2-3.)श्रुतेः। मनुष्यत्वात्। भगवता सूत्रकृताऽधिकारप्रयोजकत्वेन मनुष्याधिकारत्वादित्यनेन मनुष्यत्वस्याभिधानात्। अन्यथाऽविशेषात्त्रवैर्णिकस्यापि नत्न स्यात्। शूद्रस्य विशिष्टबुध्यादेः सत्वात्। तस्य पौत्रायणस्य वैदिकसंवर्गविद्याध्ययनदर्शनादिति प्राप्ते सूत्रितां ॥

%॥ ॐ ॥ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हीति ॥% अस्यार्थः ॥ अस्य पौत्रायणाख्यस्य राज्ञः। तदनादरश्रवणात् हंसकृत गम्वर एनमि(छां. 4-1-3.) त्यनादरश्रवणान्निमित्तात्। शुका शोकः। तथाऽपि कुतः शोक इत्यत उक्तं। सूच्यते हीति। हि यस्मात्। स हि संजिहान एवे(छां. 4-1-5.)त्युत्तरवाक्येन सूच्यते तथा ज्ञायते। तस्माच्छोकः। अस्मादेव निमित्तात्। राजा रैक्वेन ऋषिणा शूद्रेति संबोधितः। न तु वर्णावरत्वाभिप्रायेणेत्यर्थः। तथा च नैतत्ज्ञापकबलेन शूद्रस्य वेदविद्याधिकारो मंतव्य इति भावः ॥

एवंच संस्कारविधुरत्वात। अध्ययनादेः संस्कार सापेक्षत्वात्। नाग्निरित्यनेन(पैंगि श्रुतौ) शूद्रस्य संस्कारनिषेधपरत्वात्। ततश्च त्रिवर्णेतरस्य शूद्रस्य ब्रह्मविद्याधिकारनिषेध इति सिद्धं ॥

<1-3-35>
%(35) ॐ ॥ क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिंगात् ॥ ॐ ॥%

ननु शूद्रस्य रूढार्थ एवांगीकार्यः। योगाद्रूढेः प्राबल्यात्। पौत्रायणनिदर्शनेनैव शुद्रस्य वेदाधिकार सिद्धेः। शूद्रस्यापि पौत्रायणस्य वैदिकसंवर्गविद्याध्ययनदर्शनात्। न च पात्रौयणः शूद्र एवं नेति वाच्यं ॥ अहहारेत्वा शूद्रेति (छां. 4-2-3.) संबोधितत्वेन तस्य शूद्रत्वादिति प्राप्ते तन्निरासार्थं सूत्रमाह ॥

%॥ ॐ ॥ क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिंगादिति ॥% अस्यार्थः ॥ चः लिंगांतरसमुच्चये। उत्तरत्रायमश्वतरीरथ (छां. 4-2-2.) इत्युत्तरवाक्ये। श्रुतेनेति शेषः। चैत्ररथेन चित्रशब्दादश्वतरीयुक्तरथसंबंधित्वरूपेण लिंगात्। लिंगेन च ज्ञापकेन चास्य। क्षत्रियत्वावगतेश्च क्षत्रियत्वज्ञानात्। न पौत्रायणं शूद्र इत्यर्थः ॥

एवंच पौत्रायणस्य शूद्रत्वे प्रमाणाभावात्। शूद्रशब्देन संबोधनस्याप्रामाण्यात्। न च शूद्रशब्देन संबोधनमेव तत्र प्रमाणं शोकाद्रवणयोगेन तत्र शूद्रशब्दस्य प्रवृत्तत्वेन तस्य रूढिलभ्यवर्णावरकत्वासाधकत्वात्। किंच नासौ पौत्रायणः शूद्रः। महतां क्षत्रियत्वानुभवात्। अन्येषामयमश्वतरीरथ इति चैत्ररथेन लिंगेन तत्र क्षत्रियत्वावगतेश्च। ततश्च शूद्रस्य वेदानधिकारत्वं सिद्धं ॥

<1-3-36>
%(36) ॐ ॥ संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ॐ ॥%

ननु शूद्रस्य वेदाधिकारः स्यात्। तस्यापि रथित्वसंभवात्। रथस्य यत्र वेद इति (ब्रह्मवैवर्ते.) वेदव्याप्यत्वाच्छूद्रे च तदभावाद्रथस्याप्यभाव इति शंकाऽनुदयात्। शूद्रेऽपि वेदाधिकारांगीकारात्। इति प्राप्ते तत्परिहाराय सूत्रं पठति ॥

%॥ ॐ ॥ संस्कारपरामर्शात्तदभावाभिलापाच्चेति ॥% अस्यार्थः ॥ साध्यसमुच्चये च शब्दः। संस्कारपरामर्शात् अष्टवर्षं ब्राह्मणमुपनयीत। तमध्यापयीतेति तच्छब्देन उपनयनाख्यसंस्कारयुक्तस्य वचनात्। तदावाभिलापात् शूद्रस्य नाग्निर्न यज्ञ इति (पैंगि श्रुतौ.) संस्काराभावाभिधानात्। न तस्य वेदाद्यधिकार इत्यर्थः ॥

एवंचाध्ययनार्थं संसारसापेक्षत्वावगमात्। शूद्रस्य संस्काराभावस्योक्तत्वात्। उत्तमस्त्रीणां तु न शूद्रवत् सपत्नीमि(मंत्रप्रश्न. 1-16.)त्यादिष्वधिकारदर्शनात्। स्त्रीणां प्रदानकर्मैवेति व्यासस्मृतेः। तथा च शूद्रस्य वेदानधिकार इति सिद्धं ॥

<1-3-37>
%(37) ॐ ॥ तदभावनिर्धारणे च प्रवृत्तेः ॥ ॐ ॥%

नन्वथाऽपि शूद्रस्य वेदाधिकारो युक्तः। शूद्रं नोपनीयेतेति निषेधाभावेन तस्यापि संस्कारसंभवात्। नाग्निरिति (पैंगि.) श्रुतौ तु संस्काराभावस्यैवोक्तत्वेन सर्वथा न कार्यमिति निषेधाभावान्न तद्विरोध इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ तदभावनिर्धारणे च प्रवृत्तेश्चेति ॥% अस्यार्थः ॥ चोऽवधारणे। तदभावनिर्धारणे सत्यकामाख्य पुरुषस्य शूद्रत्वाभावनिश्चये सत्येव। प्रवृत्तेः गौतमस्य तदुपनयने प्रवृत्तत्वात्। अस्मात्ज्ञापकान्न शूद्रस्य संस्कारो युज्यत इत्यर्थः ॥

एवंच विपक्षे बाधकोक्तिरूपतया व्यतिरेकव्याप्त्युक्तिरूपतया वा सत्यकामस्य शूद्रत्वाभावनिर्णायकत्वेन गौतमस्य प्रवृत्त्युपपत्तेः। नैतदब्राह्मण इति(छां. 4-4.)श्रुतेः संस्कारनिषेधज्ञापकलिंगाच्च। ततश्च शूद्रस्य वेदानधिकारत्वं सिद्धं ॥

<1-3-38>
%(38) ॐ ॥ श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ॐ ॥%

ननु विशेषादित्युक्तरीत्या शूद्रस्यापि विशिष्टबुध्यादिमत्त्वेनाधिकारः सिध्येत्। अन्यथा तेन देवताद्यधिकारसिद्धिरपि न स्यादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्चेति ॥% अस्यार्थः ॥ श्रवणाध्ययनार्थप्रतिषेधात् शूद्रस्य वेदश्रवणतदध्ययनतदर्थावधारणानां श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणमिति (गौतमधर्म. 12-4-7.) श्रुतौ प्रतिषिद्धत्वात्। स्मृतेः नाग्निर्न यज्ञः शूद्रस्येति निषेधकस्मृतेश्च न तस्य वेदविद्याधिकार इत्यर्थः ॥

एवंच शूद्रस्यवेदश्रवणाध्ययनार्थावधारणानां प्रतिषिद्धत्वात्। तथा च निषिद्धत्वे सति विशिष्टबुध्यादिमत्त्वस्यैव वेदाधिकारप्रयोजकत्वेनाभिमतत्वात्तस्य च शूद्रेऽभावात्। स्मृत्या च तस्यैवाध्ययननिषेधावगमात्। विदुरादीनामुत्पन्नज्ञानविशेषवत्त्वान्निषेधविषयत्वाभावेनापवादिविषयत्वात्। ततश्च शूद्रादीनामधिकाराभावाच्छूद्रादिभिर्वेदविद्याविज्ञेयो न भवति भगवन्हरिरिति सिद्धं ॥

॥ इति अपशूद्राधिकरणं ॥

%10.अधिकरणं ॥%

अत्र वज्रनाम ब्रह्मणि समन्वीयते।

<1-3-39>
%(39) ॐ ॥ कंपनात् ॥ ॐ ॥%

ननु यदिदं किमि(कठ. 6-2.)त्यत्रोक्तं वज्रमिंद्रायुधमेव स्यात्। वज्रश्रुतेः। उद्यतत्वलिंगाच्च। तर्ह्यायुध एवोपपद्यते। न च वज्रज्ञानेन मोक्षोक्तेर्विष्णुरिति वाच्यं। लिंगमात्राच्छ्रुतिलिंगयोः प्राबल्यात्। न च लिंगस्य निरवकाशतया प्राबल्यं। श्रुतिलिंगयोरपि निरवकाशत्वात्। न चैवं सति मोक्षजनकज्ञानविषयत्वलिंगस्य विष्ण्वैकनिष्ठत्वविघातादस्य वज्रस्येंद्रायुधत्वं नानिष्टमिति वाच्यं। फलोपहितस्य मोक्षजनकज्ञानविषयत्वलिंगस्याविघातेऽपि तद्योग्यत्वरूपलिंगस्य विष्ण्वैकनिष्ठत्वविघातात्। ततश्च वज्रमिंद्रायुधमेवेति न विष्णुज्ञानादेव मोक्ष इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ कंपनादिति ॥% अस्यार्थः ॥ महद्भयं वज्रमिति वज्रशब्दवाच्यो विष्णुरेव। न त्विंद्रायुधं। कुतः। कंपनात् सर्वं प्राण एजतीति (कठ. 6-2.) कंपनशब्दितसर्वचेष्टकत्वलिंगश्रवणादित्यर्थः ॥

एवं चैजतीति कंपनवचनात्। अमृतास्त (कठ. 6-2.) इति फलोपहित मोक्षजनकज्ञानविषयत्वाभिधानात्। न चोद्यतत्वलिंगाविरोधः। उद्यतत्वलिंगस्योद्यमित्त्वार्थत्वेन सावकाशत्वात्। न च वज्रश्रुतिविरोधः। वज्रश्रुतेरपि वर्जनाद्वज्र इति उच्यत इति वचनात्सावकाशत्वात्। ततश्च विष्णुरेव वज्र इति तस्यैव मोक्षजनकज्ञानयोग्यतेति सिद्धं ॥

॥ इति कंपनाधिकरणं ॥

%11.अधिकरणं ॥%

अत्रोभयत्रप्रसिद्धज्योतिर्नाम ब्रह्मणि समन्वीयते।

<1-3-40>
%(40) ॐ ॥ ज्योतिर्दर्शनात् ॥ ॐ ॥%

ननु जीव एवेदं ज्योतिः। स समान इति(बृ. 6-3-6.)जीवलिंगात्। इमं लोकमिति श्रुतेश्च। किंचास्यादित्यज्योतिरि(बृ. 6-3-2.)त्यादिनाऽऽत्मज्योतिष्ट्वमुक्त्वा कतम आत्मेति(बृ. 6-3-2.) प्रश्ने ज्योतिराम्नायते। न च तद्विष्णोः संभवति। न तत्र सूर्यो भाती(कठ. 2-5-15.)त्यादेः। न च यस्यादित्यादिज्योतिष्ट्वमुक्तं सजीव एवास्त्विति। तस्यैवेत्यत्र परमात्मज्योतिष्ट्वमुक्त्वा कतम आत्मेति प्रश्ने ज्योतिषाम्नाज्ज्योतिर्विष्णुरिति। तथा सति परमात्मन उदयास्तमयादिशून्यत्वेन सदा सद्भावात्। आदित्येनैवायमित्याद्यवधारणं न स्यात्। अत्रायं पुरुषः स्वयं ज्योतिर्भवतीत्यस्यैवार्थस्य प्रत्यभिज्ञानाच्च। तस्मादिदं ज्योतिर्जीव एवेति प्राचीनब्रह्मत्वोपादनमयुक्तमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ ज्योतिर्दर्शनादिति ॥% अस्यार्थः ॥ योऽयमंतर्जोतिरिति (बृ. 6-3-7.) ज्योतिः शब्दावाच्यो विष्णुरेव। न जीवः। कुतः। दर्शनात् विष्णुरेव ज्योतिरिति (चतुर्वेदशिखायां.) श्रुतेरित्यर्थः ॥

॥ एवंच विष्णुरेवेदं ज्योतिः। ज्योतिःश्रुतेर्विष्ण्वैकवाचित्वात्। मुख्यार्थासंभव एवामुख्यार्थस्य ग्राह्यत्वात्। न च विष्णुपक्ष उभयलोकसंचरणानुपपत्तेरमुख्येऽपि जीवरूपोऽर्थो ग्राह्यः। तस्यापि प्राज्ञेनात्मनेति (बृ. 6-3-35.) तस्मिन्प्रमाणसिद्धत्वेन मुख्यार्थग्रहणे बाधकाभावात्। न चेमं लोकमित्याद्युक्तलिंगविरोधः। अंतर्णी तणिच्‌त्वेन तेषामपि सावकाशत्वोपपत्तेः। न चादित्यादिज्योतिष्ट्‌वविरोधः। तस्य जीवत्वांगीकारात्। न च तस्यैव स्वयं ज्योतिष्ट्‌वाभिधानेन जीवस्य प्रसिद्धत्वेन प्रश्नायोग्यतया ज्योतिष्ट्‌वानभिधानात्। न चावधारणानुपपत्तिः। तस्य ब्राह्मज्योतिःषु तस्य प्राधान्यज्ञापनार्थत्वात्। अन्यव्यावर्तकत्वस्य वागादिसत्वेनायोगात्। विशिष्यभगवतो ज्योतिष्ट्‌ववचनं तु स्वापे ज्योतिरंतराभावाभिप्रायेणेति द्रष्टव्यं। तस्मादिदं ज्योतिर्विष्णुरिति ज्योतिश्चरणाभिधानादिति प्राग्व्युत्पादितविष्णुत्वं न बाधितमिति सिद्धं ॥

॥ इति ज्योतिरधिकरणं ॥

%12.अधिकरणं ॥%

अत्रोभयत्रप्रसिद्धमाकाशनाम ब्रह्मणि समन्वीयते।

<1-3-41>
%(41) ॐ ॥ आकाशोऽर्थांतरत्वादिव्यपदेशात् ॥ ॐ ॥%

नन्वयमाकाशो वै नामे (छां. 8-14-1.) त्यत्राकाशः प्रसिद्धाकाश एव स्यात्। त्चछब्दस्याकाशे रूढत्वात्। विष्णौ च यौगिक्त्वात्। योगस्य रूढेर्बलक्त्वात्। प्रसिद्धाकाशपरित्यागेन सर्वाधारत्वलिंगेन विष्णुग्रहणे वै नामेत्युक्तनिपातद्वयविरोधसद्भावात्। नामरूपनिर्वाहकत्वामात्रस्याकाशपक्षे प्रसिद्धत्वान्निपातविरोधसाग्याभावात्। विष्णुपक्षे विष्णुस्तन्निर्वाहकत्वं चेति द्वयमप्यप्रसिद्धं ॥ आकाशपक्षे तु तन्निर्वाहकत्वमात्रमप्रसिद्धमिति वैषम्यात्। नामरूपनिर्वाहकत्वलिंगं त्वाकाशस्योपादानत्वात्संभावितं न तु विष्णोरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ आकाशोऽर्थांतरत्वादिव्यपदेशादिति ॥% आकाशो हवै नामेति श्रुत्युक्ताकाशेो विष्णुरेव। नत्वव्याकृताकाशः। कुतः। अर्थांतरत्वादिव्यपदेशात् ते यदंतरेति (बु. 8-14-1.) वाक्ये विष्णोर्नामरूपराहित्याख्याविलक्षणार्थत्वस्यादिशब्दगृहीतब्रह्मत्वामृतत्वयोश्च उक्तत्वादित्यर्थः ॥

एवंचोक्तहेतुद्वयसद्भावात्। अनामरूपत्वस्य तल्लक्षणत्वेनावर्णमिति (आथर्वणी.) श्रुतिसिद्धत्वात् एको दाधारे(ऋ. 1-154-4)त्यप्रसिद्धत्वाभावेन निपातद्वयाविरोधात्। लोकप्रसित्ध्यपेक्षया श्रुतिप्रसिद्धेः प्राबल्येन तस्या एव ग्राह्यत्वात्। प्रत्युताकाशस्य नामरूपत्वेनाकाशग्रहण एव विरोधः। ततश्चाकाशो। विष्णुरेवेति तस्यैव सर्वाधारत्वमिति सिद्धं ॥

॥ इति आकाशाधिकरणं ॥

%13. अधिकरणं ॥%

अत्र स्वप्नादिद्रष्टृत्वलिंगं ब्रह्मणि समन्वीयते।

<1-3-42>
%(42) ॐ ॥ सुषुप्त्युक्रांत्योरेभेदेन ॥ ॐ ॥%

नन्वयं स्वप्नादिद्रष्टा जीवो भवेत्। तस्य तस्मिन्प्रसिद्धत्वात्। जीवेशयोरभेदेन जीवेऽप्यमुख्यासंगत्वलिंगस्यासंभवात्। अशरीरस्य विष्णोः स्वप्नादिद्रष्टृत्वायोगात्। कारणगतस्य कार्ये संभवेऽपि कार्यगतस्य कारणेऽयोगात्। जीवेशाभेदस्य विशेषणद्वयसामानाधिकरण्यान्यथाऽनुपपत्त्यैव सिद्धेः। राजासाधारणधर्मस्यापि कोशस्यामात्यगतत्ववदीशासाधारणधर्मस्यासंगत्वस्य श्रुतिबलाज्जीवगतत्वसंभवात्। इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ सुषुप्त्युत्क्रांत्योर्भेदेनेति ॥% अस्यार्थः ॥ स यत्तत्र किंचित्पश्यतीति (बृ. 6-3-15.) श्रुत्युक्तस्वप्नादिद्रष्टा परमात्मैव। न जीवः। कुतः। असंगो ह्यं पुरुष इत्युक्तासंगत्वलिंगादिति हेतुर्बहिरेवाध्याहार्यः। नन्वीश्वराभेदेन जीवेऽप्यसंगत्वोक्तिः संभवत्रीत्यत उक्तं। सुषुप्त्येत्यादि। तथा च सुषुप्त्युक्त्रांत्योः प्राज्ञेनात्मना संपरिष्वक्तं इति (बृ. 6-3-21.) प्राज्ञेनात्मनाऽन्वारूढ इति (बृ. 6-3-35) च सुषुप्त्युक्त्रांतप्रकरणयोः। भेदेन जीवेशयोर्भिन्नत्वेनोक्तेः। न तयोरैक्यमित्यर्थः ॥

एवंचासंगत्वलिंगात् तद्विष्णोरेवोपपद्यते। न तु जीवस्य। बद्धत्वात्। सुषुप्त्युत्क्रांतप्रकरणयोर्भेदाभिधानेन जीवेशयोरभेदाभावात्। अतो गुणगुणिभावापन्नासंगत्वलिंगाद्विष्णुरेव स्वप्नादिद्रष्टा। असंगत्वमपीशमात्रनिष्ठं। ततश्चासंगो ह्ययं पुरुष इति वाक्यमपीशपरमेवेति प्रमामाभावात्। राजधनवदसंगत्वं नान्यनिष्ठमिति सिद्धं ॥

॥ इति सुषुप्त्यधिकरणं ॥

%14.अधिकरणं ॥%

अत्र ब्राह्मणनाम ब्रह्माणि समन्वीयते।

<1-3-43>
%(43) ॐ ॥ पत्यादिशब्देभ्यः ॥ ॐ ॥%

नन्वयं ब्राह्मणो विरिंचोभवेत्। अस्मिन्बहुशोऽजशब्दश्रवणात्। न चाजत्वयोगेनाजः शब्दो विष्णौ सावकाश इति वाच्यं। ब्राह्मणशब्दसहपठितस्याजशब्दस्य विष्णावनवकाशात्। न चात्मजशब्देन सहपाठादजशब्दो विष्णौ सावकाश इति वाच्यं। आत्मशब्दस्यात्मा विरिंच इत्यादिना विरिंचेऽषि प्रवृत्तेः। न चासंगत्वलिंगानवकाशान्न विरिंचो ब्राह्मण इति वाच्यं। विष्णुविरिंचयोरभेदेनासंगत्वलिंगस्य तस्मिन्संभवात्। तथा च ब्राह्मणो विरिंच इति प्रागुक्तनित्यमहिमत्वं विष्णोरनुपपन्नमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ पत्यादिशब्देभ्य इति ॥% एषनित्यो महिमा बाह्मणस्येति (बृ. 6-4-23.) श्रुत्युक्तब्राह्मणो विष्णुरेव। न विरिंचः। कुतः। पत्यादिशब्देभ्यः। सर्वस्याधिपतिरित्यादिसर्वाधिपत्यादिवाचि(बृ. 6-4-22.) श्रुतिभ्य इत्यर्थः।

एवंच निर्दिष्टश्रुतिषु पत्यादिशब्दसद्भावात्। न च विष्णोर्ब्राह्मणत्वेऽजशब्दविरोधः। अज शब्दस्य न जायत इति योगेनोपपत्तेः। ब्राह्मणशब्दस्य ब्राह्मणा वेदेन भण्यत इति योगेनोपपत्त्याऽजशब्दापहाराभावात्। न चाभेदात्पतित्वादेर्विरिंचेऽपि संभवः। तदभेदे मानाभावात्। ब्राह्मणाजशब्दयोरुक्तरीत्याऽन्यथोपपत्तेः। तत एते व्यजायंतेति भेदश्रुतिबाहुल्येन तयोरभेदे मानाभावात्। ततश्च विष्णुरेवायं ब्राह्मणो नित्यमहिमादिरिति सिद्धं ॥

** ॥ इति ब्राह्मणाधिकरणं ॥
॥ इति प्रथमाध्यायस्य तृतीयः पादः ॥**

———————————————————

॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अथ प्रथमाध्यायस्य चतुर्थः पादः ॥

श्रुतिलिंगाभिरन्यत्रैव प्रसिद्धानामपि शब्दानां सामस्त्येन विशेषहेतुभिर्विष्णावेव प्रवृत्तिः प्रदर्श्यतेऽस्मिन्पादे।
%1.अधिकरणं ॥%

अत्रान्यत्रैव प्रसिद्धावरत्वदुःखित्वाद्यर्थकशब्दा ब्रह्मणि समन्वीयंते।

<1-4-1>
%(1) ॐ ॥ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ ॐ ॥%

ननु प्रधानाद्येवाव्यक्तादिशब्दवाच्यं। तच्छब्दानां प्रधानादावेव प्रसिद्धत्वात्। न च तेषां विष्णावपि सावकाशत्वं। तत्राव्यक्तस्य पुरुषावरत्वश्रवणात्। विष्णोश्च न तत्समाभ्यधिकश्च दृश्यत इति प्रमाणविरोधेन तदयोगात्। महदादिकं स्वसदृशकारणजन्यं कार्यत्वात्। घटवदित्यादिसांख्योपन्यस्तानुमानसिद्धत्वात्। किंचाव्यक्तस्य परममहत्त्वश्रवणात्प्रधानमेवाव्यक्तशब्दवाच्यं। दुःखिबद्धत्वादिप्रतीतेः। क्षेत्रज्ञा एव जीवशब्दवाच्या। न विष्णुः। यत एव केषांचिच्छाखासु प्रधानादिकस्याव्यक्तादिशब्दवाच्यत्वेनोक्तत्वात्तत्त्विति सर्वशब्दानां परमेश्वराभिधायकत्वं यदुक्तं तदयुक्तमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति चेति ॥% अस्यार्थः ॥ अपिरेवार्थे। चः स्मृतिसमुच्चये। यतः आनुमानिकं सांख्यानुमानकल्पितं प्रधानाद्येव। एकेषां शाखिनां शाखासु स्थिताव्यक्तात्पुरुष (कठ. 3-11) इत्यादिवाक्यगताव्यक्तादिश्ब्बैरुच्यते। अतो न विष्णोः सर्वशब्दवाच्यत्वं युज्यत इति चेन्न। यतः विष्णुरेवाव्यक्तादिशब्दवाच्यः। न प्रधानादिः। कुतः वतः अव्यक्तमिति (पिप्पलादशाखा.) श्रुतिः अव्यक्तोऽक्षर (भ.गी. 8-11.) इति स्मृतिश्च। दर्शयति विष्णोरेवाव्यक्तादिशब्दवाच्यत्वं प्रतिपादयति। अत इत्यर्थः। कथं तर्ह्यन्यत्राव्याक्तादिशब्दव्यवहार इत्यत उक्तं। शरीररूपकेत्यादि। क प्रत्ययः कुत्सने। तथा च शरीररूपकविन्यस्तगृहीतेः। यथा शरीरं पुरुषतंत्रं। तथा परमात्मतंत्रत्वेन निमित्तेन शरीरसने कुत्सितत्वात्। वस्तुतः अशरीरे प्रधानादौ। विन्यस्तस्य स्थितस्य परमात्मन एवाव्यक्तादिशब्दैः गृहीतेः गृहणात्। तथा च परमात्मसंबंधादेवान्यत्र प्रकृत्यादावव्यक्तादिशब्दवाच्यत्वव्यवहार इत्यर्थः ॥

एवंचाव्यक्तादिशब्दवाच्यः परमात्मैव। अव्यक्तादिशब्दप्रवृत्तिनिमित्तस्वामित्वात्। अतिशयेनप्रवृत्तिनिमित्ताधिकरणत्वाच्च ईश्वराधीनस्य तत्प्रवृत्तिनिमित्तस्याधिकरणत्वेन तस्यापि तत्परममुख्यत्वांगीकारात्। तथा चाव्यक्तादि शब्दवाच्यो विष्णुरेवेति सिद्धं ॥

<1-4-2>
%(2) ॐ ॥ सूक्ष्मं तु तदर्हत्वात् ॥ ॐ ॥%

नन्वस्त्वेवं श्रौतस्मार्तप्रयोगबलेनाव्यक्तादिशब्दानां भगवद्वाचित्वं। तथाऽपि तत्र तेषां न परममुख्यत्वं स्यात्। श्रुतिस्मृतिषु तत्र तत्प्रयोगस्यामुख्यवाच्येऽपि संभवादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ सूक्ष्मं तु तदर्हत्वादिति ॥% अस्यार्थः ॥ यतः सूक्ष्मं तु सूक्ष्ममेवाव्यक्तादिशब्दवाच्यं। कुतः। तदर्हत्वात्। तस्य सूक्षमस्याव्यक्तशब्दप्रवृत्तिनिमित्तयोग्यत्वात्। तत्र च सूक्ष्मत्वं विष्णोरेव। अतस्तस्यैवाव्यक्तशब्दवाच्यत्वमित्यर्थः ॥

एवंचाव्यक्तशब्दप्रवृत्तिनिमित्ताव्यक्तत्वोपयोगिसूक्ष्मत्वे विष्णोरेवातिशयत्वात्। मुख्ये च विद्यमानेनामुख्यस्यायुक्त्वात्। यत्तत्सूक्ष्ममिति (पिप्पलाद.) श्रुतेश्च। अतो विष्णुरेवाव्यक्तादिशब्दवाच्य इति सिद्धं ॥

<1-4-3>
%(3) ॐ ॥ तदधीनत्वादर्थवत् ॥ ॐ ॥%

नन्वस्त्वेवं विष्णावेवाव्यक्तादिप्रातिपदिकानां मुख्यता। तथाऽप्यव्यक्तात्पुरुषः पर(कठ. 3-11.) इत्यादावव्यक्तादिशब्दैर्विष्णुवाच्यत्वेन गृहीतिर्न युक्ता। तथा सति महतः परमिति (कठ. 3-11.) श्रुतेस्तथाऽव्यक्तादित्यवरत्वापेक्षकावधित्ववाचिपंचमीश्रुतेस्तथा सोऽवर इति साक्षादवरुश्रुतेस्तथा च जीवा इति दुःखिबद्धत्वादिश्रुतीनां च निरनिष्ट इत्यादिप्रमाणविरोधेन भगवदसंभवदर्थकत्वात्तासां नैरर्थ्यापातात्। अतो बाधकादव्यक्तादिशब्दैरमुख्यमपि प्रधानाद्येवावश्यं वाच्यतया ग्राह्यमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ तदधीनत्वादर्थवदिति ॥% अस्यार्थः ॥ दर्शयति चेत्यत्रत्यश्च शब्दोऽनुवर्तते। परमात्मन्येव परावरदुःखिबद्धत्वादिवाचिशब्दजातं। अर्थवत् प्रवृत्तिनिमित्तरूपार्थवत्। न व्यर्थं। कुतः। तदधीनत्वात् तेषां प्रधानादिगतपरावरत्वादिधर्माणां भगवदधीनत्वात्। तथा चान्यगतप्रवृत्तिनिमित्तस्वामित्वेन निमित्तेनापि। भगवति परावरादिशब्दप्रयोगो युक्त एवेत्यर्थः ॥

एवंच यदधीनो गुणो यस्य तद्गुणी सोऽभिधीयत (स्कांदेः) इतीश्वराधीनस्य प्रवृत्तिनिमित्तस्याधिकरणत्वेन तस्यापि तद्वाचित्वांगीकारात्। तस्मिन्नेव तदव्यक्तत्वादिगुणदोषोभयवाचिशब्दजातस्य प्रवृत्तिनिमित्ताख्यार्थयुक्तत्वेन नैरर्थक्याभावात्। अतः परावरत्वादिशब्दजातं विष्णौ युक्तमिति सिद्धं ॥

<1-4-4>
%(4) ॐ ॥ ज्ञेयत्वावचनाच्च ॥ ॐ ॥%

एवं श्रौतस्मार्तप्रयोगनिमित्तातिशयाभ्यां प्रथमद्वितीयोक्ताभ्यां भगवत्येवाव्यक्तादिशब्दानां मुख्यत्वात्। बाधकाभावे च मुख्यार्थस्यैव ग्राह्यत्वात्। अवरत्वादिश्रुतिनैरर्थ्यबाधकस्य च तृतीय उद्धृतत्वान्मुख्यार्थो भगवानेवाव्यक्तादिशब्दैर्वाच्य इति यदुक्तं तदेव युक्त्त्यंतरेण प्रतिपादयत्सूत्रमाह ॥

%॥ ॐ ॥ ज्ञेयत्वावचनाच्चेति ॥% अस्यार्थः ॥ तमेवैकं जानथेति (मुं. 2-2-5.) विष्णोरेव मोक्षार्थ ज्ञेयत्ववचनात्। अन्येषां तदवचनात्। प्रत्युत विमुंचथेति हेयत्ववचनात्। अत्रत्याव्यक्तादिशब्दैर्विष्णुरेव वाच्य इत्यर्थः ॥

एवंच विष्णोरेव मुमुक्षुज्ञेयत्व उक्तवचनात्प्रधानादेस्तदभावात्। मोक्षफलकवेदानां तद्धेतुज्ञानविषयब्रह्मज्ञापन एव प्रवृत्तत्वात्। प्रतिवाक्यं तत्परत्वस्य चादावंत (हरिवंशे.)इत्यादिवचनसिद्धत्वात्। यत्ज्ञानान्मोक्षः स एव प्रतिपाद्य इत्यभ्युपगंतव्यः। स्वतः प्राप्तमुख्यवृत्तित्यागे कारणाभावाद्विष्णुरेवाव्यक्तादिशब्दवाच्यो न प्रधानादिरिति सिद्धं ॥

<1-4-5>
%(5) ॐ ॥ वदतीति चेन्न प्राज्ञो हि ॥ ॐ ॥%

ननु न प्रधानस्य मोक्षार्थं ज्ञेयत्वे वचनाभावः। अनाद्यनंतमिति(कठ. 3-15.)वचनसद्भावादित्याक्षिप्य समादधत्सूत्रमाह ॥

%॥ ॐ ॥ वदतीति चेन्न प्राज्ञो हीति ॥% अस्यार्थः ॥ ननु अनाद्यनंतमिति काठकवाक्यं। वदति प्रधानं प्रतिपाद्यते। इतीति तस्यापि ज्ञेयत्वमस्तीति। चेन्न। कुतः। हि यतः। प्राज्ञः तत्र प्राज्ञशब्दितः परमात्मैव तत्र प्रतिपाद्यते। न प्रधानं। अतो न तस्य ज्ञेयत्वं मंतव्यमित्यर्थः ॥

एवंच विष्णोः सर्वस्मात्परत्वोक्तावपि महतो महीयानिति(कठ. 2-20.)श्रुत्या सर्वस्मात्स्थूलात्परस्य महतः परत्वस्य कैमुत्येनं सिद्धत्वात्। तथा च नैतद्वाक्यबलेनान्यस्य किंतु भगवत एव मोक्षार्थं ज्ञेयत्वमिति सिद्धं ॥

<1-4-6>
%(6) ॐ ॥ प्रकरणात् ॥ ॐ ॥%

ननु विशेषतो महत्परत्वस्य प्रधानलिंगस्यामुख्यार्थतामंगीकृत्यानाद्यनंतादिवाक्यस्य विष्णुपरत्वग्रहणे कारणाभावात्। प्रधानमेवात्रोच्यत इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ प्रकरणादिति ॥% अस्यार्थः ॥ वैष्ववरूपाणां त्रयाणां प्रकरणबलाच्च प्राज्ञेवात्र प्रतिपाद्य इत्यर्थः ॥

एवंचैतत्प्रकरणार्थोपासकस्य विष्णुपदप्राप्त्युक्त्यैतत्प्रकरणस्य वैष्णवत्वात्। सोऽध्वन इति (कठ. 3-9.) श्रुतेः। अतो विष्णोरेवैतत्प्रकरणप्रतिपाद्यत्वमिति सिद्धं ॥

<1-4-7>
%(7) ॐ ॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ॐ ॥%

हेत्वंतरेणानाद्यनंतादिवाक्येऽन्यस्यापि प्रतिपाद्यतां पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ त्रयाणामेव चोपन्यासः प्रश्नश्चेति ॥% अस्यार्थः ॥ युक्तिसमुच्चये चो यत इत्यर्थे च। एव शब्दः प्रकारत्रैविध्यपरामर्शकः। तथा च यतः एवं त्रयाणामेव पितृसौमनस्यस्वर्ग्याग्निपरमात्मरूपाणां त्रयाणामेव। तद्विषयक एव प्रश्नः नचकेतर्षिणा यमं प्रति कृतः। तेषामेवोपन्यासः प्रतिवचनं चात्र प्रकरणे दृश्यते। अतो नात्र प्रधानं प्रतिपाद्यमित्यर्थः ॥

एवं चोक्तत्रयाणामेव प्रश्नप्रतिवचनयोस्तस्मिन्प्रकरणे दृश्यमानत्वात्। अविज्ञातप्रार्थनमिति वचनाद्विरोधाभावात्। ततश्चोक्तहेतुत्वेनानाद्यनंतादिवाक्यस्य भगवत्प्रतिपाद्यत्वं सिद्धं ॥

<1-4-8>
%(8) ॐ ॥ महद्वच्च ॥ ॐ ॥%

नन्वव्यक्तादि शब्दानां विष्णुरेव मुख्यवाच्य इत्ययुक्तं। तेषां प्रधानादावेव प्रसिद्धत्वात्। न चाष्यक्तादिशब्दप्रवृत्तिनिमित्तस्य भगवति मुख्यत्वेन तच्छब्दानां तत्रैव मुख्यत्वमुक्तमिति वाच्यं। यत्र शब्दस्य प्रसिद्धिस्तत्र तस्य मुख्यवाच्यता। यत्र च यस्य मुख्यं प्रवृत्तिनिमित्तमस्ति तस्य मुख्यत्वमित्यस्यादृष्टचरत्वात्। दृष्टांताभावेन निमित्तातिशयत्वस्य तस्मिंस्तत्साधनायोगादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ महद्वच्चेति ॥% अस्यार्थः ॥ चः दार्ष्टांतिकसमुच्चये। महांतं विभुमात्मानमि(कठ. 2-22.)त्यादिवाक्यगतमहच्छब्दस्य यथा विष्णुपरत्वमेव न महत्तत्वपरत्वं तद्वदव्यक्तादिशब्दस्यापीत्यर्थः ॥

एवंच महच्छब्दस्यैव दृष्टांतत्वात्। न च प्रसिद्धिविरोधः। महांतं विभुमिति श्रुतौ महच्छब्दो महतत्त्वे प्रसिद्धोऽपि परममहत्त्वाख्यप्रवृत्तिनिमित्तवात्तस्य भगवति मुख्यवाच्यत्वेनांगीकारात्। तथाऽव्यक्तादिशब्दानामन्यत्रप्रसिद्धत्वेपि परमाव्यक्तत्वादिप्रवृत्तिनिमित्तवत्त्वात्तस्मिन्नेव परममुख्यवृत्तित्वांगीकारात्। तथा चाव्यक्तादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

<1-4-9>
%(9) ॐ ॥ चमसवदविशेषात् ॥ ॐ ॥%

ननु परमात्मनि प्रवृत्तिनिमित्तस्यातिशयत्वेऽपि नाव्यक्तादिशब्दानां तत्र परममुख्यता। तत्र प्रसिद्धिवैधुर्येण वाच्यताया एवाभावात्। किं नामातिसहनवति पुरुषे सिंहशब्दस्यैव गौणता। तथा च महद्वच्चेत्ययुक्तं। महच्छब्दस्य स्वतो भगवद्वाचित्वेन प्रवृत्तिनिमित्ताधिक्यात्परममुख्यत्वसंभवेऽप्यव्यक्तादिशब्दानां भगवद्वाचित्वस्यैवाभावेन वैषम्यादिति प्राप्ते समादधत्सूत्रमाह ॥

%॥ ॐ ॥ चमसवदविशेषादिति ॥% अस्यार्थः ॥ चमसवत् यथा यज्ञपात्रे प्रसिद्धस्यापि चमसशब्दस्य इदं तच्छिर इति (बृ. 4-2-3.) श्रुतिबलेन शिरोवाचकता। तद्वदव्यक्तादिशब्दस्य प्रधानादौ प्रसिद्धत्वेऽपि विष्णुवाचकत्वमेव। कुतः। नामानीति (भाल्लवेय.) श्रुतेः। ननु तथाऽपि कुतो विष्णुवाचकत्वमित्यत उक्तं। अविशेषादिति। नामानि सर्वाणीति श्रुतेः इदमिति श्रुत्या विशेषाभावादित्यर्थः ॥

एवंच चमसशब्दस्य यज्ञपात्रविशेषे प्रसिद्धत्वेन शनिरोवाचकत्वेनाप्रसिद्धत्वेऽपीदं तच्छिर इति श्रुतिबलेन यथा शिरोवाचक्त्वं। तथा तद्दृष्टांतेनाव्यक्तादिशब्दानां भगवत्यप्रसिद्धत्वेऽपि नामानीत्यनुशासनरूपश्रुतिबलात्तेषां भगवद्वाचकत्वस्य निश्चयसंभवेन तच्छिर इति नामानीति च श्रुत्योरनुशासनत्वेऽविशेषात्। ततश्चाव्यक्तादिशब्दवाच्यो हरिर्भवत्येवेति सर्वशब्दवाच्यत्वं तस्योपपन्नमिति सिद्धं ॥

॥ इति आनुमानिकाधिकरणं ॥

%2.अधिकारणं ॥%

अत्र कर्मतदंगेष्वेव प्रसिद्धानां ज्योतिष्टोमादिशब्दानां भगवति स्मन्वयः प्रतिपाद्यते।

<1-4-10>
%(10) ॐ ॥ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॥ ॐ ॥%

ननु ज्योतिरादिशब्दा न विष्णुवाचकाः किंतु ज्योतिष्टोमादिकर्मतदंगवाचकाः। तत्रैव प्रसिद्धत्वात्। तेषां विष्णुवाचित्वे कालकर्मक्रमाद्यभिधायकाभावेन तदभावाख्यविरोधापातात्। ततस्तदभिधायकप्रमाणांतराभावेन विहितानुष्ठानलोपप्रसंगादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके इति ॥% अस्यार्थः ॥ तु शब्द एवार्थे। ज्योतिः ज्योतिषा यजेतेत्यादिवाक्योक्तज्योतिरादिशब्दवाच्यं ब्रह्मैव। न ज्योतिष्टोमादि। कुतः। हि यस्मात्। एके शाखिनः। उपक्रमात् एष इममित्युपक्रम्य तथा सर्वशब्दाभिधेयत्वेन हरिमेव। तावा एता (ऐ.आ. 2-2-2.) इत्यत्राधीयंते पठंति। तस्मादित्यर्थः ॥

एवंच हरिरेव ज्योतिरादिशब्दवाच्यः। एष इमं लोकमित्युपक्रम्य तावा एता इति सर्वशब्दवाच्यत्वाभिधानात्। न च श्रुतौ लक्षणाभिप्रेतं। उपलक्षणतया शतर्च्यादिशब्दानां योगास्योक्तत्वात्। न च शब्दानामन्यत्ररूढत्वेन महातात्पर्यविषयत्वं रूढार्थस्यैव विष्णोस्त्ववांतर तात्पर्यविषयत्वममुख्यविषयत्वादिति वाच्यं। तस्माच्छतर्चिन इत्यननेन योगेन रूढ्यार्थापहारोक्तेः। तत्कुत इति चेत्। एवमेष परमात्मानं मुख्यतो यौगिकार्थं संतं शतर्च्यादिनामभिराचक्षते न तु रूढत्वेऽपि मुनीन्महातात्पर्यविषयतयाऽऽचक्षत इति प्रतीतेः। अतो ज्योतिरादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

<1-4-11>
%(11) ॐ ॥ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ ॐ ॥%

किं ज्योतिरादिशब्दा रूढ्या परमात्मवाचकाः। उत योगेन। नाद्यः। तदभावात्। गुणपूर्त्यसिद्धेश्च। न द्वितीयः। तेन रूढ्यार्थापहारायोगात्। नापि योगः संभवति। ज्योतिषां स्तोम इत्यादिरूपेण ज्योतिष्टोमादिशब्दानां योगो वाच्यः। न हि स्तोमादिशब्दानामन्यपरत्वानभ्युपगमे योगः संभवति। भगवन्नामावृत्तित्वप्राप्तेः। तच्चभ्दानामन्यपरत्वांगीकारे किं ज्योतिष्टोमादिशब्दैरेव विशेषतोऽपराद्धं। ततश्च ज्योतिरादिशब्दानां भगद्वाचित्वाभावेन न समन्वयसूत्रं युक्तमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ कल्पनोपदेशाच्च मध्वादिवदविरोध इति ॥% अस्यार्थः ॥ च एवार्थे समुच्चयेवा। तथाच मध्वादिवत् यथा मधिविद्यादिगतमध्वादिशब्दानां विष्णुवाचित्वेऽप्यविरोधः। तथा परमात्मनः सर्वशब्दवाच्यत्वेऽभ्युगतेऽपि न कर्माद्यभावविरोधः। कुतः। शब्दानामन्यत्र योगरूढिवृत्ती अभ्युण्गम्यैवेश्वरे महायोगवृत्त्यंगीकारादित्यध्याहारः। तदपि कुतः। कल्पनोपदेशात्। प्राण ऋच इति सर्वशब्दवाच्यत्वस्य विष्णोः कल्पनाशब्दितोपासनार्थमुक्तत्वात्। तस्य च सर्वशब्दार्थमुख्यगुमवत्त्वरूपमहायोगवृत्तिं विनाऽयोगादित्यर्थः ॥

एवंच यथा खलु मधिविद्यायामसौवाऽऽदित्य (छां. 3-1-1.)इत्यादिना मध्वादिपदार्थतया परमात्मोपसनोपदेशेऽपि न लौकिकमध्वादिवाचकाभावेन तदभावे विरोधः। अन्यत्र रूढिमनिवार्यैव महायोगवृत्त्या मध्वादिशब्दानामीश्वरादौ वृत्त्यभ्युपगमात्। तथा च सर्वशब्दवाच्यत्वे परमात्मनोऽभ्युपगतेऽप्यन्यस्यापि वाक्यप्रतिपाद्यत्वांगीकारात्। तदर्थं विभक्त्यंतरांगीकाराच्च। न च कर्माद्यभावापातः। नाप्युत्पत्त्यसंभवो नापि सर्वेषां विधातत्वप्रसंगः। अतः कर्मतदंगवाचिशब्दवाच्यो हरिरिति सिद्धं ॥

॥ इति ज्योतिरुपक्रमाधिकरणं ॥

%3.अधिकरणं ॥%

अत्र प्रातिपदिकेन प्रत्ययमुखेन बहुत्वसंख्याविशिष्टवस्तुवाचिनामाधाराधेयवाचिनां च शब्दानां समन्वयः क्रियते।

<1-4-12>
%(12) ॐ ॥ न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ ॐ ॥%

ननु पंचजनादिशब्दवाच्यो न विष्णुः। कंत्वन्ये। तस्य बहुत्वसंख्याविशिष्टवस्तुवाचित्वात्। ईश्वरे चासाधारणधर्मतया बहुत्वायोगात्। न च स्वस्य बहुत्वाभावेऽप्यन्यगतबहुत्वनियामकत्वाद्बहुत्ववाचकशब्वृत्तिस्तेन चेश्वरस्य बहुत्वनियामकत्वरूपासाधारणधर्मलाभ इति वाच्यं। वशीकृतबहुजनेऽपि राजनि बहुत्ववाचिशब्दादर्शनात्। न चादर्शनेऽप्यवरादिशब्दवद्वृत्तिसंभवः। सोऽवर इत्यादिश्रुतिबलेनावरशब्दवाच्यत्वे सिद्धेऽवरत्वनियामकत्वस्य निमित्तमात्रत्वाब्युपगमात्। न च प्रकृते तथाविधं नियामकमस्ति। सर्वे वेदायत्पदमि(कठ. 2-15)तीत्यस्य संकोचसंभवेनानियामकत्वात्। प्रतिशरीरमात्मांऽतरात्मरूपद्वयस्य प्रामाणिकत्वेन ऋतंपिबंता(कठ. 1-3-1.)वित्यादिद्वित्त्वसंभवेऽपि प्रतिशरीरं रूपबहुत्वे मानाभावेन बहुत्वायोगात्। अतः पंचजनादिशब्दवाच्यताऽसंभवादिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ न संख्योपसंग्रहादपि नानाभावादतिरेकाच्चेति ॥% अस्यार्थः ॥ संख्योपसंग्रहात् यस्मिन्पंच पंचजना इति (बृ. 6-4-17.) बहुत्वसंख्यावचनात्। अपि यस्मिन्नित्याधाराधेयभावनिर्देशादपि। विष्णोः पंचजनादिशब्दवाच्यत्वे विरोधोनास्ति। कुतः। नानाभावात् भगवतः बहुरूपाणां सत्त्वात्। अतिरेकाच्च यस्मिन्नित्युक्ताधाररूपस्य पंचना इत्युक्तोधयरूपस्य सविशेषाभिन्नत्वाच्चेत्यर्थः ॥

एवंच पंचजनादिशब्दवाच्यो भगवानेव। बाधकाभावात्। न च बहुत्वानुपपत्तिः। बाधकाभावात्। प्राणादिपंचजननियमनाय बहुरूपत्वेन बहुत्वोपपत्तेः। न चाधाराधेयभावानुपपत्तिः। सभगव इति स्वे महिग्नीति (छां. 7-24-1.) स्वाधारत्वस्य प्रमाणसिद्धत्वात्। पंचजनादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

<1-4-13>
%(13) ॐ ॥ प्राणादयो वाक्यशेषात् ॥ ॐ ॥%

नन्वस्तु बहुत्वादिकमुपपन्नं। तथाऽपि पंचजनस्य विष्णुत्वे विशेषहेतोरभावात्। सर्वे वेदा इत्यस्य साधारणत्वेन संकोचसंभवेनानियामकत्वाद्बहुत्वसंभवेऽपि न पंचजनादिशब्दवाच्यो हरिरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ प्राणादयो वाक्यशेषादिति ॥% अस्यार्थः ॥ भगवद्रूपत्वेनोक्ताः पंचजनास्तु प्राणादेः। प्राणादयः द्वितीयानिर्दिष्टप्राणचक्षुःश्रोत्रान्नमनोभिधाः ज्ञेयाः। कुतः। वाक्यशेषात् ते च भगवद्रूपविशेषा एव। कुतः। विष्णोरन्यत्रासंभावित प्राण प्रामपदत्वादिप्रतिपादकं। प्राणस्य प्राणमि (छां. 6-4-18.)त्यादिवाक्यशेषादित्यर्थः ॥

एवंच स उ प्राणस्येति (केन. 2.) वाक्यश्येषे प्राणादिनां प्राणपदत्वोक्तेः। तस्य च विष्णुलिंगत्वात्। तस्मात्पंचजनादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

<1-4-14>
%(14) ॐ ॥ ज्योतिषैकेषामसत्यन्ने ॥ ॐ ॥%

ननु न पंचजनादिशब्दवाच्यो विष्णुः। मांध्यदिनवाक्यशेषोक्तानां प्राणादिप्राणत्वादिप्रदानां विष्णुत्वेऽपि काण्वानां वाक्यशेषे चतुर्णामेवोक्तत्वेन तस्य तद्गतयस्मिन्निति पूर्ववाक्यतो भिन्नार्थत्वात्। अत्रापि वाक्यशेषस्य यस्मिन्नित्यतो भिन्नार्थत्वावश्यंभावात्। एकस्यैवाधाराधेयभावाभावात्। अतः पंचजनानां विष्णुत्वाभावादिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ ज्योतिषैकेषामसत्यन्न इति ॥% अस्यार्थः ॥ एकेषां काण्वादीनां। शाखायां। अन्ने अन्नाख्यभगवद्रूपे। असति अनुक्तेऽपि। ज्योतिषा तदाख्यभगवद्रूपेण पंचत्वसंख्यापूर्तिर्ज्ञातव्येत्यर्थः ॥

एवंचास्मिन्वाक्यशेषे अन्नस्यान्नमितिरूपे कथिते सत्यपि तद्देवा ज्योतिषां ज्योतिरिति (बृ. 6-4-16.) किंचिद्दूरोक्तेन पंचत्वसंभवेन भिन्नविषयत्वाभावात्। अतो बहुत्वसंख्या विशिष्टवाचिशब्दवाच्योऽपि हरिरेवेति सिद्धं ॥

॥ इति न संख्योपसंग्रहाधिकरणं ॥

%4. अधिकरणं ॥%

अत्रावांतरकारणवाच्याकाशादिशब्दसमन्वयः ब्रह्मणि क्रियते।

<1-4-15>
%(15) ॐ ॥ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ ॐ ॥%

नन्वाकाशादिशब्दवाच्यो न विष्णुः। तेषामात्मादिकार्यत्वश्रवणात्। न च परमात्मनस्तत्संभवति। न जायतेति श्रुतेः। किंच लोके तावद्भिन्नयोरेव कार्यकारणभावोपलब्धो नत्वभिन्नयोरित्यात्माकाशयोरभिन्नत्वेन तथाभावो विरुद्धः। न चाकाशादिसंभवस्य तदधीनत्वेन संभूतशब्दोपपत्तिरिति वाच्यं। सुतोत्पत्तौ जनके जातशब्दप्रयोगादर्शनात्। आकाशगतरूपस्यान्यगतसंभवनियामकत्वे आत्मशब्दस्यानुपयोगात्। आत्मन इत्यस्यानन्वयं स्यात्। तस्मादात्मशब्दोदितस्यैव मुख्यकारणस्य विष्णुत्वं नत्ववांतरकारणानामाकाशादीनामिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेरिति ॥% अस्यार्थः ॥ आत्मन आकाशः संभूतः आकाशद्वायुरित्यादौ (तै. 2-1.) कार्यत्वे सति कारणत्वरूपावांतरकारणवाचकाकाशादिशब्दैराकाशादिषु स्थितो विष्णुरेव। कारणत्वेन च शब्दात्कार्यत्वेन चोच्यते। न भूतं। कुतः। यथाव्यपदिष्टोक्तेः। स योऽतोऽश्रुत (ऐ.आ. 3-2-4.) इत्यादौ विष्णुः यथा यादृशेनाविदितत्वादिरूपेण व्यपदिष्टः उक्तः। तद्रूपयुक्तस्यैवाकाशादिषु यमाकाशो न वेदे (बृ. 5-7-12.)त्यादिवाक्येनोक्तत्वादित्यर्थः ॥

एवंच कार्यत्वे सति कारणत्वाभिधायकाकाशः संभूत इत्यादिश्रुतिभागगताकाशादिशब्दवाच्यो विष्णुरेव। नामानि सर्वाणीति श्रुतेः। आकाशाद्युत्पत्तावाकाशांतर्गतत्वेन भगवतोऽभिव्यक्त्या कार्यत्वस्य वाय्वादिरूपाभिव्यक्तिहेतुत्वेन कारणत्वोपपत्त्या कार्यकारणभावाविरोधात्। तथा चावांतरकारणाकाशादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

॥ इति आकाशाधिकरणं ॥

%5.अधिकरणं ॥%

अत्र विष्णौ प्रकारांतरेण पूवोक्तसर्वशब्दसमन्वयासंभवमाशंक्य परिह्रियते।

<1-4-16>
%(16) ॐ ॥ समाकर्षात् ॥ ॐ ॥%

नन्वथाऽपि भगवतः सर्वशब्दवाच्यत्वं न संभवति। सर्वशब्दानां मुख्यतस्तस्यैकवाचित्वे ततोऽन्यत्र जगति शब्दप्रयोगरूपो वा हानादिरूपो वा व्यवहाराभावापातेन तल्लोपप्रसंगात्। तस्य चानिष्टत्वात्। परमात्मैव मुख्यतः सर्वशब्दवाच्य इत्यवधारणानुपपत्तेरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ समाकर्षादिति ॥% अस्यार्थः ॥ स्वतो मुख्यवृत्त्या परमात्मवाचिनः शब्दान्। ततः समाकृष्यान्यत्रवाचकत्वशक्त्यंगीकारात्। नान्यत्र व्यवहारलोपप्रसंग। इत्यर्थः ॥

एवंच मुख्यतः परमात्मवाचकानां शब्दानामन्यत्र व्यवहारार्थं समाकृष्य परमेश्वरेण संकेतितत्वेन सर्वव्यवहारोपपत्तेः। परस्य वाचका इति (पादम.) स्मृतेः। तथा च सकलशब्दपरममुख्यार्थत्वं हरेरिति सिद्धं ॥

<1-4-17>
%(17) ॐ ॥ जगद्वाचित्वात् ॥ ॐ ॥%

ननु यदि परमात्मनि शब्दा मुख्या अन्यत्रामुख्यास्तर्हि तस्मिन्नेव प्रसित्ध्या भाव्यं। कथमन्यत्र प्रसिद्धिः तथा च प्रसित्ध्यन्यथाऽनुपपत्त्याऽन्यस्यैव मुख्यवाच्यत्वं कल्प्यमिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ जगद्वाचित्वादिति ॥% अस्यार्थः ॥ लोकव्यवहाराच्छब्दानां जगद्वाचित्वज्ञानात्तेषां तत्र प्रसिद्धिर्युक्तेत्यर्थः ॥

एवंच लोकस्य बहिर्मुखत्वेन जगत्येव व्यवहाराच्छब्दानां तत्र व्युत्पत्त्या प्रसिद्धिः। परमात्मनि तु व्युत्पत्त्यभावेन प्रसित्ध्यभावोपपत्तेः। तस्मात्सर्वशब्दमुख्यवाच्यत्वं विष्णोरिति सिद्धं ॥

<1-4-18>
%(18) ॐ ॥ जीवमुख्यप्राणलिंगादितिचेद्व्याख्यातं ॥ ॐ ॥%

नन्वस्तु प्रवृत्तिनिमित्तस्वामित्वात्परमात्मनो मुख्यतः शब्दवाच्यत्वं। तथाऽपि तस्यैव किंतु जीवमुख्यप्राणयोरपि। तयोः सर्वस्वामित्वस्यास्य यदैकां शाखामिति (छां. 6-11-2.) वायुना हि सर्वे लोका इत्यादिश्रुतिसिद्धत्वादित्याक्षिप्य समादधत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ जीवमुख्यप्रामलिंगादिति चेद्व्याख्यातमिति ॥% अस्यार्थः ॥ अस्य यदैकां शाखां जीवो जहातीति वायुना हि लोका नेनीयंत इति वाक्ये च जीवमुख्यप्राणलिंगात् जीवमुख्यप्राणलिंगयोः श्रवणात्। तयोरपि तत्तच्छब्दमुख्यवाच्यता स्यादिति चेन्न। कुतः। यस्मात्त्द्वाक्यजातं तत्तदंतर्यामिपरतया व्याकृतं। तस्मादित्यर्थः ॥

एवंच श्रुतीनां तदंतर्गतभगवद्विषयतयोपासात्रैविध्यादिति व्याख्यानाद्विष्णोरेव मुख्यतः शब्दार्थत्वमिति सिद्धं ॥

<1-4-19>
% (19) ॐ ॥ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ ॐ ॥

ननु यत्तावदुक्तं समाकर्षेण वाच्यत्वादेकस्य मुख्यवाच्यत्वमन्यस्य स्वतोवाच्यत्वात्परममुख्यवाच्यत्वमिति तदुक्तं। वेदस्य काम्यफलार्थमप्रवृत्तत्वेन समाकर्षे प्रयोजनाभावात्। एकस्य वाच्यत्वमेव नेत्यन्यस्य विष्णोर्मुख्यत एव वाच्यत्वं भवेन्न तु परममुख्यतो वाच्यत्वमिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेव इति ॥% अस्यार्थः ॥ तु शब्द एवार्थे। एतेन विष्णोरन्यत्र शब्दान् समाकृष्य कर्मादिप्रतिपादनमपि युक्तमेव। कुतः। यस्मात् अन्यार्थं परमात्मज्ञानार्थमेव। तत्कुत इति चेत्। प्रश्नव्याख्यानाभ्यां श्वेतकेतुप्रश्नात् यथा सौम्येत्युद्दाकवचनाच्चेति (छां. 6-1.) जैमिनिराचार्यो मन्यते। किंच एके शाखिनः स्पष्टंयस्तं न वेदेति (ऋ. 1-164-39.) अन्यज्ञानस्य परमात्मज्ञानार्थतां पठंति। तस्मादपीत्यर्थः ॥

एवंच युक्तमेव वेदः समाकर्षेण कर्मदिकं वदतीति। कर्मादिज्ञानस्य गवत्ज्ञानार्थत्वं कुत इति चेत सर्वमिदमिति विज्ञातस्याप्यस्य फलं कस्मिन्विज्ञाते भवति। एतत्ज्ञानमात्रस्याफलत्वादिति शौनकप्रश्ने सर्वमपरविद्यया विज्ञातं भवति। विज्ञातं च परविद्याविषयपरमात्मज्ञानेन सफलं भवतीत्यंगिरसो व्याख्यानात्। अपि चैवमेक शाखिनो यस्तन्नवेदेत्यादिना पठंति। अतो कर्मादिज्ञानस्य भगवत्ज्ञानार्थत्वमिति जैमिनिराचार्यो मन्यते। ततश्च विष्णोः परममुख्यवाच्यत्वमिति सिद्धं ॥

<1-4-20>
%(20) ॐ ॥ वाक्यान्वयात् ॥ ॐ ॥%

ननु न परमात्मज्ञानार्थं कर्मादिकं वेदेन वक्तव्यं। अन्यदनुक्त्वा वेदेन परमात्ममात्रकथनेऽपि तत्ज्ञानसंभवात्। न च व्युत्पत्त्युनुपपत्तिः। ज्योतिष्टोमादिशब्दानां विष्णौरूढेरभावात्। योगस्यच ज्योतिष्ठोमेनेति पदावयवानामप्यन्यपरत्वानभ्युपगमेऽयोगादिति वाच्यं। खंडपदमात्रस्यान्यवाचकत्वाभ्युपगमात्। तथा चान्यकथने प्रयोजनाभावान्न तत्र समाकर्षो युक्त इति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ वाक्यान्वयादिति ॥% अस्यार्थः ॥ ब्रह्मणि वाक्यसमन्वयमवेक्ष्य वेदेन कर्मादिकमपि प्रतिपादनीयमित्यर्थः ॥

एवंच न केवलं परमात्मनि श्रुतेः पदसमन्वयो विवक्षितः किं तर्हि वाक्यसमन्वयोऽपि। न चासावन्यत्र समाकर्षाभावे सित्ध्यतीति समाकर्षो वक्तव्य इति सिद्धं ॥

<1-4-21>
%(21) ॐ ॥ प्रतिज्ञासिद्धेर्लिंगमाश्मरथ्यः ॥ ॐ ॥%

ननु परमात्मज्ञानार्थं कर्मादिकमुच्यत इत्युक्तं। तत्केन प्रकारेणेत्याकांक्षायां सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ प्रतिज्ञासिद्धेर्लिंगमाश्मरथ्य इति ॥% वेदेन कर्मादिप्रतिपादनं। यतःप्रति ज्ञासिर्द्धेर्लिंगं ज्ञानमेव मोक्षहेतुः नान्यदित्येवंरूपायाः नान्यः पंथा इति (तै.आ. 12-73.) प्रतिज्ञातार्थसिद्धेः साधकं। अतस्तदुपयोगित्वेन तत्प्रतिपादनं युक्तमित्याश्मरथ्याचार्यो मन्यत इत्यर्थः ॥

एवंच नान्यः पंथा इति ब्रह्मज्ञानेन मोक्षः प्रतिज्ञातः। तत्सित्ध्यर्थं कर्मादिकं सपरिकरं निरूप्य तस्यानित्यदुःखशिरस्कफलकत्वमुच्यते। एवं कर्मादिकमनित्यफलकत्वेन नान्य इति सिद्धमित्येवंरूपेण कर्मवचनस्योपयोग इत्याश्मरथ्याचार्यो मन्यते। तथा च भगवत्ज्ञानार्थं कर्मादिकमुच्यत इति सिद्धं ॥

<1-4-22>
%(22) ॐ ॥ उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ॥ ॐ ॥%

प्रकारांतरेण कर्मादिवचनस्य भगवत्ज्ञानोपयोगं प्रदर्शयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ उक्रमिष्यत एवं भावादित्यौडुलोमिरिति ॥% अस्यार्थः ॥ उक्रमिष्यतः ज्ञानान्मोक्षमिच्छतोऽधिकारिणः। एवं ज्ञानसाधनतया। भावात् कर्मादेरप्यनुष्ठयेत्वान्मोक्षार्थज्ञानसाधनत्वेन वेदेन कर्मादिप्रतिपादनं युक्तमेवेत्यौडुलोमिराचार्यो मन्यत इत्यर्थः ॥

एवंच संसारादुत्क्रमणेच्छोर्मुमुक्षोर्ज्ञानस्येव कर्मादरेप्यंतःकरणशुद्धिद्वारा मोक्षसाधनभगवत्ज्ञानसाधनत्वेन निमित्तेन संपाद्यत्वाद्वेदानां कर्मादिवाचित्वमावश्यकमित्यौडुलोमिराचार्यो मन्यते। न च कर्मादेः फलश्रुतिविरोधः। तस्याः कर्मणि रुचिजननार्थत्वात्। तथा चोक्तं युक्तमिति सिद्धं ॥

<1-4-23>
%(23) ॐ ॥ अवस्थितेरिति काशकृत्स्नः ॥ ॐ ॥%

प्रकारांतरेण कर्मादिवचनस्य ब्रह्मज्ञानोपयोगित्वं प्रदर्शयत्सूत्रं पठति ॥

%॥ ॐ ॥ अवस्थितेरिति काशकृत्स्न इति ॥% अस्यार्थः ॥ सर्वाधारे भगवति कर्मादीनां अवस्थितेः अवस्थानात्। भगवतः कर्माद्याधारत्वज्ञानायाधेयभूतकर्मादिस्वरूपं वेदेन प्रतिपाद्यत इति काशकृत्स्नाचार्यो मन्यत इत्यर्थः। अनेकाधिकारिकत्वान्मतानां न विरोध इति ध्येयं ॥

एवंचैव सेतुर्विधारणं (बृ. 6-4-22.) इत्यादौ परमात्मन्यवस्थित्युक्तेः। तस्याश्च सर्वाधारत्वेन ज्ञातव्यमिति ज्ञानार्थत्वात्। अस्य चाधेयज्ञानं विनाऽयोगात्तदर्थं वेदेन कर्मादिकमुच्यत इति साक्षादेव कथं ब्रह्मज्ञातव्यमिति ज्ञान्यपेक्षितस्वेतरसर्वाधारत्वरूपप्रकारसमर्पकत्वेन वेदानां कर्मादिजगद्वाचित्वमन्यार्थं परमात्मज्ञानार्थमिति काशकृत्स्नाचार्यो मन्यते। तथा च भगवज्ज्ञानार्थं वैदिकशब्दानामन्यत्र समाकर्षेण व्यवहारोपपत्तेर्युक्तं हरेः सकलशब्दपरममुख्यार्थत्वमिति सिद्धं ॥

॥ इति समाकर्षाधिकरणं ॥

%6.अधिकरणं ॥%

अत्र स्त्रीशब्दानां ब्रह्माणि समन्वयः क्रियते।

<1-4-24>
%(4) ॐ ॥ प्रकृतिश्च प्रतिज्ञादृष्टांतानुपरोधात् ॥ ॐ ॥%

ननु न प्रकृत्यादिशब्दवाच्यो हरिः। स्त्रीलिंगशब्दवाच्यताव्यापकस्त्रीत्वाभावात्। नैनमिति स्त्रीत्वनिषेधात्। न च नपुंसकशब्दवृत्तिवस्त्रीशब्दवृत्तिः किं न स्यादिति वाच्यं। तत्कल्पनाऽयोगात्। अथ स्त्रीभूतस्यापि स्त्रीनियामकत्वात्तच्छब्दवाच्यतेति चिन्न। वशीकृतभार्ये भर्तरि तच्छब्दवाच्यत्वप्रसंगात्। अतः प्रकृत्यादिशब्दानां परमात्मवाचित्वाभावेन समन्वयसूत्रमनुपपन्नमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ प्रकृतिश्च प्रतिज्ञादृष्टांतानुपरोधादिति ॥% अस्यार्थः ॥ ईश्वरो न केवलं पुल्लिंगाभिधेयः। किंतु प्रकृतिः। सैषा प्रकृतीत्याद्युक्तप्रकृत्यादिस्त्रीलिंगशब्दवाच्यश्च भवति। कुतः। एवं सत्येव प्रतिज्ञादृष्टांतानुपरोधात् हंतैतमिति प्रतिज्ञायाः यथेति नदीसमुद्रदृष्टांतस्य चानुपरोधात् अविरोधात्। अन्यथा तद्विरोधः स्यादित्यर्थः ॥

एवंच हरिरेव प्रकृत्यादिशब्दवाच्यः। हंतैतमेव पुरुषमिति श्रुतौ विष्णौ सर्वशब्दवाच्यत्वं प्रतिज्ञाय तत्रैव नदीसमुद्रद्रष्टांताभिधानात्। अन्यथा प्रतिज्ञादृष्टांतोपरोधः स्यात्। अतः प्रकृत्यादिशब्दवाच्यो हरिरेवेति सिद्धं ॥

<1-4-25>
%(25) ॐ ॥ अभिध्योपदेशाच्च ॥ ॐ ॥%

एवं सामान्यप्रमाणेन प्रकृत्यादिशब्दवाच्यतां हरेः प्रतिपाद्येदानीमशेषस्त्रीशब्दोपलक्षकप्रकृतिशब्दवाच्यत्व एव विशिष्यप्रमाणं प्रतिपादयत्सूत्रं पठति ॥

%॥ ॐ ॥ अभिध्योपदेशाच्चेति ॥% अस्यार्थः ॥ अभिध्यायाः ईश्वरेर्छायाः। उपदेशात् मायांत्विति (श्वे. 4-10.) श्रुतौ प्रकृतिशब्दवाच्यत्वोक्तेश्च इच्छाऽभिन्नेश्वरस्यापि तच्छब्दवाच्यत्वाच्चेत्यर्थः ॥

एवंच भगवदभिन्नेच्छाया मायांतु प्रकृतिमिति श्रुतौ प्रकृतिर्वासनेत्येवमिति स्मृतौ च प्रकृतिशब्दवाच्यत्वाभिधानात्। सोऽभिध्यास इति स्मृतेश्च। अतो न केवलं पर्वोक्तसामान्यहेतोः किं तु प्रकृतिशब्दवाच्येच्छात्मकत्वोक्तेश्च प्रकृतिर्ब्रह्मैवेति सिद्धं ॥

<1-4-26>
%(26) ॐ ॥ साक्षाच्चोभयाम्नानात् ॥ ॐ ॥%

नन्वथाऽपि विष्णोरिच्छाद्वारा प्रकृतिशब्दवाच्यत्वेऽपि न साक्षात्तच्छब्दवाच्यत्वं। प्रमाणाभावात्। नामानीति श्रुतेः संकोचसंभवादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ साक्षाच्चोभयाम्नानादिति ॥% अस्यार्थः ॥ चोऽवधारणे। साक्षात् द्वारमंतरेणैव। उभयाम्नानात् एष स्त्र्यैष पुरुष इति (पैंगिश्रुति.) वाक्येन प्रकृतिपुरुषोभयशब्दवाच्यत्वाभिधानात्। ईश्वरस्य प्रकृत्यादिशब्दवाच्यत्वमावश्यकमित्यर्थः ॥

एवंच निर्दिष्टश्रुतौ भगवतः प्रकृतिपुरुषत्वाभिधानेनैतच्छ्रुत्यैवार्थादिच्छाद्वारमंतरापि प्रकृतिशंब्दवाच्यत्वलाभात्। अन्यथा पुरुषशब्दवाच्यत्वमपि न स्यादविशेषात्। ततश्च प्रकृत्यादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

<1-4-27>
%(27) ॐ ॥ आत्मकृतेः परिणामात् ॥ ॐ ॥%

ननु यद्यपि भगवतः प्रकृतिशब्दवाच्यत्वं श्रुत्योक्तं। प्राप्ते न तद्युक्तं। तत्र तस्य प्रवृत्तौ निमित्ताभावात्। सिद्धांतिभिः संकेतमात्रत्वस्यानभ्युपगतत्वादिति प्राप्ते परिहरत्सूत्रमाह ॥

%ॐ ॥ आत्मकृतेः परिणामादिति ॥% अस्यार्थः ॥ प्रकृतिपरिणामं विधाय तत्प्रेरणाय आत्मकृतेः त्वस्य बहुधाकरणात् प्रकृतिशब्दवाच्यो विष्णुरेवेत्यर्थः ॥

एवंच प्रकृष्टाकृतिरिति योगसंभवेन निमित्ताभावासिद्धेः। प्रकृतेः स्वतः परिणामसामर्थ्याभावात्तत्र स्थित्वा तां परिणम्य महदादिनियाकत्वेनात्मनो बहुधाकरणात्। अथ हेष आत्मेति (भाल्लयेव.)श्रुतेः। अविकारोऽपि परम इति (नारदीय.) स्मृतेश्च। ततः प्रकृत्यादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥

<1-4-28>
%(28) ॐ ॥ योनिश्च हि गीयते ॥ ॐ ॥%

ननु परमात्मनः स्त्रीत्वेऽपि प्रकृतिशब्दवाच्यत्वाभिधायकप्रमाणसद्भावेऽपि स्त्रीशब्दवाच्यत्वं न युक्तं। तस्याव्यवधानेन सूतिकर्तृत्ववाचित्वनियमात्। न च परमात्मनस्तदस्ति। व्यापकाभावेच व्याप्यायोगात्। प्रकृतिशब्दवाच्यताभिधायकवाक्यस्य मृदव्रीवीदित्यादि(शतपथब्राह्मणं 6-1-3-2.)वाक्यवत्कथंचिन्ने यत्वादिति प्राप्ते परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ योनिश्च हि गीयत इति ॥% अस्यार्थः ॥ हि यस्मात्। ईश्वरः यद्‌भूतयोनिमिति (मुं. 1-1-6.) श्रुत्या योनिः स्वदेहादेवापत्योत्पादकश्च। गीयते प्रतिपाद्यते तस्मात्प्रकृत्यादिस्त्रीलिंगशब्दवाच्य इत्यर्थः ॥

एवंच व्यवधानेनिति (ब्रह्मांड.) स्मृतेः। योनित्वस्यापि श्रुतिसिद्धत्वेन व्यापकाभावासिद्धेः। ततश्च विष्णुरेवाशेषस्त्रीशब्दवाच्य इत्युपपन्नं समन्वयसूत्रमिति सिद्धं ॥

॥ इति प्रकृत्यधिकरणं ॥

%7.अधिकरणं ॥%

अत्र निषेध्यनिषेधार्थाः शब्दाः ब्रह्मणि समन्वीयंते।

<1-4-29>
%(29) ॐ ॥ एतेन सर्वे व्याख्याता व्याख्याताः ॥ ॐ ॥%

ननु न विष्णुरैवासदादिशब्दवाच्यः। केषांचिदभाववाचित्वात्। केषांचिन्निःश्वरूपवाचित्वात्। पर मात्मनोभावरूपेनाभावत्वादिकं न युज्यते। न च स्वस्य निःस्वरूपत्वाभावेऽप्यसतस्तधीनत्वेन तच्छब्दवृत्तिरिति वाच्यं। नियम्यस्वरूपशून्यस्य नियम्यत्वायोगादिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ एतेन सर्वे व्याख्याता व्याख्याता इति ॥% अस्यार्थः ॥ एतेन पूर्वोक्तहेतुनैव। सर्वे शून्यादिशब्दाः। मुख्यतो भगवद्वाचिन एवेत्यर्थः। एतदध्यायादिमारभ्यांतमुक्तस्यार्थस्य इत्थमेवेत्यवधारणार्थमध्यायांतेद्विरुक्तिः ॥

एवंच परमात्माधीनत्वादियुक्तिसमुदायात्। न च निषेधमुखवेद्यत्वाद्यभावात्तदभावः। निषेधमुखवेद्यत्वाभावेऽपि दुर्जनाव्यक्तत्वादिना शमूनं कुरुत इत्यादियोगेन च शून्यादिशब्दवाच्यात्वोपपत्तेः। एष ह्येव शून्य इति (महोपनिषत्.) श्रुतेः। न च नियम्यस्वरूपविधुरत्वात्तदधीनत्वमयुक्तमिति वाच्यं। स्वरूपवैधुर्येऽपि निषेधमुखवेद्यत्वादि धर्माणां तदधीनत्वात्। अतोऽसदादिशब्दवाच्यत्वस्य हरेरुपपन्नत्वेन युक्तमशेषस्वरवर्णपदवाक्यात्मकशास्त्रयोनित्वं ततो जगज्जम्नादिकर्तृत्वं मुख्यानंतगुणवत्त्वं च विष्णोः सिद्धं ॥

॥ इति एतेन सर्वे व्याख्याताधिकरणं ॥
॥ इति प्रथमाध्यायस्य चतुर्थः पादः ॥
॥ इति प्रथमाध्यायः समाप्तः ॥

—————————————————————————

** ॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अथ द्वितीयाध्यायः ॥**

**** नारायणे निखिलवेदसमन्वयेन गताध्याये

निरूपितजगत्कारणत्वरूपार्थेऽविरोधं दर्शयत्यस्मिन्नध्याये ॥

** ॥ अथ प्रथमः पादः ॥**

अस्मिन्पादे युक्त्यविरोधं दर्शयति ॥

%1.अधिकरणं ॥%

अत्रैकैकविरोधापेक्षया विरोधचतुष्टयात्मकस्मृतिविरोधस्य प्रबलतया प्रथमं निरसनीयत्वादिति भावेन स्मृत्यविरोधं निरूप्यते ॥

<2-1-1>
%(1) ॐ ॥ स्मृत्यनवकाशदोषप्रसंग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसंगात् ॥ ॐ ॥%

ननु न विष्णोर्जगत्कारणत्वं युक्तं। प्रमाणाभावात्। न च यतोवे(तै.उ. 3-1-1.)त्यादिश्रुतिः प्रमाणमिति वाच्यं। अस्याः श्रुतेर्यदि विष्णोः कारणत्वे तात्पर्यं स्यात्तर्हि सर्वज्ञप्रणीतशैवाद्यागमविरोधेनाप्रामाण्यं स्यादिति तर्कविरोधेन विष्णुकारणत्वे तात्पर्यायोगात्। भावविशेषे प्रामाण्यमपि देशकालभेदेनाविरोधोऽपि न स्यात्। विष्णवादीनां रुद्रादिभ्योत्तमत्वस्य तदुक्तसंवाददर्शनात्। ततो विष्णोर्न जिज्ञास्यत्वमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ स्मृत्यनवकाशदोषप्रसंग इति चेन्नान्यस्मृत्यनवकाशदोषसंगादिति ॥% अस्यार्थः ॥ यतः स्मृत्यनवकाशदोषप्रसंगः। स्मृतीनां पाशुपतादिरूपाणां अनवकाशेन विष्णुजगत्कर्तृत्वादौ निरवकाशत्वेन श्रुतीनां विष्णुकारणतापरत्वे तद्विरोधेन दोषप्रसंगः अप्रामाण्याख्यदोषप्राप्तिरति। अतः। न श्रुतीनां विष्णुकारणतापरत्वं युक्तं। किंतु शिवादिकर्तृतापरत्वमेव युक्तं। इति चेन्न। कुतः। अन्यस्मृत्यनवकाशदोषप्रसंगात्। पाशुपतादिभ्योऽन्यासां श्रुतिसंवादित्वेन रुद्राद्यपेक्षया सर्वज्ञतमविष्ण्वादिप्रणीतत्वेन च इतरस्मृतिभ्यः प्रबलानां पंचरात्र्यादिस्मृतीनां अनवकाशेन रुद्रादिजगत्कर्तृत्वादौ निरवकाशेन तद्विरुद्धशैवादिस्मृतीनां दोषप्रसंगात्। अप्रामाण्याख्यदोषेण प्रकर्षेण संबंधांगीकारेण तद्विरोधस्याकिंचित्करत्वादित्यर्थः ॥

एवंच यतो वेत्यादिश्रुतितिप्रामाण्यसद्भावात्। विष्णौ तात्पर्यमपहाय शिवादितात्पर्यंगीकारेऽपि नितरामाप्तैर्विष्ण्वादिभिः प्रणीतस्मृतिविरोधेन श्रुत्यप्रामाण्यापत्तिसाभ्यात्। न च स्मृतिद्वयाप्रामाण्येनानिर्णयः। श्रुतिविरुद्धायाः पाशुपतादिस्मृतेरप्रामाण्यात्। न चाविस्पष्टवादित्वे श्रुतेर्दौंर्बल्यमिति वाच्यं। वैष्णवस्मृतियुक्तत्वेन प्राबल्योपपत्तेः। तथा च विष्णोः श्रुत्युक्तजगत्कारणत्वस्य न तद्विरोध इति सिद्धं ॥

<2-1-2>
%(2) ॐ ॥ इतरेषां चानुपलब्धे ॥ ॐ ॥%

ननु यदुक्तं वैष्णवस्मृतीनां परमात्मप्रणीतत्वेन तत्सहाय्युक्तश्रुत्या प्रबलया विष्णोर्जगत्कारणत्वसिद्धिरिति न तद्युक्तं तथासति पाशुपतादिस्मृतीनामप्रामाण्यप्रसंगात्। आप्तोक्तानां तासामप्रामाण्यायोगादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ इतरेषां चानुपलब्धेरिति ॥% अस्यार्थः ॥ अनुपलब्धेरित्यावर्तते। च शब्दः किंचित्फलोपलब्ध्यंगीकारसूचकः। तथा चानुपलब्धेः अतींद्रियात् इतरेषां भिन्नानां प्रत्यक्षयोग्यानां पाशुपताद्युक्तफलानां अनिष्टानां च तदुक्तक्रियानुष्ठानपरित्यागयोः कृतयोरप्यनुपलब्धेः प्रत्यक्षतोऽदर्शनात्। तासामप्रामाण्यमेव युक्तमित्यर्थः ॥

एवंच शैवागमोक्तस्योपलब्धियोग्यस्य फलस्य तदुक्तानुष्ठाने कदाचिदुपलंभेऽपि नियमेनानुपलंभेनाप्तत्वानिश्चयात्। तथा च पाशुपतादिस्मृतीनामप्रामाण्यमेवेति सिद्धं ॥

<2-1-3>
%(3) ॐ ॥ एतेन योगः प्रत्युक्तः ॥ ॐ ॥%

ननु तथाऽपि न सर्वासामवैष्णवस्मृतीनामुक्तनिमित्तादप्रामाण्यं। योगस्मृत्युक्तस्वेदनागात्रभंजनादिफलानां नियमेनोपलंभात्तासामाप्तप्रणीतत्वनिश्चयोपपत्तेरिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ एतेन योगः प्रत्युक्त इति ॥% अस्यार्थः ॥ एतेन फलादर्शनलक्षणपूर्वोक्तहेतुनैव। योगः योगशास्त्रं। प्रत्यक्तः निरस्तमित्यर्थः ॥

एवंच प्रथमं स्वेदनं द्वितीयं गात्रभंजनमित्याद्युक्ताभ्यासावस्थोत्कर्षसंपत्तिकाल एव स्वेदनादीनामदृष्टत्वेनाप्तोक्तत्वानिश्चयात्। तथा च नियमेनफललंभहेतोरसिद्ध्याऽऽप्तोक्तत्वनिश्चयासंभवाद्योगस्मृतेरप्रामाण्यमंवेति सर्वासामवैष्णवस्मृतीनां प्रामाण्याभावाद्विष्णोर्जगत्कारणत्वे न तद्विरोध इति सिद्धं ॥

॥ इति स्मृत्यधिकरणं ॥

%2अधिकरणं ॥%

अत्र विष्णोर्जगत्कारणत्वे प्रमाणत्वेनोक्तवेदादिप्रामाण्ये युक्तिविरोधः परिह्रियते।

<2-1-4>
%(4) ॐ ॥ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ॐ ॥%

ननु वेदा वैष्णवस्मृतयश्च न प्रमाणं। तदुक्तनुष्ठानेऽपि फलानुपलंभात्। यदि फलानुपलंभेऽपि प्रामाण्यं तर्हि पाशुपतादिस्मृतीनामपि फलानुपलंसाम्येऽपि वेदादेरेव प्रामाण्यं न पाशुपतादिस्मृतीनामिति विभागहेतोरभावात्। ततश्च फलानुपलंभेन वेदाद्येकदेशस्याप्रामाण्ये तदेकदेशांतरप्रामाण्येऽनाश्वासान्न विष्णोर्जगत्कारणत्वसिद्धिरिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ न विलक्षणत्वादस्य तथात्वंच शब्दादिति ॥% अस्यार्थः ॥ अस्य श्रुति तदनुसारिस्मृत्यादेः। न शैवादिस्मृतिवदप्रामाण्यं। कुतः। विलक्षणत्वात्। स्वतः प्रामाण्याख्येतरवैलक्षण्यात्। किंच श्रेतर्नित्यत्वाख्यवैलक्षण्यवत्त्वात्। स्मृतेः श्रुत्यनुसारित्वाख्यवैलक्षण्यवत्त्वाच्च नाप्रामाण्यं। तथात्वं च उक्तवैलक्षण्यवत्त्वं च शब्दात् वाचा विरूपनित्यये(ऋ. 8-64.6.)त्यागमान्निश्चितमित्यर्थः ॥

एवंच प्रमाणमेव वेदादिकं। अपौरुषेयत्वात्तदनुसारित्वाच्च। न चापौरुषेत्यत्वं कुत इति वाच्यं। अपौरुषेयत्वस्य च प्रागेवोक्तसामान्यसिद्धिपरिशेषाभ्यां वाचा विरूपयेति श्रुत्या च सिद्धत्वात्। तथा च तेषां प्रमाणत्वेन विरोधाभावाद्विष्णोर्जगत्कारणत्वमिति सिद्धं ॥

<2-1-5>
%(5) ॐ ॥ दृश्यते तु ॥ ॐ ॥%

ननु श्रुत्यादेः स्वतः प्रामाण्यवादिनाऽपि दोषदर्शनेऽप्रामाणस्यावश्यं ग्राह्यत्वात्। वेदेऽपि स्वोक्तफलादर्शनाद्दोषादप्रामाण्यमेव वक्तव्यमिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ दृश्यतेत्विति ॥% अस्यार्थः ॥ तु शब्दो विशेषार्थे। यतः तत्फलयोग्याधिकारिविशेषाणां श्रुत्याद्युक्तं फलं दृस्यते उपलभ्यते। अतो नाप्रामाण्यमित्यर्थः ॥

एवंचाधिकारिणां फलोपलंभेन फलानुपलंभस्य कर्तृवैगुणयादिनोपपत्तेः। फलविसंवादस्यान्यथासिद्धत्वात्। अवाष्णवस्मृतीनां पाशुपतादीनामनुपलभ्यमानफलसाधनत्वस्योक्तत्वेन प्रामाण्यभावस्य निश्चितत्वात्। वेदप्रामाण्यस्य युक्तिविरोधाभावेन तेन जगत्कारणत्वं हरेर्युक्तमिति सिद्धं ॥

॥ इति न विलक्षणत्वाधिकरणं ॥

%3.अधिकरणं ॥%

अत्र विष्णोर्जगत्कर्तृत्वप्रतिपादकवेदप्रामाण्यरूपोक्तार्थे दृढयुक्त्यविरोध उच्यते।

<2-1-6>
%(6) ॐ ॥ अभिमानिव्यपदेशस्तुविशेषानुगतिभ्यां ॥ ॐ ॥%

ननु न वेदः प्रमाणं। मृदव्रवी (श.व्रा. 6-1-3.)दित्यादिनाऽमिहितमृदादिक्तृत्वादेर्मन्न वदति जडत्वादित्यादियुक्तिविरुद्धत्वात्। वेदैकदेशस्याप्रामाण्ये वेदप्रामाण्यसाधकस्यापौरुषेयत्वस्य तत्रैव व्यभिचारादामासत्वेनासाधकत्वात्। युक्त्यविरोधाय श्रुतेरन्यार्थकल्पनाऽयोगात्। अभिमानिदेवतैकदेशे सति विग्रहवत्त्वे उपलभप्रसंगात्। विग्रहाभावे वचनाद्ययोगात्। देवताऽयोगात्। तद्रहितदेशवद्देशांतरोपपत्तौ तद्वैयर्भ्यप्रसंगात्। देवतासद्भावे प्रमाणाभावात्। श्रुतेरविश्वननीयत्वादिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामिति ॥% अस्यार्थः ॥ तु शब्दोऽवधारणे। अभिमानिव्यपदेशः मृदब्रवीदित्यादौ अभिमानिनः चेतनस्यैव व्यपदेशः उक्तिः। न त्वचेतनस्य। कुतः। मृन्न वक्त्री जडत्वादिति युक्तिविरुद्धत्वात्। तथा च न वेदाप्रामाण्यं। नन्वभिमानिनः विदेहत्वायोगेन सदेहत्वे तस्यादर्शनमन्यवस्त्वधिष्ठानेन वक्तृत्वमनेकाभिमन्यमानाधिष्ठातृत्वंचेत्यादिकं विदेहत्वायोगेन सदेहत्वे तस्यादर्शनमन्यवस्यवस्त्वधिष्ठानेन वक्तृत्वमनेकाभिमन्यमानाधिष्ठातृत्वंचेत्यादिकं कथं युज्यत इत्यत उक्तं। विशेषेत्यादि। विशेषः सामर्थ्यं। अनुगतिः सर्वाभिमन्यमानव्याप्तिः। ताभ्यां सर्वं युज्यत इत्यर्थः ॥

एवंच मृदब्रचीदिति वेदस्याभिमानिदेवतापरत्वेन युक्त्यविरोधात्। श्रुतेरन्यार्थकत्पने प्रतीतार्थादपि मुख्यार्थलाभेन सावकाशत्वात्। श्रुतेर्युक्तिबाधाभावात्। अभिमन्यमानव्यापीर्नानां विग्रहवतीनां च देवतानां सद्भावात्। महतामुपलब्धिप्रसंगे इष्टापत्तिः। प्रमाणप्रसिद्धत्वात्। अज्ञानां त्वदृष्टियोग्यत्वात्। देवतासद्भावे महतां प्रत्यक्षस्यैव प्रमाणत्वात्। ततश्च वेदप्रामाण्ये युक्त्यविरोधत्तेन भगवतो जगत्कारणत्वसाधनं युक्तमिति सिद्धं ॥

<2-1-7>
%(7) ॐ ॥ दृश्यते च ॥ ॐ ॥%

नन्वप्रामाणिकदेवतातत्सामर्थ्यकल्पनापेक्षया वेदाप्रामाण्यकत्पनं वरं। लाघवात्। वस्त्वंतरमधिष्ठाय स्थितानां तासां व वनादीनामयुक्तत्वात्। सामर्थ्यविशेषे प्रमाणाभावात्। वेदप्रामाण्यस्य विप्रतिपन्नत्वादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ दृश्यते चेति ॥% अस्यार्थः ॥ अभिमानिदेवतायां सामर्थ्यं योगिभिः उपलभ्यते च अतोऽपि नादर्शनविरोध इत्यर्थः ॥

एवंच सामर्थ्यविशेषसद्भावेन वचनानामुपपत्तेः। विशेषे महद्दर्शनस्य प्रमाणात्वात्। पृथिव्याद्यभिमानिन्य (भवष्यत्पर्वणि) इति स्मृतेः। अतो युक्त्यविरोधाद्वेदेन भगवज्जगत्कर्तृत्वसाधनं युक्तमिति सिद्धं ॥

॥ इति अभिमान्यधिकरणं ॥

%4.अधिकरणं ॥%

अत्र ब्रह्मणो जगत्कर्तृत्वे श्रुत्युपसर्जनप्रागभावकर्तृकत्वसाधकयुक्तिविरोधो निरस्यते।

<2-1-8>
%(8) ॐ ॥ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ॐ ॥%

ननु न विष्णोर्जगत्कारणत्वं युक्तं। प्रमाणाभावात्। न च यतो वेत्यादि(तै.उ. 3-1-1.)श्रुतिः प्रमाणमिति वाच्यं। ब्रह्म न जगत्कारणं। तत्पूर्वमसत्त्वात्। यद्ययतः पूर्वं नास्ति न तस्य कारणमिति युक्तिविरुद्धत्वेन श्रुतेः प्रतीतार्थे प्रामाण्यायोगात्। न चासिद्धो हेतुः। असदेवेदमग्र (छां. 6-2-1.) इति श्रुतिसिद्धत्वात्। न च ब्रह्मणोऽकारणत्वे निष्कारणं जगदापद्यत इति वाच्यं। असतः सदजायतेति (ऋ. 10-72.3.) श्रुतिबलेनाभावस्यैव कारणत्वेन ग्राह्यत्वात्। न च ब्रह्मणः कारणत्व इवाभावस्य कारणत्वांगीकारे युक्तिविरोधोऽस्ति। प्रत्युताभ वस्य जगत्कारणत्वे प्रलयकालीनं कारणमसद्भवितुमर्हति वस्तुत्वात्कार्यवदित्यनुमानं चास्ति। अतोऽभावस्यैव जगत्कारणत्वं न ब्रह्मण इत्ययुक्तं लक्षणसूत्रमिति प्राप्ते निराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ असदिति चेन्न प्रतिषेधमात्रत्वादिति ॥% अस्यार्थः ॥ असत् विश्वप्रागभाव एव। जगत्कर्तृ नेश्वर इति चेन्न। कुतः। प्रतिषेधमात्रत्वात् अभावधर्मात्मतामंतरेण स्वरूपत एव निषेधबुद्धिविषयत्वादित्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं न त्वसतः। तस्य कारणं नेति कारणताप्रतिषेधबुद्धिविषयत्वात्। अतो युक्त्वयादेराभासकत्वेनाविरोधकत्वाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-9>
%(9) ॐ ॥ अपीतौ तद्वत्प्रसंगादसमंजसं ॥ ॐ ॥%

ननु यदुक्तं प्रतिषेधमात्रत्वादिति युक्तिविरधान्नासतः कारणत्वमिति न तद्युक्तं। युक्तिविरुद्धस्यापि श्रुतिबलात्कस्यचिदभावस्य कर्तृत्वाभ्युपगमे बाधकाभावात्। न चैवं घटप्रागभवदीनामपि कर्तृत्वप्रसंग इति वाच्यं। भावेषु कस्यचित्कर्तृत्वं कस्यचिदकर्तृत्वमिति वैलक्षण्यवदभावेष्वपि घटप्रागभावदेरकर्तृत्वं विश्वप्रागभावत्स्य चासदेवेत्यादि (छां. 6-2-1.) श्रुतिबलाकर्तृत्वमिति वैलक्षण्योपपत्तेरिति प्राप्ते समादधत्सूत्रमाह ॥

%॥ ॐ ॥ अपीतौ तद्वत्प्रसंगादसमंजसमिति ॥% अस्यार्थः ॥ अपीतौ प्रलये। तद्वत्प्रसंगात् आसन्मात्रत्वप्रसंगात्। असत्कर्तृत्वं। असमंजसं अयुक्तमित्यर्थः ॥

एवंच प्रलये सर्वस्य भावमात्रस्यासत्वेऽसन्मात्रावशेषः स्यात्। कार्यनाशे कारणमात्रावसेषनियमात्। तथा च कालोऽपि न स्यादित्यतिप्रसंगस्य वक्तुं शक्यत्वात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-10>
%(10) ॐ ॥ न तु दृष्टांतभावात् ॥ ॐ ॥%

नन्वस्माभिरपि प्रलयेऽसन्मात्रावशेषस्याभिलषितत्वान्नानिष्टापादनमेतदित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ न तु दृष्टांतभावादिति ॥% अस्यार्थः ॥ तुशब्दोऽवधारणे। प्रलये सर्वासत्वं न युज्यते। कुतः। तदा सर्वपदार्थसत्त्व एव दृष्टांतस्य भावात्। सद्भावादित्यर्थः ॥

एवंच विप्रतिपन्नोत्पत्तिः सतो भवितुमर्हति उत्पत्तिमत्त्वात्। घटोत्पत्तिवत् विमतो विनाशः सशेषः। विनाशत्वात् घटनाशवत्। इत्यनुमानाभ्यां प्रलयकालगतस्य सत्त्वसिध्या तदनंगीकारस्य प्रामाणिकहानरूपत्वेनानिष्टापादनरूपत्वात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-11>
%(11) ॐ ॥ स्वपक्षदोषाच्च ॥ ॐ ॥%

न केवलं प्रामाणिकपरित्यागप्राप्त्या प्रलये सर्वासत्वमनिष्टमपि त्वप्रामाणिकत्वाच्चेत्यर्थप्रतिपादक सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ स्वपक्षदोषाच्चेति ॥% अस्यार्थः ॥ स्वपक्षे प्रलये सर्वासत्त्वपक्षे। दोषात् दृष्टांताभावाख्यदोषाच्च न तत्पक्षो युक्त इत्यर्थः ॥

एवंच प्रलये सर्वासत्त्वमप्रामाणिकं। तथाहि। प्रलये स्थितानां कालादिनामसत्त्वं किं प्रत्यक्षवेद्यं। उतागमवेद्यं। आहोस्विदनुमानवेद्यं। नाद्यः। असन्निकृष्टत्वात्। न द्वितीयः। तदभावात्। नापि तृतीयः। दृष्टांताद्यभावात्। तथा च प्रलये सर्वासत्त्वपक्षस्याप्रामाणिकत्वेन तदभ्युपगमस्यानिष्टत्वाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-12>
%(12) ॐ ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसंगः ॥ ॐ ॥%

नन्वयं पूर्वपक्षः सिद्धांतश्चानुपपन्नः। एतावानेव तर्क इति प्रतिष्ठापकप्रमाणाभावेनोक्तादन्यथाऽप्यनुमातुं शक्यत्वादिति सदसतोः कारणत्वसाधनबाधनेत्याक्षिप्य समादधत्सूत्रमाह ॥

%॥ ॐ ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसंग इति ॥% अस्यार्थः तर्काप्रतिष्ठानात्। दृष्टांताभावादिरूपतर्कस्य अप्रतिष्ठानात् अव्यवस्थितत्वात्। अन्यथाऽपि सिद्धांत्युक्तिप्रकारदन्यरूपेणापि। प्रतितर्केणानुमेयं साधनीयं इति चेत्। नेति शेषः। कुतः। एवमपि एवं सति तर्कमात्रस्याप्रामाण्ये सति। अनिर्मोक्षप्रसंगः सर्वसिद्धातिभिः स्वस्वशास्त्रप्रयोजनत्वेनांगीकृतस्यापि मोक्षस्यापि लोपप्रसंगः। कुतः। तस्य विप्रतिपन्नं प्रति अनुमानेनैव साधनीयतया तस्याप्येवमप्रामाण्योक्तिसंभवादित्यर्थः ॥

एवंचात्र वक्तव्यं। किं प्रामाणिकं तर्कसिद्धं प्रतितर्केण दूषयितुं शक्यं। उताप्रामाणिकं। द्वितीयस्त्वभिमतः। आद्योऽपि किमेवं वादिनो मते मोक्षोऽस्ति न वेति। नेति पक्षेऽवादित्वेनोपेक्षणीयत्वात्। सिद्धांत्यभिमतप्रमेयाविघातक इति सत्कारणत्वादिकं यथास्थितमेव। आद्ये यदि तर्कोऽप्रामाणं स्यात्तर्हि मोक्ष एव न सिध्येत्। तत्साधनोपायाभावात्। न चागमेन तत्सिद्धिः। मोक्षमनभ्युपगच्छता तत्प्रामाण्यानंगीकारात्। सदकारणत्वासत्कारणत्वसाधकतर्कयोरप्रामाणिकत्वात्ताभ्यां निषेधायोगात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-13>
%(13) ॐ ॥ एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः ॥ ॐ ॥%

ननु मास्त्वसच्छब्दिताभावतत्त्वं जगतः कारणं। तथाऽपि न विष्णोर्जगत्कारणत्वसंभवः। विप्रतिपन्नं जगन्निष्कारणकं, अचेतनकारणकं, जीवकारणकं, वा कार्यत्वात् कूलपतनदध्यादिवदिति निष्कारणत्वादिसाधकयुक्तिविरोधात्। न च निर्मूलयुक्तेरसाधकत्वमिति वाच्यं। अकस्मादिति श्रुतिमूलत्वादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ एतन शिष्टा अपरिग्रहा अपि व्याख्याता इति ॥% अस्यार्थः ॥ एतेन स्वपरपक्षयोः दृष्टांतभावाभावाख्यहेतुना। अपरिग्रहाः वेदपरिग्रहशून्याः तद्विरुद्धाश्च। शिष्टाः अवशिष्टाः जीवकालस्वभावकर्तृत्वपक्षा अपि। व्याख्याताः प्रत्याख्याता दूषितां इत्यर्थः ॥

एवंच दृष्टांतभावेनाभावेन च वेदविरुद्धानामकारणत्वाचेतनकर्तृकत्वमायिब्रह्मकर्तृकत्वकालस्वभावकारणत्व सिद्धांतानां निरस्तत्वात्। अकस्माद्धीदं, प्रधानादिदमुत्पन्नं, जीवाद्भवंति भूतानि, इत्यादिश्रुतीनां विष्णुपरत्वात्। अतो युक्त्यादेराभासत्वेनाविरोधाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥

॥ इति असदधिकरणं ॥

%5.अधिकरणं ॥%

अत्र बहुश्रुतिसिद्धत्वेन प्रबलया दृढयुक्त्या विरोधः परिह्रियते ॥

<2-1-14>
%(14) ॐ ॥ भोत्क्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ ॐ ॥%

ननु न विष्णोर्जगत्कारणत्वादि युक्तं। तस्य जीवाभिन्नत्वात्। न हि जीवाभिन्नस्य कर्तृत्वाद्युपपद्यते। तस्य जीवाभेदः कुत इति चेत्। परेऽव्यये सर्व एकीभवंतीति (मुं. 3-2-7.) श्रुतेः। अतो जीवाभिन्नत्वादीश्वरस्य जगत्कारणत्वाद्यनुपपन्नमिति न लक्षणसूत्रं युक्तमिति प्राप्ते सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ भोक्त्रापत्तेरविभागश्चेत्याल्लोकवदिति ॥% अस्यार्थः ॥ भोक्त्रापत्तेः यस्माद्भोक्तुः जीवस्य परेऽव्यये एकीभवंतीति वाक्ये ब्रह्मभावापत्तेः श्रवणात्। तयोरविभागः भेदाभावः। तस्मादल्पजीवाभिन्नब्रह्णः जगत्कारणत्वं न युक्तमिति चेत्। नेतिशेषः। कुतः। यतः लोकवत् यथा लोके जले जलांतरस्यैकीभावोक्तिस्तथाऽत्रापि स्थानैक्याद्यालंबनेन जीवेशयोः एकीभवंतीत्यैक्योक्तिः स्यात् उपचरिता भवेत्। अतो नोक्त दोष इत्यर्थः ॥

एवंच जीवेश्वरयोरभेदाभावान्नेश्वरस्य विरुद्धं जगत्कारणत्वादिकं। न च परेऽव्यये सर्व इति श्रुतेः कथमैक्याभाव इति। निरंजनः परमं साम्यमुपैतीति (मुं. 3-1-3.) संनहितवाक्यविरोधेन श्रुतेस्तत्र तात्पर्याभावात्। का गतिस्तर्ह्यभेदश्रुतेरिति चेत्। स्थानैक्याद्यालंबनत्वेन जलैकीभावांक्तिवदुपचरितत्वोपपत्तेः। न च मुक्तेश्वरयोर्भेदसमर्थनस्य फलाध्यायसंगतत्वेन नैतत्सूत्रार्थ इति। अस्याधिकरणस्य फलाध्यायसंगतत्वेऽपि न ह्यन्यस्येत्युक्तविरोधपरिहारात्मके पादेंऽतर्भूतत्वेनात्रास्याधिकरणस्य विशेषितत्वात्। अतो विष्णोर्जगत्कारणत्वे युक्तिविरोधाभावेनोपपन्नं लक्षणसूत्रमिति सिद्धं ॥

॥ इति भोत्क्रधिकरणं ॥

%6.अधिकरणं ॥%

अत्र विष्णोर्जगत्कर्तृत्वे बहुयुक्तिविरोधः परिह्रियते।

<2-1-15>
%(15) ॐ ॥ तदनन्यत्वमारंभणशब्दादिभ्यः ॥ ॐ ॥%

ननु विप्रतिपन्नासृष्टिः स्वतंत्रबहुसाधनसापेक्षा। सृष्टित्वात्। घटादिसृष्टिवत्। तथा चेश्वरः स्वतंत्रसाधनसापेक्ष्यैव सृष्ट्यादिकर्तेति न तस्य जगज्जन्मादिकारणत्वेन सर्वगुणपूर्णत्वसिद्धिरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ तदनन्यत्वमारंभणशब्दादिभ्य इति ॥% अस्यार्थः ॥ तदनन्यत्वं तस्य स्वतंत्रकारणस्य ब्रह्माभिन्नत्वं वाच्यं। कुतः। आरंभणशब्दादिभ्यः। आरंभणे फलोपलक्षितकिंस्विदार्सादि(ऋ. 10-81.2.)त्यधिष्ठानाद्याक्षेपवाक्यात् स्वातंत्र्यादियुक्तिभिश्चेत्यर्थः ॥

एवंच नानुमानबलेनेश्वरसृष्टेः स्वतंत्रबहुसाधनसाध्यत्वं वक्तुं शक्यं। किं स्विदसीदिति श्रुत्येश्वरः स्वतंत्रसाधनविधुरः साधनांतरमपहाय स्रष्टुं शक्तत्वात्। व्यतिरेकेण कुलालवत्। तथेश्वरः स्वतंत्रसाधनशून्यः। स्वेच्छयोपात्तसाधनत्वात्। यः स्वतंत्रसाधनशून्यो नासौ स्वेच्छयोपात्तसाधनः। किंतु विपक्षे कार्यानुत्पत्तिभयोपात्तसाधनः। यथा कुलालस्ततेश्वरः स्वतंत्रसाधनरहितः साधनसत्ताप्रदत्वात्। व्यतिरेकेण कुलालवदित्यादियुक्तिमिश्च विरुद्धत्वात्। अतो भगवतः स्वातंत्र्येण सर्वकर्तृत्वे विरोधगंधाभावाद्युक्तं तस्य सर्वगुणपूर्णत्वमिति सिद्धं ॥

<2-1-16>
%(16) ॐ ॥ भावे चोपलब्धेः ॥ ॐ ॥%

युक्त्यंतरेण स्वतंत्रसाधनं प्रतिक्षिपत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ भावे चोपलब्धेरिति ॥% अस्यार्थः ॥ यतः ईश्वरान्यस्वतंत्रसाधनस्य। भावे सत्त्वे। उपलब्धेः दर्शनस्य। प्रसंग इति शेषः। अतोऽपि नास्त्यनयत्स्वतंत्रसाधनमित्यर्थः ॥

एवंच यदीश्वरातिरिक्तं स्वतंत्रसाधनं स्यात्तर्हि वेदादिप्रमाणैरुपलभ्येत। न चोपलभ्यते। तस्मान्नास्तीति बाधकतर्कसद्भावात्। ननु प्रमाणानुपलब्धमपि वस्तु किं न स्यादिति चेत्। पंचभिर्वेदैरनुक्तमपि वस्तु नास्ति। कुतः। प्रमाणमात्रासिद्धमस्तीत्यनुक्तं पंचभिरिति (स्कांदे.) वचनात्। अतो विरोधाभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-17>
%(17) ॐ ॥ सत्त्वाच्चावरस्य ॥ ॐ ॥%

नन्वद्‌भ्यः संभूत (महाना. 1-11.) इति श्रुतौ प्रकृतिं स्वामवष्टभ्य विसृजामि युगे युग इति (भ.गी. 4-6.) स्मृतौ च भगवदितरप्रकृत्यबादिस्वतंत्रसाधनसत्त्वप्रतीतेस्तदनुपलब्धेरिष्टापादनमिति प्राप्ते सूत्रमवतारयति ॥

%॥ ॐ ॥ सत्त्वाच्चावरस्येति ॥% अस्यार्थः ॥ चोऽवधारणे। अवरस्य अस्वतंत्रसाघनस्य। सत्त्वादेव अदूभ्यः संभूत इति वाक्यं तत्परं भवतीति न तद्विरोध इत्यर्थः ॥

एवंचावरस्यैव साधनस्य सत्त्वादेव श्रुतेस्तद्विषयत्वात्। ततश्च यस्योपलब्धिरापाद्यते न तस्योपलब्धिः। यच्चोपलभ्यते न तत्स्वतंत्रसाधनमितीष्टापादनाभावात्। न चास्यां श्रुतौ साधनामात्रं प्रतीयते न तु तस्य भगवदधीनत्वं तच्च लोकानुसारात्स्वतंत्रमेव किं न स्यादिति वाच्यं। काल आसीदिति (काषायण.) श्रुतेः। प्रागभावेनोत्पत्तौ सिद्धायां सत्यां तदुत्पादकस्यान्यस्याभावाद्धरेरेव जगत्कर्तृत्वस्य सिद्धेः। तस्माद्युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥

<2-1-18>
%(18) ॐ ॥ असद्व्यपदेशान्नेति चेन्न धर्मांतरेण वाक्यशेषात् ॥ ॐ ॥%

ननु नासदासीदिति (ऋ. 10-129-1.) श्रुत्या सर्वस्यासत्त्वाभिधानात्साधनांतरमंगीकृत्य तस्येश्वराधीनत्ववर्णनमयुक्तमित्याक्षिप्य समादधत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ असद्व्यपदेशान्नेति चेन्न धर्मांतरेण वाक्यशेषादिति ॥% अस्यार्थः ॥ असद्व्यपदेशात् नासदासीदित्यन्यस्यासत्त्ववचनात्। अन्यसत्त्वं न युक्तमिति चेन्न। कुतः। यतः तन्निषेधः धर्मांतरेण अस्वातंत्र्यादिधर्मविशेषेण युज्यते। कुत एतत्। वाक्यशेषात् तम आसीदितन्निषेधः धर्मांतरेण अस्वातंत्र्यादिधर्मविशेषेण युज्यते। कुत एतत्। वाक्यशेषात् तम आसीदि(ऋ. 10-129-3.)त्यवशिष्टवाक्यशेषादित्यर्थः ॥

एवंच नासदासीदिति श्रुतावव्यक्तत्वपरतंत्रत्वाधमत्वविकृतरूपविनाशादिधर्मापेक्षयाऽसत्त्वमुच्यते। अव्यक्तादौ तद्‌व्यपदेशस्य लोके दृष्टत्वान्न तु सर्वथाऽसत्त्वाभिप्रायेण। कुतः। तम आसीदिति वाक्यशेषे साधनांतरस्य सत्त्वाभिधानात्। चेतनाचेतनप्रपंचस्य ब्रह्मानन्यत्त्वे प्रमाणाभावात्। एतेन वाचारंभणमिति (छां. 6-1-4.) श्रुत्या तस्य ब्रह्मानन्यत्वमिति परेषां व्याकृतिर्निरस्ता। अजो ह्येक इति (महाना. 10-5.)श्रुतेः विश्वमिथ्यात्वमतस्यासुरत्वात्। असत्यमप्रतिष्ठमिति (गीता. 16-8.) स्मृते। न च न जीवो ब्रह्मणो भिद्यते चेतनत्वाद्‌ब्रह्मवत्। प्रपंचो वा बाध्यो दृश्यत्वाच्छुक्तिरजतवदित्यादियुक्तिसद्भावात्कथमन्यत्र प्रमाणाभाव इति वाच्यं। श्रुतिस्मृत्यनुकूलहीनायाः केवलाया युक्तेरप्यप्रामाण्यात्। ततश्च विरोधाभावेन युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥

<2-1-19>
%(19) ॐ ॥ युक्तेः शब्दांतराच्च ॥ ॐ ॥%

ननु साधनांतरभभ्युपगम्य तस्येश्वराधीनत्वकथनाद्वरं साधनाभावकथनमेव। साधनशून्यस्य सृष्ट्यादिकर्तृत्वाभ्युपगमे महिमाधिक्यलाभादित्याशंकामपाकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ युक्तेः शब्दांतराच्चेति ॥% अस्यार्थः ॥ प्रलये युक्तेः लीलया दंडमवष्टभ्य गंतुः पंगुत्वाभाववत् भगवतोऽपि लीलया स्वाधीनसाधनावलंबनस्य युक्तत्वात्। शब्दांतरात् तस्माच्छक्तोऽपीत्यागमविशेषाच्च उक्तं युक्तमित्यर्थः ॥

एवंच स्वाधीनसाधनांतरेण प्रवृत्तेरपि परमैश्वर्यज्ञापकत्वस्य साधनानामिति स्मृतिसिद्धत्वेनाविरोधकत्वात्। अद्भयः संभूतो हिरण्यगर्भ इत्यष्टाविति (महाना। 1-11.) श्रुतौ साधनांतराभिधानाच्च। विष्णोर्महिमाधिक्यलाभाय प्रलयेऽवरसाधनसत्त्वस्यैवाभ्युपेयत्वात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-20>
%(20) ॐ ॥ पटवच्च ॥ ॐ ॥%

न केवलं श्रुतिसिद्धत्वात्किंतु साधनसत्त्वस्य युक्तिसिद्धत्वाच्च तत्राग्रह इत्याह सूत्रकृत् ॥

%॥ ॐ ॥ पटवच्चेति ॥% अस्यार्थः ॥ पटसृष्टिवच्च विश्वसृष्टिरपि कर्तृभिन्नसाधनांतरसाध्येत्यर्थः ॥

%एवंच न केवलं श्रुतेः किंतु विप्रतिपन्नासृष्टिः कर्तृव्यतिरिक्तसाधनसापेक्षासृष्टित्वाद्वटसृष्टिवदित्यादियुक्तिसिद्धत्वात्च्। अतो विरोधाभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥%

<2-1-21>

%(21) ॐ ॥ यथा प्राणादिः ॥ ॐ ॥%

नन्वेवं सति विप्रतिपन्ना सृष्टिः कर्तृव्यतिरिक्तस्वतंत्रसाधनसापेक्षा सृष्टित्वाद्वटसृष्टिवदित्यादिना साधनानां स्वातंत्र्यमपि स्यादित्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ यथा प्राणादिति ॥% अस्यार्थः ॥ यथा प्राणदेहेंद्रियादिकं न स्वतंत्रं एवं प्रकृत्यादिसाधनांतरमपीत्यर्थः ॥

एवंच देहेंद्रियादाविव प्रकृत्यादावपि परमात्मप्रवेशस्य प्रकृतिं पुरुषं चेत्यागमसिद्धत्वात्। अनुप्रवेशस्य प्रेरणार्थत्वेन साधनानामस्वातंत्र्येण बाधितविषयत्वात्। विप्रतिपन्ने साधनजातं न स्वतंत्रं प्रेरणार्थमीश्वरेणानुप्रविष्टत्वात् यथा शरीरेंद्रियप्राणादिरित्येतत्प्रबलानुमानेन पूर्ववाद्युक्तानुमानस्य प्रतिपक्षितत्वात्। अतो भगवतः स्वातंत्र्येण सर्वकर्तृत्वे विरोगंधाभावाद्युक्तं तस्य सर्वगुणपूर्णत्वमिति सिद्धं ॥

॥ इति आरंभणाधिकरणं ॥

December_04 continuation

%7.अधिकरणं ॥%

अत्र श्रुतिप्राप्तजीवकर्तृत्वपक्षो विस्तरान्निराक्रियते।

<2-1-22>
%(22) ॐ ॥ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ ॐ ॥%

ननु स्वतंत्र एव जीवो घटादिकार्याणां कर्ता। जीवो हि यत्कार्यं करोमीति सामग्रीं मेलयति तत्वरोतीत्यनुभवात्। कुलालो घटादिकर्ता तद्विषयकृतिमत्त्वात् यथाऽहमित्युनुमानाच्च। न चानुभवबलेन जीवस्य कर्तृत्वेऽपि तदंतर्याम्यधीनं किं न स्यादिति वाच्यं। जीवशरीरे जीवनियामकेशस्याभावात्। भावे चोपलभ्येत। न हि जीवशरीरे ईश्वरोऽस्ति जीवश्च तन्नियम्यस्तथाऽपि नासौ तं पश्यतीति शक्यते वक्तुं। नियम्यानां नियामकद्रशनावश्यंभावात्। एवमपीश्वरकल्पने कल्पनागौरवं। अप्रामाणिकस्य जीवशरीरस्थत्वस्य तन्नियामकत्वस्य च कल्पनात्। एवंच परिदृश्यमानानां घटादीनां जीवकर्तृत्वे सिद्धे महदादिकार्याणामप्यनीश्वर ब्रह्मकर्तृत्वं सिध्द्यति। न कुलालादयो ब्रह्मवशाः। ब्रह्मसर्वनियामकमित्यस्य तु व्याहतत्वात्। जीवाद्भवंति भूतानीति श्रुतेः। जीवसावारण्येनास्याः श्रुतेर्ब्रह्मपरत्वे न नो हानिः। सर्वजीवानां संभूय सर्वजगत्कारणत्वं वदद्भिरस्माभिरपि सा घटादीनां कुलालजन्यत्वमिव महदादीनां जीवतुल्य ब्रह्मजन्यत्वं वदतीत्यंगीकारात्। परमैश्वर्यादिकविशिष्टब्रह्मपरत्वे च तस्यैवाभावात्। अतः श्रुत्यादिबलाज्जीवस्यैव स्वतः कर्तृत्वादसंभवि लक्षणसूत्रमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ इतरव्यपदेशाद्धिताकरणादिदोष प्रसक्तिरिति ॥% अस्यार्थः ॥ इति यदि तर्हिति च शेषः। इतरव्यपदेशात् जीवाद्भवंतीति श्रुतावुक्तत्वात्। स एव कर्ता नेश्वर इति। यदि तर्हि हिताकरणादिदोषप्रसक्तिः। जीवनिष्ठयोः हितानाचरणाहिताचरणयोर्दोषत्वप्रसंगः। जीवस्य स्वतंत्रत्वात्ते न स्यातामिति भावः। विद्येते च ते जीवे। तस्मान्न जीवः स्वतंत्र कर्तेत्यर्थः ॥

एवंच न जीवः स्वातंत्रयेण कर्ताऽपि तु परमेश्वरः। तर्कविरुद्धत्वात्। यदि स्वातंत्र्येण कर्तास्यात्तर्हि हिताकरणमहितकरणं च न स्यात्। विद्येते च ते। अतो नासौ स्वतंत्रकर्तेति हिताकरणादिदोषाणां जीवे प्रसक्तत्वेन स्वतंत्रकर्तरि परमश्वरेऽयोगात्। तथा च जीवस्य स्वतंत्रकर्तृत्वानुपपत्तेर्युक्तं हरेर्जगत्कारणत्वलक्षणमिति सिद्धं ॥

<2-1-23>
%(23) ॐ ॥ अधिकं तु भेदनिर्देशात् ॥ ॐ ॥%

ननु यदि किंचिद्दोषमात्रेण जीवकर्तृता निराक्रिंयते तर्हि ब्रह्मणोऽपि न कर्तृत्वं प्राप्नोति। तस्यापि श्रमादिदोषनियमात्। एवंच पक्षयोः साम्येऽनुभवादिसिद्धं जीवकर्तृत्वमेवाश्रयणीयमिति प्राप्ते पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ अधिकं तु भेदनिर्देशादिति ॥% अस्यार्थः ॥ तु शब्दः जीवसाम्यव्यावर्तकः। ब्रह्म तु जीवापेक्षया अधिकं। कुतः। श्रोता मंतेत्यादौ (ऐ. आ. 3-2-4.) श्रोतृत्वादिरूपविशेषस्योक्तत्वादित्यर्थः ॥

एवंचेश्वरे श्रमाद्यभावस्य प्रमाणसिद्धत्वेन तदभावापादनस्येष्टापादनत्वात्। जीवे च हिताकरणादीनां प्रामाणिकत्वेन तदभावापादनस्याप्यनिष्टत्वेन वैषभ्यात्। ईश्वरस्याधिकशक्तित्वाच्छ्रमचिंतादिदोषाप्राप्तेः। श्रोतामंतेति श्रुतेः। योऽशनायापिपासेति (बृ. 5-5-1.) श्रतेश्च। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-24>
%(24) ॐ ॥ अश्मादिवच्च तदनुपपत्तिः ॥ ॐ ॥%

नन्वथाऽपि जीवोऽन्यनिरपेक्षकर्ता चेतनत्वादीश्वरवदित्यनुमानाजीवोऽप्यन्यनिरपेक्ष एक कर्ता भवेदिति प्राप्ते निराकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ अश्मादिवच्च तदनुपपत्तिरिति ॥% अस्यार्थः ॥ च शब्देऽपि शब्दार्थः। अश्मादिवत् पाषाणादेरिव। अपि जीवस्य चेतनत्वेऽपि। तदनुपपत्तिः अस्वातंत्र्यात् स्वतंत्रकर्तृत्वानुपपत्तेरित्यर्थः ॥

एवंच स्वातंत्र्येण हेतुनाऽन्यनिरपेक्षत्वाभावस्यापि साधयितुं शक्यत्वात्। चेतनत्वहेतोरप्रयोजकत्वाच्च। तथा च जीवे चेतनत्वास्वातंत्र्ययोरुभयोः सत्त्वेऽपि पाषाणस्तंभादिवच्चेतनत्वेन जीवस्य स्वतः कर्तृतासाधनं नोपपद्यते। चेतनत्वहेतोरप्रयोजनकत्वादस्वातंत्र्येण प्रतिपक्षितत्वाच्च। यथा दास्मयीमिति (भारत.) वचनसद्भावात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-25>
%(25) ॐ ॥ उपसंहारादिदर्शनान्नोति चेत्क्षीरवद्धि ॥ ॐ ॥%

ननु न जीवस्य स्वतंत्रकर्तृत्वाभावो युक्तः। स हि यत्कार्यमारभते तत्समापयतीत्युपसंहारदर्शनादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ उपसंहारदर्शनान्नेति चेत्क्षिरवद्धीति ॥% अस्यार्थः ॥ उपसंहारदर्शनात् जीवेनारब्धकार्यस्य समापनदर्शनात्। स एव कर्तेति उक्तं ब्रह्मवर्तृत्वं नेति चेन्न। कुतः। हि यस्मात्। क्षीरवत् गोषु दृश्यमानक्षीरस्य यथा मुख्य प्राणकृतत्वं तथा जीवकृतोपसंहारोऽपि परमात्मकृत एकेत्यर्थः। हि शब्देनात्रार्थे अन्नमिति प्रमाणप्रसिद्धिश्च सूचिता ॥

एवंच गोषु क्षीरदर्शनेऽपि प्रामाणिकत्वेन मुख्यप्राणाधीनत्ववदेतस्यापि परमात्माधीनत्वोपपत्तेः। अन्नं रसादिरूपेणेति वचनात्स्वेनानुभूयमानोऽन्यैर्दृश्यमानश्च कार्योपसंहारो जीवकर्तृत्वे न मानं। तत्स्वातंत्र्याभावेन परमेश्वरस्यैव तन्निमित्तत्वात्। तथा च युक्तिविरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-26>
%(26) ॐ ॥ देवादिवदपि लोके ॥ ॐ ॥%

ननु न जीवस्येशाधीनकर्तृत्वं वाच्यं। ईश्वरस्य जीवनियामकत्वेन जीवशरीरेऽनुपलब्धेः। न च स हि सर्वस्येत्यादिश्रुत्येश्वरसिद्धिः। तस्या अनुपलब्धिलिंगबाधितत्वात्। अथाऽपि तत्कल्पने गौरवात्। न हि जीवस्तन्नियम्यं सत्तदाज्ञया प्रवर्तते। तं च न जानातीति संभवति। अतो जीवनियामकत्वेन नास्त्येव जीवशरीरउदरस्थ ईश्वर इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ देवादिवदपि लोक इति ॥% अस्यार्थः ॥ एवं भूतेश्वरस्यापि देवादिवत् अदर्शनं युज्यते। कथमेतदित्यत उक्तं। लोक इति। लोके जगति पिशाचादीनामपि अदृश्यत्वादिशक्तिर्दृष्टा सर्वेश्वरस्य तु किं वाच्यमित्यर्थः ॥

एवंच देवादिवदंतर्धानशक्त्या प्रत्यक्षेणानुपलभ्यमानत्वेप्यागमेनोपलभ्यमानत्वात्। न चेश्वरस्य देवादिवदंतर्धानशक्तिमत्त्वं युक्तं। तस्या उपासनासाध्यत्वेनेश्वरे तदभावादिति चेत्। तर्हि पिशाचादीनामपि तन्नस्यात्। उपासनाभावात्। अथ प्रमाणसिद्धांऽतर्धानशक्तिः पिशाचादीनां हातुमशक्यत्वेन कारणांतरं कल्प्यते स्यात्। उपासनाभावात्। अथ प्रमाणसिद्धांऽतर्धानशक्तिः पिशाचादीनां हातुमशक्यत्वेन कारणांरतं कल्प्यते तर्हि यत्तदद्रेश्यमिति (मुं 1-1-6.) प्रमाणसिद्धा सा न हातुं शक्येति नित्या सा कल्प्यतां। न युक्तियोगादिति (बृहत्संहिता.) वचनेन श्रुतिस्मृतिरूपवाक्यानां युक्तिलक्षणोपायात्क्वचिदपि विषयेऽप्रमाणत्वेनासाधकत्वेन वा निराकरणायोगात्। तेषां विरोधे तासां युक्तीनामेकवाक्यानुसारिणीनामेवार्थसाधकत्वं नतु शुष्कयुक्तीनां। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-27>
%(27) ॐ ॥ कृत्स्न प्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ ॐ ॥ %

युक्त्यंतरेण जीवस्य स्वतः कर्तृत्वं निराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वेति ॥% अस्यार्थः ॥ वा शब्दः पक्षभेदेन दोषापादनसूचकः। जीवस्य स्वतः कर्तृत्वे सर्वकार्त्स्न्येन प्रवर्तने चांगीकृते कृत्स्नप्रसक्तिः तृणादानादि सर्वकार्येष्वपि सर्वसामर्थ्यप्रसक्तिः प्रसंगः। तत्परिहाराय एकदेशेन प्रवृत्यभ्युपगमे च निरवयवत्वशब्दकोपः नित्यो निरवयव इति (भाल्लवेय.) श्रुतिविरोधः स्यादित्यर्थः ॥

एवंच जीवस्य स्वतंत्रकर्तृत्वे स समास्त्येन सर्वस्वकार्यकर्तेति क्वचिदंशेन। आद्ये यदि जीवः सामस्त्येन सर्वस्वकार्यकर्ता स्यात्सामस्त्येन तृणादानादावपि कर्ता स्यादिति तर्कविरोधः। द्वितीये यदि जीर्वोऽशेन स्वकार्यकर्ता स्यात्तर्हि निरवयवप्रतिपादकश्रुत्यप्रामाण्यं स्यादिति तर्कविरोधः। तथा च कर्तत्वं सामस्त्येनांशेन प्रवृत्तिर्व्याप्यमिति जीवस्य स्वातंत्र्यांगीकारे व्यापकीभूतप्रवृत्ययोगात्कर्तृत्वमेव न स्यादितिस्वातंत्र्यं त्याज्यं। ननु नजीवस्य स्वतः कर्तृत्वेऽपि दोषावकाशः। तस्योपाधिकृतांशवत्त्वेन कृत्स्नप्रसक्त्ययोगात्। स्वाभाविकांशाभावेन श्रुतिविरोधाभावादिति चेत्। किं जीवः सर्वोप्युपहितस्तदंशो वेति प्रष्टव्यं ॥ नाद्यः। सर्वजीवस्योपहितत्वे सर्वस्य ग्रस्तत्वेनांशस्योपाधिकत्वायोगात्। द्वितीये नोपाधिकत्वं। उपाधिसंबंधात्प्रागप्यंशस्य वक्तव्यत्वात्। तस्याप्युपाध्यंतरकृतत्वेऽनवस्थानात्। ननु जीवस्य कर्तृत्वं युक्तिविरुद्धत्वादविचाररमणीयाऽविद्यानिमित्तमस्त्विति चेन्न। अविद्यानिमित्तत्वस्याप्रामाणिकत्वात्। यद्धि युक्त्या विरुद्धतेति प्रमाणिविरुद्धत्वाच्च। तस्माज्जीवस्य स्वंतत्रकर्तृत्वानुपपत्तेर्युक्तं हरेर्जगत्कारणत्वलक्षणमिति सिद्धं ॥
॥ इति इतरव्यपदेशाधिकरणं ॥

<2-1-28>
%(अधिकरणं ॥%

अत्र विष्णोः सर्वकर्तृत्वे प्रबलयुक्तिविरोधः परिह्रियते।

%(28) ॐ ॥ श्रुतेस्तु शब्दमूलत्वात् ॥ ॐ ॥%

ननु नेश्वरस्य स्वातंत्र्येण जगत्कर्तत्वं युक्तं। यदीश्वरः कर्ता स्यात्तर्हि कार्त्स्नेनांशेन वा प्रवृत्तिमांत्स्यात्। न च तदीश्वरे संभवतीति तर्कबाधितत्वात्। न चायं दोषः। जीवकर्तृत्वांगीकार एव नेश्वरकर्तृत्वांगीकार इति वाच्यं। दोषनिरासोपयुक्तायाः प्रकारांतरेण प्रवृत्तेरीश्वरेऽभावात्। अन्यथाजीवेऽपि स दोषो न स्यात्। अतो युक्तिविरोधेन न विष्णोर्जगत्कारणत्वं युक्तमिति प्राप्ते पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ श्रुतेस्तु शब्दमूलत्वादिति ॥% अस्यार्थः ॥ ईश्वरकर्तृत्वपक्षे तु कृत्स्नप्रसक्तिरित्यादिना जीवकर्तृत्वपक्षोक्तयुक्तिविरोधदोषो नास्ति। कुतः। श्रुतेस्तु योऽसौ विरुद्ध इति (पैंगि.) श्रुतेरेव। नन्वेतावता कथं युक्तिविरोध शांतिरित्यत उक्तं। शब्दमूलत्वादिति। ईश्वरतद्धर्माणां शब्दैकप्रमाणवत्त्वे युक्त्यविषयत्वात्। न तत्र युक्तिविरोधः प्रवर्तते। जीवे तु न तथा। तस्य प्रमाणांतरेणापि गम्यत्वादित्यर्थः ॥

एवंच नेश्वरस्य स्वातंत्र्येण कर्तृत्वे युक्तिविरोधः। विरोधयुक्तेर्धर्मिग्राहकागमोपजीव्यत्वेन तद्बोधन युक्तेरेवाप्रमाण्यात्। किंचेश्वरस्याचिंत्याशक्तियुक्तत्वात्तद्वलेनांशत्वेप्यंशकार्यकारितोपपन्ना। योऽसौ विरुद्ध इति श्रुतौ लोकविरुद्धधर्माणामीश्वरेऽविरुद्धतयाऽवस्थानत्वोक्तेः। युक्तिविरोधपरिहारोपयोगिनः शब्दैकसमाधिगम्यत्वस्येश्वरे सत्त्वादविशेषासिद्धेः। शुष्कानुमयाऽऽगमोक्तप्रमेयस्य निषेधायोगात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-29>
%(29) ॐ ॥ आत्मनि चैवं विचित्राश्च हि ॥ ॐ ॥%

जीवपक्ष एव युक्तिविरोधो नेश्वरपक्ष इत्येतमर्थं युक्त्यंतरेण प्रतिपादयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ आत्मनि एवं विचित्राश्च हीति ॥% अस्यार्थः ॥ आद्यश्च शब्दोऽवधारणे। द्वितीयः समुच्चये। हि शब्दः प्रसिद्धौ। तथाच हि शब्दात् आत्मनि ईश्वर एव। एवं सकलयुक्तिविरोधनिरासकाः विचित्राः अचिंत्याः विचित्रशक्तिरिति श्रुतिप्रसिद्धाः शक्तयः संति न जीवे। तस्माच्च जीवपक्ष एव युक्तिविरोधः नेश्वरपक्ष इत्यर्थः ॥

एवंच विचित्रशक्तीनमीश्वर एव सत्वादन्येषां तदभावात्। एको वशीति (श्वेताश्वतर.) श्रुतेः। शक्तेर्विचित्रत्वं तु भिन्नावयवशून्यानां जीवानामीस्वरस्य चैकदेशेन प्रवृत्त्यादिरूपाधटितविचित्रकार्यकारित्वमिति विवेकात्। अतो युक्तिविरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-30>
%(30) ॐ ॥ स्वपक्षदोषाच्च ॥ ॐ ॥%

ननु विष्णोः शब्दमूलत्वेन विचित्रशक्तित्वेन च युक्तिविरोधस्यादोषत्ववजीवेऽपि तथा भवेत्। चेतनत्वादिलिंगेन युक्तिविरोधस्याविरोधतासाधनसंभवादिति प्राप्ते समादधत्सूत्रमाह ॥

%॥ ॐ ॥ स्वपक्षदोषाच्चेति ॥% अस्यार्थः ॥ चोऽवधारणे। तथाच ये दोषा इति श्रुतौ जीवपक्षे युक्तिविरोधस्य दोषस्यैवोक्तेः नासावदोषतां नेतव्यः। किंतु ईश्वरपक्ष एव अदोषतां नेतव्य इत्यर्थः ॥

एवंच जीवस्यापि स्वातंत्र्येण कर्तृत्वं वक्तुमशक्यं। तस्य दोषित्वेनं कल्पकाभावेन तद्दोषस्यादोषतया नेतुमशक्यत्वात्। अथ यः सः दोष इति (काषायण.) श्रुतेः। कृत्स्नप्रसक्त्यादियुक्तिविरोधस्य जीवपक्षे दोषस्यैवोक्तत्वात्। जीवेशयोः सदोषत्वनिर्दोषत्ववचनविरोधाख्यदोषसद्भावात्। ततश्च विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-31>
%(31) ॐ ॥ सर्वोपेता त तद्दर्शनात् ॥ ॐ ॥%

ननु विचित्रशक्तिबलान्नेश्वरे विरोध इति युक्तं। सा शक्तिर्यद्विषयिणी न भवति यदा च नश्यति तदा तत्र दोषावशंभावनियमान्न तया तत्परिहारो युक्त इत्याशंकां पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ सर्वोपेता च तद्दर्शनादिति ॥% अस्यार्थः ॥ यतः परमात्माख्यदेवता न केवलं सामान्यतो विचित्रशक्तिमती किंतु सर्वोपेता सर्वविषयसार्वकालिकशक्तिमती च। कुतः। तद्दर्शनात् सर्वैर्युक्तेति (चतुर्वेदशिकायां) तथा श्रुतेः। अतो नेश्वरे युक्तिविरोधः शंकनीय इत्यर्थः ॥

एवंचेशस्य सदा सर्वविषये विचित्रक्तित्वात्। सर्वैर्युक्ता शक्तिभिरिति श्रुतौ परमात्मशक्तिः सर्वदा सर्वविषयिणी सर्वकाला चेति तस्य सर्वशक्तिमत्त्वेनोक्तत्वात्तथा शक्त्या युक्तिविरोधपरिहारौचित्यात्। अतो युक्तिविरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-32>
%(32) ॐ ॥ विकरणत्वान्नेति चेत्तदुक्तं ॥ ॐ ॥%

नन्वथापि विकरणत्वान्नेश्वरस्य जगत्कर्तृत्वं युक्तं। अपि च सर्वोपेतेति सूत्र एव विचित्राशेषशक्तिवलेन निखिलविरोधानां परिहृतत्वाच्छंकानवकाशात्प्रकृतसूत्रवैयर्थ्यमित्याक्षिप्य समादधत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ विकरणत्वान्नेति चेत्तदुक्तमिति ॥% अस्यार्थः ॥ नेत्यावर्तते। विरकणत्वात् अपाणिपादमिति (श्वे. 3-19.) श्रुत्या ईश्वरस्य हस्तादींद्रियशून्यत्वावगमात्। नेतिचेत् ईश्वरस्य कर्तृत्वं न युक्तमिति चेन्न। कुतः। यस्मात् तदुक्तं। तस्मिन्न तस्येत्याद्यागमेन तत्करणराहित्यस्य प्राकृतेंद्रियविषयत्वमुक्तं। तस्मादित्यर्थः ॥

एवंचापाणिपाद इति श्रुतौ पाण्यादिरहितस्यापि हरेर्ग्रहकादिकमुक्त्वा न तस्या कार्यमित्यादिना (श्वे. 6-8.) पाण्यादिरहितत्वस्य प्राकृतविषयत्वेन सर्वोत्तमत्वेन परमशक्तित्वेन चोपपादितत्वात्। परोक्तहेतोरप्रयोजकत्वादसिद्धेश्च। अपि च साधारण्येन सर्वविरोधानां परिहारे कृतेऽपि विशेषतोऽस्यैव चोद्यस्य परिहारानुकूलयुक्तिबोधनेच्छया पुनः शंकाया दर्शितत्वेन सूत्रवैयर्थ्याभावात्। अतो विष्णोर्जगत्कतृत्वे युक्तिविरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
॥ इति श्रुतेस्तु शब्दमूलत्वाधिकरणं ॥

<2-1-33>
%9.अधिकरणं ॥%

अत्रेश्वरस्य जगत्कर्तृत्वे निष्फलत्त्वादियुक्तिविरोधः परिह्रियते।

%(33) ॐ ॥ न प्रयोजनवक्त्त्वात् ॥ ॐ ॥%

ननु न विष्णोः सर्वसर्जकत्वादि युक्तं। अत्र किं विष्णुः प्रयोजनोद्देशेन सृष्ठ्यादिकं करोतीत्युच्यते तदनुद्देशेनेति वा। आद्येऽपूर्णत्वात्। द्वितीये प्रवृत्तेरेवायोगेन सर्वकर्तृत्वस्य सुतरामयोगात्। विधांतरस्य चाभावेऽनुपपन्नमेव सर्वकर्तृत्वमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ न प्रयोजनवत्वादिति ॥% अस्यार्थः ॥ ईश्वरस्य सृष्ट्यादौ प्रवृत्तिर्न स्वप्रयोजनोद्देशेन। कुतः। प्रयोजनवत्वात् पूर्णानंदत्वेन प्राप्तप्राप्तव्यत्वादित्यर्थः ॥

एवंच युक्तमेव विष्णोः सर्वकर्तृत्वं। तस्य पूर्णानंदत्वेन प्राप्तप्राप्तव्यतया फलोद्देशेन प्रवृत्त्यनंगीकारात्। अथैष एव परमेति (बृ. 6-3-33.) श्रुतेः। तथा चाप्तकामत्वेन दयासाध्यफलाभावेन परप्रयोजनार्थमपि तस्य सृष्ट्यादिप्रवृत्त्ययोगात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं।

<2-1-34>
%(34) ॐ ॥ लोकवत्तु लीलाकैवल्यं ॥ ॐ ॥%

ननुनेश्वरः फलानुद्देशेन प्रवृत्तिमान् चेतनत्वात् यज्ञदत्तवदित्युपपत्तिविरोधात्कथमश्विरस्य फलानुद्देशेन प्रवृत्तिरित्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ लोकवत्तु लीलाकैवल्यमिति ॥% अस्यार्थः ॥ तु शब्द एवार्थे। लोकवत् लोके मत्तादिप्रवृत्तिरिवेश्वरप्रवृत्तेः। लीलाकैवल्यं केवललीलारूपत्वमेव न स्वप्रयोजनोद्देश्यत्वमित्यर्थः ॥

नन्वेवं फलानुद्देशेन प्रवृत्तेरनुपपत्तिरिति चेन्न। लोकवल्लीलयैव प्रवृत्त्युपपत्तेः। न हि लीला प्रयोजनांतराय भवति। मत्तस्य नृत्तगानादिलीलायाः प्रयोजनाभावेऽपि दर्शनात्। पूर्वपक्ष्युक्तानुमानस्योन्मत्तादौ व्यभिचारात्। व्याख्यानादिकाले हस्तचालनादाविव प्रयोजनवत्त्वराहित्यात्। ईश्वरप्रवृत्तेर्लोकानुग्रहार्थत्वांगीकारात्। अतो विरोधाभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
॥ इति न प्रयोजनाधिकरणं ॥

<2-1-35>
%10.अधिकरणं ॥%

अत्र पूर्वोक्त परप्रयोजनरूपफलविषययुक्तिविरोधः परिह्रियते ॥

%(35) ॐ ॥ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ ॐ ॥%

ननु न विष्णोः सर्वकर्तृत्वं युक्तं। वैषम्यादिदोषवत्त्वात्। अत्र पृष्टव्यं। ईश्वरः सुरनरतिर्यगादिनानायोनिषु प्राणिनो जनयित्वा तेषां विभागेन यत्सुखदुःखे ददति तत्किं तेषां कर्मानुसारेण। उत तन्नैरपेक्ष्येण। आद्येऽस्वातंत्र्यापातात्। नियमेन कर्मसापेक्षस्यास्वातंत्र्यनियमात्। द्वितीयेतु वैषम्यनैघृण्ये प्राप्नुतः। निर्निमित्त विभागेन सुखदुःखदातृत्वात्। किंच नेश्वरस्य कर्तृत्वे मानं। मानत्वेनाभिमतस्य वेदस्य ज्योतिष्टोमादिप्रतिपादकवेदवदमानत्वात्। ज्योतिष्टोमादिवेदामानत्वं तु सुखदुःखसाधनत्वेन तदुक्तानां धर्मादीनां नैरपेक्ष्येणैवेश्वरेण सुखादिप्रदत्वासिद्धं। अतो हरेः सर्वकर्तृत्वायोगान्न लक्षणसूत्रमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयतीति ॥ अस्यार्थः ॥ स्वातंत्र्यसिध्यर्थमीश्वरस्य जीवेभ्यः फलदाने कर्मापेक्षांगीकारे निर्निमित्तं वैषम्येण फलदातुस्तस्य वैषम्यनैर्धृण्ये विषमत्वानिर्दयत्वे ये प्रसक्ते ते नस्तः। कुतः। सापेक्षत्वात् ईश्वरस्य कर्मापेक्षावत्त्वाभ्युपगमात्। तत्कुतः। हि यस्मात् पुण्येन पुण्यमिति (प्र. 3-7.) श्रुतिः तथा दर्शयति प्रतिपादयति। तस्मादित्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्स्रष्टृत्वादिकं। तत्तत्कर्मानुसारेण फलदातृत्वांगीकारेण वेषम्यनैर्घृण्याभावात्। अतो लक्षणसूत्रं युक्तमिति सिद्धं ॥%

<2-1-36>
%(36) ॐ ॥ न कर्माविभागादिति चेन्नानादित्वात् ॥ ॐ ॥%

नन्वपेक्षया कर्मणोऽभावान्न तदपेक्षया वैषम्यादिदोषपरिहारः संभवति। न चास्ति पूर्वकर्मेति वाच्यं। एष ह्येवेति (कौ. 3-8.) श्रुतौ तस्यापि भगवदधीनत्वश्रवणात्। स्वकारितापेक्षया फलदाने वैषम्यादेरनिस्तारादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ न कर्माविभागादिति चेन्नानादित्वादिति ॥% अस्यार्थः ॥ वैषम्यनैर्घृण्यादिदोषपरिहाराय ईशेनापेक्षणीयं यत्कर्म तन्नास्तीति विशिष्टनिषेधः। कुतः। अविभागात् तस्य कर्मणः अस्वतंत्र वस्तुभ्यः अविभक्तत्वात्। अस्वतंत्रत्वादिति यावत्। तथा च स्वाधीन कर्मापेक्षया वैषम्यादेरपरिहार इति चेन्न। कुतः। अनादित्वात् कर्मपरंपरायाः अनादित्वादित्यर्थः। तथा चेश्वरः पूर्वपूर्वमपेक्ष्योत्तरोत्तरकर्म जीवेन कारयतीत्यंगीकारेण कर्मणः अपेक्षणयित्वापत्तेः नोक्तदोष इति भावः ॥

एवंच भवेदयं दोषः। यदि पूर्वतनं कर्मेश्वरेण निरपेक्षेण कारितं स्यात्। न चैवं। किं तर्हि प्राचीनकर्मानुसारेण कारितं। यत्रैव पर्यवसानं तदारभ्य दोष इति कर्मपरंपराया अनादित्वात्। पुण्यपापादिकमिति (भविष्यत्पुराण.) वचनात्। अतो विरोधाभावेनोक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-1-37>
%(37) ॐ ॥ उपपद्यतेचाप्युपलभ्यते च ॥ ॐ ॥%

नन्वथाऽपि नेश्वरस्य कर्मापेक्षया फलदातृत्वं युक्तं। अस्वातंत्र्यप्रसंगादित्याशंकां परिहरत्सूत्रमुपन्यस्यति।

%॥ ॐ ॥ उपपद्यते चाप्युपलभ्यते चेति ॥% अस्यार्थः ॥ ईश्वरस्य कर्मापेक्षायामप्युपपद्यते स्वातंत्र्यं युज्यत एव। कर्मणः स्वाधीनत्वात्। ननु पुनः स्वाधीनकर्मसापेक्षत्वकृतवैषम्यापात इत्यत उक्तं। उपलभ्यते चेति। स कारयेदिति (चतुर्वेदशिखायां) श्रुत्या तादृशवैषम्यं अदोषत्वेन ज्ञायते चेत्यर्थः ॥

एवंचोपपद्यते खल्वीश्वरस्य कर्मसापेक्षत्वेऽपि स्वातंत्र्यं। स्वाधीनसापेक्षायाः स्वातंत्र्याविरोधित्वात्। न च तथा सति पुनर्वैषम्यादिकं स्यादित वाच्यं। इष्टत्वात्। वैषम्यमिति वचनात्। अतो हरेः सर्वकर्तृत्वे विरोधाभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
॥ इति वैषम्यनैर्घण्याधिकरणं ॥

<2-1-38>
%11.अधिकरणं ॥%

अत्र विष्णोः सर्वगुमपूर्तौ सर्वदोषराहित्ये च युक्त्यविरोध उच्यते।

%(38) ॐ ॥ सर्वधर्मोपपत्तेश्च ॥ ॐ ॥%

ननु न विष्णुः सर्वगुणपूर्णः। चेतनत्वात्। अन्यथा देवदत्तादीनामपि तथात्वं स्यात्। सर्वेषां युक्तिविरोधानां परिहृतत्वेनोत्तरसूत्रवेयर्भ्याच्चेति प्राप्ते परिहरत्सूत्रमाह ॥

%॥ ॐ ॥ सर्वधर्मोपपत्तेश्चेति ॥% अस्यार्थः ॥ गुणदोषाभाववत्त्वरूपाणां सर्वेषां धर्माणां उपपत्तेः स्वातंत्र्यादिना ब्रह्मणि युक्तत्वाच्च न तस्य गुणपूर्णत्वे युक्तिविरोधः शंकनीय इत्यर्थः ॥

एवंच युक्तमेव विष्णोः सर्वगुणपूर्मत्वं। स्वातंत्र्यात्। गुणाः श्रुता इति (सौपर्ण.) श्रुतेश्च। पूर्वाधिकरणेषु तस्य प्रत्येकमेकैकगुणविषये दोषाभावे च विरोधं परिहृत्य समर्थनं कृतं। सर्वगुणपूर्णत्वविषये च प्राप्तयुक्तिविरोधपरिहारेण च तत्प्रकरणस्यात्र समापितत्वात्सूत्रवैयर्थ्याभावात्। चेनत्वहेतोरप्रयोजकत्वाच्छ्रुतिविरुद्धत्वाच्च। तत्च विष्णोः सर्वगुणपूर्णत्वे विरोधाभावेनोक्तं सर्वमुपपन्नमिति सिद्धं ॥

** ॥ इति सर्वधर्मोपपत्त्यधिकरणं ॥**

** ॥ इति द्वितीयाध्यायस्य प्रथमः पादः ॥**

—————————————————

॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अथ द्वितीयाध्यायस्य द्वितीयः पादः ॥

इतरेषां चानुपलब्धेरिति नये सामान्यतो निराकृतसमयानां विशेषतो निराकरणं क्रियतेऽस्मिन्पादे ॥

%1.अधिकरं ॥%

अत्राचेतनप्रवृत्तिमतं निराक्रियते।

<2-2-1>
%(1) ॐ ॥ रचनानुपपत्तेश्च नानुमानं ॥ ॐ ॥%

ननु न विष्णोर्जगत्कारणत्वं युक्तं। सांख्यसमये महदादिकं स्वसदृशकारणजन्यं। कार्यत्वात्। घटवदित्यनुमानेन प्रकृतेः कारणत्वं प्रसाध्य तस्या अनन्याधीनतया कार्योन्मुखत्वाभिधानात्। अतः प्रकृतेरेवानन्याधीनतयाऽशेषकार्योन्मुखत्वेन नेश्वरकर्तृत्वं चास्तीति न जगत्कारणत्वं युक्तमिति प्राप्ते पराकुर्वत्सूत्रमाह।

%॥ ॐ ॥ रचनानुपपत्तेश्च नानुमानमिति ॥% अस्यार्थः ॥ अनुमीयत इत्यनुमानं। सांख्यानुमानकल्पितं। प्रधानं न जगत्कर्तृ। कुतः रचनानुपपत्तेः। प्रधानस्य जडत्वेन स्वतः प्रवृत्त्यनुपपत्तेः। अचेतनस्य स्वतः प्रवृतौ प्रमाणाभावाच्चेत्यर्थः ॥

एवंच युक्तमेव विष्णोः जगत्कर्तृत्वं। कार्यं स्वसदृशकारणवदित्यनुमानेन कारणतया परिकल्पितस्य प्रधानस्याचेतनत्वेन स्वतः कार्योन्मुखत्वायोगात्। प्रधानस्य स्वतः प्रवृत्त्यभावेऽचेतनत्वाख्यहेतुसूचनादसिद्धेः परिहृतत्वात्। तद्विरुद्धोपपत्तेरेव तदभावसाधकत्वात्। प्रागुक्तानुमानस्य कारणत्वमात्रसाधकत्वेन स्वतः कार्योन्मुखत्वासाधकत्वात्। प्रमाणांतरस्य चाभावात्। अतो निरीश्वरसांख्यमतस्याप्रामाणिकत्वेन तद्विरोधाभावाद्युक्तं जन्मादिकारणत्वलक्षणमिति सिद्धं ॥

<2-2-2>
%(2) ॐ ॥ प्रवृत्तेश्च ॥ ॐ ॥%

एवं प्रधानस्य स्वतः प्रवृत्तिकर्तृत्वेऽचेतनत्वस्वतःप्रवृत्तिशून्यत्वप्रमाणाभावैर्निराकृत्य युक्त्यंतरेणापि तन्निराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ प्रवृत्तेश्चेति ॥% अस्यार्थः ॥ अहं करोमीति चेतनस्यैव प्रवृत्तेर्दर्शनाच्च न प्रधानं जगत्कर्तृ इत्यर्थः ॥

एवंच कुलालादेर्घटादिसृष्टौ व्यापारस्याहं करोमीत्यनभवसिद्धत्वात्। किंच पटादिसृष्टेश्चेतनेच्छानुसारित्वदर्शनेन महदादिसृष्टेरपि तथाऽभ्युपगंतव्यत्वात्। महदादिसृष्टिश्चेतनेच्छानुसारिणी सृष्टित्वाद्धटसृष्टिवदिति मानांतरविरोधात्। चेतनस्य प्रवृत्तिः क्रिया। सा च कृतिं विना नोपपन्ना। सा च नेच्छां विना। सा च न ज्ञानं विनेति प्रवृत्त्यादिकार्याणां स्वस्वकारणाविना भूतत्वेन प्रवृत्त्या इच्छापूर्वकत्वसाधनसंभवात्। अतो जगत्कारणत्वलक्षणं युक्तमिति सिद्धं ॥

<2-2-3>
%(3) ॐ ॥ पयोंऽबुवच्चेत्तत्रापि ॥ ॐ ॥%

नन्वचेतनयोरपि पयोंऽबुनोः स्वतः प्रवृत्तिर्द्दृश्यते। अतस्तत्रैवाचेतत्वहेतोर्व्यभिचारात्। अचेतनस्य स्वतः प्रवृत्तौ च स एव दृष्टांतो भविष्यतीति प्राप्ते पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ पयोंऽबुवच्चेत्तत्रापीति ॥% अस्यार्थः ॥ अपि शब्दश्चेतनप्रवृत्त्याकर्षणार्थः। पयोंऽबुवत् यथाऽचेतनयोः पयोंऽबुनोः प्रवृत्तिर्दृष्टा तथा प्रधानस्याप्यस्त्विति चेन्न। कुतः। यतः। तत्रापि पयोंऽब्वादावपि अंततः ईश्वरादेव प्रवृत्तिः। न स्वतः प्रवृत्तिरित्यर्थः ॥

एवंचैतस्य वाऽक्षरस्य प्रशासन इति(बृ. 5-8-9.) श्रुत्या तत्रापीश्वरनिमित्तप्रवृत्तिसद्भावावगमात् तथा च पूर्ववाद्युक्तप्रत्यनुमानदृष्टांते पयोंऽब्वादौ सिद्धांत्यभिमतसाध्यस्यैव सत्वान्न तदनुमानस्य सत्प्रतिपक्षता न वा व्यभिचारः। अतो जन्मादिकारणत्वलक्षणं युक्तमिति सिद्धं ॥

<2-2-4>
%(4) ॐ ॥ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ॐ ॥%

ननु श्रुतिसामर्थ्येन पयोंऽबुनोः प्रवृत्तेरीश्वरधीनतया तत्र व्यभिचाराभावेऽप्ययस्कांतशिलादिरूपाचेतनांतस्य प्रवृत्तौ सिद्धायां भविष्यति तत्र व्यभिचारः। सेत्स्यति च प्रधानस्य स्वतः प्रवृत्तौ साध्यायामयस्कांतादिक्मेव निदर्शनं। उदाहरणनियमस्यानाश्रयणीयत्वादित्याशंकामपाकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ व्यतिरेकानवस्थितेश्चानपेक्षत्वादिति ॥% अस्यार्थः ॥ व्यतिरेकानवस्थितेः न ऋत इति (ऋ. 10-113-9.) श्रुत्या ईश्वरव्यतिरेकेण कस्यापि कर्मणः असत्त्वावगमात्। तत एवाचेतनस्यैव स्वतः प्रवृत्तिरिति निरीश्वरसांख्यमतस्याप्रामाणिकत्वात्। अतः एवानपेक्षत्वात्सद्भिरनादरणीयत्वान्न तद्विरोधो विष्णुकर्तृत्वस्येत्यर्थः ॥

एवंच न ऋते त्वत्क्रियत इति श्रुत्या सर्वस्यापीश्वराधीनत्वावगमात्। ईश्वरव्यतिरेकेण तं विना कस्यापि कर्मणोऽनवस्थितिश्रुतेरचेतनत्वहेतोः कुत्रापि व्यभिचाराभावात्। पूर्ववाद्युक्तानुमाने दृष्टांतालाभात्। सांख्यपरिकल्पितानुमानस्याप्रामाणिकत्वेन प्रमाणविरुद्धत्वेन च महाजनपरिगृहीतत्वाभावान्नानुमानपरिकल्पितं प्रधानं जगत्कर्तृ। अतो निरीश्वरसांख्यमतस्याप्रामाणिकत्वेन तद्विरोधाभावाद्युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥

॥ इति रचनानुपपत्त्याधिकरणं ॥

%2.अधिकरणं ॥%

अत्र सेश्वरसांख्यमतं. निराक्रियते।

<2-2-5>
%(5) ॐ ॥ अन्यत्राभावाच्च न तृणादिवत् ॥ ॐ ॥%

ननु नेश्वरस्य स्वातंत्र्येण कर्तृत्वं युक्तं। परमेश्वरानुगृहीतप्रधानादेव। पर्जन्यानुगृहीत पृथिव्या अंकुरोत्पत्तिवज्जगदुत्पत्तिसंभवात्। अतो नेश्वरस्य स्वातंत्र्येण जगत्कारणत्वलक्षणं युक्तमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अन्यत्राभावाच्च न तृणादिवदिति ॥% अस्यार्थः ॥ तृणादिवत् यथा पृथिवीजन्यतृणादिकार्ये पर्जन्यं सहकारिमात्रं तथा प्रकृतिजन्यमहदादिकार्येऽपीश्वरः अनुग्राहकः। न स्वतंत्र इति सेश्वरसांख्यपक्षोऽपि न। कुतः। अन्यत्राभावात्। ईश्वरादन्यत्र तत्प्रेरणां विना जगतोऽभावादीश्वरस्य प्रकृतिसत्तादिप्रदत्वाच्चेत्येर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। स्वातंत्र्येण तत्प्रेरणामंतरेण कस्यापि वस्तुनोऽभावात्। मूलकारणभूतायाः प्रकृतेरपि तदधीनसत्ताकत्वाच्च। अतः सेश्वरसांख्यमतस्याप्रामाणिकत्वेनाविरोधकत्वाद्युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥

॥ इति अन्यत्राभावाधिकरणं ॥

%3.अधिकरणं ॥%

अत्र लोकायतिकपक्षो निराक्रियते।

<2-2-6>
%(6) ॐ ॥ अभ्युपगमेऽप्यर्थाभावात् ॥ ॐ ॥%

ननु नेश्वरस्य स्वातंत्र्येण कर्तृत्वं युक्तं। अंतरेणापीश्वरं पूर्वस्मात्पूर्वस्मादुत्तरोत्तरोत्पत्तिसंभवात्। चैतन्योत्पत्तेरपि मदिरोत्पत्तिवत्स्वभावदेवोपपत्तेः। न च श्रुत्यादिबाधः। तस्या अप्रमाण्यात्। न च तस्या अप्रामाण्ये धर्माद्यसिद्धिप्रसंगः। अतींद्रियवस्तुनोऽभावेनेष्टत्वात्। अत इश्वराभावान्नेश्वरस्य जगत्कारणत्वलक्षणं युक्तमिति प्राप्ते सूत्रं पठति।

%॥ ॐ ॥ अभ्युपगमेऽप्यर्थाभावादिति ॥% अस्यार्थः ॥ नेत्यनुवर्तते। अनभ्युपगमेऽपि चार्वाकैः स्वशास्त्रस्य सिद्धांतत्वानभ्युपगमे सिद्धमस्मदिष्टं। अभ्युपगमेऽपि अर्थाभावात्। सिद्धांतत्वव्यापकयोः अर्थशब्दितविषयप्रयोजनयोः असत्त्वांगीकारात् स्वव्याघातः स्यादिति न तत्पक्षोऽपि युक्त इत्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। चार्वाकसमयस्य विषयप्रयोजनादिशून्यत्वेनाप्रमाणत्वेन विरोधाभावात्। तथाहि। न तावत्तत्समयस्यातींद्रियो विषयः। तदभावात्। नाप्यैंद्रियकं। तस्य प्रत्यक्षसिद्धत्वेन शास्त्रानपेक्षणात्। नापि स्वर्गापवर्गादि श्रोतृफलं। तदलाभात्। नापि दृष्टं धनादि। तस्य कृष्यादिलघूपायसाध्यत्वात्। नापि प्रणेतुः प्रयोजनं। न च धर्माद्यभावप्रतिपादनद्वारा लोकोपकारः प्रयोजनमिति वाच्यं। धर्माद्यभावज्ञाने परस्परहिंसादिनाऽपकारस्यैव प्राप्तेः। नाप्युपकारः स्वतः प्रयोजनं। सुखदुःखावाप्तिहानिरूपत्वाभावात्। न वा तेनापि किंचित्साध्यं प्रयोजनं। एवं विधेऽधिकारी दूरोत्सारितः। तदभावादेव संबंधोऽपि अतश्चार्वाकसमयस्याप्रामाणिकत्वाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥

॥ इति अभ्युपगमाधिकरणं ॥

%(7) ॐ ॥ अधिकरणं ॥%

अत्र पुरुषोपसर्जनप्रकृतिकर्तृवादो निराक्रियते।

<2-2-7>
%(7) ॐ ॥ पुरुषाश्मवदिति चेत्तत्रापि ॥ ॐ ॥%

ननु न हरेर्जगत्कारणत्वं युक्तं। चेतनोपसर्जनशरीरस्याश्मानयनादिकर्तृत्वदर्शनेन पुरुषोपसर्जनप्रधानेनैव जगदुत्पत्तिसंभवात्। प्रधानं चेतनसंनिधानात्स्वतः प्रवृत्तिमत् अचेतनत्वात् शरीरवदिति मानसद्भावात्। अत ईश्वरस्यैवाभावाज्जगत्कारणत्वलक्षणं तस्यैवेत्येतद्‌दूरोत्सारितमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ पुरुषाश्मवदिति चेत्तत्रापीति ॥% अस्यार्थः ॥ पुरुषाश्मवत् यथा पुरुषसंबंधादचेतनं शरीरं अश्मानयनादौ प्रवर्तते तथाऽचेतनप्रकृतिः चेतनसंबंधात्प्रवर्तत इति चेन्न। कुतः। यतः तत्रापि शरीरप्रवृत्तावपि चेतनस्य ईश्वरस्यैव कर्तृत्वेन दृष्टांताभावः अत इत्यर्थः ॥

एवंच युक्तमेव हरेर्जगत्कारणत्वं। पुरुषोपसर्जनप्रकृतेर्जगत्कारणत्वसाधने दृष्टांताभावात्। न च शरीरमेव दृष्टांत इति वाच्यं। न ऋते त्वत्क्रियत इति (ऋ. 10-113-9.) श्रुत्या शरीरप्रवृत्तावपि परमात्माधीनत्वेन दृष्टांतस्य साध्यविकलत्वात्। ततश्च मतांतरविरोधाभावेन युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥

<2-2-8>
%(8) ॐ ॥ अंगित्वानुपपत्तेः ॥ ॐ ॥%

एवं श्रुतिलक्षणहेतुना दृष्टांते साध्यवैकल्यमभिधाय हेत्वंतरेण दृष्टांते साध्यवैकल्योपपादनाय सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अंगित्वानुपपत्तेरिति ॥% अस्यार्थः ॥ पुरुषास्यांगत्वेंऽगीकृते सति अंगमंगीति वाक्ये अंगित्वस्य प्राधान्यस्य उक्त्त्यनुपपत्तेः। न पुरुषोपसर्जनप्रकृतिकर्तृत्वपक्षे दृष्टांतोऽस्तीत्यर्थः ॥

एवंच यदि पुरुषोपसर्जनं शरीरमेव कर्तृ स्यात्तर्हि पुरुषोँऽगी शरीरमंगमिति प्रामाणिकलौकिकव्यवहारो न स्यात्। अस्ति चासौ। अतो नायं दृष्टांतः। तस्मात्पुरुषसंवलितशरीरस्यैव स्वतः प्रवृत्तावुच्यमानायां पुरुषस्यांगत्वाप्रधानत्वावश्यं भावादंगमिति स्मृतौ पुरुषस्यांगित्वव्यवहारः शरीरं प्रति प्राधान्यव्यवहारोपदेशोऽनुपपन्नः स्यात्। एवं दार्ष्टांतिकेऽपि पुरुषस्य प्रधानांगत्वापत्त्यांऽगित्वव्यवहारानुपपत्तिः। तथा च दृष्टांताभावो बाधश्च दर्शिते। अतो मतांतरविरोधाभावेन युक्तं जगत्कारत्णवलक्षणमिति सिद्धं ॥
॥ इति पुरुषाश्माधिकरणं ॥

%5.अधिकरणं ॥%

अत्र प्रकृत्युपसर्जनपुरुषकृर्तृवादो निराक्रियेत।

<2-2-9>
%(9) ॐ ॥ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॥ ॐ ॥%

ननु न हरेर्जगत्कारणत्वं युक्तं। प्रधानोपसर्जनपुरुषादेव जगदुत्पत्तिसंभवेनेश्वरवैयर्थ्यात्। तथा च प्रयोगः। विमता प्रवृत्तिः अचेतनोपसर्जनपुरुषाधीना प्रवृत्तित्वात् अश्मानयनादिप्रवृत्तिवदिति। अतो न जगत्कारणत्वलक्षणं युक्तमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगादिति ॥% अस्यार्थः ॥ शब्देनांगित्वानुपपत्तेरित्यस्य समाकर्षः। यथा प्राचीनपक्षान्यप्रकारेण प्रकृत्युपसर्जनपुरुषकर्तृत्वस्यानुमितौ साधनेऽपि। ज्ञशक्तिवियोगात्। ज्ञस्य जीवस्य शरीरसंबंधार्थं प्रवृत्तिशक्तिवियोगात् आंगित्वानुपपत्तेरेवेत्यर्थः ॥

एवंच युक्तमेवेश्वरस्य जगत्कारणत्वं। प्रकृत्युपसर्जनपुरुषस्य कर्तृत्वे मानाभावात्। अथ मतं। प्राचीनमतादन्यथाऽनुमितमिति। तथा सति दृष्टांते साध्याभावात्। केवलस्य प्रवृत्तिशक्तेरंगीकारे शरीरवैयर्भ्यं। नोचेच्छरीरसंबंधाभावप्रसंगेनाश्मानयनादिप्रवृत्तिर्न स्यात्। अस्ति चासौ। अतः पुरुषस्य शरीरसंबंधघटकोऽश्मानयनादिशक्तिप्रद ईश्वरोंऽगीकार्य इति कथं न दृष्टांतः साध्यविकलः। अतो जगत्कारणत्वलक्षणं युक्तमिति सिद्धं ॥

<2-2-10>
%(10) ॐ ॥ विप्रतिषेधाच्चासमंजसं ॥ ॐ ॥%

एवं प्रत्येकं दूषितान्यनीश्वरमतानि सामान्यदूषणेनापि निराकुर्वत्सूत्र पठति ॥

%॥ ॐ ॥ विप्रतिषेधाच्चासमंजसमिति ॥% अस्यार्थः ॥ विप्रतिषेधात् सकलश्रुतिस्मृतियुक्तिविरुद्धत्वादनीश्वरमतं असमंजसं अयुक्तमित्यर्थः ॥

एवंच द्यावाभूमी जनयन् (श्वे.. 3-3.)। यतो वा (तै. 3-1.)। य सर्वज्ञ (मुं. 1-1-9.) इत्यादिश्रुतीनां उत्पत्तिस्थितिसंहाराः। स्रष्टा पाता तथैवात्ता। इत्यादि स्मृतीनां। विमतं सकर्तृकं कार्यत्वात्। चिच्चैत्त्ये केनचिन्नियेतेऽस्वतंत्रत्वात्। इत्यादियुक्तीनां च विरोधेन प्रकृतिस्वातंत्र्यादिरूपमर्थं वदतोऽन्योनीचो नास्तीति (पाद्मे.) वचनात्। ततश्च सकलश्रुतिस्मृतियुक्तिविरुद्धत्वात्सर्वमप्यनीश्वरमतमप्रमाणं। अतो न सांख्यादिमतविरोधेन न लक्षणासंभव इति सिद्धं ॥

॥ इति अन्यथाऽनुमित्यधिकरणं ॥

%6.अधिकरणं ॥%

अत्र परमाण्वारंभवादोऽपाक्रियते।

<2-2-11>
%(11) ॐ ॥ महद्दीर्घवद्वा ह्रस्वपरिमंडलाभ्यां ॥ ॐ ॥%

ननु द्रव्यादिपदार्थाः सप्तैव। तत्र द्रव्याणि पृथिव्यादिनवैव। गुणास्तु रूपादिचतुर्विंशतिरेव। कर्म चोत्क्षेपणादिपंचविधं। सामान्यमनेकविधं। जातिरूपमुपाधिरूपं च समवायस्त्वेक एव। विशेषास्त्वनंताः। एतत्त्रितयं नित्यमेव। तत्रानित्यं कारणत्रितयजन्यं। यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणं। परमाण्वादिद्रव्यमेव। तत्र परमाणवो द्व्यणुकादिक्रमेणावयविनमारभंते। समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यसमवायिकारणं। तत्र कार्यद्रव्यस्यावयवसंयोग एव कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणं भवति। कारणगुणकर्म च कार्यगुणानां कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणं। कर्मणश्च कारणगतगुणकर्मणि कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणं। तत्र परिमाणं कारणगतं। कार्यगतपरिमाणस्थासमवयिकारणं भवति। परमाणुद्‌व्यणुकतूलगतं परिमाणं न द्‌व्यणुकत्र्यणुकतूलपिंडगताः परिमाणाः असमवायकारणं। किंतु द्‌व्यणुकत्र्यणुकगतसंख्ययैव। तूलपिंडपरिमाणं तु प्रचयेन भवति। एतदन्यत्कारणं निमित्तं। ईश्वरादृष्टकालादि। तत्रेश्वर आत्मविशेषः। आत्मा च संख्यादिचतुर्दशगुणयुक्तः। परमेश्वरस्तु संख्यादिपंचगुणकः। कर्तृत्वोपयोगिज्ञानेच्छा प्रयत्नशाली च शिष्टषड्‌गुणायोग्य इति कथं तस्यानंतगुणक्त्त्वं युक्तं। अतो व्यर्थ एव पूर्वाध्याय इति प्राप्ते सूत्रितं।

%॥ ॐ ॥ महद्दीर्घवद्वा ह्रस्वपरिमंडलाभ्यामिति ॥% अस्यार्थः ॥ महद्दीर्घवत् वैशेषिकमते त्र्यणुकादिगतान्महत्त्वात् दीर्घत्वाच्च चतुरणुकादिगतपरिमाणमुत्पद्यते। तथा ह्रस्वपरिमंडलाभ्यामपि द्व्यणुकपरमाणूभयगत ह्रस्वत्त्वपारिमांडिल्यपरिमाणाभ्यामपि त्र्यणुकद्व्यणुकगतपरिमाणोत्पत्तिः स्यादित्यर्थः ॥ अन्यथा महत्त्वदीर्घत्वाभ्यामपि कार्योत्पत्तिर्न स्यादिति वा शब्दार्थः। तस्माद्वैशेषिकमतमनुपपन्नमिति भावः ॥

एवंच युक्तमेव हरेरनंतगुणपरिपूर्णत्वलक्षणं। वैशेषिकादीनामनुपपन्नभाषित्वेन तत्समयस्याप्रामाणिकत्वात्। यच्चोक्तं। ह्रस्वाणुपरिमाणयोर्नासमवायिकारणत्वमिति। तन्न। तथासति महत्त्वदीर्घत्वयोरपि तदभावापातात्। महद्दीर्घपरिमाणयोः कारणत्वेऽनयोरपि तत्साम्यात्। अविशेषात्। तस्मादुत्पत्तिविरुद्धत्वान्न तयोरसमवायिकारणत्वं। किंत्वेतयोरेवेति वैशेषिकाद्युक्तमसमंजससमेवेति न तद्विरोध ईश्वरानंतगुणत्वस्येति युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-12>
%(12) ॐ ॥ उभयथाऽपि न कर्मातस्तदभावः ॥ ॐ ॥%

एवं वैशेषिकादिमते महत्त्वदीर्घत्वादेरसमवायिकारणत्वखंडनरीत्यासमवायिकारणमात्रं निरस्तं भवतीत्यमिप्रेत्य निमित्तकारणमप्येवं निराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ उभयथाऽपि न कर्मातस्तदभाव इति ॥% अस्यार्थः ॥ उभयथाऽपि ईश्वरेच्छया नित्यत्वानित्यवरूपपक्षद्वयेऽपि। न परमाणुषु क्रियोत्पत्तिसंभवः। अतस्तदभावः तस्मिन्द्व्यणुकादिकार्याभावः स्यादित्यर्थः ॥

एवंचेश्वरेच्छा निमित्तकारणमिति चेत्। सा किं नित्याऽनित्या वा। उभयथाऽपि न परमाणुकर्म संभवति। यदीश्वरेच्छा नित्या तर्हि प्रलये सत्यामपि तस्यां परमाणुचेष्टाभावेनाऽन्यदाऽपि तदभावः। अथानित्या तत्कारणाभावेनेश्वरेच्छानुत्पत्त्या परमाणुकर्माभावः। न च वाच्यं पूर्वकल्पीयेच्छाऽनित्याऽपि यागवन्निमित्तमिति। प्रमाणाभावात्। अथ नेश्वरेच्छा कारणं तदेवास्तु। तर्ह्यन्यत्रापि कारणं न स्यात्। स एव परमते परमाणुकर्माभावेन संयोगाभावाद्‌व्यणुकादिकार्याभावः। वैदिकेश्वरपक्षे तु सत्यामपीश्वरेच्छायां सर्वं कार्यानुत्पादिकमीश्वराचिंत्यशक्तित एवोपपद्यते। न च परपक्षे सममेतत्। तस्यानुमानगम्येश्वरत्वेन वेदैकगम्येश्वरत्वाभावात्। अतो वैशेषिकाद्युक्तस्यासामंजस्येन युक्तं हरेरनंतगुणत्वलक्षणमिति सिद्धं ॥

<2-2-13>
%(13) ॐ ॥ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ ॐ ॥%

एवं वैशेषिकादिपक्षे निमित्तकारणासंभवं दर्शयित्वा समवायिकारणमपि निराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ समवायाभ्युपगमाच्च साम्यादनवस्थितेरिति ॥% अस्यार्थः ॥ वैशेषिकैः अवयवावयव्यादीनां भिन्नत्वनिमित्तेन समवायाभ्युपगमात् समवायसंबंधांगीकारात्। साम्यात् समवाय्यसमवायिनोरपि भिन्नत्वसाम्यात्। तत्रापि समवायाभ्युपगमे अनवस्थितेः। अनवस्थानाच्च तन्मतमयुक्तमित्यर्थः ॥

एवंच यदपि परमाण्वादिद्रव्यं समवायिकारणमिति। तन्न। अवयवावयविनोर्भिन्नत्वमंगीकृत्य विशेषणविशेष्यभावोपपत्तये समवायाभ्युपगमात्। समवायस्यापि भिन्नत्वसाम्येन मृद्धटसमवाय इत्यादिविशेषणविशेष्यभावोपपत्तये समवायांतरापेक्षा स्यात्। तत्राप्येवमित्यनवस्थानात्। मूलभूतावायवावयव्यादिसंबंधस्यैवासिध्या तदसिद्धिः। तेषां प्रथमसंबंधसिध्यर्थमभ्युपगंतव्यानां संबंधांतराणां सुतरामसिद्धेः। समवायस्य स्वनिर्वाहकत्वे स्वस्मिन्स्वयमेव विशेषणविशेष्यभावबुद्धिजनकत्वेंऽगीकृते समवायासिद्धेः। गुणगुण्यादिभेदं तत्समवायं चांगीकृत्य तत्स्वनिर्वाहकत्वकल्पनापेक्षया लाघवेन गुणगुण्यादेरभेदमंगीकृत्यैकस्य द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तौ समवायवैयर्थ्यात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-14>
%(14) ॐ ॥ नित्यमेव च भावात् ॥ ॐ ॥%

एवं परमते कारणत्रयनिरासेन सृष्टिं निरस्य प्रलयनिरासार्थं प्रवृत्तं सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ नित्यमेव च भावादिति ॥% अस्यार्थः ॥ दोषसमुच्चये चः। ईशेच्छापरमाण्वादिकारणानां सदात्वात्। वैशेषिकमते नित्यमेव सर्वदैव। भावात् कार्योत्पत्तिः स्यात्। न तु कदाचिदित्यर्थः ॥

एवंच परमते लयासंभवः। समवायिकारणासमवायिकारणनिमित्तकारणानां सद्भावेन कार्यानुत्पादे कारणाभावात्। समवायिकारणपरमाणूनां सदातनत्वे समवायस्यैव जनित्वांगीकारे सर्वं कार्यं नित्यं जनिमदेव स्यात्। समवायिकारणादिसत्वे कायोत्पत्त्युपरमे कदाऽपि तस्मात्कार्योत्पत्तिर्न स्यात्। सति पुष्कलकारणे कार्यानुत्पादे तस्य तत्कारणत्वायोगात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-15>
%(15) ॐ ॥ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ ॐ ॥%

एवं परमाणूनां नित्यत्वमुभ्युपेत्य तदारंभकवादो दूषितः। इदानीं नित्यत्वमपाकुर्वत्सूत्रमुपन्यस्याति ॥

%॥ ॐ ॥ रूपादिमत्त्वाच्च विपर्ययो दर्शनादिति ॥% अस्यार्थः ॥ किंच वैशेषिकमते पार्थिवाप्यतैजसपरमाणूनां रूपादिमत्त्वात्। विपर्ययः नित्यत्वविपरीतानित्यत्वं स्यात्। कुतः। दर्शनात् यद्रूपादिमत्तदनित्यमिति व्याप्तेः घटादौ दृष्टत्वादित्यर्थः ॥

एवंच वस्तुतस्तु न परमाणूनां नित्यत्वमुपपद्यते। प्राकृतरूपत्वेनावश्यं भावात्। दृश्यते खलु लोके यत्प्राकृतरूपादिमत्तदनित्यमिति। पार्थिवाप्यतैजसपरमाणूनां भौतिकरूपरसगंधस्पर्शवत्त्वादनित्यत्वं। ततश्च परमाणूनां नित्यत्वाभावेनोक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-16>
%(16) ॐ ॥ उभयथा च दोषात् ॥ ॐ ॥%

ननु यद्रूपादिमत्तदनित्यमिति सामान्यव्याप्तिः। यन्निरवयवं द्रव्यं तन्नित्यमिति विशेषव्याप्तिर्बलवती। अतस्तया बाधितत्वेन रूपादिमत्त्वं परमाणूनामनित्यत्वं न साधयेत्। अस्तु वा परमाणूनां सादित्वं। तथाऽपि न द्व्यणुकादिकार्याभावः। पारमाणूनां कारणांतरेणोत्पत्तौ तेभ्यो द्‌व्यणुकाद्युत्पत्तिसंभवादिति प्राप्ते पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ उभयथाच दोषादिति ॥% अस्यार्थः ॥ वैशेषिक उभयथा च मरमाणुनित्यत्वानित्यत्वरूपपक्षद्वयेऽपि। दोषात् तद्वत्सर्वनित्यत्वकारणाभावनिमित्तकतदुत्पत्तिभावस्य दोषसत्त्वात् न तत्पक्षो युक्त इत्यर्थः ॥

एवंच यदुक्तं। यद्रूपादिमत्तदनित्यमिति सामान्यव्याप्तिरिति। तन्न। रूपादिमत्यनित्यत्वापवादकस्य विशेषप्रमाणस्याभावात्। न च निरवयवत्वं विशेषप्रमाणं। रूपादिमत्त्वेन परमाणौ तदभावस्यापि साधयितुं शक्यत्वात्। यदप्यनित्यत्वे दोषाभाव इति। तन्न। त्वन्मते परमाणूनां कारणासंभवेनानुत्पत्तौ द्‌व्यणुकादिकार्यानुत्पत्तिप्रसंगलक्षणबाधकसद्भावात्। एवं पक्षद्वयेऽपि दोषदुष्टत्वेन युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-17>
%(17) ॥ ॐ ॥ अपरिग्रहाच्चात्यंतमनपेक्षा ॥ ॐ ॥%

एवं प्रपंचेन दूषितं परमाण्वारंभवादमप्रामाणिकत्वेनापि दूषयत्सूत्रमाह ॥

%॥ ॐ ॥ अपरिग्रहाच्चात्यंतमनपेक्षेति ॥% अस्यार्थः ॥ अपरिग्रहात् वैशेषिकमतस्य श्रुत्यादिपरिग्रहशून्यत्वात् तद्विरुद्धत्वाच्च। तत्रात्यंतमनपेक्षा अनादरः कार्य इत्यर्थः ॥

एवंच वैशेषिकमतस्य सकलश्रुतिस्मृत्याद्यपरिगृहीतत्वात्तद्विरुद्धत्वाच्च। प्रधानकारणत्ववादापेक्षयाऽतिशयेनानादरणीयत्वात्। आन्वीक्षकीमिति मोक्षधर्मवचननिंदितत्वाच्च। अतः परमाण्वारंभवादस्यानुपपन्नत्वेनाविरोधाद्युक्तं पूर्वाध्यायोक्तमीश्वरस्यानंतगुणपूर्णत्वमिति सिद्धं ॥

॥ इति वैशेषिकाधिकरणं ॥

%7.अधिकरणं ॥%

अत्र परमाणुपुञ्जवादिमतमपाक्रियते।

<2-2-18>
%(18) ॐ ॥ सुमुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ ॐ ॥%

ननु न विष्णोर्जगत्कारणत्वं युक्तं। वैभाषिकसौत्रांतिकमत विरुद्धत्वात्। रूपविज्ञानवेदनासंज्ञासंस्काररूपेणावस्थितं खलु जगत्परमार्थसत्तदशेषं परमाणुसमुदायात्मकं। नत्ववयवी नाम कश्चिदस्ति। परमाणुसमुदाय एव घटादिबुध्द्युपपत्तौ परमाणुपरिमाणस्य तदारब्धस्य वाऽवयविनोऽभ्युपगमस्य व्यर्थत्वात्। विद्यमानं च सर्वं क्षणिकमेव। असत्त्वस्य क्षणिकत्वव्याप्त्यभावात्। व्यापकाभावे व्याप्यायोगात्। तच्चैतत्कार्यजातं कालकर्मरूपनिमित्तेनैव भवति। नोपादानापेक्षा। ततः पूर्व पूर्व परमाणूनां विनाशेनोपादानाभावेप्युत्तरोत्तरपरमाणूनां सृष्टिः कालकर्मादिनैव भवतीति किमीश्वरेण कृत्यं। नचेश्वरे प्रमाणमस्ति। वेदादेरप्रमाणत्वात्। अत ईश्वरस्यैवाभावेन तस्य जन्मादिकारणत्वमयुक्तमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ समुदाय उभयहेतुकेऽपि तदप्राप्तिरिति ॥% अस्यार्थः ॥ यतः समुदायै परमाणुसमुदायेऽनेकत्वसंख्यारूपे मिलितानेकपरमाणुनिमित्तकेंऽगीकृते सत्यपि विरलानेकहेतुके वांऽगीकृते सति। तदप्राप्तिः तस्य समुदायस्य विरलानेकहेतुकस्याप्राप्तिः अनुपपत्तिः। कुतः। अन्योन्याश्रयादिदोषादिति शेषः। तदुपपादितं टीकायां। अतः परमाणुपुंज एव घटावयवीति बौद्धपक्षोऽपि न क्षम इत्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वाभिधानं। वैभाषिकसौत्रांतिकयोरनुपपन्नभाषित्वेन तत्समयस्याप्रामाण्यात्। यदुक्तं। कालकर्मादिनिमित्तेन क्षणिकपरमाणुनिमित्तकः समुदायो भवति नत्ववयवी कश्चिदस्तीति। तन्न। तत्र किमयं समुदाय एकपरमाणुहेतुको वाऽनेकपरमाणुहेतुको वेति। नाद्यः। एकस्मात्समुदाय इत्यस्य व्याहतत्वात्। द्वितीयेऽपि किं मिलितानेकहेतुको विरलानेकहेतुको वा। नाद्यः। मेलनस्यैव समुदायत्वेनात्माश्रयात्। समुदायद्वयस्य कार्यकारणभावांगीकारेऽन्योन्याश्रयात्। व्यक्तिबाहुल्यांगीकारेऽनवस्थानात्। नोत्तर। विरलपरमाणुप्रवाहस्य सदा सद्भावेन समुदायरूपकार्यविरलात्मकप्रलयाभावप्रसंगात्। अतो समुदायस्य प्राप्त्यभावेन गोघटादिबुद्धिवेद्यो नत्ववयवी कश्चिदस्तीति पक्षस्यायुक्तत्वेन युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥

<2-2-19>
%(19) ॐ ॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ ॐ ॥%

नन्वस्त्वेव सदा समुदायोत्पत्तिः। तथाऽपि न प्रलयाभावः। वित्तिव्यवहाराभावादेव प्रलयोपपत्तिरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ इतरेतरप्रत्ययत्वादिति चेन्नोप्तत्ति मात्रनिमितत्वादिति ॥% अस्यार्थः ॥ ननु परमाणुपुंजस्य सदा सत्त्वेऽपि नास्मत्पक्षे प्रलयानुपपत्तिः। कुतः। तद्व्यवहारादेरितरेतरप्रत्ययत्वात्। इदमिदंचेति परमाणुपरस्परापेक्षाबुद्धिनिमित्तकत्वात्। तथा च तादृशबुध्यभावकाले समुदायव्यवहारादेरसत्तवात्प्रलयोपपत्तिरित चेन्न। कुतः। उत्पत्तिमात्रनिमित्तत्वात् परमाणूनां स्वसमुदायोत्पत्तिमात्रनिमित्तत्वात्। न तेभ्योऽपेक्षाबुध्द्यादेरप्युत्पत्तिः संभवतीति मात्र शब्दार्थः। तथा च तन्निमित्तकव्यवहारादिः क्षणिकमते न कदाऽपि संभवतीत्यर्थः ॥

एवंच वित्तिव्यवहारयोः कदाऽप्ययोगेन सृष्ट्यभावप्रसंगात्। तथाहि। आदौ परमाणूनां दर्शनंततोऽपेक्षा ततो व्यवहार इति क्रमः। नचासावुपपद्यते। परमाणूनां क्षणिकत्वेन कार्यमुत्पाद्य नष्टत्वात्। न ह्यन्यत्र प्रदर्शनमन्यत्रापेक्षाऽन्यत्र व्यवहार इति संभवति। अतिप्रसंगात्। एवं पुरुषेऽपि विरलपरमाणुजन्यानां मिलितपरमाणूनां स्थायित्वाभ्युपगमे प्रतिक्षणे कार्योत्पादप्रसंगः। तथा चाल्पतरकालेऽप्येकैकस्मात्परमाणुपुंजात्मकघटादनेककार्योत्पत्त्याकुलालशालापरिपूर्तिप्रसंगः। अतो युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥

<2-2-20>
%(20) ॐ ॥ उत्तरोत्पादे च पूर्वनिरोधात् ॥ ॐ ॥%

एवं विरलपरमाणुभ्यो मिलितपरमाणूत्पत्तिमभ्युपेत्य व्यवहाराद्यसंभवो दर्शितः। अथ विसदृशकार्योत्पत्तिमपि पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ उत्तरोत्पादे च पूर्वनिरोधादिति ॥% अस्यार्थः ॥ चोऽवधारणे। समुच्चये च। नेत्यनुवर्तते। सामर्थ्यादिति शेषः। तथा च न केवलं क्षणिकमते समुदायव्यवहारानुपपत्तिः। किंतु विशेषकार्योत्पत्तिश्च न युक्ता। कुतः। उत्तरोत्पादे च कारणस्य सदृशकार्यजननसामर्थ्यात्तेनकारणं प्रथमं स्वसदृशमुत्पाद्य पश्चाद्विसदृशकार्यमुत्पाद्यतां कोदोष इत्यतोऽप्याह। उत्तर इति। तथा च उत्तरस्य स्वसदृशकार्योत्पादे उत्पत्तौ सत्यामेव। पूर्वनिरोधात् पूर्वस्य कारणस्य नाशात् पुनर्विसदृशकार्यजनकत्वासंभव इत्यर्थः ॥

एवंच परमते विशेषकार्योत्पत्त्यसंभवः। कार्यस्यस्वसदृकार्यजनकत्वस्वाभाव्यात्। अन्यथा घटात्पटोत्पत्तिप्रसंगात्। न च स्वसदृशकार्यमुत्पाद्य पश्चाद्वैसादृश्यमपिजनयतीति वाच्यं। कार्योत्पादे तस्य नष्टत्वेन वैसादृश्यजननायोगात्। अतो जगत्कारणत्वलक्षणं युक्तमिति सिद्धं ॥

<2-2-21>
%(21) ॐ ॥ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ ॐ ॥%

एवं विसदृशकार्योत्पत्तिनिरासेन व्यवहारादिकं पराकृत्येदानीं प्रतिक्षणकार्योत्पत्तिमेव निराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथेति ॥% अस्यार्थः ॥ क्षणिकमते न प्रतिक्षणं कार्योत्पत्तिर्युज्यते। कुतः। असति कारणे कार्यमुत्पद्यत इत्यंगीकारे। प्रतिज्ञोपरोधः तस्य तत्कार्यत्वमिति प्रतिज्ञाय सिद्धांतव्यवहारस्योपरोधो हानिः स्यात्। अन्यथा कारणे सति कार्यमुत्पद्यत इत्यंगीकारे। यौगपद्यं कारणेन सह कारणानां एकदाऽवस्था प्रसज्जतेत्यर्थः ॥

एवंच प्रतिक्षणं कार्योत्पत्त्यंगीकारे किमसति कारणे कार्यमुत्पद्यते। उत सति। आद्ये प्रतिज्ञाहानिः। द्वितीय प्रथमक्षणोत्पन्नानां विरलपरमाणूनां कार्योत्पत्तिसमयेऽपि भावे क्षणिकत्वनियमाभावेन विनाशकसंपत्तिपर्यंतमवस्थानं स्यात्। तन्मतेच कारणे सति कार्यं भवत्येवेति नियमात्पुनः पुनः कार्योत्पत्तिः स्यादिति सकलकार्याणां यौगपद्यं स्यात्। ततश्चैकस्यां घटिकायां कुलालशालापूर्तिप्रसंगः। यद्वा। परमाणूनां क्षणिकत्वेन यस्मिन्क्षणे परमाणवस्तस्मिन्नेव क्षणे कार्यमिति कार्यकारणयोः पौर्वापर्यं न स्यात्। न च क्षणे पूर्वापरमध्यभागोऽस्ति। येन प्रथमभागे परमाणूत्पत्तिः। द्वितीयभागे तु कार्यजनकत्वमिति स्यात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-22>
%(22) ॐ ॥ प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ ॐ ॥%

एवं क्षणिकवादे कार्योत्पतिं निराकृत्य विनाशं च निराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदादिति ॥% अस्यार्थः ॥ एवं क्षणिकमते प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिः प्रतिसंख्याऽप्रतिसंख्यानिरोधयोः प्रतिक्षणविनाशसंतानाविनाशयोः अप्राप्तिः अनुपपत्तिः। कुतः। अविच्छेदात् तद्रीत्या कार्योऽत्पत्तावकार्याणां चाविच्छिन्नत्वादित्यर्थः ॥

एवंच परमते विनाशो न युज्यते। तन्मते विनाशो द्विविधः। कार्यमुत्पाद्य तदपहाय तत्क्षणे नाशः। तस्याप्येवमेवमिति प्रतिक्षणं नाशः। स एव संतानविनाशोऽप्रतिसंख्यानिरोध इति गीयते। संतानं विनैव कारणस्य नष्टत्वात्। अपरस्तु कार्यमुत्पाद्य तेन सहैव मुद्गरप्रहरादिनाक्षणमात्रे नाशः। स एव संताननाशः प्रतिसंख्यानिरोध इति च गीयते। तत्राद्यस्तावन्नयुज्यते। कार्यमुत्पाद्य तत्परित्यागसमये सत्त्वेन ततश्च कार्यजनकत्वमिति नियमात्कार्यमेवोत्पादयेन्न नश्येत्। तद्वियोगसमयेऽप्येवमिति न कदापि निःसंतानो नाशः। नापि संतानविनाशो युज्यते। सतो घटस्य ह्यात्यंतिको विनाशः। अतोऽसौ सत्त्वात्कार्यमुत्पादयेन्न तु नश्येत्। एवमुत्तरत्रापि सत्त्वात्कार्यमेवोत्पादयेन्न तु नश्येदिति ससंतानोच्छेदावसराभावात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-23>
%(23) ॐ ॥ उभयथा च दोषात् ॥ ॐ ॥%

नन्वथाऽपि सतां भावपदार्थानां क्षणिकत्वं निषेद्भुं न शक्यं। सत्त्वं नामार्थक्रियाकारित्वं। न च णिकतामंतरेण तदुपपन्नं। यदि घट आद्यक्षणे घटांतरमुत्पाद्य स्वयं न नश्येत्तर्हि द्वितीयादिक्षणे घटांतरमपि जनयेत्। घटांतराण्यपि तथेत्यनंतकार्यापातः। तस्मादर्थक्रियाकारित्वरूपसत्त्वसिध्यै भावानां क्षणिकत्वमेष्टेव्यमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ उभयथा च दोषादिति ॥% अस्यार्थः ॥ उभयथा कारणे सति कार्यं भवत्येवेति नियमपक्षे तदभावपक्षे च। दोषसत्त्वात् कार्यकारणविशेषकार्यानुत्पत्त्याख्यदोषात्। नान्यतरपक्षावलंबेनार्थापत्त्या क्षणिकपक्षो युक्त इत्यर्थः ॥

एवंच भावानां क्षणिकत्वांगीकारे तत्रार्थक्रियाकारित्वं सत्त्वं। तदन्यथाऽनुपपत्त्या क्षणिकत्वमिति वदता कारणे सति कार्यं भवत्येवेति यो नियम आश्रितः स किं वास्तवो न वा। आद्ये कार्यकारणयोः सव्येतरविषाणवत्समानकालीनत्वेन कार्यकारणभावो न स्यात्। द्वितीये प्रथमक्षणे कार्यानुत्पादकत्वे नार्थक्रियाकारित्वाभावादसत्त्वं स्यात्। ततः कदाऽपि कार्योत्पत्तिर्न स्यात्। ततश्च सत्त्वान्यथाऽनुपपत्त्या कल्प्यमानं क्षणिकत्वं च न स्यात्। अनेन परपक्ष एवोभयथा दोषसत्त्वादस्मत्पक्षे दोषाभावादिति मंतव्यं। अतो युक्तं लक्षणसूत्रमिति सिद्धं।

<2-2-24>
%(24 ॐ ॥ आकाशे चाविशेषात् ॥ ॐ ॥%

ननु माभूदर्थापत्त्या क्षणिकत्वसिद्धिः। यत्सत्तत्क्षणिकं। यथा दीपादि। संतश्चामी भावाः पदार्था इत्यनुमानेन सेत्स्यति। न च वाच्यं दृष्टांतस्य साध्यविकलतेति। यद्विरुद्धधर्माधिकरणं तन्नाना यथा घटपटौ। तथा चायं दीपः पूर्वोत्तरक्षणविरुद्धधर्माधिकरणं विशेषदर्शनादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ आकाशे चाविशेषादिति ॥% अस्यार्थः ॥ चोऽप्यर्थे। दीपदृष्टांतेन सत्त्वहेतुना जगति क्षणिकत्वसाधने आकाशदृष्टांतेनाक्षणिकत्वस्यापि साधनापातः। ननु दृष्टाते साध्यवैकल्यमित्यत उक्तं। आकाशे अविशेषादिति। क्षणिकत्वसाधकत्वेन परोक्तपरिमामविशेषादर्शनादित्यर्थः ॥ तथा च सत्प्रतिपक्षोऽयं हेतुरिति न तेन क्षणिकत्वसिद्धिरिति भावः ॥

एवंच यत्सत्तदक्षणिकं यथाऽऽकाशमित्यक्षणिकत्वस्यापि साधयितुं शक्यत्वात्। न चाकाशे साध्याभावः। विशेषदर्शनाभावेन क्षणिकत्वसाधकाभावात्। न च हेत्वंतरेण तत्सिद्धिः। पंचमस्कंधातिरिक्तत्वेन तत्र तदनभ्युपगमात्। आकाशे सत्त्वं नास्तीति चेत्। किमिदं सत्त्वं यदाकाशे नास्ति। अर्थक्रियाकारित्वं चेत्। त्वन्भते पूर्वोक्तरीत्या कस्याप्यर्थाक्रियाकारित्वाभावेनासिद्धिः। साधनविकलता च निदर्शनस्य। अथ स्वरूपेणेति विद्यमानताऽभावरूपता वा। साप्याकाशेऽस्त्येवेति व्यभिचारो दुष्परिहारः। अतः सत्त्वहेतोः स्वेनैव प्रतिपक्षितत्वान्नानेनापि क्षणिकत्वसिद्धिः। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-25>
%(25) ॐ ॥ अनुस्मृतेश्च ॥ ॐ ॥%

एवं प्रतिपक्षेण सत्त्वानुमानं निरस्य प्रमाणबाधेनापि निराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अनुस्मृतेश्चेति॥% अस्यार्थः ॥ तदेवेदमिति प्रत्यभिज्ञानाच्च तद्विरोधात् न सत्त्वहेतुना क्षणिकत्वसाधनं युक्तमित्यर्थः ॥

एवंच सोऽयं घट इति प्रतिज्ञाविरोधः। तथा स्यायित्वसिद्धेः। न च प्रतिज्ञाभ्रांतिः। बाधकाभावात्। घटोऽयं निरंतरोत्तरक्षणवृत्तिध्वंसप्रतियोगी घटत्वात् मुसलाहतैकक्षणवृत्तिवटवदिति चोक्तरीत्या परास्तं। किंच घटशब्देन परमाणूंल्लक्षयित्वा घटत्वशब्देन परमाणुत्वमेव हेतुतया विवक्ष्यते। उत समुदायमैव पक्षीकृत्य घटत्वमेव हेतुतया विवक्ष्यते। नाद्यः। मुसलाहतस्य घटस्य समुदायत्वेन परमाणुत्वाभावात्। तत्र हेत्वभावेन व्याप्तिग्रहणाबावप्रसंगात्। न द्वितीयः। सत एव त्वया क्षणिकत्वस्य साधनीयत्वेनावस्तुनस्तत्साधनस्यानुपयुक्तत्वात्। अतो वैभाषिकसैत्रांतिकमतस्यानुपपन्नत्वेनाविरोधकत्वाद्युक्तमीश्वरस्याशेषजगत्कारणत्वलक्षणमिति सिद्धं ॥

॥ इति समुदायाधिकरणं ॥

%8.अधिकरणं ॥%

अत्र शून्यवादो निराक्रियते।

<2-2-26>
%(26) ॐ ॥ नासतो दृष्टत्वात् ॥ ॐ ॥%

ननु न विष्णोर्जगत्कारणत्वं युक्तं। शून्यसमयविरुद्धत्वात्। एकमेव शून्यमतं। तत्र परहितं परमार्थसत्। तस्मादेवाशेषं जगदुपैति। न चासंगस्य तदनुपपत्तिः। संवृत्तिसंबंधेन तदुपपत्तेः। न च श्रुतिविरोधः। तत्प्रामाण्यानभ्युपगमात्। ततश्च शून्यसमयविरुद्धत्वादयुक्तं विष्णोर्जगत्कारणत्वलक्षणमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ नासतो दृष्टत्वादिति ॥% अस्यार्थः ॥ असतः शून्यस्य। न जगत्कर्तृत्वं युक्तं। कुतः। प्रमाणाभावादिति शेषः। तत्कुतः। अदृष्टत्वात्। क्वाप्यसतः कारणत्वादर्शनात्। अत एवानुमानामयोरप्यभावादित्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। सून्यसमयस्याप्रामाणिकत्वात्। शून्यमेव जगत्कारणमित्यत्र प्रमाणाभावात्। प्रमाणं भवत्प्रयक्षं वाऽनुमानं वाऽऽगमो वा स्यात्। न तावत्प्रत्यक्षं। शून्यकारणत्वस्याप्रत्यक्षत्वात्। नाप्यनुमानं। दृष्टांताभावात्। घटादावेव कारणत्वदर्शनेऽपि नासौ दृष्टांतः। तस्य त्वन्मतेऽसत्त्वेनासति प्रतिवादिना कारणत्वस्यानुपलब्धत्वेन कारणत्वाभावस्यानुमातुं शक्यत्वेन साध्यवैकल्यात्। आगमोऽपि बौद्धाद्यागमो वा वेदादिर्वा भवेत्। नाद्यः। तत्प्रामाण्यस्य प्रतिवादिनोऽसंमतेः। न द्वितीयः। तत्प्रामाण्यस्य वाद्यसंप्रतिपत्तेः। तथाविधवेदानुपलंभाच्च। अतः शून्यमतस्यायुक्तत्वेनेश्वरस्य जगत्कारणत्वलक्षणं युक्तमिति सिद्धं ॥

<2-2-27>
%(27) ॐ ॥ उदासीनानामपि चैवं सिद्धिः ॥ ॐ ॥%

नन्वदृष्टमपि जगत्कारणत्वं सून्यस्याभ्युपगते को दोषः। न चोक्तमदृष्टत्वादेवाप्रामाणिकत्वान्नांगीकारार्हतेति। नादृष्टत्वेन दृष्टानुमानानुपत्तावपि सामान्यतो दृष्टत्वोपपत्तेः। कारणस्य हि कार्यवद्वस्तुत्वेन सत्त्वे निषिद्धे कार्यत्वेन हेतुनाऽसत एव जन्म सेत्स्यतीत्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ उदासीनानामपि चैवं सिद्धिरिति ॥% अस्यार्थः ॥ एवं सत्यसतः कार्योत्पादकत्वेंऽगीकृते सति। उदासीनानां हेयोपादेयत्वबुध्यविषयाणां गगनकुसुमादीनां सकाशादपि सारैभ्यादिकार्यसिद्धिः स्यादित्यर्थः। अन्यथा शून्यादपि कार्योत्पत्तिर्न स्यादिति च शब्दार्थः ॥

एवंचासतः कारणत्वे हेयोपादेयबुद्धिविषयतावर्जितानां खपुष्पादीनां सौरभ्यादिकार्यसिद्धिप्रसंगात्। व्यतिरेक्यनुमानस्य तत्रापि कर्तुं शक्यत्वात्। पराभिमतानुमानानां तर्कबाधितत्वात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-28>
%(28) ॐ ॥ नाभाव उपलब्धेः ॥ ॐ ॥%

ननु भवेदेतद्‌दूषणं। यदि शून्यतत्त्वात्परमार्थतो मृत्पिंडाद्धट इव जगदुत्पद्येत। न चैवं। किं नाम संवृत्ति शब्दिताज्ञानविशेषादसतो रजताकारेणेव शून्यस्यापि जगदाकारेणावभासाख्यविवर्तत्वाभ्युपगमादित्याशंकां पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ नाभाव उपलब्धेरिति ॥% अस्यार्थः ॥ जगत् अभावः असत् न। कुतः। उपलब्धेः सदिति प्रतीयमानत्वादित्यर्थः ॥

एवंच शून्यस्य जगदाकारेण वृत्त्यंगीकारे जगतो मिथ्यात्वप्रसंगात्। न चेष्टापत्तिः. सदिति प्रतीयमानत्वात्। शून्यस्य रजताकारेणावभासत्वे शुक्तेरेव रजतारोपाधिष्ठानत्वस्यानुभवसिद्धत्वेन शून्यस्य तदधिष्ठानत्वाभावात्। अतो लक्षणसूत्रं युक्तमिति सिद्धं ॥

<2-2-29>
%(29) ॐ ॥ वैधर्म्याच्च न स्वप्नादिवत् ॥ ॐ ॥%

ननु सदिति दृश्यमानस्यापि स्वाप्नजाग्रत्वादेरज्जुभुजंगादेरसत्त्वात्तद्वज्जगतोऽसत्त्वं किं नस्यादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ वैधर्म्याच्च न स्वप्नादिवादिति ॥% अस्यार्थः ॥ जगत् स्वप्नादिवत् स्वप्नवस्त्वन्यारोपितजाग्रत्त्वादिवदप्यसन्न। कुतः। वैधर्म्यात् स्वाप्नजाग्रत्त्वस्य बाध्यत्वाख्यविलक्षणधर्मवत्त्वात् जगति च तदभावादित्यर्थः ॥

एवंच स्वप्न एवायं न जाग्रद्रज्जुरियं न सर्प इति बाधकप्रत्ययविषयत्ववत्प्रकृते बाधकप्रत्ययविषयत्वाभावेन वैषम्यात्। एतेन परोदीरितप्रतिपक्षानुमानस्य बाधकप्रमाणविषयत्वरूपोपाधिस्तदभावरूपप्रतिपक्षस्य चोक्तत्वात्। तदेवं शून्यमतस्याप्ययुक्तत्वाद्युक्तमीश्वरस्य जगत्कारणत्वलक्षणमिति सिद्धं ॥

॥ इति असदधिकरणं ॥

%9.अधिकरणं ॥%

अत्र विज्ञानवादो निराक्रियते।

<2-2-30>
%(30) ॐ ॥ न भावोऽनुपलब्धेः ॥ ॐ ॥%

ननु न विष्णोर्जगत्कारणत्वं युक्तं। विज्ञानवादिमतविरुद्धत्वात्। नित्यनिरंजनं विज्ञानतत्त्वमेव खलु विद्यमानं। तन्मात्रमेतदशेषं जगत्। न ततोऽतिरिक्तं किंचिदस्ति। अतो जगदुत्पत्तावीश्वरेण कृत्याभावादयुक्तं लक्षणसूत्रमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ न भावोऽनुपलब्धेरिति॥% अस्यार्थः ॥ जगत् भावः ज्ञानात्मकमपि न। अनुपलब्धेः ज्ञानज्ञेययोरभेदाननुभवादित्यर्थः ॥

एवंच युक्तमेव हरेर्जगत्कारणत्वं। विज्ञानवादिसमयस्यायुक्तत्वेनाविरोधकत्वात्। विज्ञानातिरिक्तं जगन्नास्तीत्यत्र विज्ञानतत्त्वे जगदध्यस्तं चेत्। सदिति प्रतीयमानत्वेनारोपितत्वायोगात्। विज्ञानतत्त्वजगतोरभेद इति चेत्। जगतो ज्ञानात्मकत्वे प्रमाणाभावात्। न च सहोपलंभनियमादभेदो नीलतद्धियोरिति वाच्यं। भेदप्रतीतिविरोधात्। न च सा भ्रांतिः। बाधकाभावात्। नीलादीनां स्वप्रतीत्यभेदवद्भेदस्यापि स्वप्रतीत्यभेदेन यथार्थत्वात् तत्प्रतीतेर्भ्रमत्वायोगाच्च। साहित्यस्य भेदव्याप्तत्वेन सहोपलंभादभेद इति प्रतिज्ञाहेत्वोर्विरोधाच्च। ननु यत्प्रकाशते तद्विज्ञानं यथा ज्ञानं। प्रकाशंते च नीलादय इत्यनुमानेन नीलादीनां ज्ञानत्वसिद्धेरिति चेत्। प्रकाशत इत्यनेन ज्ञानविषयत्वांगीकारे मायावादिना स्ववृत्तिविरोधेन विज्ञाने साधनवैकल्याभिधाने निरुत्तरत्वप्रसंगात्। अज्ञाने व्यभिचाराच्च। प्रकाशत्वांगीकारेऽसिद्धेः। अतो बौद्धमतस्याप्रामाणिकत्वेनाविरोधाद्युक्तं विष्णोर्जगत्कारणत्वमिति सिद्धं ॥

<2-2-31>
%(31) ॐ ॥ क्षणिकत्वाच्च ॥ ॐ ॥%

युक्त्यंतरेणापि जगतो विज्ञानात्मकत्वं पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ क्षणिकत्वाच्चेति ॥% अस्यार्थः ॥ ज्ञानस्यैकक्षणावस्थायित्वाज्जगतः स्थायित्वात्ताद्विरोधान्न तयोरैक्यमित्यर्थः ॥

एवंच ज्ञानस्य क्षणिकत्वाज्जगतश्च स्थायित्वेन तयोरैक्यायोगात्। क्षणिकत्वस्य विनाश्यत्वस्वाभाव्यात्। अतो जगत्कारणत्वलक्षणं युक्तमिति सिद्धं ॥

<2-2-32>
%(32) ॐ ॥ सर्वथाऽनुपपत्तेश्च ॥ ॐ ॥%

एवं प्रत्येकं दीषितानि वैभाषिकादिबौद्धमतानि पुनः सामान्यदूषणेन पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ सर्वथाऽनुपपत्तेश्चेति ॥% अस्यार्थः ॥ सर्वप्रकारेणानुपपत्तेः बौद्धराद्धांतस्य युक्तिशून्यत्वात् तद्विरुद्धत्वाच्च न ग्राह्यत्वमित्यर्थः ॥

एवंच प्रत्यक्षक्षणिकत्वकल्पने प्रतिक्षणमुत्पन्नविनाशकल्पने शून्याद्वैतकल्पने विज्ञानाद्वैतकल्पने प्रकटने प्रच्छादने वा नर्ते (ऋ. 10-113-9.)। यच्च किंचित् (महाना. 11.) ब्रह्मण्येवदमाविरासीत्। इत्यादिश्रुतीनां। स एव भूयः। इत्यादिस्मृतीनां। सूत्रोक्तयुकत्त्यादीनां च विरोधित्वेन सर्वेषां वेदविद्धेषिणां पक्षाणामनुपपन्नत्वेन युक्तं विष्णोर्जगत्कारणत्वमिति सिद्धं ॥

॥ इति अनुपलब्ध्यकरणं ॥

%10.अधिकरणं ॥%

अत्र स्याद्वादिमतं दूष्यते।

<2-2-33>
%(33) ॐ ॥ नैकस्मिन्नसंभवात् ॥ ॐ ॥%

ननु न विष्णोर्जगत्कारणत्वं युक्तं। जैनमतविरुद्धत्वात्। जैनास्तु सप्तभंगिं जगद्वदंति। तथाहि। सदित्येकप्रकारः। असदित्यपरः। सदसदात्मकमिति तृतीयः। सदसद्विलक्षणमिति चतुर्थः। सत्त्वे सति सद्विलक्षणमिति पंचमः। असद्विलक्षणे सत्यसद्विलक्षणमिति षष्ठः। सदसदात्मकं सदसद्विलक्षणमिति सप्तमश्चेति। ततश्च जगतः कायपरिमाणाज्जीवात्मनो दृष्टादृष्टसाधनैश्चोत्पत्तिसंभवात्किमीश्वरेण कृत्यमित्ययुक्तं लक्षणसूत्रमिति प्राप्ते पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ नैकस्मिन्नसंभवादिति ॥% अस्यार्थः ॥ जैनोक्तसप्तप्रकारा एकस्मिन्वस्तुनि न युक्ताः। कुतः। असंभवात् अप्रामाणिकत्वेन तेषामेकत्रासंभावितत्वादित्यर्थः। सप्तप्रकारस्तु सत्त्वं, असत्त्वं, सदसत्त्वं, सद्विलक्षणत्वं, सत्त्वे सति सद्विलक्षमत्वं, असत्त्वे सति असद्विलक्षणत्वं, सदसत्त्वे सति सदसद्विलक्षणमित्येवं रूपाः ज्ञातव्याः ॥

एवंच युक्तमेव विष्णोर्गत्कारणत्वं। जैनमतस्याप्रामाणित्वात्। सप्तभंगिजगदिति यदुक्तं। तन्न। सदसद्वयातिरिक्तप्रकारस्याप्रामाणिकत्वात्। एकस्मिन्नसंभवाच्च। न चैकैकांगीकारे दोषस्य विद्यमानत्वादंगाक्रियत इति युक्तं। तथात्वे दोषभयेन सर्वमपि त्याज्यं स्यात्। सदसद्‌भ्यामन्यभिंगिन एवाप्रामाणिकत्वेनैकस्मिन्सप्तभंगित्वस्य सुतरामप्रामाणिकत्वात्। ततश्च जैनमतस्यानुपपन्नत्वेनाविरोधाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-34>
%(34) ॐ ॥ एवं चात्माकार्त्स्न्यं ॥ ॐ ॥%

यदपि जिनेनोक्तं जीवस्याणुत्वे सर्वांगवेदनानुसंधानायोगाद्‌व्याप्तत्वे च देहांतरगतस्याप्यनुसंधानप्रसंगाच्छरीरपरिमितत्वमिति। तत्र किं तत्स्वीयसर्वशरीरावगतचेष्टोपपत्त्यर्थमुपेयते। उत शरीरावच्छिन्नत्वमंतरेणात्मनः स्वतः परिमाणाभावाद्वा। तत्राद्यपक्षं निरसितुं प्रवृत्तं सूत्रमाह ॥

%॥ ॐ ॥ एवं चात्माकार्त्स्न्यमिति ॥% अस्यार्थः ॥ एवंचात्मनः कायपरिमाणांगीकृते सति। आत्मकार्त्स्न्यं आत्मनः प्राक् पिपीलिकादेहं प्राप्तस्य तत्कायपरिमितस्य जीवस्य। अकार्त्स्न्यं गजगर्दभादिशरीरप्राप्तावपूर्णता स्यादित्यर्थः। एवं गजशरीरं प्राप्तस्यात्मनः पिपीलिकादेहप्राप्तावकार्त्स्न्यमाधिक्यं च स्यादिति द्रष्टव्यं ॥

एवंचात्मनः कायपरिमाणाभ्युपगमेऽपि प्राप्तव्यसर्वशरीरेषु सर्वचेष्टानुपपादकत्वात्। गजगर्दभादिशरीरस्य तत्परिमाणस्यात्मनः पिपीलिकादिशरीरे कर्मवशात्प्राप्ते सति तच्छरीर एवातिरेकः स्यात्। तथा च शरीरपरिमाणत्वभंगः। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-35>
%(35) ॐ ॥ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ॐ ॥%

ननु नैकदेहपरिमाण एवात्मा किंतु यदा यच्छरीरं प्राप्नोति तदा तत्परिमाण इति। न चैवं सति प्रागुक्तदोषप्रसक्तिरिति प्राप्ते परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ न च पर्यायादप्यविरोधो विकारादिभ्य इति ॥% अस्यार्थः ॥ पर्यायात् क्रमात्। क्रमेण तत्तद्देहपरिमाणत्वांगीकारादपि। अविरोधः नोक्तदोष इति च न युज्यते। कुतः। यतः पर्यायो। न युज्यते। तदपि कुतः। विराकादिभ्यः तथा सति तत्तत्कालीनपरिमाणभेदेन वस्तुभेदात्। आत्मनो विकारित्वापत्तेः। ततश्चानित्यत्वान्निर्मोक्षत्वादिदोषप्रसंगादित्यर्थः ॥

एवंचात्मनो विकारित्वेनानित्यत्वप्रसंगात्। तथा चानिर्मोक्षप्रसंगः। शास्त्रवैफल्यं च। गजपिपीलिकादिशरीरस्थस्यात्मनः क्रमिकतत्तद्देहपरिमाणत्वाभ्युपगमे चोक्तदोषानपगमेन विकारित्वापत्तेरनित्यतापातात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-36>
%(36) ॐ ॥ अंत्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॥ ॐ ॥%

इदानीं शरीरावच्छेदमंतरेणात्मनः स्वतः परिमाणाभावात्तदर्थं कायपरिमाणत्वमंगीक्रियत इति द्वितीयपक्षं निराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अंत्यावस्थितेश्चोभयनित्यत्वादविशेषादिति ॥% अस्यार्थः ॥ पूर्वसूत्रादेवंचेत्यनुषज्यते। अंत्यावस्थितेरित्येतदावर्तते। च शब्दोऽवधारणे समुच्चये च। तथा च एवं सति आत्मनः कायपरिमाणत्वेंऽगीकृते अंत्यावस्तितेः प्रसंग इति शेषः। मोक्षेऽपि सतः आत्मनः शरीरसत्त्वमंगीकार्यं स्यादित्यर्थः। कुतः अंत्यावस्थितेश्च। अंत्यस्य मौक्तिकपरिमाणस्य अवस्थितेः अवश्यमंगीकार्यं स्यादित्यर्थः। कुतः अंत्यावस्थितेश्च। अंत्यस्य मौक्तिकपरिमाणस्य अवस्थितेः अवश्यमंगीकार्यत्वात्। अवच्छेदकशरीरं विना अवच्छेद्यपरिमाणसत्त्वायोगादिति भावः। परिमाणमेव कुत इत्यतोऽप्याह। अंत्येति। अंत्यस्य मौक्तिकात्मस्वरूपस्य मुक्तावस्थितेरवश्यं स्वरूपसत्त्वस्य परिमाणं विनाऽयोगादिति भावः। अस्तु मोक्षेऽपि शरीरं ततः किमित्यत उक्तं। उभयनित्यत्वादिति। तथा सति उभयोः मुक्तिकालीनयोर्देहात्मनोर्नित्यत्वप्रसंगादित्यर्थः। अस्तु मौक्तिकशरीरनित्यत्वं ततः किमित्यत आह। ततश्च सर्वनित्यत्वं स्यादित्यापाद्यवाक्यमध्याहार्यं। अत एव समुच्चयार्थकश्च शब्दः सर्वेषामधुनातनशरीराणां नित्यत्वं स्यादित्यर्थः। कुत इत्यत आह। अविशेषादिति। मुक्तिकालीनानां अधुनातनानां च शरीराणां शरीरत्वाविशेषादित्यर्थः। तस्मान्न कायपरिमाणत्वमात्मनो युक्तमिति भावः ॥

एवंच जीवस्य मोक्षे परिमाणाभाव चेदात्मस्वरूपाभावप्रसंगः। न हि परिमाणशून्यं द्रव्यमस्ति। अस्ति चेच्छरीरमंतरेण परिमाणायोगात्। तत्रापि तच्छरीरमनित्यं चेत्संसारसमानधर्मतापातः। नित्यं चेच्छरीरत्वाविशेषादिदानींतनशरीरमपि नित्यं स्यात्। अतो नात्मनः कायपरिमाणत्वपक्षो युक्तः। तस्माज्जैनमतस्यानुपपन्नत्वेनाविरोधकत्वाद्युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥

॥ इति नेकस्मिन्नधिकरणं ॥

%11.अधिकरणं ॥%

अत्र पाशुपतपक्षोऽपाक्रियते ॥

<2-2-37>
%(37) ॐ ॥ पत्युरसामंजस्यात् ॥ ॐ ॥%

ननु न विष्णोर्जगत्कारणत्वं युक्तं। पाशुपतसमयविरुद्धत्वात्। पशुपतिः खलु सार्वज्ञ्यादिगुणशाली। मायामुपादानीकृत्य हरिहिरण्यगर्भादिजगदुत्पत्त्यादि सर्वं करोति। श्रुतिस्मृतयश्चास्मिन्नर्थे भवंति। अतो लक्षणसूत्रमयुक्तमिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ पत्युरसामंजस्यादिति ॥% अस्यार्थः ॥ पत्युः पशुपतेः। जगत्कारणत्वं न युक्तं। कुतः। असामंजस्यात् पारतंत्र्योत्पत्त्यादिदोषवत्त्वादित्यर्थः ॥

एवंच युक्तं विष्णोर्जगत्कारणत्वं। पाशुपतसमयस्याप्रमाणिकत्वात्। न पशुपतिर्गत्कर्ता। पारतंत्र्यजननमरणदोषदुष्टत्वात्। न चासिद्धो हेतुः। यं कामये तं तमुग्रमिति (ऋ. 10-125-5.) श्रुतिसिद्धत्वात्। अपि चैको नारायण आसीदिति (मह.1.) श्रुत्या प्रलये पशुपतेरभावावगमात्। ततश्च पाशुपतसमयस्यानुपपन्नत्वेनाविरोधकत्वाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-38>
%(38) ॐ ॥ संबंधानुपपत्तेश्च ॥ ॐ ॥%

युक्त्यंतरेण पशुपतेर्जगत्कारणत्वं पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ संबंधानुपपत्तेश्चेति ॥% अस्यार्थः ॥ शिवस्याशरीरत्वेन जगता संबंधानुपपत्ते न तस्य कर्तृत्वमित्यर्थः ॥

एवंच न केवलं पारतंत्र्यादेः किंत्वशरीरत्वाच्च पशुपतेर्जगत्कर्तृत्वायोगात्। न ह्यशरीरस्य कर्तृत्वं दृश्यते येन तस्य तथा भवेत्। न च कार्येण जगताऽपि संबंधमात्रमशरीरस्यापि संभवति गगनादेर्घटादिसंयोगवदिति वाच्यं। त्यक्तदेहपुरुषवत्कर्तृत्वरूपसंबंधाभावात्। ततश्च पशुपतेर्जगत्कर्तृत्वायोगेन युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-39>
%(39) ॐ ॥ अधिष्ठानानुपपत्तेश्च ॥ ॐ ॥%

हेत्वंतरेण पशुपतेर्जगत्कारणत्वं पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अधिष्ठानानुपपत्तेश्चेति ॥% अस्यार्थः ॥ प्रलये सर्वेषां नष्टत्वात्पुनः सृष्टिकाले पशुपतेः पृथिव्याद्याश्रयानुपपत्तेश्च न तस्य जगत्कर्तृत्वमित्यर्थः ॥

एवंच पशुपतेरधिष्ठानानुपलंभेन कर्तृत्वायोगात्। पृथिव्याद्यधिष्ठाने स्थितस्य कुलालादेर्घटादिकार्यदर्शनेनास्य तदभावात्। सौत्रहेतुना व्यतिरेकव्याप्तेः सामान्यतः पृथिव्याद्यधिष्ठानदृष्टांतेन दर्शितत्वात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-40>
%(40) ॐ ॥ करणवच्चेन्न भोगादिभ्यः ॥ ॐ ॥%

ननु न प्रलयकाले नित्यतया विद्यमानं प्रकृत्यादिकं साक्षात्प्रयत्नाधिष्ठेयतया शरीरादिवत्। न च साक्षात्प्रयत्नाधिष्ठेय प्रेरणाय शरीरापेक्षा। शरीरप्रेरणार्थमपि शरोरांतरापेक्षाप्रसंगात्। अतः शरीरादिप्रतिनिधिसद्भावात्कर्तृत्वमुपपन्नमिति प्राप्ते सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ करणवच्चेन्न भोगादिभ्य इति ॥% अस्यार्थः ॥ ननु यतः साधनजातं पशुपतेः कारणवत् शरीरवत्। शरीरेणतुल्यं अधिष्ठानतुल्यं च अतो नोक्तदोष इति चेन्न। कुतः। भोगादिभ्यः शरीरकृतसुखदुःखभोगोत्पत्तिमरणादिदोषेभ्य इत्यर्थः ॥

एवंच कारकसमूहस्य शरीरतुल्यत्वेन शरीरोपादानपरित्यागाभ्यां जननमरणवत्तदुपादानपरित्यागाभ्यामपि जननमरणप्रसंगात्। ततश्च सुखदुःखभोगप्राप्तेः। यज्ञदत्तादेः साक्षात्प्रयत्नाधिष्ठेयविकारात्मकशरीरोपादानहानयोः सतोस्तीन्नमित्तयोरुत्पत्तिविनाशयोर्दर्शनात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥

<2-2-41>
%(41) ॐ ॥ अंतवत्त्वमसर्वज्ञता वा ॥ ॐ ॥%

संबंधानुपपत्तेः, करणवच्च, इत्याभ्यामुक्तशरीरभावाभावपक्षावेव विकल्पभंग्य दोषांतरेण दूषयत्सूत्रं पठित्वा व्याचष्टे ॥

%॥ ॐ ॥ अंतवत्त्वमसर्वज्ञतावेति ॥% अस्यार्थः ॥ यतः शिवस्य देहित्वतदभावपक्षयोः क्रमेणांतवत्त्वं नाशवत्त्वं असर्वज्ञता न सर्वज्ञत्वं स्यात् अतो न तद्युक्तमित्यर्थः ॥

एवंच पशुपतेर्जगत्कर्तृत्वांगीकारे तस्य शरीरवत्त्वपक्षे विनाशप्रसंगः तदभावे तु ज्ञानाभावः। न चैते दोषा विष्णुपक्षेऽपि बुद्धिमान्मनोवानित्यादिश्रुत्या ज्ञानाभावस्य परिहृतत्वात्। यदात्मको भगवानि(एकायनश्रुतिः)त्यादिनांऽतवत्त्वादिदोषाणां निरस्तत्वात्। तत्र भगवद्देहस्य तत्स्वरूपत्वज्ञानाद्यात्मकत्वेनोक्तत्वात्। अनयैव दिशा शाक्तैयसौरस्कांदगाणपत्यानां समया निराकृता वेदितव्याः। अतः पाशुपतसमयस्यानुपपन्नत्वेनाविरोधकत्वाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥

॥ इति पत्युरधिकरणं ॥

%12.अधिकरणं ॥%

अत्र शक्तिपक्षो दूष्यते।

<2-2-42>
%(42) ॐ ॥ उत्पत्त्यसंभवात् ॥ ॐ ॥%

ननु न विष्णोर्जगत्कारणत्वं युक्तं। शाक्तेयमतविरुद्धत्वात्। शक्तिरेव खलु सार्वज्ञ्यादिगुणशालिनी। सकलजगज्जननी। श्रुतिस्मृतीतिहासपुराणेषु पठ्यते। अतो हरेर्न लक्षणसूत्रं युक्तमिति प्राप्ते सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ उत्पत्त्यसंभवादिति ॥% अस्यार्थः ॥ न शक्तिर्जगत्कारणं। कुतः। उत्पत्त्यसंभवात् शक्तिशब्दितकेवलस्त्रीभ्यः अपत्योत्पत्त्ययोगादित्यर्थः ॥

एवंच महावामानां मते यदुच्यते शक्तिरेव पुरुषाननुगृहीतजगत्कारणमिति न तद्युक्तं। शक्तिरेव पुरुषाननुगृहीता जगत्कारणमित्यस्यार्थस्य प्रमाणादृष्टत्वात्। केवलायास्तस्या जगत्कर्तृत्वासंभवात्। परोदाहृतानामजामेकामि(तै.आ. 10-10-1.)त्यादिप्रमाणानां त्वीश्वराधीनतयैव जगत्कारणत्वाभिधायित्वेनातत्परत्वात्। ततश्च महावामानां मतमप्रामाणमिति युक्त जगत्कारणत्वलक्षणमिति सिद्धं ॥

<2-2-43>
%(43) ॐ ॥ न च कर्तुः करणं ॥ ॐ ॥%

ननु सार्वज्ञ्यादिगुणाविधुरः सदाशिवः शक्त्यनुग्राहकोऽस्ति। तदनुगृहीतायाः शक्तेः जगत्कारणत्वेऽजामेकामि(तै.आ. 10-10-1.)त्यादिश्रुतेः प्रमाणत्वात्। सदाशिवानुगृहीतशक्तेः जगत्कारणत्वमिति वदतां मध्यमवामानां मतं निराकुर्वत्सूत्रमुन्यस्यति ॥

%॥ ॐ ॥ न च कर्तुः करणमिति ॥% अस्यार्थः ॥ यतः कर्तुः शक्त्यनुग्राहकशिवस्य च कारणं ज्ञानादिसाधनं। न। अतो न तस्य शक्त्यनुग्राहकत्वमित्यर्थः ॥

एवंच सदाशिवस्य सार्वज्ञ्यादिवैधुर्येणानुग्राहकत्वायोगात्। उत्पत्त्युपयोगिज्ञानादेस्तत्साधनेंद्रियादेस्तत्कारणशरीरस्य चाभावेनात एव पुरुषानुगृहीतशक्तेरपि जगदुत्पत्त्यसंभवात्। अतो मध्यमवामानां मतस्याप्रामाणिकत्वेन युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥

<2-2-44>
%(44) ॐ ॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ॐ ॥%

ननु शक्त्यनुग्राहकपुरुषाभावाच्छक्तेर्जगदुत्पत्तिर्युक्तेत्येव नोच्यते। किंतु तस्य पुंसः सार्वज्ञ्यादेरपि सद्भावेन युक्ततरा शर्तेर्जगदुत्पत्तिरितीत्यंगीकुर्वतामणुवामानां मतनिरासाय सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ विज्ञानादिभावे वा तदप्रतिषेध इति ॥% अस्यार्थः ॥ विज्ञानादिभावे वा शिवस्य ज्ञानेच्छादिसत्वेंऽगीकृते च। तदप्रतिषेधः। तस्य शैवपक्षस्य अप्रतिषेधः अनिरासः अनुमितिः कृता स्यात्। स च दूषित एवेत्यर्थः ॥

एवंच यदि शक्त्यनुग्रहकर्तृजगदुत्पत्त्युपयोगिविज्ञानशरीरोंद्रियसत्त्वमंगीक्रियते तत एव शक्त्यनुग्रहकर्तुः शिवादेः कर्त्रंतरमनपेक्ष्यैव जगदुत्पत्त्यादिसंभवात् तदा शक्तिमतस्य पाशुपतमतैक्येन तस्य च निरस्तत्वात् पुनर्निरसने कारणाभावात्। अतोऽणुवामानां मतमप्रमाणमिति जगत्कारणत्वलक्षणं युक्तमिति सिद्धं ॥

<2-2-45>
%(45) ॐ ॥ विप्रतिषेधाच्च ॥ ॐ ॥%

एवं शाक्तेयमतत्रयं पृथङ्‌निराकृत्य समुदितदूषणेनापि पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ विप्रतिषेधाच्चेति ॥% अस्यार्थः ॥ सकलश्रुतिस्मृतिवुरुद्धत्वाच्च शाक्तेयमतमसमंजसं अयुक्तमित्यर्थः ॥

एवंच नर्ते। (ऋ. 1–113-9.) एको नारायण (महोपनिषत्.)। इत्यादिश्रुतीनां। स एव (भाग. 1-10-23.)। इत्यादि स्मृतीनां। पूर्वोक्तहेतूनां च विरोधेन शिष्टजनैर्जुगुप्सितत्वात्। सर्वमपि शाक्तेयमतमयुक्तमेवेति युक्तं विष्णोर्जगज्जन्मादिकारणत्वलक्षणमिति सिद्धं ॥

** ॥ इति उत्पत्त्याधिकरणं ॥

॥ इति द्वितीयाध्यायस्य द्वितीयः पादः ॥**

** —————————-**

॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अथ द्वितीयाध्यायस्य तृतीयः पादः ॥

जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परविरोधमपाकरोत्यस्मिन्पादे ॥

%1.अधिकरणं ॥%

अत्र वियदुत्पत्तिविषयश्रुतिविरोधः परिह्रियते।

<2-3-1>
%(1) ॐ ॥ न वियदश्रुतेः ॥ ॐ ॥%

ननु न विष्णोर्जगत्कारणत्वं युक्तं। अनादिर्वाऽयमाकाश इति श्रुतेः। आकाशस्यानादित्वेनाकाशकारणत्वाभावात्। न चात्मन आकाशः संभूत इति (तै. 2-1.) श्रुत्याऽऽत्मन आकाशकारणत्वमुपपद्यते। अनुभूतियुक्तिबहुवाग्विरुद्धत्वेन तस्याः श्रुतेरप्रामाण्यात्। न च संभूतश्रुतेरर्थांतरपरत्वेनाप्रामाण्याभावः। वाय्वादावप्यन्यार्थतापातात्। न हि यत्र शब्दः श्रूयते तत्रामुख्यो यात्राकृष्यते तत्र मुख्य इति संभवः। तस्मादाकाशश्रुतेरप्रामाण्यादयुक्तं श्रुतिसमन्वयेनाकाशकारणत्वं ब्रह्मण इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ न वियदश्रुतेरिति ॥% अस्यार्थः ॥ वियत् आकाशं। अनुत्पत्तिमन्न किंत्वीशादुत्पत्तिमदेव। कुतः। अश्रुतेः वियदनुत्पत्तौ श्रुत्यभावादित्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। आकाशानुत्पत्तौ श्रनुत्यभवादाकाशस्याप्युत्पत्तिमत्त्वेनाकाशकारणत्वे बाधकाभावात्। तथाऽपि जीवकालादिकारणत्वस्यानुक्तत्वेन न विष्णोः सर्वकारणत्वमित्युक्ते वियत्पदेन जीवकालमहदंहकारादेरुपलक्षणत्वेन प्रतिपादितत्वात्। अतः श्रुत्यविरोधेन भगवदितरस्योत्पत्तिसिद्धेर्युक्तः सर्वकारणे परब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥

<2-3-2>
%(2) ॐ ॥ अस्ति तु ॥%

ननु न वियत उत्पत्त्यभावे प्रमाणं नियमेन वक्तव्यं। उत्पत्तौ प्रमाणाभावेनैव तत्सिद्धेः। न हि घटे प्रमाणाभावे पुनः प्रमाणापेक्षा स्यादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अस्ति त्विति ॥% अस्यार्थः ॥ आकाशोत्पत्तौ आत्मन आकाशः संभूत इति (तै. 2-1.) श्रुतिरस्त्येवेत्यर्थः ॥

एवंचाकाश आत्मनः संभूत इति श्रुतिसद्भावान्नानया श्रुत्याऽनुत्पत्तिः सिध्यति। अतः श्रुत्यविरोधेन वियदादेरुत्पत्तिसिद्धेर्युक्तः समन्वय इति सिद्धं ॥

<2-3-3>
%(3) ॐ ॥ गौण्यसंभवात् ॥ ॐ ॥%

ननु न वियत आत्मन आकाश इति श्रुत्योत्पत्तिः साधयितुं शक्या। अनादिर्वेत्यनादित्वाभिदायकश्रुतिविरोधादित्याशंकां पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ गौण्यसंभवादिति ॥% अस्यार्थः ॥ अनादिर्वाऽयमाकाश इथि श्रुतिर्गौणी। अमुख्यानादित्वपरा। कुतः। असंभवात् तस्या मुख्यार्थत्वे बहुलोत्पत्तिश्रुत्ययोगादित्यर्थः ॥

एवंचानादित्वश्रुतेर्गौणत्वात्। उत्पत्तिश्रुतिबाहुल्यान्यथोपपत्त्या तस्या गौणत्वसिद्धेः। उत्पत्तिश्रुतेर्मुख्यार्थत्वेन सर्वविषयत्वात्। अनादित्वश्रुत्यनुसारेणोक्तव्यवस्थानंगीकारेणाकाशस्य सर्वथाऽनुत्पत्तेरेवाभ्युपगमे तदप्रामाण्यप्रसंगात्ष। बाहुल्यस्य प्राबल्यहेतुतयोत्पत्तिश्रुतेरपि बलवत्त्वेनाप्रामाण्यस्य वक्तुमशक्यतया श्रुतिद्वयप्रामाण्यायोक्तव्यवस्थाया एवाश्रयणीयत्वात्। अतः श्रुत्यविरोधेनाकाशस्योत्पत्तिसिद्धेर्युक्तः समन्वय इति सिद्धं ॥

<2-3-4>
%(4) ॐ ॥ शब्दाच्च ॥ ॐ ॥%

न केवलमुक्तव्यवस्थाऽसंभवयुक्तिसिद्धा। अपि तु श्रुतिसिद्धा चेत्यर्थप्रतिपादकं सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ शब्दाच्चेति ॥% अस्यार्थः ॥ अथ ह वाव नित्यानीति (भाल्लवेय) श्रुतिबलाच्चानादित्वश्रुतिर्गौणार्थेत्यर्थः ॥

एवंचोक्तव्यवस्थोपपद्यत एव। अथ ह वाव नित्यानीति भाल्लवेय श्रुतेः। एतेनानुभवादिति विरोधस्य परिहृतत्वात्। ततश्च श्रुत्यविरोधेन युक्तो भगवति श्रुतिसमन्वय इति सिद्धं ॥

<2-3-5>
%(5) ॐ ॥ स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ॐ ॥%

ननु कुतोऽनादित्वश्रुतेर्गौणत्वं। मुख्यार्थस्य बाधकाभावात्। अन्यथा न जायते न म्रियत इत्यादावपि गौणार्थः स्यात्। तत्र न जायते (भ.गी. 2-20.) इत्यनुत्पत्त्यभिधायकशब्दस्य परमात्मनि मुख्यत्वदर्शनेन तदेकार्थानादित्वश्रुंतरपि तथात्त्वौचित्यादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ स्याच्चैकस्य ब्रह्मशब्दवदिति ॥% अस्यार्थः ॥ चोऽवधारणे। ब्रह्मशब्दवत् यथा एकस्यैव ब्रह्मशब्दस्य विष्णौ मुख्यत्वं जीवेत्वमुख्यताऽस्ति। तथा एकस्यैवानित्यत्वबोधकशब्दस्य ब्रह्मणि मुख्यार्थता स्यात्। भवेदित्यर्थः।

एवंच भवेदन्यत्र मुख्यानुत्पत्तिमच्छब्दस्याकाशे गौणत्वं। मुख्यार्थस्याकाशे बहुलोत्पत्तिश्रुतिबाधितत्वात्। ब्रह्मणि मुख्यस्यापि ब्रह्मशब्दस्य बाधकवशेन विरिंचादिष्वमुख्यत्वदर्शनात्। अतः श्रुत्यविरोधेन युक्तः श्रुतिसमन्वय इति सिद्धं ॥

<2-3-6>
%(6) ॐ ॥ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥ ॐ ॥%

ननु युक्तं ब्रह्मशब्दस्य परब्रह्मणि मुख्यमन्यत्रामुख्यत्वं। गुणपूर्णत्वरूपशब्दप्रवृत्तिनिमित्तसत्त्वासत्त्वाख्यकारणसद्भावात्। न च तथाऽनुत्पत्तिमच्छब्दे वक्तुं शक्यं। तद्वत्प्रकृते प्रवृत्तिनिमित्तपौष्कल्यभावाभावाख्यकारणानुपलं भादित्याशंकां परिहरत्सूत्रमुपन्यस्याते ॥

%॥ ॐ ॥ प्रतिज्ञाहानिरव्यातिरेकाच्छब्देभ्य इति ॥% अस्यार्थः ॥ आकाशस्य मुख्यानुत्पुत्त्युक्तौ प्रतिज्ञाहानिः स इदं सर्वमसजतेति (तै. 2-6.) विष्णोः स्रष्ट्रृत्वप्रतिज्ञाहानिः स्यात्। कुतः। अव्यतिरेकात् आकाशस्य सर्वशब्दार्थानतिरिक्तत्वात्। किंच यतः शब्देभ्यः आत्मा वा इदमि(ऐ. 1-1.)त्यादिस्पष्टश्रुतिभ्यश्च ब्रह्मण एव मुख्यानुत्पत्तिः न त्वन्यस्येत्यवसीयते। अत उक्तं युक्तमित्यर्थः ॥

एवंचाकाशस्यापि ब्रह्मवन्मुख्यनित्यत्वे मुख्यतस्तद्वाच्यनुत्पत्तिमच्छब्दवाच्यत्वांगीकारे इदमसृजतेति प्रतिज्ञाहानिसंभवात्। न चात्राकाशमसृजतेत्यनुक्तत्वेन प्रतिज्ञाहान्यभावः। सर्वशब्देनैवाकाशस्य ग्रहणात्। संकोचे कारणाभावात्। आत्मा वा इदमेक एवाग्र इति श्रुतेश्च। अतः श्रुत्यविरोधेन युक्तः समन्वय इति सिद्धं ॥

<2-3-7>
%(7) ॐ ॥ यावद्विकारं तुविभागो लोकवत् ॥ ॐ ॥%

अनुमानेनापि ब्रह्मण एवानादित्वमन्येषां सादित्वमनुत्पत्तिश्रुतेर्मुख्यामुख्यत्वसिध्यर्थं साधयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ यावद्विकारं तु विभागो लोकवादिति ॥% अस्यार्थः ॥ यावच्छब्दोऽवधारणे। यावद्विकारमित्यव्ययं। तु शब्दश्चशब्दार्थे। तथा च यतः यावद्विकारं विक्रियमाणमेव वस्तु। विभागः विभागशब्दिताल्पशक्तिमत् न त्वन्यदिति नियमः सिद्धः। अतो लोकवत् लोक इति। यथा लोके घटादौ विभक्तत्वात् विकारित्वमंगीकृतं। तथा आकाशादेरपि विभक्तत्वहेतुना विकारित्वं सिध्यति। तत एव सादित्वमपि सिध्यतीत्यर्थः ॥

एवंचाकाश उत्पत्तिमान् अल्पशक्तित्वात्। घटादिवदित्यनुमानाच्चाकाशोत्पत्तिसिद्धेरनादित्वश्रुतेर्गौणत्वात्। ब्रह्मानुत्पत्तिमत् अविभक्तत्वात् व्यतिरेकेण घटवदित्यपि मानसद्भावात्। न च प्रकृतिपुरुष इति (बृहत्संहिता.) वचनस्य नित्यानित्यपुरुष इति प्राचीनश्रुतिविरोधः। तत्र प्रकृत्यादेः स्वरूपस्याभूत्वाभवनरूपोत्पत्त्यभावोक्तेः। अत्र पुनः पराधीनविशेषावाप्तिरूपोत्पत्त्युक्तेर्भिन्नविषयत्वेनाविरोधात्। अतः श्रुत्यविरोधेन भगवदितरस्योत्पत्तिसिद्धेर्युक्तः सर्वकारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥

॥ इति वियदधिकरणं ॥

%2.अधिकरणं ॥%

अत्रेश्वरे श्रुतिसमन्वयसिद्धये मुख्यवायोरुपत्तिविषयश्रुतिविरोधः परिह्रियते ॥

<2-3-8>
%(8) ॐ ॥ एतेन मातरिश्वा व्याख्यातः ॥ ॐ ॥%

ननु न विष्णोर्जगत्कारणत्वं युक्तं। वायुर्वावेति श्रुतेर्वायोरुत्पत्त्यभावेन कारणत्वाभावात्। न चाकाशानुत्पत्तिवदियं श्रुतिर्गौणी। अथ ह नित्याश्चेति श्रुत्याऽऽकाशस्य नित्यत्वमुक्त्वा वायुनित्यत्वोक्तेः। अन्यथा विशिष्यनित्यत्वोक्तरयुक्ता स्यात्। किंच यदि वायुरुत्पत्तिमान्स्यात्तदा सर्वपेक्षयाऽतिशयितचेतनत्वं सर्वदेवोपास्यत्वं च न स्यात्। यस्य नादिर्न मध्यमिति श्रुत्याऽनादित्वमुक्त्वोदयनिम्लोचाबावस्याप्युक्तेः। ततश्च ताभ्यां शून्यस्योत्पत्तिः संभावयितुं युक्ता। साधकवतः साध्यदर्शनेनानुत्पत्तिसाधकवतोऽप्युत्पत्तिमत्त्वांगीकारेऽनुभवव्याकोपः स्यात्। अतो वायोरुत्पत्त्यभावेनोत्पत्तिश्रुतेरप्रामाण्यान्न श्रुतिसंमन्वयेन विष्णोर्जगत्कारणत्वं युक्तमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ एतेन मातरिश्वा व्याख्यात इति ॥% अस्यार्थः ॥ एतेन पूर्वोक्तविभक्तत्वादि हेतुना। मातरिश्वा मुख्यवायुः। व्याख्यातः उत्पत्तिमत्त्वेनोक्त इत्यर्थः ॥

एवंच युक्तं विष्णोर्जगत्कारणत्वं। वायोरुत्पत्तिमत्त्वात्। प्राणाद्वायुरिति (तै. 3-12-6.) श्रुतिप्रमाणसद्भावात्। न वाऽनुत्पत्तिश्रुतिविरोधः। तस्याः स्वरूपानुत्पत्तिपरत्वेन गौणत्वात्। न च वायोर्मुख्यानुत्पत्तिमत्त्वाभावे विशिष्यनित्यत्वातेशयचेतनत्वोक्तिविरोधः। स्वरूपातिरिक्तज्ञाननित्यत्वाभिप्रायेणातिशयितत्वाद्युक्तिसंभवात्। अतः श्रुत्यविरोधेन वायोरुत्पत्तिसिद्धेर्युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥

॥ इति मातरिश्वाधिकरणं ॥

%3.अधिकरणं ॥%

अत्र भगवदुत्पत्तिविषयश्रुतिविरोधः परिह्रियते ॥

<2-3-9>
%(9) ॐ ॥ असंभवस्तु सतोऽनुपपत्तेः ॥ ॐ ॥%

ननु न विष्णोः श्रुतिसमन्वयेन जगत्कारणत्वं युक्तं। तस्योत्पत्तिमत्त्वेन जगत्कारणत्वायोगात्। न च तत्र प्रमाणाभावः। असतः सदजायतेति(ऋ. 10-72-2.)श्रुतेः। न चानादित्वश्रुतिप्रतिरुद्धत्वेन तयोत्पत्त्यसिद्धिः। ब्रह्मोत्पत्तिमत् उत्पत्तिमदविशिष्टत्वादित्युत्पत्ति श्रुतेः सयुक्तिकत्वेन प्रबलत्वात्। असत एव तत्कारणत्वेन कारणाभावेनोत्पत्त्यभावः। अतो ब्रह्मणोप्युत्पत्तिमत्त्वादशेषकारणतया समन्वयोऽयुक्त इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ असंभवस्तु सतोऽनुपपत्तेरिति ॥% अस्यार्थः ॥ तु शब्दोऽवधारणे। सतः विष्णोः। असंभवः अनुत्पत्तिरेव नत्वसतः सदजायतेति श्रुत्याऽसतः सकाशादुत्पत्तिर्वाच्या। कुतः। अनुपपत्तेः अतो विष्णोरसदुत्पत्तेरयोगादित्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। असतः सदुत्पत्तेः क्वाप्यदर्शनेनासतः सकाशादुत्पत्त्यनुपपत्तेः। ब्रह्म वाऽसत् सद्वावप्राण इति(पैंगि.)श्रुतेर्ब्रह्मणः सकाशाद्वायोरुत्पत्तिः श्रुत्यर्थ इति। त्वं देवशक्त्त्यामिति भागवतवचनात्। न च रामकृष्णादिरूपेण हरेर्जायमानत्वं। तद्रूपाणां प्रादुर्भावत्वेन जनेरनुपपन्नत्वात्। प्रत्यक्षत्वं हरेरिति वचनात्। अतः श्रुत्यविरोधेन ब्रह्मणोऽनादित्वसिद्धेस्तत्र श्रुतिसमन्वयेन जगत्कारणत्वं युक्तमिति सिद्धं ॥

॥ इति असंभावाधिकरणं ॥

%4.अधिकरणं ॥%

अत्र तेजोजन्मविषयश्रुतिविरोधः परिह्रियते।

<2-3-10>
%(10) ॐ ॥ तेजोऽतस्तथा ह्याह ॥ ॐ ॥%

ननु न श्रुतिसमन्वयेन विष्णोरसाधारण्येन जगत्कारणत्वं वाच्यं। तेजसो वायुजातत्वे श्रुतिसद्भावेन विष्णुवद्वायोरप्यग्निकारणत्वेन विष्णोर्विशेषाभावात्। न च वायुद्वारा परमात्मजातत्वाभिधायकं श्रुतेर्वाच्यं। ब्रह्म वायुद्वारमंतरेण तेजः स्रष्टुमिष्टे चेत्तद्वारवैयर्थ्यं। नोचेत्साम्यं तयोरवर्जनीयं। अतो न जगत्कारणत्वेन सर्वश्रुतिसमन्वयो युक्त इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ तेजोऽतस्तथा ह्याहेति ॥% अस्यार्थः ॥ तेजः तेजोभूतः। अत ब्रह्मण एवोत्पद्यते न वायोः। कुतः। हि यस्मात्। तत्तेज इति (छां. 6-2-3.) श्रुतिः। तथा उक्तप्रकारेण आह वक्ति। तस्मादित्यर्थः ॥

एवंच युक्तमेव तत्र सर्वश्रुतिसमन्वयेन जगत्कारणत्वं। तत्तेजोऽसृजतेति श्रुतेरग्नेर्विष्णुजातत्वात्। न च वायोरग्निरि(तै. 2-1.)त्यादिश्रुतिविरोधः। तत्र वायुद्वारा तेजसो ब्रह्मजातत्वोक्तेः। न च द्वारवैयर्थ्यान्यथाऽनुपपत्त्योभयोरपि कारणत्वं वाच्यं। शक्तस्यापि ब्रह्मणः स्वेच्छयैव द्वारमनुसृत्य कारणत्वस्य प्रमाणसिद्धत्वात्। अतः श्रुत्यविरोधेन तेजसो ब्रह्मजातत्वसिद्धेः सर्वश्रुतिसमन्वयेन जगत्कारणत्वे हरेरिति सिद्धं ॥

॥ इति तेजोऽधिकरणं ॥

%5.अधिकरणं ॥%

अत्राब्जन्मविषयश्रुतिविरोधः परिह्रियते।

<2-3-11>
%(11) ॐ ॥ आपः ॥ ॐ ॥%

ननु न हरेः श्रुतिसमन्वयेन जगत्कारणत्वं युक्तं। अपामग्नेराप इति (तै. 2-1.) श्रुतिबलेन तेजोजातत्वात्। न च तदपोसृजतेति (छां. 6-2-3.) श्रुतिविरोधेन प्रतीतार्थे तेजोजातत्वश्रुतेरप्रामाण्यं आपस्तेजसो जायंते। अप्त्वात्स्वेदवदिति युक्तियुक्तत्वेन प्राबल्यात्। तथा च तत्तेज ऐक्षतेति (छां. 6-2-3.) श्रुतेः। ततश्च न ब्रह्मणः श्रुतिसमन्वयेन जगत्कारणत्वमिति प्राप्ते सूत्रमाह।

%॥ ॐ ॥ आप इति ॥% अस्यार्थः ॥ अत्रापि अतः तथा ह्याहेत्यनुवर्तते। तथा च आपः अतः विष्णोरेवेत्पत्तिमत्त्यः। न त्वन्यतः। कुतः। हि यस्मात्। ब्रह्मैवेदमिति8ुतिस्तथा आह। तस्मादित्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। अग्नेराप इति श्रुतेरपां परमात्मन उत्पत्तावग्निद्वारमित्येवं परत्वेन ब्रह्मैवेदमग्र इति श्रुतेः। न च श्रुतिद्वयान्यथाऽनुपपत्त्या ब्रह्मतेजसोः साम्येनैव कारणत्वं। कर्ता सर्वस्य वै विष्णुरिति (भविष्यत्पुराण.) वचनविरोधात्। ततश्च श्रुत्यविरोधेनापां ब्रह्मजातत्वसिद्धेर्युक्तं वेदसमन्वयेन जगत्कारणत्वं हरेरिति सिद्धं ॥

॥ इति अबधिकरणं ॥

%6.अधिकरणं ॥%

अत्रान्यद्वारा जगत्कारणे समन्वयसिध्यर्थमपां ब्रह्मद्वारत्वे श्रुतिविरोधः परिह्रियते।

<2-3-12>
%(12) ॐ ॥ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॥ ॐ ॥%

ननु न विष्णोर्जगत्कारणत्वं युक्तं। द्वारकारणविषयश्रुतीनां परस्परविरोधेनाप्रामाण्यात्। तथा हि। ता अन्नमसजंते(छां. 6-2.)त्यन्नसृष्टेरप्सृष्ट्यानंतर्यमुच्यते। अद्‌भ्यः पृथिवीति (तै. 2-1.) पृथिवीसृष्टेरप्सृष्ट्यानतर्यं। विरोधेनोभयासंभवात्। न च तत्रान्नशब्देन पृथिव्येव विवक्षिता। अन्नश्रुतेः प्रसिद्धान्नपरत्वे बहुवाक्यानुसारित्वगुणलाभात्। तस्माद्यत्र क्व च वर्षतीति प्रसिद्धान्नलिंगाच्च। न च पृथिवीपदेनान्नसंग्रहः। अद्‌भ्य एवान्नसृष्ट्यंगीकारेऽद्‌भ्यः पृथिवीति श्रुतिविरोधात्। नापि पृथिव्यन्नयांरद्‌ब्यो युगपदुत्पत्तिः। उक्तश्रुतिविरोधात्। न चान्नस्य सृष्टिबेदेनाद्‌भ्य ओषधीभ्योऽपि जन्मबहुकल्पनापातात्। अतः श्रुतिद्वयस्य परस्परविरुद्धत्वेनाप्रामाण्यमेवेति न श्रुतिसमन्वयो युक्त इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ पृथिव्यधिकाररूपशब्दांतरादिभ्य इति ॥% अस्यार्थः ॥ पृथिवी पृथिव्येव। ता अन्नमासृजंतेति श्रुतिस्थान्न शब्देनोच्यते। न प्रसिद्धान्नां कुतः। अधिकाररूपशब्दांतरादिभ्यः। अधिकारशब्दितभूतप्रकृरणात्। रूपशब्दोक्तकृष्णरूपस्य च श्रवणात्। शब्दांतरं शब्दविशेषः पृथिवी वाऽन्नमिति (तै. 3-9.) श्रुतिविशेषाच्चेत्यर्थः। अपौरुषयत्वेनादोषस्य वाक्यस्य नाप्रामाण्यमित्यादियुक्तिरादिशब्दार्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। श्रुत्योरविरोधात्। तथा हि। ता अन्नमित्यत्रान्नशब्देन पृथिवी विवक्षिता। तत्तेजोऽस़जतेति (छां 6-2-3.) भूतप्रकरणात्। यद्रोहितमित्यन्नस्य कार्ष्ण्यश्रवणात्। न चैतावल्लक्षणं। आपश्च पृथिवी चान्नमिति (ऐ. आ. 2-3-1.) शब्दांतरे पृथिव्या अन्नशब्दाभिधेयत्वाभिधानात्। न च वृष्टिजत्वलिंगाविरोधः। पार्थिवपदार्थानां वृष्ट्युत्पन्नार्थत्वेनोपपत्तेः। न च श्रुतेरर्थांतर कल्पनाऽयोगेन श्रुत्योर्विरोधेनाप्रामाण्यं। वेदो नाप्रमाणं। अप्रामाण्यकारणदोषशून्यत्वात् प्रत्यक्षवदित्युक्तिविरोधात्। ततश्च विरोधाभावेन युक्तः श्रुतिसमन्वय इति सिद्धं ॥

॥ इति पृथिव्यधिकरणं ॥

%7.अधिकरणं ॥%

अत्र ब्रह्मणः प्रकृताधिबूताधिदैवविषयसंहृतिकर्तृत्वे श्रुतिविरोधः परिह्रियते।

<2-3-13>
%(13) ॐ ॥ तदभिध्यानादेव तु तल्लिंगात्सः ॥ ॐ ॥%

ननु न विष्णुः सर्वसंहर्ता। अपि तु रुद्र एव। प्राणानां ग्रंथिरसीति (महाना. 16-2) श्रुतेः न च विष्णोः सर्वशब्दवाच्यत्वेन साश्रुतिर्विष्णुपरा रुद्रपरत्वेऽपि तस्य द्वारकरणाभिधात्री। लोकविरोधात् लोके हि पिता न पुत्रमारकः। मारकोऽपि मूढ एव न प्राज्ञः। ततश्च पितुरीश्वरस्य जगन्मारकत्वांगीकारे मौढ्यमेवेति न च तद्युक्तमिति लोकविरोधो दुर्वारः। न च विष्णोः सर्वसंहर्तृत्वेऽपि यत्प्रयंतीति श्रुतिसद्भावं वाच्यं। तस्या बलवदेतच्छुतिविरोधेनाप्रामाण्यात्। अतो न विष्णोः सर्वसंहर्तृत्वमिति प्राप्ते सूत्रमाह॥

%॥ ॐ ॥ तदभिध्यानादेव तु तल्लिंगात्स इति ॥% अस्यार्थः ॥ तु शब्दोऽवधारणे। अभिध्यान शब्देनेच्छोच्यते। तच्छब्देन विष्णुर्गृह्यते। तथा च स विष्णुरेव संहारकर्ता न रुद्रः। कुतः। तदमिध्यानात्। तस्याभिध्यानादिति (श्वे. 1-10.) श्रुत्युक्तत्वात्। तस्य विष्णोः अभिध्यानरूपशब्दज्ञापितसंजिहीर्षाविशेषितादनादिबंधसंहारेच्छारूपात् तल्लिंगादेव सादिजगत्संहर्तृत्वसाधकादेवेत्यर्थः। एवकारस्तु भाष्यरीत्या किमु श्रतिभ्य इति कैमुत्यसूचकः ॥

एवंच युक्तमेव विष्णोः सर्वसंहर्तृत्वं। तस्याभिध्यानादिति श्रुतौ तद्ध्यानजन्यप्रसादरूपेच्छाधीनत्वस्य बंधनिवृत्तेरभिधानात्। किंचातस्तदिच्छाधीनत्वेन कर्तृत्वमनुमीयते। एवंचानादेर्बंधस्य लयकार्ता सुतरां सादेर्जगतः संहारकर्तेति सिध्यति। यइदं सर्वं विलापयतीति श्रुतेश्च। रुदादिसंहारकर्तृत्वाबिधायकश्रुतेर्द्वारकारणत्वाबिधायकत्वेन विरोधाभावात्। न च पितृत्वादीश्वरस्य विनाशकत्वे मौढ्यप्रसंगः। लौकिकपितृणां ममतायुक्तत्वेन हंतृत्वायोगेन मौढ्यस्योपाधिकृतत्वेनांगीकारात्। ईश्वरस्य तु तदभावेन विना मौढ्यमपि संहर्तृत्वोपपत्तेः। अतः श्रुतिविरोधाभावेन युक्तं सर्वसंहारकर्तृत्वं विष्णोरिति सिद्धं ॥

॥ इति तदभिध्यानाधिकरणं ॥

%8.अधिकरणं ॥%

अत्राधेभूतादिसंहारक्रमविषयश्रुतिविरोधः परिह्रियते।

<2-3-14>
%(14) ॐ ॥ विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ ॐ ॥%

ननु श्रुतिसमन्वयेन न भगवतो व्युत्क्रमेण संहर्तृत्वं युक्तं। व्युत्क्रमप्रतिपादकश्रुतेरप्रामाण्यात्। तथा हि। अत एव हीदमिति (भाल्लवेय.) क्रमाल्लयप्रतिपादकश्रुतेः। सा च प्रत्यक्षानुगुणा। क्रमाद्विलीयत इत्याद्याः श्रुतयोऽस्मिन्नर्थे भवंति। ततश्च बलवदेतच्छ्रुतिविरोधेन व्युत्क्रमप्रतिपादकश्रुतेरप्रामाण्यमेवेति न युक्त इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ विपर्यंयेण तु क्रमोऽत उपपद्यते चेति ॥% अस्यार्थः ॥ तु शब्दोऽवदारणे। अत इत्यावर्तते। अतः उत्पत्तिक्रमात्। विपर्ययेण वैपरीत्येन। क्रमः लयक्रमः। न तूत्पत्तिक्रमेण। अत एव व्युत्क्रमादिति श्रुतरेव। किंच उपपद्यते युज्यते चायं व्युत्क्रमः। कुतः पूर्वोत्पन्नानां उत्तरोत्पन्नेभ्योऽधिकसामर्थ्येन तेषामधिककालवस्थानस्य युक्तत्वादित्यर्थः ॥

एवंच व्युत्क्रमेणैव लयो युक्तः। क्रमश्रुतेः सावकाशत्वेनाबाधकत्वात्। आस्ति व्युत्क्रमशब्देऽपि क्रमप्रवेशः। क्रमाल्लयाभिधायकभाल्लवेयश्रुतावेव व्युत्क्रमेण लयाभिधानात्। अनुरूपः क्रम इति (पाद्म.) वचनाच्च। न च लोकविरोधः। पूर्वेषां पूर्वेषां सामर्थ्याधिक्येन लोकविरोधस्यैवानुगुण्यात्। अतः श्रुत्यविरोधेन व्युत्क्रमाल्लयसिद्धेर्युक्तो हरौ श्रुतिसमन्वय इति सिद्धं ॥

॥ इति विपर्ययाधिकरणं ॥

%9.अधिकरणं ॥%

अत्र पूर्वोक्तव्युत्क्रमेण लये विज्ञानादौ क्वचिदपवादशंका निराक्रियते।

<2-3-15>
%(15) ॐ ॥ अंतराविज्ञानमनसी क्रमेण तल्लिंगादिति चेन्नाविशेषात् ॥ ॐ ॥%

ननु न विष्णोर्व्युत्क्रमेण सर्वसंहर्तृत्वं युक्तं। किंतु विज्ञानमनसी अंतरा व्युत्क्रमेण लयकर्तृत्वं। मनसश्च विज्ञानमिति मनस उत्पन्ने विज्ञानतत्त्वे तद्यच्छेद्विज्ञानात्मनीति (कठ. 3-13.) मनस्तत्त्वस्य लयश्रवणात्। लोकानुगुणाच्च। लोके क्रमेण व्युत्क्रमेण च लयदर्शनात्। न च सामर्थ्यतारतम्यविरोधः। मनस उत्पत्तिविषयसामर्थ्याधिक्यविज्ञानस्य तु लयविषये सामर्थ्याधिक्यमित्यंगीकारे बाधकाभावात्। अतः सयुक्तिकलिंगदर्शनविरुद्धायाः क्रमश्रुतेरप्रामाण्योपपत्तेर्न श्रुतिसमन्वयो युक्त इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अंतरा विज्ञानमनसी क्रमेण तल्लिंगादिति च्चेन्नाविशेषादिति ॥% अस्यार्थः ॥ विज्ञानमनसी विज्ञानतत्त्वमनस्तत्त्व। अतरा विना। अन्यत्र क्रमेण व्युत्क्रमेण लयः न तयोरपि। कुतः। तल्लिंगात् मनसश्च विज्ञानमित्यत्र विज्ञानात्पूर्वोत्पन्नतया भूतस्यापि मनसः यच्छे द्वाङ्मनसीति पूर्वमेव लयोक्तिरूपसाधकदर्शनादिति चेन्न। कुतः। अविशेषात् विज्ञानमनस्तत्त्वयोर्यथोत्पत्तिलय इत्यत्र विशेषप्रमाणाभावादित्यर्थः ॥

एवंच युक्तमेव विष्णोर्व्युत्क्रमेण सर्वसंहर्तृत्वं। विज्ञानमनसोरपि बाधकाभावेन व्युत्क्रमेण लयांगीकारात्। सर्वं वैतत्क्रमादुत्पद्यते क्रमाद्विलीयत इति विशेषप्रमाणाभावात्। अतः श्रुत्यविरोधेन सर्वेषां व्युत्क्रमेण लयसिद्धेः समन्वयो युक्त इति सिद्धं ॥

<2-3-16>
%(16) ॐ ॥ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ ॐ ॥%

ननु मनसश्च विज्ञानमिति श्रुत्या मनस्तत्त्वाद्विज्ञानतत्त्वस्योत्पन्नत्वेन मनस्तत्त्वस्य विज्ञानतत्त्वे लयांगीकारे विरोध एवापतीत इति प्राप्ते पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ चराचर व्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावबावित्वादिति ॥% अस्यार्थः ॥ चराचरव्यपाश्रयः चराचरशब्दितेंद्रियतद्वृत्तिज्ञानविषयसाधारणः। तद्व्यपदेशस्तु मनसश्च विज्ञानमिति श्रौतव्यवहारस्तु। भाक्तः एकदेशः। मनोविज्ञानशब्दार्थैकदेशभूतेंद्रियवृत्तिज्ञानविषयक एव न तत्त्वविषयकः। कस्मान्निमित्तात्। तद्भावबावित्वात् तस्या अवृत्तिः तस्मिन् चराचर शब्दितचेतनाचेतनविषये। तद्भावेन मनोभावेन आलोचनेन। भावित्वात् उत्पद्यमानत्वात्। अतो नोक्तलिंगदर्शनं बाधकमित्यर्थः ॥

एवंचोक्ताविरोधः। श्रुत्यर्थापरिज्ञानात्। न हि तत्पराश्रुतिर्मनस्तत्त्वाद्विज्ञानतत्त्वस्यौत्पत्तिमाचष्टे। किं तर्हि मन इंद्रियाज्ज्ञानस्योत्पत्तिमाचष्टे। परादव्यक्तमिति (स्कंद.) वचनात्। एवंच श्रुत्यविरोधेन हरौ श्रुतिसमन्वयो युक्त इति सिद्धं ॥

॥ इति अंतराधिकरणं ॥

%10.अधिकरणं ॥%

अत्र परमात्मनि लयविषयश्रुतिविरोधपरिहारः क्रियते ॥

<2-3-17>
%(17) ॐ ॥ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ ॐ ॥%

ननु न विष्णोः श्रुतिवॉसमन्वयो युक्तः। तस्यापि विनाशित्वात्। अंतस्तमसि निलीन इति श्रुतेः। न च नित्यो नित्यानामिति (कठ. 5-13.) श्रुतिविरोधः। ईश्वरो विनाशी चेतनत्वादिति युक्तिसाहित्येन विनाशश्रुतेः प्राबल्यात्। न च स्वातंत्र्येण हेतुनेश्वरस्यानुत्पत्तेः साधित्वेन विनाशायोगः। स्वतंत्रस्यापि लीलया विग्रहग्रहणे सत्यवर्जनीयपातोपपत्तेः। यथालीलया कुड्यात्कुड्यमुत्पततः पातः। न ह्युत्पतनं लीलयेति पातोऽपि लीलयाऽपि तु कारणांतरादवर्जनीयः। अतः सयुक्तिकश्रुतिविरोधेनान्यतरश्रुतेरप्रामाण्यान्नोक्तसमन्वयो युक्त इति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्य इति ॥% अस्यार्थः ॥ आत्मा परमात्मा न विलीयते। कुतः। अश्रुतेः तल्लयस्य क्वाप्यश्रवणात्। किंच ताभ्यः स नित्यो निर्गुण इत्यादिश्रुतिभ्यः नित्यत्वात् विष्णोर्नित्यत्वावगमाच्च न तस्य नाश इत्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। प्रलयस्याप्रामाणिकत्वात्। न चांतस्तमसि निलीन इति श्रुतिरत्र प्रमाणं। अंतस्तमसि निलीन इत्युत्क्वा पुरुषादीनिति वचनेन निलीनशब्दस्यापिहितार्थत्वात्। अन्यथा नित्यो नित्यानामित्यादिबहुश्रुतिविरोधापातात्। अतः श्रुत्यविरोधेन परमात्मलयस्य निरस्तत्वादुक्तसमन्वयो युक्त इति सिद्धं ॥

॥ इति आत्माधिकरणं ॥

%11.अधिकरणं ॥%

अत्र जीवजन्मविषयश्रुतिविरोधः परिह्रियते ॥

<2-3-18>
%(18) ॐ ॥ ज्ञोऽत एव ॥ ॐ ॥%

ननु न भगवतो जगत्कारणत्वं युक्तं। जीवस्यानुत्पन्नत्वात्। नित्यो नित्यानामिति (कठ. 5-13.) श्रुतेः। न चोत्पत्तावपि सर्व एत इति श्रुतिरस्तीति। जीवोनोत्पत्तिमान् अनादित्वात् ईश्वरवदित्यादियुक्तिसहितत्वेनानादित्वश्रुतेः प्राबल्यात्। न च साद्याविशिष्टता हेतोः। अनादिशब्देन तत्सत्ताया अनादिकालीनत्वस्य विवक्षितत्वात्। न च प्रलये जीवादीनां सत्त्वे विवादः। तथा सति जीवाभावेन तद्धर्मस्यादृष्टस्याप्यभावपत्त्या कारणाभावेन जगदुत्पत्तिरेव न स्यात्। अथवा कारणशून्यत्वमनादित्वं विवक्षितं। न च तत्रापि विवादः। कारणानुपलंभात्। अतो न जगत्कारणत्वं युक्तमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ ज्ञोऽत एवेति ॥% अस्यार्थः ॥ जानातीति ज्ञः जीवः अपि। अतः विष्णोः उत्पद्यत एव। कुतः। अत एव अविनष्टा एवोत्पद्यन्त इति (काषायण.) श्रुतेरेवेत्यर्थः ॥

एवंच युक्त एव समन्वयः। अनादिनित्यानामेव जीवानांते वा एत इति श्रुत्योत्पत्तिविधानात्। न च कारणाभावः। परमेश्वरस्यैव कारणत्वात्। अतः श्रुत्यविरोधेन जीवस्य ब्रह्मजातत्वसिद्धेर्युक्तस्तत्र समन्वय इति सिद्धं ॥

<2-3-19>
%(19) ॥ ॐ ॥ युक्तेश्च ॥ ॐ ॥%

नन्वनादिनित्यस्य जीवस्योत्पत्तिः श्रुताऽपि तस्योत्पत्त्यंगीकारे वंध्यात्वमभ्युपगम्य मातृत्ववचनवत् नित्यत्वमभ्युपगम्य पुनरुत्पत्तिवचनस्य व्याहतत्वादित्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ युक्तेश्चेति ॥% अस्यार्थः ॥ अनादिनित्यस्यापि जीवस्येसाधीनदेहवत्त्वरूपोत्पत्तेः युक्तत्वाच्च जीव उत्पत्तिमानेवेत्यर्थः ॥

एवंच नित्यस्यापि जीवस्योपाध्युत्पत्त्यपेक्षयोत्पत्त्युपपत्तेः। तथाऽपि स्वरूपलाभरूपोत्पत्तेरलाभेऽपि पराधीनविशेषावाप्तिरूपोत्पत्तेरेव विवक्षितत्वेन तदभावस्येष्टत्वात्। अतः श्रुत्यविरोधेन जीवस्य ब्रह्मजातत्वसिद्धेर्युक्तस्तत्र समन्वय इति सिद्धं ॥

॥ इति ज्ञाधिकरणं ॥

%12.अधिकरणं ॥%

अत्र जीवधर्मे परिमाणेऽणुत्वश्रुतिविरोधः परिह्रियते ॥

<2-3-20>
%(20) ॥ ॐ ॥ उत्क्रांतिगत्यागतीनां ॥ ॐ ॥%

ननु न जीवोऽणुः। व्याप्ता ह्यात्मान इति (काषायण.) श्रुतिविरुद्धत्वात्। न चाणुत्वेऽपि (गौपवन.) श्रुतिरस्तीति वाच्यं। व्याप्तिश्रुतेः सयुक्तिकत्वेन प्राबल्यात्। तब्दाधितैतच्छ्रुतेः प्रामाण्यायोगात्। आत्मा नाणुः सर्वदेहावच्छेदेन स्पर्शादिग्राहित्वात्। नाप्यणुत्वेयुगपत्सर्वेंद्रियैर्ज्ञानं भवति। न चात्मादेहपरिमाणः। मध्यमपरिमितत्वेनानित्यत्वप्रसंगात्। अतः परिशेषादात्मनो व्यापकत्वमेव स्वीकार्यं। तथा प्रयोगोऽपि सर्वमिदं मूर्त्तमात्मना सृष्टं मूर्त्तत्वान्मच्छरीरवदिति। ततश्चाणुत्वश्रुतेरप्रामाण्येन श्रुतिमात्रस्य प्रामाण्यनैयत्त्याभावान्न श्रुतिसमन्वयो युक्त इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ उत्क्रांतिगत्यागतीनामिति ॥% अस्यार्थः ॥ सोऽस्मादित्यादिवाक्योक्तदेहोत्क्रमणं लोकांतरगमनैतल्लोकागमनरूपहेतूनां सकाशादणुरेवजीवः न विभुरित्यर्थः ॥

एवंच जीवोऽणुरेव न व्याप्तः। उत्क्रांतिगत्यागतिमत्त्वात्। पतत्रिशरीरवदिति। अत्र महत्परिमाणातिरिक्तपरिमाणस्यैव विवक्षितत्वेन दृष्टांतस्य साध्यविकलत्वाभावात्। सोऽस्माच्छरीरादिति (पौष्यायण.) श्रुतिबलेन विभुत्वबाधकानामणुत्वसाधकानां हेतूनामसिद्धत्वात्। न च मध्यमपरिमाणत्वेनान्यतासिद्धिः। तस्यानित्यत्वप्रसंगेन निराकृतत्वात्। अतः श्रत्यविरोधेन जीवाणुत्वे सिद्धे युक्तः श्रुतिसमन्वय इति सिद्धं ॥

<2-3-21>
%(21) ॐ ॥ स्वात्मनाचोत्तरयोः ॥ ॐ ॥%

ननु न जीवस्योत्क्रांत्यादिकं परमेश्वरेणेति युज्यते। किंतु तस्य स्वयमेव संभवति। न च सोऽस्माच्छरीरादिति (पौष्यायण.) श्रुतौ जीवस्योत्क्रांत्याद्येव श्रूयते न त्वन्याधीनता विविनिषेधो वाऽतो न तया दृढनिर्णयाभाव इति वाच्यं। एकः प्रसूयत इति स्मृत्या जीवस्य स्वातंत्र्येणोत्पत्तिविनाशयोरुक्तत्वेन तदनुसारेण श्रुतेरपि जीवस्योत्क्रांत्यादेः पराधीनतानिषेधार्थपरत्वात्। इति प्राप्ते पराकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ स्वात्मना चोत्तरयोरिति ॥% अस्यार्थः ॥ च शब्द एवार्थः। जीवः स्वात्मना स्वतंत्रपरमात्मनैव तत्प्रेरणयैवोत्क्रांत्यादिमान् न स्वतः। कुतः। उत्तरयोः सकाशात् स एतेनैव स्वात्मना एष ह्येनं जीवमिति (पौष्यायण.) उत्तरवाक्यद्वयबलादित्यर्थः ॥

एवंच स्वात्मशब्दवाच्येन परमात्मनाऽनुगृहीतजीवस्य मातृदेहस्थगर्भप्रवेशस्य तत्प्रेरणैव जनेर्मोक्षार्थं चोर्ध्वगमनस्य चोक्तत्वात्। स एतेनैवेति श्रुतेः। स्वात्मशब्दस्य भगवति विद्वद्रूढेर्दर्शितत्वात्। निर्दिष्टस्मृतेस्तु प्रसवादि दुःखानुभवे परमात्मदत्तस्वातंत्र्यप्रतिपादकत्वेनाविरोधात्। अत उत्तरवाक्यबलाज्जीवस्योत्क्रांत्यादयः परमात्मनेवैति सिद्धं ॥

<2-3-22>
%(22) ॐ ॥ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ ॐ ॥%

नन्वथाऽपि न जीवोऽणुः। व्याप्ता ह्यत्मनश्चेतना निर्गुणाश्चेति (काषायण.) व्याप्तिश्रुतिविरोधेनाणुत्वायोगात्। बहुवचनश्रवणाद्‌व्यप्तिश्रुतेः परमात्मनि निरवकाशात्। उत्क्रांत्यादिकस्य तु मनोगतत्वेन जीवात्मन्युपचरितत्वादिति प्राप्ते पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ नाणुरतच्छ्रुतेरितिरेन्नेतराधिकारादिति ॥% अस्यार्थः ॥ ननु न जीवोऽणुः। कुतः। अतच्छ्रुतेः व्याप्ता ह्यात्मन इत्यणुत्वविरुद्धव्याप्तत्वश्रुतेः श्रवणादिति चेन्न। कुतः। इतराधिकारात् परमात्मप्रकरणात्। तथा च व्याप्तत्वश्रुतेः परमात्मविषयत्वात्। नाणुत्वबाधकत्वमित्यर्थः ॥

एवंच स आत्मेदं सृजति स द्विधेदमित्यादिना प्रकृतस्य परमात्मन एवात्राभिधानात्। न चास्य वाक्यस्य विष्णुरत्वे बहुवचनविरोधः। स आत्मा स आत्मानः स ईश इत्यादिना बहुवचनांतपदवाच्यत्वेन तस्यैव प्रकृतत्वात्। निर्गुणा इति बंधराहित्योक्तेश्च। ततश्चैतच्छ्रुतिबाधेनोत्क्रांत्यादीनामौपचारिकत्वकल्पनायोगात्। अतः श्रुत्यविरोधेन जीवाणुत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥

<2-3-23>
%(23) ॐ ॥ स्वशब्दोन्मानाभ्यां च ॥ ॐ ॥%

ननु यदुक्तं व्याप्तिश्रुतिरीश्वरविषयातत्प्रकरणादिति। तन्न। श्रुत्यपेक्षया प्रकरणस्य दुर्बलत्वात्। तन्मात्रेण बहुवचनश्रुतेरीश्वरकविषयत्वेन संकोचरूपबाधायोगादित्याशंकामपाकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ स्वशब्दोन्मानाभ्यां चेति ॥% अस्यार्थः ॥ चः समुच्चयो। न केवलं प्रकरणबलाद्व्याप्तत्वश्रुतिर्विष्णुपरा। किं तर्हि एषो ह्यात्माध्युद्गतोमानशक्तेरिति (काषायणश्रुति.) वाक्यस्थस्वशब्दगृहीतब्रह्मवाचकात्मशब्दादुन्मानशब्दितापरिमितत्वलिंगाच्च व्याप्तत्वश्रुतिर्विष्णुपरैव न जीवपरेत्यर्थः ॥

एवंचोक्तदोषो भवेत्। यदि प्रकरणमात्रेण व्याप्तिश्रुतेस्तद्विषयमुच्येत। न चैवं। किं नामैषोह्यात्माऽध्युद्‌गत इति वाक्यशेषे श्रुतात्मशब्दापरिमितत्वलिंगाभ्यां। तथा च श्रुतिलिंगसहितप्रकरणेन केवलया बहुवचनश्रुतेर्बाधस्य युक्तत्वात्। अतः श्रुत्यविरोधेन जीवाणुत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥

<2-3-24>
%(24) ॐ ॥ अविरोधश्चंदनवत् ॥ ॐ ॥%

नन्वथाऽपि न जीवस्याणुत्वं युक्तं। अणोस्तस्य शरीरकैकदेशस्थत्वेन तदन्यत्राभावेन कस्याप्यप्राप्तकरणेन क्रियानिवर्तकत्वाभावेन सर्वशरीरगतस्पर्शज्ञानायोगस्तत्र तत्र चक्षुरादिषु तैस्तैर्युगपद्रूपादिपरिज्ञानायोगादिति प्राप्ते सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अविरोधश्चंदनवदिति ॥% अस्यार्थः ॥ चंदनवत् चंदनरस इव। यथा चंदनबिंदोरेकदेशपतितत्वेऽपि स्वांशैः शरीरव्याप्तिः। तथाऽविरोधः जीवस्याणुत्वेऽपि स्वाशैर्देहव्याप्तौ न विरोध इत्यर्थः ॥

एवंचाणोरपि जीवस्याणुत्वव्याप्त्यविरोधेनाणुत्वेऽप्यंशैः सर्वशरीरव्याप्तिर्युज्येत। अतस्तत्र तत्र परिज्ञानायोगाख्यविरोधाभावात्। शरीरैकदेशनिपतितगंधसाराख्यमलयगिरितरुकाष्ठकृतद्रव्यबिंदोरिव जीवस्यांशैः सर्वशरीरव्याप्त्यंगीकारात्। अमुमात्रोऽप्ययं जीव इति (ब्रह्मांडपुराणे.) स्मृतेः ततश्च श्रुत्यविरोधेन युक्तः श्रुतिसमन्वय इति सिद्धं ॥

<2-3-25>
%(25) ॐ ॥ अवस्थितिवैशेष्यादिति चेन्नत्भ्युपगमाद्धृदि हि ॥ ॐ ॥%

ननु भवतां चंदनबिंदोव्याप्त्यव्याप्ती। तस्य सांशत्वेन शरीरैकदेशे सम्यगवस्थानस्यान्यत्रासम्यगवस्थानस्य च विशेषस्यानुभवसिद्धत्वात्। जीवस्य तु सांशत्वाभावेन तद्विशेषाभावात्। अन्यथाऽनित्यत्वप्रसंगादिति प्राप्ते सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृति हीति ॥% अस्यार्थः ॥ ननु युक्तं चंदनबिंदोः शरीरे व्याप्तत्वं। कुतः। अवस्थितवैशेष्यात् देहे क्वचित्प्रदेशे सम्यगवस्थानसत्वात् न तथा जीवस्य तदभावादिति चेन्न। कुतः। यतः हृदि हि हृदि ह्येष इति (प्र. 3-6.) श्रुतिः जीवस्यापि हृदि सम्यगवस्थानमवयवांतरे त्वसम्यगवस्थानांगीकारादित्यर्थः ॥

एवंच जीवस्यापि चंदनबिंदुवत्सांशत्वांगीकारेण चंदनबिंदुवद्देहे हृदयतदितरस्थानयोः सम्यगसम्यगवस्थानाभ्युपगमात्। न चानित्यत्वप्रसंगः। सांशत्वमात्रस्यानित्यत्वे प्रयोजकाभावेन किंत्वारंभकांशवत्त्वस्य प्रयोजकत्वसंभवेन तस्य च जीवेऽभावात्। अन्यथा प्रकृत्यादेरपि दशदिक्संबंधेन सांशत्वादनित्यत्वप्रसंगात्। हृदि ह्येष आत्मेति श्रुतेः। अतः श्रुत्यविरोधेन युक्तः श्रुतिसमन्वय इति सिद्धं ॥

<2-3-26>
%(26) ॐ ॥ गुणाद्वाऽऽलोकवत् ॥ ॐ ॥%

एवं स्वरूपतदंशाभ्यामात्मनः शरीरव्याप्त्यव्याप्ती सदृष्टांतमुक्त्वा प्रकारांतरेणापि तदुपपादकसूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ गुणाद्वाऽऽलोकवदिति ॥% अस्यार्थः ॥ वा शब्दः प्रकारांतरे। आलोकवत् प्रदीपस्येव। यथा दीपस्य प्रभया व्याप्तिः तद्वदणोरपि जीवस्य। गुणात् प्रकाशगुणात्। व्याप्तिर्युज्यत इत्यर्थः ॥ अविरोध इति सूत्रोक्तांशतो व्याप्तिः देवानां गुणाद्वेति सूत्रोक्तप्रकाशतो व्याप्तिस्तु मनुष्याणामिति विवेको द्रष्टव्यः ॥

एवंच केषांचिद्गुणेन केषांचिदंशैर्व्याप्त्यंगीकारात्। असम्यक्सम्यगिति चेति (स्कांद.) स्मृतेः। यथाऽऽलोकस्य प्रकाशाख्यगुणेन व्याप्तिः प्रदीपरूपेणाव्याप्तिरेवं ज्ञानाख्यगुणेन व्याप्तिर्जीवरूपेणाव्याप्तिरिति संभवेन परिज्ञानायोगाख्यविरोधाभावात्। अतः श्रुत्यविरोधेन जीवाणुत्वसिद्धेर्युक्तो हरौ श्रुतिसमन्वय इति सिद्धं ॥

॥ इति उत्क्रांत्यधिकरणं ॥

%13.अधिकरणं ॥%

अत्र जीवस्यैकरूपत्वानेकरूपत्वविषयश्रुतिविरोधः परिह्रियते ॥

<2-3-27>
%(27) ॐ ॥ व्यतिरेको गंधवत्तथा च दर्शयति ॥ ॐ ॥%

ननु जीवो नैकदाऽनेकशरीरावच्छिन्नः किंत्वेकेनैव। स एकधेति (गौपवन.) श्रुतेः। न चान्यत्रापि स पंचधेति (पाराशर्यायण) श्रुतिरस्तीति वाच्यं। तस्या युक्तिविरुद्धत्वेनाप्रामाण्यात्। अनेकशरीरावच्छिन्नत्वं हि विभुत्वेन वा सांशत्वेन वा भवेत्। न चोभयोः संभवः। अणुत्वे निरवयवत्वे च श्रतिसद्भावात्। न चोभयाभावेऽपि योगिनामघटितघटकसामर्थ्योपेतत्वेनापेपन्नमनकेशरीरत्वं। समुद्रपानादिकं च तेषां दृष्टचरमिति वाच्यं। तथात्वे जीवस्येश्वरगुणसाम्यप्रसंगात्। अतः सयुक्तिकैतच्छ्रुतिविरोधेन बहुरूपश्रुतेरप्रामाण्यान्न श्रुतिसमन्वयो युक्त इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ व्यतिरेको गंधवत्तथा च दर्शयतीति ॥% अस्यार्थः ॥ च शब्दोऽचिंत्ययेति (पाद्म) स्मृति समुच्चायकः। गंधवत् गंधस्येव। यथा पुष्पगंधस्य स्वांशैः। व्यतिरेको विभागस्तथाऽणोरपि जीवस्य स्वांशैः ईशशक्त्या व्यतिरेको युज्यते। कुत एतत्प्रतिपादयति। येतोऽथेति (शांडिल्य) श्रतिः तथा दर्शयति। अत एवेत्यर्थः ॥

एवंच न जीवस्यैकरूपत्वमिति नियमः। अपि तु योगाद्यापादितेश्वरानुग्रहेण केषांचिद्युगपदेकलूपत्वमपि। न चांशिनं विहायांशस्य गमनानुपपत्तिः। दृश्यते खलु गुणस्यापि गंधस्य धर्मिणं विहायान्यत्र गतिः। सति चैवं काऽनुपपत्तिः। द्रव्यस्यांशस्यांशिनं विहायान्यत्र गमने चैकधेति श्रुत्यविरोधः। तस्याः स्वरूपैक्याविषयत्वात्। अथैक एव सन्निति श्रुतेः। अतः श्रुत्यविरोधेन जीवस्य बहुरूपत्वोपपत्तेर्युक्तः समन्वय इति सिद्धं ॥

॥ इति व्यतिरेकाधिकरणं ॥

%14.अधिकरणं ॥%

अत्र जीवस्य परमात्माभिन्नत्वादिविषयश्रुतिविरोधः परिह्रियते।

<2-3-28>
%(28) ॐ ॥ पृथगुपदेशात् ॥ ॐ ॥%

नन्वभिन्न एव जीवः परमात्मना। तत्त्वमसी(छां. 6-8-7.)त्यादि श्रुतेः। यद्यपि श्रुतिरियं श्वेतकेतोरेव साक्षादैक्यं बोधयति। तथाऽपि सर्वजीवाभेदेतात्पर्यवत्त्वेन भवत्येव सर्वजीवाभेदे प्रमाणं। सतु तावज्जीवो न रामादिवद्भगवदंशः। नैव सोम्येति पूर्ववाक्यपर्यालोचनया तथाऽवगमात्। न च जीवत्वाविशेषे कस्यचिद्‌ब्रह्माभेदः कस्यचिन्नेति संभवति। ततश्च सर्वजीवानां ब्रह्माभेदं विवक्षित्वैव सा तस्य ब्रह्माभेदं वक्ति। न च विपर्ययेऽपि द्वा सुपर्णे(श्वे. 4-6.)त्यादिश्रुतिरस्ति। अद्वैतश्रुतेः सोपपत्तिषड्‌विधतात्पर्यलिंगयुक्तत्वेन बलवत्त्वात्। अतोऽद्वैतश्रतेरद्वैत एव तात्पर्येण तद्विरुद्धभेदश्रतेरतत्त्वावेदकेत्वमेवेति न भगवतः श्रुतिसमन्वय इति प्राप्ते सूत्रितं।

%॥ ॐ ॥ पृथगुपदेशादिति ॥% अस्यार्थः ॥ जीवः परमात्मना पृथक् भिन्नः। कुतः। उपदेशात् भिन्नोऽचिंत्य इति (कौशिक.) श्रुतेरित्यर्थः ॥

एवंच भिन्न एव जीवो भगवता। भिन्नोऽचिंत्य इति श्रुतेः। न चाभेदेऽपि श्रुतिरस्तीति वाच्यं। विरुद्धधर्माधिकरणस्य युक्तियुक्तत्वेन भेदश्रुतेः प्राबल्यात्। अतः श्रुत्यविरोधेन जीवेशयोर्भेदसिद्धेर्ब्रह्माणि श्रुतिसमन्वयो युक्त इति सिद्धं ॥

<2-3-29>
%(29) ॐ ॥ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ ॐ ॥%

नन्वेवं तर्ह्यद्वैततत्त्वमसीत्याद्यद्वैतश्रुतेर्निविषयत्वेनाप्रामाण्यं प्राप्तमित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवदिति ॥% अस्यार्थः ॥ प्राज्ञवत् ब्रह्मणीव यथा प्राज्ञे ब्रह्मणि सर्वं खल्विदं ब्रह्मेति (छां. 3-14-1.) जगदभेदोक्तिः। तथा जीवे। तद्व्यपदेशः तत्त्वमसीति ब्रह्मैक्योक्तिर्युज्यते। कुतः। तद्गुणसारत्वात्। जीवस्य ब्रह्मगुणसदृशचिदानंदादिगुणस्वरूपत्वान्निमित्तादित्यर्थः ॥

एवंचाभेदश्रुतेरपि प्रामाण्यं। तथाऽपि जीवस्य परमात्मगुणसदृशानंदादिगुणवत्त्वात्। अहं ब्रह्मास्मी(बृ. 3-4-10.)त्यादिश्रुतिगतानां ब्रह्मादिशब्दानां गौण्यावृत्त्या जीवे प्रवृत्तत्वेन सादृश्याभेदस्य श्रुत्यर्थत्वात्। तत्त्वमसीत्यादिब्रह्मवाचकशब्दस्य जीवे गौणवृत्त्यंगीकार इवासिपदस्यजीवार्थेलक्षणांगीकारेऽपि सादृस्याभेदप्रतीतेश्च। अभेदाभावेप्यभेदव्यपदेशस्य तद्गुणसारत्वेन सर्वं खल्वित्यादौ दर्शनात्। तत्त्वंपदबोध्ययोर्विशिष्टयोरैक्यस्य बाधितत्वात्। निर्विशेषयोर्विशेषणविशेष्यभावायोगेनाभेदबोधनायोगात्। अभेदस्य नीलमुत्पलमित्यादाविव तद्भावतत्वात्। निर्विशेषयोर्विशेषणविशेष्यभावायोगेनाभेदबोधनायोगात्। अभेदस्य नीलमुत्पलमित्यादाविव तद्भावमुखेनैव बोधनीयत्वात्। यथा गंगायां घोष इत्यादिलौकिकवाक्यस्य गंगादिपदामुख्यार्थद्वारक एव वाक्यार्थो न तु मुख्यार्थद्वारकः। नैवं वेदे। वेदो हि स्वपदानां महायोगादिवृत्त्याऽर्थं प्रदिपाद्यैव गौण्यादिवृत्त्याऽर्थांतरं प्रतिपादयतीत्याह। पररीत्या प्राप्तिसद्भावेनाप्राप्तिनिषेधायोगाभावात्। अतः श्रुत्यविरोधेन जीवब्रह्मणोर्भेदसिद्धेर्युक्तः समन्वय इति सिद्धं ॥

॥ इति पृथगधिकरणं ॥

%15.अधिकरणं ॥%

अत्र जीवनित्यत्वविषयश्रुतिविरोधः परिह्रियते।

<2-3-30>
%(30) ॐ ॥ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ॐ ॥%

नन्वनित्य एव जीवः। ब्रह्मन् लयमभ्युपैतीत्यनित्यत्वश्रुतेः। न च सोऽनादिनेति श्रुतिस्तस्य नित्यत्वेऽस्तीति वाच्यं। अनित्यत्वश्रुतेः सयुक्तिकत्वेन प्राबल्यात्। उक्ता खलु जीवस्योत्पत्तिर्ज्ञोऽत एवेति। ततश्च जीवो विनाशी। भावत्वेसत्युत्पत्तिमत्त्वादिति मानसद्भावात्। न च तत्रोपाधेरेवोत्पत्तिरुक्ता न तु जीवस्येति। उपाधेरुत्पत्तिमत्त्वाद्विनाशे प्रतिबिंबविनाशस्यावर्जनीयत्वात्। अतः सयुक्तिकश्रुतिविरोधात्तस्यानादिकर्मसंबंधाद्युक्तेस्तदभिधायकश्रुतेरप्रामाम्यादयुक्तः श्रुतिसमन्वय इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनादिति ॥% अस्यार्थः ॥ यावदात्मभावित्वाच्च जीवस्य यावत्परमात्मसत्त्वात्। नित्यत्वादिति यावत्। न दोषः सोऽनादिनेति पुण्यपापंसंबधबोधकश्रुत्यप्रामाण्यदोषो नास्ति। कुत एतत्। तद्दर्शनात् तस्य नित्यत्वस्य नित्यो जीव इति (अग्निवेश्य.) तावुक्तत्वात् च आत्मा नित्यः जीव इति (भारते.) स्मृतिद्वयाच्चेत्यर्थः ॥

एवंच जीवो नित्य एव। नित्यः पर इति श्रुतावात्मवज्जीवस्यापि नित्यत्वाभिदानात्। तथाऽऽत्मानित्य इति स्मृतौ जीवस्य नित्यत्वमुक्त्वा तच्छरीरादेरनित्यत्वाभिधानात्। न चोपाधिनाशे प्रतिबिंबस्य जीवस्यापि नाशो दुष्परिहारः। तस्याप्रतिबिंबत्वात्। न च रूपं रूपमिति (बृ. 4-5-19.) श्रुतिर्जीवस्य प्रतिबिंबत्वमापादयतीति वाच्यं। तस्यास्तदधीनत्वे सति तत्सदृशत्वरूपगौणप्रतिबिंबत्वपरत्वेन मुख्यप्रतिबिंबत्वानावेदकत्वात्। न चैकस्मिन्नुपाधावेस्यैव प्रतिबिंबो नान्यस्येति संभवति। दर्पणादावपि तथा प्रसंगात्। अपि च प्रतिबिंबस्योपाध्येकदेशवृत्तित्वनियमेन जीवस्य चिच्छरीरकैदेशवृत्तित्वं प्राप्नोति। किं च बाह्यशरीरे प्रतिबिंबभावे तद्बाह्यशरीरनाशे जीवनाशो दुष्परिहारः। तदभावे तु जीवोपाधिर्द्विधा प्रोक्ता इत्यादौ तस्योपाधित्ववचनमयुक्तमेवापतति। अथ तस्योपाधित्ववचनं गौणं तर्हि चिच्छरीरस्यापि तद्वचनं गौणमस्तु। अर्धजरतीयानुपपत्तेः। अस्तु वा जीवस्य प्रतिबिंबत्वं। तथाऽपि बिंबोपाधितत्सन्निधीनां नित्यत्वेन न जीवस्य नाशो भवति। कारणाभावात्। उपाध्यनित्यतावचनानि बाह्योपाधिविषयाणि। अतः श्रुत्यविरोधेन जीवस्य नित्यत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥

॥ इति यावदधिकरणं ॥

%16.अधिकरणं ॥%

अत्र जीवस्यानंदादिरूपत्वतदभावश्रुत्योर्विरोधः परिह्रियते।

<2-3-31>
%(31) ॐ ॥ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ ॐ ॥%

ननु न जीवो ज्ञानानंदादिरूपः। सुखदुःखाद्विमुक्त इति (पैंगि.) श्रुतेः। न चानंदादिरूपत्वेऽपि स बलमानंद (गौपवन.) इति श्रुतिरस्तीति नानंदादिरूपात्वाभावनिर्णयः संभवतीति वाच्यं। जीवो नानंदादिरूपः। ततोपलब्धियोग्यत्वे सति तथाऽनुपलभ्यमानत्वादिति मानसद्भावेनानानंदश्रुतेः सयुक्तिकत्वात्। न च प्रतिबंधकवशेनानुपलब्धिस्तन्निवृत्त्यर्थं प्रयत्नसंभवः। जीवस्याहमिति नित्याभिव्यक्तत्वेन तत्स्वरूपभूतानां व्यवधानस्यैवानुपपत्तेः। किंचावरणं नामाज्ञानं। तस्य वशादननुभव इति चेत्। जीवस्यानंदादिरूपत्वे आनंदाद्यज्ञानमनुपपन्नमिति चोदितेऽज्ञानवशादज्ञानमुपपन्नमिति परिहारायोगात्। आवरणं शरीरादिति चेत्। वैपरीत्यमपि वक्तुं शक्यत्वात्। तदेवं सयुक्तिकश्रुतिविरोधादप्रमाणमेवान्याश्रुतिरतो नेश्वरे श्रुतिसमन्वयो युक्त इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगादिति ॥% अस्यार्थः ॥ तु शब्द एवार्थे। पुंस्त्वादिवत् पुंस्त्वादेरिव पुरुषयोषिदादीनामपत्योत्पत्तिशक्तिस्वरूपत्वेऽपि कालविशेषे तदभिव्यक्तिः। तथा सतः जीवस्वरूपत्वेन मुक्तेः पूर्वमपि विद्यमानस्यैवास्य ज्ञानानंदादेरभिव्यक्तियोगात् मुक्तावभिव्यत्क्या निमित्तभूतया योगात् आनंदी भवतीति (पैंगि.) श्रुत्युपपत्तेः। न जीवस्यानंदादिरूपत्वे तच्छ्रुतिविरोध इति जीव आनंदादिरूप एवेत्यर्थः ॥

एवंच भवत्येव जीव आनंदादिरूपः। तथाश्रुतेः। न चानंदी भवतीति श्रुतिविरोधः। यथा पुरुषयोषिदादीनामपत्योत्पत्तिशक्तिस्वरूपत्वेऽपि कालतस्तदभिव्यक्तेर्नायं पूर्वं पुमानिदानीं पुमानित्यादि युज्यते। एवं जीवस्वरूपत्वेन मुक्तेः पूर्वमपि सतो ज्ञानानंदादेरीश्वरप्रसादेनाभिव्यक्तिनिमित्तेनानंदी भवतीत्यादिव्यपदेशोपपत्तेः। नापिप्रयत्नानुपपत्तिः। तदभिव्यक्त्यर्थमेव मुमुक्षूणां तदुपपत्तेः। न चावरणानुपपत्तिः। ज्ञानाभावातिरिक्ताविद्याया एवावरणत्वाभ्युपगमात्। तदेवं श्रुत्यविरोधेन जीवस्यानंदादिरूपत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥

<2-3-32>
%(32) ॐ ॥ नित्योपलब्धयनुपलब्धिप्रसंगोऽन्यतरनियमो वाऽन्यथा ॥ ॐ ॥%

ननु जीवस्वरूपभूतानामानंदादीनां प्रागनभिव्यक्तानां मोक्षेऽभिव्यक्तिरित्ययुक्तं। जीवस्वरूपस्य नित्याभिव्यक्तत्वादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ नित्योपलब्ध्यनुपलब्धिप्रसंगोऽन्यतरनियमो वाऽन्यथेति ॥% अस्यार्थः ॥ वा शब्दो व्यवस्थितविकल्पार्थः। उपलब्धिः अनुभवः। अन्यथा जीवस्यानंदादिरूपत्वमंगीकृत्य आवरणानंगीकारे नित्योपलब्धनुपलब्धिप्रसंगः। यथायोग्यमन्वयः। मुक्तियोग्यानां नित्यमानंदाद्यनुभवः स्यात्। तमोयोग्यानां न कदाप्यानंदानुभवः स्यात्। किंतु स्वरूपदुःखानुभव एव स्यात्। एवं मध्यममनुष्याणामन्यतरनियमः अन्यतरयोः सुखदुःखानुभवयोः नियमः साम्यमेव स्यात्। प्रतिबंधकीभूतावरणगतादित्यर्थः। तस्माज्जीवस्यावरणमंगीकार्यमिति भावः।

एवंच जीवस्वरूपस्यानंदादिरूपत्वमंगीकृत्यावरणनिवृत्त्यनंगीकारे आवरणाभावो मूलमिति चेत्। देवदानवमानवानां नित्यं स्वस्वरूपोपलब्धिप्रसंगात्। आवरणाभावेऽनुभवाभावायोगात्। आवरणनिवृत्त्यनंगीकारे तु देवदानवमानवानां कदाऽपि स्वस्वरूपानुपलब्धिप्रसंगात्। प्रतिबंधकस्य तदातनत्वात्। नित्यानंद इति श्रुतिविरुद्धत्वात्। अतः श्रुत्यविरोधेन जीवस्यानंदादिरूपत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥

॥ इति पुंस्त्वाधिकरणं ॥

%17.अधिकरणं ॥%

अत्र जीवकर्तृत्वविषयश्रुतिविरोधः परिह्रियते।

<2-3-33>
%(33) ॐ ॥ कर्ता सास्त्रार्थवत्त्वात् ॥ ॐ ॥%

ननु जीवो न कर्ता। नान्यः कर्तेति श्रुतेः। न च यत्कर्म कुरुत इति (बु. 6-4-5.) श्रुतिर्जीवकर्तृत्वे प्रमाणं। अकर्तृकत्वश्रुतेः सयुक्तकत्वेन प्राबल्यात्। समर्थितं खल्वीश्वरस्यैवानन्ययोगेन कर्तृत्वमितरव्यपदेशादित्यादौ। ततश्च जीवस्य कर्तृत्वमेव नास्तीत्येष उ एव साधुकर्म कारयतीत्यादिसमन्वयो न युक्त इति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ कर्ता सास्त्रार्थवत्त्वादिति ॥% अस्यार्थः ॥ जीवोऽपि कर्ता। कुतः। तथा सत्येव शास्त्रार्थवत्त्वात् विधिनिषेधरूपशास्त्रस्य प्रयोजनवत्त्वात्। अन्यथा वैयर्थ्यप्रसंगादित्यर्थः ॥

एवंचोक्तश्रुतिसमन्वयो युक्त एव। जीवस्यापि कर्तृत्वेन तत्प्रेरकत्वसंभवात्। अन्यथा विधिनिषेधशास्त्रवैयर्थ्यं स्यात्। न हि कर्तारमंतरेणारण्यरोदनायमानशास्6स्य सार्थक्यं भवेत्। अतः श्रुत्यविरोधेन जीवस्य कर्तृत्वसिद्धेर्युक्तः श्रुतिसमन्वय इति सिद्धं ॥

<2-3-34>
%(34) ॐ ॥ विहारोपदेशात् ॥ ॐ ॥%

नन्वथाऽपि जीवस्य न वास्तवं कर्तृत्वमभ्युपेयं। जीवस्य स्वतः कर्तृत्वाभावेऽपि परगतकर्तृत्वे स्वीयत्वाग्रहोऽस्त्येव। अतः काल्पनिककर्तृत्ववंतं जीवं प्रति विधिनिषेधशास्त्रप्रवृत्तिर्भवेदित्याशंकामपाकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ विहारोपदेशादिति ॥% अस्यार्थः ॥ मुक्तावपि जक्षन्क्रीडन्निति विहारकर्तृत्वोक्तेः जीवः परमार्थत एव कर्ता न काल्पनिककर्तेत्यर्थः ॥

एवंच मोक्षेऽपि स्त्रीभिर्वा यानैर्वे(छां. 8-12-3.)त्यादिना विहारकर्तृत्वोपदेशात्। न च मोक्षे सतो व्यावहारिकत्वसंभवः। अतः श्रुत्यविरोधेन जीवकर्तृत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥

<2-3-35>
%(35) ॐ ॥ उपादानात् ॥ ॐ ॥%

नन्वस्तु तर्हि जीवस्य मोक्षे कर्तृत्वं पारमार्थिकं। प्रामाणिकत्वात्। संसारे तु व्यावहारिकमेव। तावता शास्त्रसार्थक्यं भवेदित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ उपादानादिति ॥% अस्यार्थः ॥ जीवस्य मोक्षार्थे साधनाद्यनुष्ठानदर्शनात्। ततः फलदर्शनाच्च। न जीवः संसारेऽपि काल्पनिककर्तेत्यर्थः ॥

एवंच मोक्षार्थं साधनाद्युपादानदर्शनात्। न च तदपि परगतमेव जीव आरोप्यमिति वाच्यं। फलाभावप्रसंगात्। अतः श्रुत्यविरोधेन जीवकर्तृत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥

<2-3-36>
%(36) ॐ ॥ व्यपदेशाच्चाक्रियायां न चेन्निर्देशविपर्ययः ॥ ॐ ॥%

एवं संसारे शास्त्रार्थवत्त्वरूपयुक्त्या साधनाद्युपादानप्रत्यक्षेण च साधितं जीवकर्तृत्वं श्रुत्याऽपि समर्थयत्सूत्रमाह ॥

%॥ ॐ ॥ व्यपदेशाच्चाक्रियायां न चेन्निर्देशविपर्यय इति ॥% अस्यार्थः ॥ क्रियायां आत्मानमेव लोकमुपासीते (बृ. 3-4-15.) त्युक्तोपासनक्रियायां। व्यपदेशात् जीवस्य कर्तृत्वोक्तेश्च। जीवः कर्ता। न चेत् कर्तृत्वं न चेत्। निर्देशविपर्ययः। निर्देशस्य जीवस्य कर्तृत्वेनेश्वरस्य कर्मत्वेन वचनस्य। विपर्ययः आत्मैवोपासीतेत्येवं रूपवैपरीत्यं स्यादित्यर्थः ॥

एवंचात्मानमेव लोकमुपासीतेति श्रुतौ जीवस्य कर्तृत्वव्यपेदशात्। जीवस्योपासनाक्रियायां कर्तृत्वेन श्रुत्यनभिमतत्वे क्रियाया अकर्तृकत्वजडकर्तृत्वयोरसंभवाच्छ्रुतिवैयर्थ्यापत्त्या तत्परिहाराय परमात्मन एव क्रियाकर्तृत्वेन तदभिमतत्वे आत्मैव लोकमिति निर्देशः स्यात्। तथा चास्य कर्तत्वान्नास्ति चासौ विपरीतनिर्देशस्तस्मान्न जीवोऽकर्ता किंतु कर्तैवेति विपर्ययपर्यवसाने जीवस्यापि कर्तृतासिद्धेः। अतः श्रुत्यविरोधेन समन्वयो युक्त इति सिद्धं ॥

<2-3-37>
%(37) ॐ ॥ उपलब्धिवदनियमः ॥ ॐ ॥%

नन्वेवं जीवस्यापि कर्तृत्वे कथमितरव्यपदेशादित्यादावीश्वर एव कर्तेति समर्थितं। कथं च नान्यः कर्तेति श्रुतिरुपपद्यते। अतस्तद्विरोधोऽस्त्येवेत्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ उपलब्धिवदनियम इति ॥% अस्यार्थः ॥ उपलब्धिवत् उपलब्धाविव। यथा जीवस्योपलब्धौ ज्ञाने। अनियमः स्वेच्छानुसारेण ज्ञानालाभः तथा क्रियायामपि अनियमो युक्त इत्यर्थः ॥

एवंच यथेदमहं ज्ञास्यामीतीच्छायामपि न स्वेच्छानुसारेण ज्ञानलाभो जीवस्य। एवमिदं करिष्यामीति संकल्पेऽपि न स्वेच्छानुसारेण कार्यसिद्धिः। ईश्वरस्य तु स्वेच्छानुसारेण कार्यसिद्धिर्भवतीति स्वातंत्र्याभिप्रायेणेश्वर एव कर्ता न जीवः कर्तेत्युच्यत इत्यभिप्रायकत्वात्। ततश्च जीवस्य कर्मणि नियमाभावेनेश्वरस्य तु तद्भावसिद्धेः। अनन्याधीनकर्तृत्वविवक्षयेश्वरस्येव कर्तृत्वस्य न जीवस्येति प्रागुक्तत्वात्। न तु सर्वथा कर्तृत्वाभावाभिप्रायेणेति न पूर्वोक्तविरोधः। अतः श्रुत्यविरोधेन जीवकर्तृत्वसिद्धेः समन्वयो युक्त इति सिद्धं ॥

<2-3-38>
%(38) ॐ ॥ शक्तिविपर्ययात् ॥ ॐ ॥%

नन्वीश्वरस्य जीववत्साधनासापेक्षकर्तृत्वेनाविशेषात्। ईश्वरस्यैव स्वतंत्र्यं न जीवस्येत्येतत्कुत इत्याकांक्षायां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ शक्तिविपर्ययादिति ॥% अस्यार्थः ॥ ईशजीवयोः शक्तिविपर्ययात् पूर्णापूर्णरूपशक्तिभेदमपेक्ष्य कर्तृत्वमपि स्वतंत्रपरतंत्रभेदभिन्नमित्यर्थः। यद्वा। ईश्वरवत् जीवे पूर्णशक्त्यभावान्न तस्य स्वतंत्रकर्तृत्वमित्यर्थः ॥

एवंचेश्वरस्य सकलसाधननियामकत्वेन साधनस्वातंत्र्यसद्भावात्। कार्यसिद्धौ च स्वातंत्र्यसापेक्षत्वात्। जीवस्य तु साधनस्वातंत्र्याभावेन फलस्वातंत्र्याभावात्। ततश्च जीवस्याल्पसक्तित्वेन स्वातंत्र्याभावाद्युक्तः समन्वय इति सिद्धं ॥

<2-3-39>
%(39) ॥ ॐ ॥ समाध्यभावाच्च ॥ ॐ ॥%

युक्त्यंतरेणेशजीवयोः स्वातंत्र्यपारतंत्र्ये समर्थयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ समाध्यभावाच्चेति ॥% अस्यार्थः ॥ समाधिः अलंबुद्धिः। तदभावात् न जीवस्य स्वतंत्रकर्तृत्वं किंतु परतंत्रकर्तृत्वमेवेत्यर्थः ॥

एवंचेश्वरस्य पूर्णकामत्वात्फलस्वातंत्र्यं जीवस्य तदभावात्फलस्वातंत्र्याभावः। ततश्च जीवेशयोः स्वातंत्र्यपारतंत्र्योः प्रतीयमानत्वेन ताभ्यां निमित्ताभ्यां कर्मणि नियमानियमयोः प्रतिपत्तव्यत्वात्। अतः श्रुत्यविरोधेन समन्वयो युक्त इति सिद्धं ॥

<2-3-40>
%(40) ॐ ॥ यथा च तक्षोभयथा ॥ ॐ ॥%

ननु जीवस्य न स्वातंत्र्येण कर्तृत्वं चेत्तर्हि श्रुतिस्मृत्यादौ कथं कर्तेत्युच्यते। अस्वातंत्र्यकर्तरि कर्तृशब्दप्रयोगाभावेन तस्य स्वतंत्रकर्तृत्वमात्रप्रत्यायकत्वादिति प्राप्ते पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ यथाच तक्षकोभयथेति ॥% अस्यार्थः ॥ दार्ष्टांतिकसमुच्चये च शब्दः। यथा तक्षा वर्धकिः। उभयथा प्रासादादिकारयितृप्रेरितत्वेन तत्कर्तृत्वेन च व्यपदिश्यते तथा ईश्वरनियतोऽपि जीवः कर्तेति वक्तुं शक्यत इत्यर्थः ॥

एवंचास्वतंत्रेऽपि कर्तरि प्रासादकर्तायं तक्षेति प्रयोगदर्शनेन कर्तृशब्दस्य स्वतंत्रकर्तृमात्रप्रत्यायकत्वनियमाभावात्। जीवस्यापीश्वरनियतत्वस्य घटादिकर्तृत्वस्य च सद्भावात्। अतो जीव कर्तृत्वसिद्धेः समन्वयो युक्त इति सिद्धं ॥

<2-3-41>
%(41) ॐ ॥ परात्तु तच्छ्रुतेः ॥ ॐ ॥%

ननु किं तक्ष्ण इव जीवस्य कर्तृत्वशक्तिर्जीवाधीनैव। ईश्वराधीनत्वं तु वचनवेतनदानादिवदुत कर्तृत्वशक्तिरपीश्वराधीना। आद्य ईश्वरस्यैव कर्तृत्वमिति गतः पक्षः। द्वितीये न जीवस्य कर्तृत्वशक्तिरिति प्राप्ते समादधत्सूत्रमाह ॥

%॥ ॐ ॥ परात्तु तच्छ्रुतेरिति ॥% अस्यार्थः ॥ जीवस्य कर्तृत्वशक्तिः परात्तु परमात्मानमनुसृत्यैव तदधीनैवास्ति। कुतः। तच्छ्रुतेः कर्तृत्वं कारणत्वं चेति (पौंगिश्रुतौ.) जीवकतृत्वस्येशाधीनत्वश्रवणादित्यर्थः ॥

एवंच कर्तृत्वं करणत्वं चेति श्रुतिबलेन जीवस्य कर्तृत्वशक्तेरीश्वराधीनत्वांगीकारात्। ईश्वरस्य कर्तुमकर्तुमन्यथाकर्तुमिति सामर्थ्यसद्भावेन तदिच्छयैव जीवादीनां कर्तृत्वादिसंपत्तिदर्शनात्। अतः श्रुत्यविरोधेन समन्वयो युक्त इति सिद्धं ॥

<2-3-42>
%(42) ॐ ॥ कृतप्रयत्नापेक्षस्तु विहितप्रतिषेधावैयर्थ्यादिभ्यः ॥ ॐ ॥%

नन्वस्मिन्पक्षेऽपि दोष उक्तः। यदि कर्तृत्वशक्तिरीश्वराधीना तर्हि तस्यैव कर्तृत्वं न जीवस्य। दारु प्रतिमावदन्यादीनस्येति पुनः शास्त्रवैयर्थ्यापात इति प्राप्ते पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ कृतप्रयत्नापेक्षस्तु विहितप्रतिषेधावैयर्थ्यादिभ्य इति ॥% अस्यार्थः ॥ तुरवधारणे। यतः परमात्मा विहितप्रतिषेधावैयर्थ्यादिभ्यः। तादर्थ्ये चतुर्थी। विधिनिषेधशास्त्रावैयर्थ्याय स्वस्य वैषम्यनैर्धृण्यपरिहाराय च कृतप्रयत्नापेक्षः जीवकर्मप्रयत्नयोग्यतापेक्षमाण एव जीवं प्रेरयति न त्वनपेक्षःसन्। अतो जीवशक्तेरीशाधीनत्वेऽपि तस्यापेक्षितकृतिमत्त्वमस्त्येवेत्यर्थः।

एवंच विधिनिषेधशास्त्रयैयर्थ्यपरिहाराय स्वस्य वैषम्यनैर्घृण्यपरिहाराय च जीवकर्मप्रयत्नयोग्यतापेक्ष्यैवेश्वरो जीवं प्रेरयतीत्यंगीकारात्। पूर्वकर्मप्रयत्नं चेति (भविष्यत्पर्वणि) वचनात्। जीवस्य विधिवाक्यतदर्थज्ञाने तज्जन्यसाधनफलेच्छयोः साधनविषयककृतौ च भगवत्प्रेर्यत्वेऽपि न विधिविषयत्वकर्मफलभाक्त्वयोरनुपपत्तिरिति न शास्त्रप्रवृत्तिवैयर्थ्यं। राजभटाद्युत्पादितेच्छादिमतोऽपि त्रिवर्णादोर्विष्टिगृहीतस्य च संध्योपासनादौ भारवहनादौ च विध्यादिदर्शनेन तद्वदेवास्वतंत्रकर्तृतामात्रेण तयोरुपपत्तेः। अतः श्रुत्यविरोधेन जीवकर्तृत्वसिद्धेर्युक्तः श्रुतिसमन्वय इति सिद्धं ॥

॥ इति कर्तृत्वाधिकरणं ॥

%18.अधिकरणं ॥%

अत्र जीवविषये श्रुतिविरोधः परिह्रियते।

<2-3-43>
%(43) ॐ ॥ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ॐ ॥%

ननु न जीवः परमेश्वरांशः। तत्र प्रमाणाभावात्। न चांशा एव हीमे जीवा इति (गौपवन.) श्रुतेः प्रामाण्यं। नैवांश इति (भाल्लवेय.) श्रुतिबाधितत्वेन स्वार्थनिश्चायकत्वाभावेन तच्छ्रुतेरप्रामाण्यात्। जीवेशयोर्भेदस्य साधितत्वेन भिन्नस्य चांशत्वायोगात्। असंभवदर्थायाः प्राचीनश्रुतेः संभवदर्थाया नैवांश इति श्रुतेः प्रबलत्वेन बाधकत्वात्। एवं चांशत्वश्रुतेरप्रामाण्यान्न तत्समन्वयो युक्त इति ॥ यद्वा ॥ टीकोक्तरीत्या। अनिर्णायकमेव श्रुतिद्वयं। परस्परप्रतिबंधात्। न च व्रीहियवश्रुत्योरिव विकल्पो युक्तः। वस्तुविकल्पायोगात्। न च देशकालभेदेन व्यवस्थितविकल्पो युक्तः। विशेषप्रमाणाभावात्। अतः श्रुतिद्वयस्याप्रामाण्यमेवेति नोक्तयुक्तयो युक्ता इति। प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एक इति ॥% अस्यार्थः ॥ जीवः परमात्मनोंऽश एव। पितापुत्रत्वादिसंबंधेन केवलं तदुपजीवकत्वरूपांशत्वेन च न तु न कदाचिदीश्वरवदुपजीव्यः। कुतः। नानाव्यपदेशात् मां रक्षत्वित्यादौ पितृत्वभ्रातृत्वादिनानाप्रकारेण जीवस्येशसंबंधित्वोक्तेः। किं च यतः। एके शाखिनः। अन्यः परोऽन्यो जीव (पाषायण श्रुतिः) इत्यादिना एनं जीवं परात्। अन्यथा भिन्नत्वेनः। अधीयते पठंति। यतः अन्येच शाखिनः ब्रह्म दाशा (ब्रह्मसूक्ते) इत्यादिना ब्रह्मणो दाशकितवादित्वं दाशकितवशब्दितजातिविशेषयुक्तजीवप्रभृतिभावं तदभेदमिति यावत्। दाशकितवादेव चाब्रह्मत्वमधीयते। अतोंऽशत्वरूपांशत्ववानित्यर्थः ॥

एवंचांश एव जीवो भगवतः। मां रक्षत्वित्यादि नानाप्रकारेण जीवस्येशसंबंधित्वव्यपदेशात्। तत्संबंधित्वस्यैव तदंशरूपत्वात्। अतः श्रुत्यविरोधेन जीवस्येश्वरांशत्वोपपत्तेर्युक्तः समन्वय इति सिद्धं ॥

<2-3-44>
%(44) ॐ ॥ मंत्रवर्णात् ॥ ॐ ॥%

एवमुपपत्त्या जीवस्येश्वरांशत्वमुपपाद्य श्रुत्याऽपि तत्साधयत्सूत्रमाचरति ॥

%॥ ॐ ॥ मंत्रवर्णादिति ॥% अस्यार्थः ॥ पादोऽस्येति श्रुतेश्च जीवः परमात्मांश इत्यर्थः ॥

एवंच पादोऽस्य विश्वाभूतानीति (ऋ. 10-10-3.) मंत्रवर्णात्सर्वे जीवा अस्य परमात्मनोंऽशा इत्युक्तत्वात्। ततश्च जीवस्येश्वरांशत्वोपपत्तेर्युक्तो हरौ श्रुतिसमन्वय इति सिद्धं ॥

<2-3-45>
%(45) ॐ ॥ अपि स्मर्यते ॥ ॐ ॥%

स्मृत्याऽपि जीवस्य परमात्मांशत्वं साधयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अपि स्मर्यत इति ॥% अस्यार्थः ॥ जीवस्यांशत्वं कृष्णादिभिः ममैवांश इति (भ.गी. 15-7.) स्मृत्या कथ्यते चेत्यर्थः ॥

एवंच ममैवांश इति स्मृतावीश्वरो जीवस्य शरीरावाप्तौ मूलकारणादिंद्रियाणि कर्षति तदुत्क्रमेण तु शरीरात् स्थितौ तु गोलकादिभ्य इति जीवस्य परमात्मांशत्वेनोक्तत्वात्। अतो जीवस्येश्वरांशत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥

<2-3-46>
%(46) ॐ ॥ प्रकाशादिवन्नैवं परः ॥ ॐ ॥%

ननु न युक्तं जीवस्येशांशत्वं। तथा सत्यंशत्वाविशेषाज्जीवानां मस्त्यादिसाम्यापातात्। अनंशत्वश्रुतिविरोधाच्चेत्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

%ॐ ॥ प्रकाशादिवन्नैवं पर इति ॥% अस्यार्थः ॥ जीवः प्रकाशादिवत् खद्योताद्यभिमानितेजोंशवत्। परमात्मनो भिन्नांशः। परः मत्स्यादिरूपी विष्णुस्तु। नैवं जीववद्भिन्नांशो न। किंतु प्रकाशादिवत् कालाग्न्याद्यबिमानितेजोंशवत्। ईशाभिन्नांश एवेत्यर्थः ॥

एवंचानंशत्वश्रुतेर्मत्स्यादिवत्स्वरूपांशत्वाभावपरत्वात्। अत एव न मत्स्यादिभिः सुखादिसाम्यं। न चांशत्वोक्तिसाम्येन जीवानां भिन्नांशत्वं मत्स्यादीनां स्वरूपांशत्वमिति वैषम्यमित्ययुक्तं स्यात्। कालाग्निखद्योतादेस्तेजोंशत्वोक्तिसाम्येऽपि स्वरूपांशत्वभिन्नांशत्वरूपवैषम्यदर्शनात्। अतो जीवस्येशांशत्वसिद्धेर्युक्तो हरौ श्रुतिसमन्वय इति सिद्धं ॥

<2-3-47>
%(47) ॐ ॥ स्मरंति च ॥ ॐ ॥%

ननु दृष्टांतमात्रस्यानिर्णायकत्वेन तत्र कालाग्निखद्योतादीनामेकप्रकारांशत्वाभावेऽपि मत्स्यादीनां जीवानां च स्वरूपांशत्वमभेदश्च किं न स्यादित्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ स्मरंति चेति ॥% अस्यार्थः ॥ स्मर्तारः जीवेशयोः भिन्नांशत्वेऽभिन्नांशत्वे एते स्वांशकला (भागवते. 1-3-28) इत्यादिस्मृत्या कथयंति चेत्यर्थः ॥

एवंच भागवत एते स्वांशकलाः पुंस इत्यादिना वाराहादीनामभिन्नांशत्वेनोक्तत्वात्। अतः परं यदव्यक्तमिति (भागवते. 1-3-32.) जीवानां भिन्नांशत्वाभिधानाच्च। अपि च स्वांशश्चाथो विभिन्नांश इति वचनेन केवलमसंसारित्वसंसारित्वाभ्यां रक्षत्वारक्षत्वाभ्यां मत्स्यादीनां जीवानां चांशिनोऽभेदभेदावसाभ्यं च किंतु मत्स्यादीनां स्वरूपांशलक्षणयुक्तत्वाज्जीवानां तु भिन्नांशलक्षणयोगित्वादंशिनाभेदाभेदावसाम्यं चेति स्वरूपास्वरूपांशविभागपूर्वकं तयोर्लक्षणस्योक्तत्वात्। अतो जीवस्येंशात्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥

<2-3-48>
%(48) ॐ ॥ अनुज्ञापरिहारौ देहसंबधाज्ज्योतिरादिवत् ॥ ॐ ॥%

एवं जीवानां मत्स्यादीनां चांशिना क्रमेण भेदाभेदसद्भावान्नैकविधेत्युक्तं। युक्त्यंतरेण चैकविधतां पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अनुज्ञापरिहारौ देहसंबंधाज्ज्योतिरादिवदिति ॥% अस्यार्थः ॥ यतो ज्योतिरादिवत् चक्षुर्गोलकादिस्थितापभ्रष्टदेवतादेस्तत्तद्देहसंबंधात् सूर्यवरुणाद्यनुज्ञया तत्प्रवृत्त्यादेरिव जीवस्यापि तत्तद्देहसंबंधाद्धेतोः अनुज्ञापरिहारौ परमात्मानुज्ञाधीनप्रवृत्तिबंधपरिहारौ न तथा मत्स्यादेः। किंतु ज्योतिरादिवत् सूर्यप्रभाद्यभिमानिनः यथा तदनधीनप्रवृत्त्यादिमत्त्वं तथेशानधीनप्रवृत्तिरेव। अतोऽपि जीवः परमात्मो भिन्नांशः। मत्स्यादिस्तु अभिन्नांश इति व्यवस्थासिद्धेत्यर्थः ॥

एवंच परमाधीनप्रवृत्तिमोक्षाभ्यां जीवस्य भिन्नांशत्वावगतेः। य आत्मानमंतर इति (माध्यंदिनायन.) श्रुतेः। वासुदेव संकर्षण इति (चतुर्वेदशिखायां.) स्मृतेश्च। मत्स्यादिः स्वांश्यधीन प्रवृत्तिर्न भवति। स्वांशीकर्मानिर्मितदेहसंबंधात्। वियद्‌गतप्रकाशाद्यभिमानिवदिति प्रयोगसंभवात्। जीवानां देहसंबंधान्मत्स्यादिवच्चक्त्यभाव ईश्वरानुग्राह्यत्वं तत एव बंधनिवृत्तिश्च भवेत्। शुक्लं कृष्णमिति (ऐ.आ. 2-1-5.) श्रुतेः। अतः श्रुत्यविरोधेन जीवस्येशांशत्वोपपत्तेर्युक्तो हरौ श्रुतिसमन्वय इति सिद्धं ॥

<2-3-49>
%(49) ॐ ॥ असंततेश्चाव्यतिकरः ॥ ॐ ॥%

युक्त्यंतरेण मत्स्यादीनां जीवानां चैकविध्यं पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ असंततेश्चाव्यतिकर इति ॥% अस्यार्थः ॥ असंततेः जीवस्य सम्यक् शक्त्यभावात् मत्स्यादीनां तु तद्भावात्। अव्यतिकरः जीवेशयोर्भिन्नाभिन्नांशत्वमित्युक्तार्थस्य व्यत्यासाभाव इत्यर्थः।

एवंचांशत्वेन श्रुत्युक्तन्वेऽपि मत्स्यादीनां पूर्णशक्तित्वाज्जीवानां तदभावाच्च नोक्तव्यतिकरः। तस्य ह वा एतस्येति (चतुर्वेदशिखायां.) श्रुतौ परावरभेदेन चेतनानां द्वैविध्यमुक्त्वा तत्र नारायणस्य सकलरूपाणां पूर्णत्वादिगुणानभिधाय तदितरेषां जीवानामपूर्णत्वबद्धत्वानित्यमुक्तत्वादीनामुक्तत्वात्। अतः श्रुत्यविरोधेन जीवस्येश्वरांशत्वोपपत्तेर्युक्तः समन्वय इति सिद्धं ॥

<2-3-50>
%(50) ॐ ॥ आभास एव च ॥ ॐ ॥%

युक्त्यंतरेणोक्तमर्थं साधयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ आभास एव चेति ॥% अस्यार्थः ॥ चः समुच्चये। यतो जीवः परस्य आभास एव प्रतिबिंब एव। मत्स्यादिस्तु न तथा। अतोऽप्युक्तस्य न व्यत्यास इत्यर्थः ॥

एवंच रूपं रूपं प्रतिरूपो बभूवेति (ऋ. 6-47-18.) जीवानां प्रतिबिंबत्वाभिधानात्। मत्स्यादीनां च स्वरूपांशत्वेनोक्तत्वात्। जीवस्य मत्स्यादिवत्स्वरूपांशत्वाभावेनानंशत्वश्रुतेः स्वरूपांशत्वाभावविषयत्वात्। पुरुषस्य देहस्य छायावज्जीवजातस्य परमात्मप्रतिबिंबत्वेन तदधीनवृत्तित्वात्। अतः श्रुत्यविरोधेन युक्तः समन्वय इति सिद्धं ॥

॥ इति अंशाधिकरणं ॥

%19.अधिकरणं ॥%

अत्र जीवस्येश्वरप्रतिबिंबविषयश्रुतिविरोधः परिह्रियते।

%19.अधिकरणं ॥%

अत्र जीवस्येश्वरप्रतिबिंबविषयश्रुतिविरोधः परिह्रियते।

<2-3-51>
%(51) ॐ ॥ अदृष्टोऽनियमात् ॥ ॐ ॥%

ननु न जीवा भगवत्प्रतिबिंबाः। नैवांशो न संबंध इति (भाल्लवेय.) श्रुतेः। न च प्रतिबिंबत्वेऽपि रूपं रूपमिति श्रुतिरस्तीति वाच्यं। न संबंध इति श्रुतेः सयुक्तिकत्वात्। जीवास्तावत्सुरनरतिर्यगादिभेदेन विचित्राः। न च तदेकप्रतिबिंबत्वे संभवतीत्यप्रतिबिंबत्वमेव जीवानां। ततश्च सयुक्तिकप्रतिबिंबत्वश्रुतिविरोधेन प्रतिबिंबत्वश्रुतेरप्रामाण्यमेवेति नोक्तसमन्वयसिद्धिरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अदृष्टोऽनियमादिति ॥% अस्यार्थः ॥ अदृष्टपदोपलक्षिताविद्याकर्मसंस्काराणां अनियमात् नियमो नामैकप्रकारता। अनियमोऽनेकप्रकारता। तथा च वैचित्र्यं वैचित्र्यात्। प्रतिबिंबभूतजीवानामपि देवदानवमानवादिवैचित्र्यं युज्यत इत्यर्थः ॥

एवंचोक्तदोषो भवेद्यदि जीवस्य प्रतिमुखवत्प्रतिबिंबत्वं स्यात्। नचैवं। किं नाम पारिभाषिकं तदधीनत्वे सति तत्सदृशत्वरूपं। न चास्मिन्पक्षे वैचित्र्याभावः। पित्राधीनत्वे सति सदृशानां पुत्राणां मिथो वैचित्र्यदर्शनात्। अस्तु वा प्रतिमुखवदेव प्रतिबिंबत्वं। तथाऽपि न वैचित्र्यानुपपत्तिः। अदृष्टादिवैचित्र्यरूपकारणसद्भावात्। अदृष्टादिवैचित्र्यमेव कथमिति चेत्। तस्यापि पूर्वकर्मवैचित्र्याधीनत्वात्। कर्मभेदपरंपरायाश्चानादित्वात्। अतो नारायणे श्रुतिसमन्वयो युक्त इति सिद्धं ॥

<2-3-52>
%(52) ॐ ॥ अभिसंध्यादिष्वपि चैवं ॥ ॐ ॥%

ननु किमदृष्टकल्पनया। रागद्वेषमोहादिदोषवैचित्र्येणैव वैचित्र्यसंभवादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अभिसंध्यादिष्वपिचैवमिति ॥% अस्यार्थः ॥ यतोऽभिसंध्यादिषु कामक्रोधादिदोषेष्वपि। एवं अदृष्टादिवैचित्र्यादेव वैचित्र्यं वाच्चं। अतः आवश्यकत्वाददृष्टवैचित्र्यमेव जीववैचित्र्यकारणं। न दोषादिवैचित्र्यमित्यर्थः ॥

एवंच दोषवैचित्र्यार्थमप्यंततोऽदृष्टकल्पनीयत्वाद्दोषवैचित्र्याभावेऽपि प्रतिक्षणवैचित्र्यदर्शनाच्च। न केवलमभिसंधिपदोक्तरागादिषु वैचित्र्यमदृष्टानियमात्किंत्वेकपुन्निष्ठ प्रतिक्षणवैचित्र्यस्यादृष्टनियमादेव संभवेन न कारणांतरादतः श्रुतिसमन्वयो युक्त इति सिद्धं ॥

<2-3-53>
%(53) ॐ ॥ प्रदेशादिति चेन्नांतर्भावात् ॥ ॐ ॥%

ननु स्वर्गस्थाः सुरा भूमिस्था नरा इत्यादिरूपेण स्थानवैचित्र्यादेव सुरानरादिवैचित्र्योपपत्तेः किमदृष्टवैचित्र्येणेत्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ प्रदेशादितिचेन्नांतर्भावादिति ॥% अस्यार्थः ॥ ननु प्रदेशात् स्वर्गभूम्यादिस्थानवैचित्र्यादेव सुरनरादिजनवैचित्र्यमस्तु नादृष्टविचित्रादिति चेन्न। कुतः। अंतर्भावात् स्थानवैचित्र्ये किं कारणमिति कारणान्वेषणे तत्कारणस्यादृष्टवैचित्र्य एवांतर्भावात् तद्रूपत्वात्। अतः अ वश्यकत्वाददृष्टवैचित्र्यमेव सुरनरादिवैचित्र्यनियामकमित्यर्थः ॥

एवंच स्वर्गादिप्राप्तेरप्यदृष्टसाध्यत्वात्। एकप्रदेशस्थितानां वेचित्र्यदर्शनाच्च। तदेव पारिभाषिकप्रतिबिंबत्वस्य युक्तिविरोधप्रसक्त्यभावात्। नैवांशो न संबंध इति (भाल्लवेय.) श्रुतेश्च। प्रतिमुखत्वप्रतिबिंबत्वाभावविषयत्वेन तद्विरोधस्याप्यभावेन रूपं रूपमिति (ऋ. 6-47-18.) श्रुत्या पारिभाषिक प्रतिबिंबत्वसिद्धेर्युक्तो नारायणे श्रुतिसमन्वय इति सिद्धं ॥

॥ इति अदृष्टाधिकरणं ॥
॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥

** ————————————————**


॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अथ द्वितीयाध्यायस्य चतुर्थः पादः ॥

युक्तिसहितश्रुतिविरोधः श्रुतिनामपाक्रियतेऽस्मिन्पादे ॥

%1.अधिकरणं ॥%

अतेंद्रियोत्पत्तिविषयश्रुतिविरोधः परिह्रियते।

<2-4-1>
%(1) ॐ ॥ तथा प्राणाः ॥ ॐ ॥%

ननु न प्राणाउत्पत्तिमंतः। प्राणा एवेति (काषायण.) श्रुतेः। न चोत्पत्तावपि एतस्मादिति (मुं. 2-1-3.) श्रुतिरस्तीति वाच्यं। अनुत्पत्तिश्रुतेः स्पष्टार्थतया निरवकाशत्वेन प्राबल्यात्। एतस्माज्जायत इति श्रुतेः प्रादुर्भावपरतयाऽपि योजयितुं शक्यत्वादविस्पष्टार्थत्वेन दौर्बल्यात्। प्राणा नोत्पत्तिमंतः निरुपादानत्वादिति युक्तियुक्तत्वात्। न चासिद्धिः। नोपादानमिति (भविष्यत्पर्वणि.) स्मृतिसिद्धत्वात्। अतः प्रबलश्रुतिविरोधादुत्पत्तिश्रुतिरप्रमाणमेवेति नेश्वरस्य श्रुतिसमन्वयेन जगत्कारणत्वसिद्धिरिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ तथा प्राणा इति ॥% अस्यार्थः ॥ यथा आकाशादयः विष्णोरुत्पद्यंते। तथा प्राणाः इंद्रियाण्यपि उत्पद्यंत एव न त्वनुत्पत्तिमंतीत्यर्थः ॥

एवंचोत्पत्तिमंत एव प्राणाः। आकाशस्योत्पत्तिसाधकानां हेतूनामिहापि सद्भावात्। ततश्च पराधीनविशेषावाप्तिमंत एवेति परमात्मन उत्पन्नत्वसिद्धेर्युक्तं श्रुतिसमन्वयेन ब्रह्मणो जगत्कारणत्वमिति सिद्धं ॥

<2-4-2>
%(2) ॐ ॥ गौण्यसंभवात् ॥ ॐ ॥%

नन्वाकाशोत्पत्तिसिध्यर्थं श्रुत्यभावोहेतुरुक्तः। न चासाविह संभवति। प्राणा एवे(काषायण.)त्यनुत्पत्तिश्रुतेर्विद्यमानत्वादिति प्राप्ते पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ गौण्यसंभवादिति ॥% अस्यार्थः ॥ प्राणा एवानादय इत्यनादित्वश्रुतिः गौणी अमुख्या। सूक्ष्मरूपेणानुत्पत्तिविषया। कुतः। असंभवात् इंद्रियाणां मुख्यानादित्वायोगात्। एतस्मादिति (मुं. 2-1-3.) श्रुत्ययोगाच्चेत्यर्थः ॥

एवंच श्रुतिसद्भावेऽपि तस्या मुख्यार्थत्वाभावेन गौण्यर्थत्वात्। परमात्मना साम्यप्रसंगेन मुख्यार्थासंभवात्। प्राणा उत्पत्तिमंतः अल्पशक्तित्वादिति युक्तिविरुद्धत्वाच्च। अतः प्राणानां परमात्मन उत्पन्नत्वं सिद्धं ॥

<2-4-3>
%(3) ॐ ॥ प्रतिज्ञानुपरोधाच्च ॥ ॐ ॥%

वियदधिकरणोक्तप्रतिज्ञाहान्युक्त्येंद्रियाणामुत्पत्तिं समर्थयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ प्रतिज्ञानुपरोधाच्चेति ॥% अस्यार्थः ॥ इदं सर्वमसृजतेति (तै. 2-6.) प्रतिज्ञानुपरोधात् प्रतिज्ञाऽनुसाराच्च प्राणा उत्पद्यंत इत्यंगीकार्यमित्यर्थः ॥

एवंच प्राणानामुत्पत्यंगीकारे स इदमिति श्रुतेरनुसारादविरोधः। अतः श्रुत्यविरोधेन प्राणानां परमात्मन उत्पन्नत्वं सिद्धं ॥

॥ इति प्राणोत्पत्त्याधिकरणं ॥

%2.अधिकरणं ॥%

अत्र मनोजन्मविषयश्रुतिविरोधः परिह्रियते।

<2-4-4>
%(4) ॐ ॥ तत्प्राक् श्रुतेश्च ॥ ॐ ॥%

ननु नोत्पत्तिर्मनसः। नित्यं मनोऽनादित्वादिति (गौपवन.) श्रुतेः। न चोत्पत्तिश्रुत्यनुसारेणेंद्रियोत्पत्तिश्रुतिवदनादित्वश्रुतेर्गौणार्थवर्णनं युक्तं। इंद्रियाणामनित्यत्वमुक्त्वा विशिष्य मनसो नित्यत्वाभिधानात्। किं च मनसः सादित्वे तद्विना कदाचिदनादिना पुरुषेणावस्थातव्यं। न च तत्संभवति। तथा सति तदा संसाराभावप्रसंगात्। मनसः संसारकारणत्वात्। मन एव मनुष्याणामिति स्मरणात्। अतो नित्यमेव मनः। एवंच युक्तियुक्तिविशेषश्रुतेः प्राबल्यात्तद्विरोधेनोत्पत्तिश्रुतेरप्रामाण्यान्न श्रुतिसमन्वयेनेश्वरस्य जगत्कारणत्वसिद्धिरिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ तत्प्राक्‌श्रुतेश्चेति ॥% अस्यार्थः ॥ तदनुत्पत्तीति समुच्चये च शब्दः। तस्य मनसः। तेभ्योऽन्येंद्रियेभ्यः प्राक् पूर्वं उत्पन्नत्वेन। श्रुतेः मनः सर्वेंद्रियाणि चेति (मुं. 2-1-3) श्रवणात्। मन उत्पत्तिमदेव न त्वनुत्पत्तिमदित्यर्थः ॥

एवंच नानुत्पत्तिर्मनसो युज्यते। उत्पन्नत्वे श्रुतिसद्भावात्। न चास्या गत्यंतरं। पृथङ्मनसो जन्माभिधायकत्वेन विशेषश्रुतित्वात्। न चान्येंद्रियवन्मनसोऽप्युत्पत्तिमत्वे तस्येंद्रियार्थस्य पृथगभिधानं व्यर्थं। अन्येंद्रियेभ्योऽपि प्रागुक्तोत्पन्नत्वाभिप्रायेण तदुपपत्तेः। न चानुत्पत्तिश्रुतिविरोधः। तस्याः सूक्ष्मरूपमनोविषयत्त्वात्। न च विशिष्यनित्यत्वोक्तिविरोधः। अन्येंद्रियेभ्योऽल्पोपचयाभिप्रायकत्वात्तस्याः। अतः श्रुत्यविरोधेन मनसोभगवदुत्पन्नत्वसिद्धेर्युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥

॥ इति तत्प्रागधिकरणं ॥

%3.अधिकरणं ॥%

अत्र वागुत्पत्तिश्रुतेरनुत्पत्तिश्रुत्या विरोधः परिह्रियते।

<2-4-5>
%(5) ॐ ॥ तत्पूर्वकत्वाद्वाचः ॥ ॐ ॥%

ननु न वागुत्पत्तिमती। वाग्वावेति (पौष्यायण.) श्रुतेः। न चेयं श्रुतिर्वेदविषयेति वाच्यं। अस्यां हि श्रुतिरवतिष्ठत इति श्रुतश्रुत्याश्रयत्वायोगात्। किंच वागनुत्पत्तिमती नित्यश्रुत्याश्रयत्वादित्यनुमानविरोधो वाचः सादित्वे दुष्परिहरः। सादेर्नित्याश्रयत्वादर्शनात्। न चानादित्वश्रुतिः सूक्ष्मरूपविषया। नित्यश्रुतश्रुत्युच्चारणसामर्थ्यरूपश्रुत्याश्रयत्वायोगादिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ तत्पूर्वकत्वाद्वाच इति ॥% अस्यार्थः ॥ वाचः वागिंद्रियस्य। तत्पूर्वकत्वात् मनः पूर्वरूपमिति (ऐ.आ. 3-1-1.) मनः कारणकत्वश्रवणाद्वांगिंद्रियमुत्पत्तिमदेव न त्वनुत्पत्तिमदेवेत्यर्थः ॥

एवंच वागुत्पत्तिमती। वागुत्तररूपमिति कार्यत्वश्रवणात्। न च कारणाभावात्कार्यत्वमनुपपन्नं। मनः पूर्वरूपमिति शाखांतरश्रुत्याऽर्थान्मनः कारणकत्वस्यासिध्या कार्यत्वोपपत्तेः। न च श्रुतिविरोधः। श्रुतेरुपचारेण नित्यत्वाभिधानात्। न च नित्याश्रयत्वयुक्त्या नित्यत्वं। वाचो नित्यश्रुतिसंनिधियोग्यताया एवांगीकृतत्वेन नित्यफलोपहितश्रुत्याश्रयत्वानंगीकारात्। श्रुत्यर्थपर्यालोचनयौपचारिकनित्यत्वस्यैव लाभात्। एवं सत्येव हि वेदाश्रयत्वेन नित्यया पुराणाश्रयत्वेनानित्ययास्तौमीति वाक्यार्थो घटते नान्यथा। अतः श्रुत्यविरोधेनोत्पत्तिसिद्धेर्वाचो युक्तः श्रुतिसमन्वयो जगत्कारणे हराविति सिद्धं ॥

॥ इति तत्पूर्वकत्वाधिकरणं ॥

%4.अधिकरणं ॥%

अत्र प्राणसंख्याविषयश्रुतिविरोधः परिह्रियते।

<2-4-6>
ननु `सप्त प्राणाः प्रभवंति’ इति [मुं. 2-1-8.] `द्वादश वा’ इति [कौंडिण्य.] च श्रुत्यो परस्परविरुद्धत्वादनिर्णायकत्वं। न चान्यतरश्रुत्याऽन्यतरबाधो युक्तः। समबलत्वात्। न चाभिमानिनां सप्तत्वात्प्राणानामपि सप्तत्वमेव। अभिमान्यभिमन्यमानयोः समसंख्यात्वनियमात्। न च सप्तत्वश्रुतिः सयुक्तिकत्वेन प्रबला। द्वादशवेति श्रुतौ प्राणमासादीनामेकदैवत्याभिप्रायेण द्वादशमासा इत्यभिहितत्वेन प्राणाभिमानिनां द्वादशत्वेन प्राणानामपि द्वादशत्वं वाच्यं। उक्तयुक्तेरप्यत्रापि साम्यात्। न च द्वादशप्राणेषु सप्ता अपि संभवंतीति श्रुत्योरविरोधः। द्वादशत्वे कारणविशेषाभावेन सप्तत्वोक्तेरयोगात्। ततश्च श्रुत्योरप्रामाण्येन न श्रुतिसमन्वयेनेश्वरस्य जगत्कारणत्वं युक्तमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ सप्त गतेर्विशेषितत्वाच्चेति ॥% अस्यार्थः ॥ च शब्दः सप्तप्राणास्त्ववगतेरिति प्रमाणसमुच्चये। गतेः ज्ञानस्य। जनकानींद्रियाणि सप्त सप्त संख्याकानीति निर्णय एव। नं त्वनिर्णयः। कुतः। विशेषितत्वात् सप्त प्राणा इति श्रुतौ गुहाशयां बुध्यर्थं निहिताः विशेषणयुक्ततया निर्दिष्टत्वादित्यर्थः ॥

एवंच द्वादशैव प्राणाः। द्वादशवेति श्रुतेः। न च सप्तत्वश्रुतिविरोधः। द्वादशप्राणेषु सप्तत्वस्यापि भावात्। न च प्राणानां द्वादशत्वे कारणाभावे सप्तत्वोक्तेरयोगः। श्रोत्रचक्षुःस्पर्शनरसनघ्राणमनोबुद्धीनां ज्ञानसाधनेंद्रियत्वेन तद्विवक्षया सप्तत्वोक्तिसंभवात्। न च तेषां ज्ञानार्थत्वमप्रसिद्धं। गुहाशयां निहिता इति (मुं. 2-1-8.) वाक्यशेषसिद्धत्वात्। ततश्च श्रुत्योरविरोधेन प्रामाण्याच्छ्रुतिसमन्वयेन विष्णोर्जगत्कारणत्वं युक्तमिति सिद्धं ॥

<2-4-7>
%(7) ॐ ॥ हस्तादयस्तु स्थितेऽतोनैवं ॥ ॐ ॥%

ननु सप्तभ्योऽन्येषां प्राणानां सद्भावेऽत्राथर्वणश्रुतौ तेषां परमात्मजन्यत्वेनोच्यमानैः सप्तभिः `सह सप्त पंच प्राणाः’ इति पाठः स्यात्। अत्र सहपाठाभावो द्वेधा भवेत्। अनादित्वेन वा परमात्मनस्तदकारणत्वेन वेति। तदुभयमपि `तथा प्राणाः’ इत्युक्ति(सू. 2-4-1.) विरुद्धत्वात्। न च सहपाठे वा परमात्मनस्तदकारणत्वे वा कारणंतरमस्ति। अकारणकार्योत्पत्तिश्चायुक्ता। ततश्च सहपाठाभावान्न सप्तभ्योऽन्ये प्राणाः संतीति प्राप्ते परिहरत्सूत्रं पठति।

%॥ ॐ ॥ हस्तादयस्तु स्थितेऽतोनैवमिति ॥% अस्यार्थः ॥ तु शब्दो वैलक्षण्यद्योतकः यतो हस्तादयस्तु हस्तादींद्रियाणि तु। स्थिते स्थितं कर्म। तादर्थ्ये सप्तमी। कर्मार्थीनि। अतः अस्माद्वैलक्षण्यात्तानि। एवं ज्ञानेंद्रियसह भावेन न पठितानि। अतस्तेषां सप्तता सिद्धैवेत्यर्थः।

एवंच हस्तादीनां पंचानां स्थितिहेतुत्वलक्षणवैलक्षण्यमाश्रित्य सहपाठोपपत्तेः। अतः श्रुत्योरविरोधेन प्रामाण्याच्छ्रुतिसमन्वयेन विष्णोर्जगत्कारणत्वनिश्चयो युक्त इति सिद्धं ॥

॥ इति सप्तगत्यधिकरणं ॥

%5.अधिकरणं ॥%

अत्र प्राणपरिमाणविषयश्रुतिविरोधः परिह्रियते।

<2-4-8>
%(8) ॐ ॥ अणवश्च ॥ ॐ ॥%

ननु व्याप्ताः प्राणाः। दिवीव चक्षुरिति (ऋ. 1-22-20.) व्याप्तिश्रुतेः। दूरस्थवस्तुदर्शनश्रवणानुसंधानादियुक्तेश्च। न चाणुत्व[कौंडिन्य.]श्रुतिविरोधः। विष्णोर्व्याप्तत्वे दृष्टांतेन चक्षुर्व्याप्तेरुक्तत्वेनैतच्छ्रुतेः प्राबल्यात्। अतः प्रबलव्याप्तिश्रुतिविरोधादणुश्रुतिरप्रमाणमेवेति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अणवश्चेति ॥% अस्यार्थः ॥ प्राणाः इंद्रियाणि अणवः स्वतोऽणुनीत्यर्थः। न केवलं अणूनि किंतु तेजसा व्याप्तानि चेति च शब्दार्थः ॥

एवंचाणव एव हि प्राणाः तथाश्रुतेः। न च दिवीव चक्षुरिति प्रबलश्रुतिविरोधेनाणुत्वाभावः। अणुत्वस्यापि तद्यथा ह्यणु न इति [शांडिल्य.] प्रबलश्रुतिसिद्धत्वात्। न चैवं सत्यनिर्णयः। तद्यथा ह्यणु नं इति श्रुतेर्विस्पष्टवादित्वेन व्याप्तिश्रुतितोऽपि बलवत्वात्। न च तदप्रमाणं। तद्यथा ह्यणु न इति श्रुत्यनुसारेण व्याप्तिश्रुतेस्तेजसां व्याप्त्यर्थकत्वनिर्णयेन युक्तिविरोधस्य पराकृतत्वात्। अतः श्रुत्यविरोधेन प्राणानामणुत्वमिति सिद्धं ॥

॥ इति अण्वधिकरणं ॥

%6.अधिकरणं ॥%

अत्र मुख्यप्राणजन्मविषयश्रुतिविरोधः परिह्रियते।

<2-4-9>
%(9) ॐ ॥ श्रेष्ठश्च ॥ ॐ ॥%

ननु नोत्पत्तिमान्मुख्यप्राणः। नैष प्राण इति श्रुतेः। न च मुख्यवाय्वनुत्पत्तिश्रुतिवदियमपि श्रुतिरन्यथा योजनीया। तस्या उत्पत्तिमरणकारणत्वेनोत्पत्त्याद्ययोग इति युक्तियुक्तानादित्वश्रुतेः प्राबल्यात्। अतः प्रबलानादित्वश्रुतिविरोधादुत्पत्तिश्रुतेरप्रामाण्यान्न जगत्कारणे परमेश्वरे श्रुतिसमन्वयोपपत्तिरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ श्रेष्ठश्चेति ॥% अस्यार्थः ॥ यथेतरे प्राणा उत्पद्यंते एवं श्रेष्ठः मुख्यप्राणोऽपि विष्णोरुत्पद्यत एव न त्वनुत्पत्तिमानित्यर्थः ॥

एवंच यथेतरे प्राणा उत्पद्यंते तथा श्रेष्ठोऽपि मुख्यप्राण उत्पत्तिमानेव। सौक्ष्म्येण ह वेति [गौपवन.] श्रुतेः। न चानादित्वश्रुतिविरोधः। तस्य सूक्ष्मरूपेण सदास्थितेः स्थूलरूपेण कदाचिदुदितत्वस्य चोक्तत्वात्। स्थूलादिभावस्य स्वरूपत्वाभावात्। यद्यप्यस्येतरजीवसाधारणत्वान्न विशेषः। तथाऽपि शरीरादिष्वेवायं स्थूलो न त्वितरजीवानामिव चैतन्ये। तदभिमानिकृतविक्रियाविशेषवानिति विशेषसद्भावात्। अतः श्रुत्यविरोधेन मुख्यवायोर्जननसिद्धेर्युक्तं जगत्कारणत्वं श्रुतिसमन्वयेन वासुदेवस्येति सिद्धं ॥

<2-4-10>
%(10) ॐ ॥ न वायुक्रिये पृथगुपदेशात् ॥ ॐ ॥%

नन्वनादित्वश्रुतेः सयुक्तिकत्वेन प्रबलत्वात्तदुनुसारेणोत्पत्तिश्रुतेरेव चेष्टा बाह्यवायुविषयतया व्याख्यातव्या। तयोरपि चेष्टायामिति वाक्ये प्राणशब्दवाच्यत्वोक्तेरेतयोरनुत्पत्तिवचनाभावेनोत्पत्त्यंगीकारे विरोधाभावादिति प्राप्ते सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ न वायुक्रिये पृथगुपदेशादिति ॥% अस्यार्थः ॥ वायुक्रिये बाह्यवायुचेष्टाख्यकर्मणी न। एतस्मादिति (मुं. 2-1-3.) प्राणोत्पत्तिश्रुतिप्रतिपाद्ये न भवतः। किंतु मुख्यवायुरेव तत्प्रतिपाद्यः। कुतः। पृथगुपदेशात्। स प्राणमसृजते(प्र. 6-4.)त्यादौ मुख्यवायुत्पत्तेः वायुक्रियोत्पत्तिभ्यां सकाशात् पृथक् श्रवणादित्यर्थः ॥

एवंच सप्राणमृसृजतेति श्रुतौ प्राणस्योत्पत्तिमत्त्वमभिधायं प्राणाच्च चेष्टावाय्वोः पृथगुत्पत्त्याभिधानात्। तथैव भूतानि मंत्राश्चेष्टाश्चेति [वायुप्रोक्ते.] स्मृतावप्यभिधानात्। न च सर्वभूतोत्पत्तिकारणत्वेनोत्तमत्वेन तस्योत्पत्त्यभावः। महतोऽपि तस्य ततोऽप्यतिमहता विष्णुना जन्मसंभवात्। अतः श्रुत्यविरोधेन मुख्यप्राणस्योत्पत्तिरिति सिद्धं ॥

॥ इति श्रेष्ठाधिकरणं ॥

%7.अधिकरणं ॥%

अत्र मुख्यप्राणस्वातंत्र्यास्वातंत्र्यश्रुतिविरोधः परिह्रियते।

<2-4-11>
%(11) ॐ ॥ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ ॐ ॥%

ननु स्वतंत्र एव मुख्यप्राणः। किंचिदाश्रित इति [अग्निवेश्य.] श्रुतेः। न च प्राणस्येति [पैंग्य.] पारतंत्र्यश्रुतिविरोधः। स्वातंत्र्यसाधकाखिलजगच्चेष्टकत्वयुक्तियुक्तत्वेन स्वातंत्र्यश्रुतेर्बलवत्त्वात्। नचोत्पत्तिमत्वयुक्तियुक्तत्वेन परतंत्र्यश्रुतिरपि बलवती। स्वातंत्र्यवादिनो जन्मासंप्रतिपत्तेः। जन्मश्रुतीनामप्येतच्छ्रुतिविरोधेनाप्रामाण्यात्। प्रामाण्येऽपि लीलया विग्रहग्रहणसंभवेन तस्य पारतंत्र्यसाधकत्वाभावे पारतंत्र्यश्रुतेः सयुक्तिकत्वाभावः। अतः प्रबलश्रुतिविरोधापरिहारादप्रमाणं पारतंत्र्यश्रुतिः। अतो नारायणस्य श्रुतिसमन्वयेन जगत्कारणत्वासिद्धिरिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्य इति ॥% अस्यार्थः ॥ तु शब्द एवार्थे। मुख्यप्राणोऽपि चक्षुरादिवत्परमात्माधीन एव न तु स्वतंत्रः। कुतः। तत्सहशिष्टयादिभ्यः तैश्चक्षुरादिभिः सह मुख्यवायोरपि सर्वं ह्येवैतादिति (गौपवन.) श्रुतौ पराधीनत्वोक्तेः। सर्वकर्तेत्यादिवचनोक्तयुक्तिभ्यश्चेत्यर्थः ॥

एवंच मुख्यप्राणश्चक्षुरादिवत्परमात्माधीन एव। सर्वं ह्येवैतदिति चक्षुरादिभिः सहैव तद्वशत्वाभिधानात्। मुख्यवायुर्न स्वतंत्रः भगवत्प्रेरणामंतरेण दर्शनादिशक्तिविधुरत्वादिति युक्तेः। न चासिद्धिः। नान्योऽतोऽस्तीति [बृ. 5-7-23.] श्रुतिसिद्धत्वात्। यद्यपि प्राणः सर्वकर्ता तथाऽपि स ईश्वराधीनोऽभ्युपगंतव्यः। अन्यथा प्राण एव न स्यात्। परमात्मनः स्वातंत्र्यस्यापलापे जगदुदयाद्यभावेन स्वातंत्र्यवस्तुद्वयासंभवेन च श्रुत्यविरोधेन प्राणस्येशवशत्वसिद्धेरुक्तं युक्तमिति सिद्धं ॥

<2-4-12>
%(12) ॐ ॥ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥ ॐ ॥%

ननु यदि चक्षुरादिवदेवेश्वराधीनत्वं मुख्यप्राणस्य तर्हि तस्यावांतरेश्वरत्वाद्यसंभवेन न प्राणः किंचिदिति [अग्निवेश्य.] स्वातंत्र्यश्रुतेर्वैयर्थ्य स्यादित्याशंकां पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ अकरणत्वाच्च न दोषस्तथा हि दर्शयतीति ॥% अस्यार्थः ॥ मुख्यप्राणस्य करणत्वात् कर्तृप्रयोज्यत्वरूपकरणाभन्नत्वात् चक्षुरादीनां तद्रूपत्वाच्च अस्मादेव वैलक्षण्यान्मुख्यस्येतरेभ्य उत्तमत्वसिद्धेः। न दोषः मुख्यप्राणस्वातंत्र्यवाचिश्रुतेरवांतरेश्वरपरत्वाभावदोषो नास्ति। कस्मादेवं कल्प्यत इति चेत्। हि यस्मात्। तानि ह वा इति (मांडव्य.) श्रुतिस्तथा उक्तप्रकारेण। दर्शयति ज्ञापयति। तस्मादित्यर्थः ॥

एवंच सर्वेषामीश्वराधीनत्वसाम्येऽपीतरेषां कर्तृप्रयोज्यत्वान्मुख्यप्राणस्य तदभावेन विशेषात्। सुप्त्यादौ व्यापारभावाभावरूपयुक्त्या तानि ह वेति श्रुत्याच विशेषसिद्धेश्चोपपन्नं तस्यावांतरेश्वरत्वं। अतः श्रुत्यविरोधेन प्राणस्येशवशत्वं सिद्धं ॥

॥ इति चक्षुराद्याधिकरणं ॥

%8.अधिकरणं ॥%

अत्र प्राणापानादेर्मुख्यप्राणस्वरूपत्वतद्दासत्वविषये श्रुतिविरोधः परिह्रियते।

<2-4-13>
%(13) ॐ ॥ पंचवृत्तिर्मनोवद्व्यपदिश्यते ॥ ॐ ॥%

ननु सर्वे वा एते मुख्यदासा इति [कौंडिन्य.] मुख्यस्यैव स्वरूपाणीति [गौपवन.] श्रुतिद्वयमप्रमाणं। अर्थानिर्णायकत्वात्। यद्येको मुख्यस्यैव स्वरूपाणीति श्रुतिं व्यक्तसद्गुणत्वयुक्तिं चावलंब्य प्राणादयो मुख्यप्राणस्वरूपाण्येवेति ब्रूयात्तर्ह्यपरोपि सर्वे वा एत इति तदाज्ञया कर्मकारित्वयुक्तिं चावलंब्य प्राणादयो दासा एवेति ब्रूयात्। अत एतद्युक्तिश्रुत्यवष्ठंभेनाद्या दासा एवेति व्रूयात्तर्हि परोऽपि प्राचीनश्रुतियुक्त्यवष्ठंभेन स्वरूपाण्येवेति ब्रूयात्। समबलत्वेनान्यतरश्रुतिबाधायोगात्। एवंचार्थानिर्णयेन श्रुतिद्वयाप्रामाण्यान्न श्रुतिबलेन विष्णोर्जगत्कारणत्वसिद्धिरिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ पंचवृत्तिर्मनोबद्‌व्यपदिश्यत इति ॥% अस्यार्थः ॥ मनोवत् मनस इव। यथा मनसः मनोबुध्यहंकारचित्तचेतनाख्यपंचप्रकारोपेतत्वं तथा मुख्यप्राणोऽपि पंचवृत्तिः प्राणापानापंचरूपवान्। कुतः। यस्मात् अथ पंचवृत्त्येति (कौंडिन्य.) श्रुतौ तथा व्यपदिश्यते प्रतिपाद्यते। तस्मादित्यर्थः ॥

एवंच प्राणादयो दासा एव स्वरूपाण्येवेति न ब्रूमः। येन परस्परविरोधेनानिर्णयः। किं नामार्थ पंचवृत्त्यैतदिति श्रुत्यवष्ठंभेन मनोवत्। प्राणादयः स्वरूपाणि दासाश्चेति द्विविधाः। ततश्च श्रुत्योर्भिन्नविषयत्वेनाबाधः। न च प्राणानां दासत्वे व्यक्तसद्गुणत्वविरोधः। दासानामपि तदंगीकारात्। न च स्वामिभृत्यभावानुपपत्तिः। स्वामिनां ततोऽपि व्यक्तसद्गुणत्वेन तद्भावोपपत्तेः। अतः श्रुत्यविरोधेन प्राणादिस्वरूपसिद्धेर्यक्तो जगत्कारणि ब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥

॥ इति पंचवृत्त्यधिकरणं ॥

%9.अधिकरणं ॥%

अत्र मुख्यप्राणपरिमाणविषयश्रुतिरोधः परिह्रियते।

<2-4-14>
%(14) ॐ ॥ अणुश्च ॥ ॐ ॥%

ननु व्याप्त एवायं प्राणः। प्राण एवाधस्तादिति व्याप्तिश्रुतेः। न च `अणुने[सौत्रायण.]त्यणुत्वश्रुतिविरोधः’। सकलजगद्धारकत्वयुक्तियुक्तत्वेन व्याप्तिश्रुतेः प्राबल्यात्। अतः प्रबलश्रुतिविरोधादप्रमाणमणुत्वश्रुतिरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अणुश्चेति ॥% अस्यार्थः ॥ मुख्यप्राणः प्राणरूपेणाणुः। वायुरूपेण व्याप्तश्चेत्यर्थः ॥

एवंचाणुरेव मुख्य प्राणः। स वा एष प्राण इति [कौडिन्य.] श्रुतेः। न च व्याप्तिश्रुतिविरोधः। तस्या बहिर्देहाद्वर्तमानवायुरूपविषयत्वात्। अंतर्वाऽणुर्बहिर्महानिति विशेषश्रुतेः। नाडीसंचारित्वयुक्तेश्च। अतः श्रुत्यविरोधेन मुख्यप्राणस्याणुत्वसिद्धेर्युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥

॥ इति अण्वधिकरणं ॥

%10.अधिकरणं ॥%

अत्रेंद्रियविषयश्रुतिविरोधः परिह्रियते।

<2-4-15>
%(15) ॐ ॥ ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ ॐ ॥%

नन्विंद्रियाणि जीवकरणानि। जीवस्य करणान्याहुरिति [सौत्रायण.] जीवसंबंधित्वश्रुतेः। न च ब्रह्मण्योवेति [काषायण.] श्रुत्यंतरविरोधः। जीववशत्वेन प्राणानां दृश्यमानत्वयुक्तियुक्तत्वेन जीवकरणत्वश्रुतेः प्राबल्यात्। ततश्चैतच्छ्रुतिविरोधेन ब्रह्मकरणश्रुतेरप्रामाण्यात्। न श्रुतिसमन्वयेन विष्णोर्जगत्कारणत्वसिद्धिरिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ ज्योतिराद्यधिष्ठानं तु तदामननादिति ॥% अस्यार्थः ॥ ज्योतिराद्यधिष्ठानमित्यावर्तते। तत्त्वित्यन्वयः। तथा च ज्योतिराद्यधिष्ठानं अग्न्यादिभूतप्रेरकं तत्‌ब्रह्मैव। ज्योतिराद्यधिष्ठानं चक्षुरादिप्रेरकं न जीवः। कुतः। तदामननात् यश्चक्षुषि तिष्ठन्नि(बृ. 5-7-16.)त्यादिना तथा प्रतिपादनादित्यर्थः ॥

एवंच ब्रह्मसंबंधीन्येव करणानि जीवस्य ज्ञानादिसाधनानि। न पुनर्जीवकरणानि। जीवापेक्षया तेषामुत्तमत्वेन जीवप्रयोज्यत्वासंभवात्। तदेव हि स्वं नाम भवति। यद्यथेष्ठविनियोगार्हं न च तत एव न ब्रह्मसंबंधीन्यपीति वाच्यं। एतन्मूलतेजः प्रभृति भूतस्यैव ब्रह्मनियम्यत्वेन सुतरामेषां तन्नियम्यत्वात्। यश्चक्षुषि तिष्ठन्नित्यादिश्रुतेश्च। अतो श्रुत्यविरोधेन प्राणानां ब्रह्मकारणत्वसिद्धेर्युक्तो जगत्कारणे हरौ श्रुतिसमन्वय इति सिद्धं ॥

<2-4-16>
%(16) ॐ ॥ प्राणवता शब्दात् ॥ ॐ ॥%

ननु न करणानि जीवसंबंधीनि चेत्तर्हि तत्करणत्वाबिधायकश्रुतेरप्रामाण्यप्रसंग इत्याशंकामपाकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ प्राणवता शब्दादिति ॥% अस्यार्थः ॥ परमात्मा स्वप्रयोज्यैरेव चक्षुरादिभिः करणैः प्राणवता जीवेन कर्त्रा दर्शनादि कारयति न जीवप्रयोज्यैः। कुतः। शब्दात् एष ह्यनेनेति (भाल्लवेय.) श्रुतेरित्यर्थः ॥

एवंच करणत्वाभिधायकश्रुतेर्ब्रह्म स्वकरणैरेव दर्शनादि कारयतीति याचितकुठारवदीषत्संबंधित्वमस्तीति तत्परत्वेन प्रामाण्यपपत्तेः। जीवकरणसंबंधस्यानादिनित्यत्वेन तदभिप्रायेणापि प्रवृत्तायास्तस्याः प्रामाण्योपपत्तेः। दृश्यते खलु लोके परकीये बहुकालसंबंधिनि तदीयत्वोपचारः। न च यदींद्रियाणि ब्रह्मकरणानि तर्हि मुख्यप्राणस्यापि तत्समान एवेति प्रागुक्तं। तस्मात्प्राम एवाकरण इति मुख्यप्राणकरणत्वमयुक्तमिति चेन्न। ईश्वरश्चक्षुरादीन् किंचिज्जीवेच्छया प्रेरयति। मुख्यप्राणस्तु स्वैच्छयैवेति विशेषसद्भावेन तदुपपत्तेः। करणेः कारणमिति [वाराहे.] न जीवापेक्षयेति[वाराहे.]त्यादिवचनसद्भावात्। अतः श्रुत्यविरोधेन ब्रह्मणिजगत्कारणे श्रुतिसमन्वयो युक्त इति सिद्धं ॥

<2-4-17>
%(17) ॐ ॥ तस्य च नित्यत्वात् ॥ ॐ ॥%

एवं भगवदधीनान्यपींद्रियाण्यस्वतंत्रजीवकर्तृके कर्मणि साधनत्वात्तत्करणानीत्युच्यंते। यथा परकीय कुठारेणापि व्रश्चतोऽसौ तत्करणमुच्यत इत्येवं मुक्यमर्थं जीवकरणत्वश्रुतेरुक्त्वाऽधुना मुख्यार्थातरप्रतिपादकं सूत्रमवतारयति ॥

%॥ ॐ ॥ तस्य च नित्यत्वादिति ॥% अस्यार्थः॥ चक्षुरादीनां ब्रह्मकरणत्वेऽपि तस्य जीवस्य करणस्य च तयोः संबंधस्य च नित्यत्वात्। तद्विवक्षया जीवकरणत्वश्रुतिरप्युपपद्यत इत्यर्थः ॥

एवंच परकीयेऽपि बहुकालसंबंधिनि वस्तुन्युपचारतस्तदीयत्वव्यवहारदर्शनादत्रापि भगवदीयेष्वपींद्रियेषु बहुकालनिजीवसंबंधितायाः सद्भावेन तत्करणत्वश्रुतिः प्रवृत्तेति श्रुतेरुपचारितार्थत्वात्। अथावियोगीनीति [गौपघन.] श्रुतेः। अतः श्रुत्यविरोधेन परे ब्रह्मणि जगत्कारणे श्रुतिसमन्वयो युक्त इति सिद्धं ॥

॥ इति ज्योतिरधिकरणं ॥

%11.अधिकरणं ॥%

अत्र मुख्य प्राणस्येंद्रियत्वानिंद्रियत्वश्रुतिविरोधः परिह्रियते।

<2-4-18>
%(18) ॐ ॥ त इंद्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ ॐ ॥%

ननु सर्वेऽपि प्राणा इंद्रियाणि। प्राणा वा इंद्रियाणीति [पौत्रायण.] श्रुतेः। सामान्यश्रुतेः सर्वगामित्वात्। न च द्वादशैवेंद्रियाणीति [काषायण.] विशेषश्रुत्या बाधः। इदं द्रवणयुक्तियुक्तत्वेन सामान्यश्रुतेर्बलवत्त्वात्। दुष्करं च द्वादशानामेवेंद्रियत्वग्रहणं। अन्यतमनिवेशनस्याशक्यत्वात्। नियामकं विना कस्यचित्परित्यागेऽपरस्यापि तत्स्यादिति द्वादशत्वहानिः। अतो युक्तियुक्ताद्यश्रुतिविरोधेन द्वितीया अप्रामाण्येन न ब्रह्मणि श्रुति युक्त इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ त इंद्रियाणि तदव्यपदेशादन्यत्र श्रेष्ठादिति ॥% अस्यार्थः ॥ श्रेष्ठात् मुख्यप्राणात्। अन्यत्र ये प्राणाः। ते एवेंद्रियाणि न तु मुख्यप्राणोऽपि। कुतः। तद्व्यपदेशात् द्वादशैवेंद्रियाणीति (पौत्रायण) श्रुतौ ततोक्तत्वादित्यर्थः ॥

एवंच न सर्वे प्राणा इंद्रियाणि किंतु मुख्यप्राणमृते द्वादशैव। द्वादशैवेंद्रियाणीति विशेषश्रुतेः। न चेदं द्रवणवतः कथमनिंद्रियत्वमिति वाच्यं। तस्य द्रवतां स्वामित्वेन इदं द्रवणाभावात्। विषयद्रवणात्तेषामिति [बृहत्संहितायां.] वचनसद्भावात्। अतः श्रुत्यविरोधेन मुख्यप्रामस्यानिंद्रियत्वसिद्धेर्युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥

<2-4-19>
%(19) ॐ ॥ भेदश्रुतेः ॥ ॐ ॥%

ननु यदि मुख्यप्राणो नेंद्रियं तर्हि चक्षुरपि न स्यात्। चक्षुर्मुख्यप्राणयोः सर्वथा विशेषाभावात्। इदं द्रवणभावाभावरूपस्य स्थितत्वेन स्थितत्वरूपस्य सूत्रकृताऽनुक्तत्वादप्रयोजकत्वाच्चेति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ भेदश्रुतेरिति ॥% अस्यार्थः ॥ मुख्यप्राणस्य सर्वकर्तृत्वकारयितृत्वरूपभेदकधर्मस्यान्येषां तदभावस्य स्थित एव हीति (पौत्रायण.) श्रुतौ श्रुतत्वान्न तस्य चक्षुराद्यविशेष इत्यर्थः ॥

एवंच स्थित एव हीदमिति श्रुतौ मुख्य प्राणस्य सर्वकर्तृत्वकारयितृत्वबलत्वबलयितृत्वधतृत्वधारयितृत्वादि विशेषोक्त्येश्वरसाम्याभिधानेन तस्य कर्तृप्रयोज्यत्वाभावात्। ततश्च श्रुत्यविरोधेन मुख्यप्राणस्यानिंद्रियत्वं सिद्धं ॥

<2-4-20>
%(20) ॐ ॥ वैलक्षण्याच्च ॥ ॐ ॥%

नन्वयं मुख्यप्राणो भगवद्वशो न वा। आद्ये तस्यानिंद्रित्वासिद्धिः। ईशवशत्वसाम्यात्। इदं द्रवणाभावस्थितत्वाद्यवांतरवैलक्षण्यस्य चेंद्रियेष्वपि संभवात्। द्वितीये चक्षुरादीत्युक्तविरोधः। इति प्राप्ते समादधत्सूत्रमाह ॥

%॥ ॐ ॥ वैलक्षण्याच्चेति ॥% अस्यार्थः ॥ मुख्य प्राणस्य तदितरप्राणानां च केवलेश्वराधीनत्वेश्वरजीवोभयाधीनत्वरूपवैलक्षण्यसत्वाच्च न तस्येंद्रियत्वं किंतु चक्षुरादीनामेवेत्यर्थः ॥

एवंच मुख्येश्वराधीनत्वेऽपींद्रियाणामीश्वरजीवोभयवशप्रवृत्तिकत्वान्मुख्यस्य च केवलेश्वराधीनप्रवृत्तिरूपवैलक्षण्यात्। इंद्रियेषूक्तवैलक्षण्यस्य प्रत्यक्षसिद्धत्वात्। मुख्ये च प्राणाग्नय इति [प्र 4-3.] श्रुतिसिद्धत्वात्। अतः श्रुत्यविरोधेन युक्तो जगत्कारणे हरौ श्रुतिसमन्वय इति सिद्धं ॥

॥ इति त इंद्रियाधिकरणं ॥

%12.अधिकरणं ॥%

अत्र नामरूपविषये श्रुतिविरोधः परिह्रियते।

<2-4-21>
%(21) ॐ ॥ संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ ॐ ॥%

ननु विरिंच एव नामरूपकर्ता। विरिंचो वेति [गौपवन.] तथा श्रुतेः। न चाथ कस्मादितीतर [अग्निवेश्य.] श्रुतिविरोधः। विरिंचस्य युक्तियुक्तत्वेनास्याः श्रुतेः प्राबल्यात्। न चेयं श्रुतिर्द्वारकरणत्वपरा। मुख्यासंभवेऽमुख्यस्यैव ग्राह्यत्वात्। अतः सयुक्तिकैतच्छ्रुतिविरोधेनेतराश्रुतिरप्रमाणमिति प्राप्ते सूत्रं पठति।

%॥ ॐ ॥ संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशादिति ॥% अस्यार्थः ॥ तु शब्दोऽवधारणे। संज्ञामूर्तिकॢप्तिर्नामरूपात्मकदेहेंद्रियप्रपंचोत्पत्तिः। त्रिवृत्कुर्वतः पृथिव्यप्तेजसां मिश्रीभावं कुर्वतः परमात्मनः सकाशादेव भवति। न विरिंचात्। कुतः। उपदेशात् सर्वाणि रूपाणि विचिंत्यधीर इति (तै.आ. 3-12.) श्रुतेरित्यर्थः ॥

एवंच परमात्मैव नामरूपकर्ता। सर्वाणि रूपाणीति श्रुतेः। न च विरिंचस्यापिकर्तृत्वे श्रुतिरस्ति। नामरूपकरणस्य त्रिवृत्करणसापेक्षत्वेन तत्कर्तृरेव मुख्यतो नामरूपकर्तृत्वस्य वक्तव्यत्वे विरिंचश्रुतेर्द्वारकारणमात्रार्थत्वात्। अत एव विरिंचत्वयुक्तिविरोधोऽपि परास्तः। अतः श्रुत्यविरोधेन शरीरस्य हरिकर्तृत्वासिद्धेर्युक्त तस्य श्रुतिसमन्वयेन जगत्कारणत्वमिति सिद्धं ॥

॥ इति संज्ञाधिकरणं ॥

%13.अधिकरणं ॥%

अत्र शरीरकारणश्रुतिविरोधः परिह्रियते।

<2-4-22>
%(22) ॐ ॥ मांसादिभौमं यथाशब्दमितरयोश्च ॥ ॐ ॥%

नन्वाप्यमेव शरीरं। अद्‌भ्योहीदमिति [कौंडिन्य.] श्रुतेः। शरीरावयवेषु मांसादिष्वधर्मतर्पकत्वदर्शनात्। न तु भूतत्रयात्मकं। तथात्वे आपः शरीरमिति हिरण्यगर्भशरीर इति च विशेषोक्त्ययोगप्रसंगात्। अथवा। पार्थिवं। पृथिवीं शरीरमप्येतीति [बृ. 5-2-13.] पृथिव्यां लयाभिधानात्। काठिण्यादि[गर्भोपनिषत् 3.] युक्तेश्च। अथवा। तैजसं। सोऽग्नेर्देवेति[ऐ.ब्रा. 7-3.]श्रुतेः। औष्ण्यदर्शनाच्च। अतो विरोधेनेमास्तिस्रो देवता इति [छां. 6-4-7.] श्रुतेरप्रामाण्यान्न श्रुतिसमन्वयेन विष्णौ जगत्कारणत्वमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ मांसादिभौमं यथा शब्दमितरयोश्चेति ॥% अस्यार्थः ॥ भौममित्युपलक्षणं। यच्छरीरे कठिणं मांसादि तदेवं भौमं पार्थिवं न सर्वशरीरं। किं तर्हि यथा शब्दं यत्कठिनं सा पृथिवीति (गर्भोपनिषत्. 3.) श्रुतिमनुसत्य। शरीरेतरयोः अप्तेजसोश्च कार्यं शोणितमज्जादिरूपमंगीकार्यं। यथा मांसादिकं भौमं पृथिवीकार्यं। न केवलं पृथिवीकार्यं किं नामेतरयोरप्तेजसोश्च कार्यं यथा श्रुत्यंगीकार्यमित्यर्थः ॥

एवंच यच्छरीरे कठिनं मांसादि तदेव पार्थिवं। यच्छोणितादि तदेवाप्यं। यच्च मज्जादि तदेव तैजसं शरीरं तु त्र्यात्मकं। यत्कठिनं सा पृथिवीति श्रुतेः। न चापो वाव मांसामिति [कौंडिन्य.] श्रुतिविरोधः। मांसस्यापि केवलपार्थिवत्वानंगीकारेण श्रुत्यनुसारेणाबादिकार्यत्वस्याप्यभिमतत्वात्। अतः श्रुत्यविरोधेन शरीरस्य पांचभौतिकत्वसिद्धेर्युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥

<2-4-23>
%(23) ॐ ॥ वैशेष्यात्तु तद्वादस्तद्वादः ॥ ॐ ॥%

ननु शरीरस्य नैकभूतप्रकृतिकत्वे विशेषोक्तेरयोगात्। शरीरे मांसादिषु वा भूतानां विशेषसंयोगे सर्वशरीरेषु सर्वभूतानां विशेषसंयोगभावे च पुनरेकैकभूतप्राचुर्यविवक्षया पार्थिवादिविशेषेक्त्ययोगात्। अध्यायसमाप्तिज्ञापनार्थमर्थभेदेन ज्ञातुं शक्यत्वेन सूत्रपदे द्विरुक्तेरयोगात्। अन्यथा पादांतेऽपि तत्प्रसंगादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ वैशेष्यात्तु तद्वादस्तद्वाद इति ॥% अस्यार्थः ॥ पार्थिवमाप्यं तैजसमिति विशेषोक्तिस्तु वैशेष्यात् पृथिव्यादि भूतानां तत्तच्छरीरविशेषसंयोगमपेक्ष्य युज्यते। अतः न तद्विरोध इत्यर्थः। एतदध्यायोक्तसर्वस्यार्थस्यावधारणार्थमध्यायांते द्विरुक्तिः ॥

एवंच भूतकार्यशरीराणां तद्भूतसंयोगविशेषसद्भावेन वैशेष्यात्तत्तद्‌व्यपदेशोपपत्तेः। न चोक्तविशेषसंयोगाभावविरोधः। पार्थिवानां शरीराणामिति [बृहत्संहितायां] वचनात्। नापि द्विरुक्तिविरोधः। अध्यायार्थनिश्चयरूपप्रयोजनसद्भावेन सर्वाध्यायांतिमसूत्रे पदस्य द्विरुक्तेः क्रियमाणत्वात्। अतः श्रुत्यविरोधेन शरीरस्य पांचभौतिकत्वसिद्धेर्जगत्कर्तरि विष्णौ श्रुतिसमन्वयो युक्त इति सिद्धं ॥

॥ इति मांसाधिकरणं ॥
॥ इति द्वितीयाध्यायस्य चतुर्थः पादः ॥
॥ इति द्वितीयाध्यायः समाप्तः ॥

———————————————————————————————

** ॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अथ तृतीयाध्यायः ॥
॥ साधनविचारोऽयमध्यायः ॥**

** ॥ अथ प्रथमः पादः ॥**

वैराग्यार्थे गत्यादि निरूपणाऽस्मिन्पादे क्रियते ॥

%1.अधिकरणं ॥%

अत्र भगवत्प्राप्तिसाधनवैराग्याय जीवस्य भूतावियोगः समर्थ्यते।

<3-1-1>
%(1) ॥ ॐ ॥ तदंतरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्यां ॥ ॐ ॥%

ननु नानुष्ठेयमेव साधनं। फलार्थं हि साधनमनुष्ठेयं। फलं च बंधनिवृत्तिः। न मरणादतिरिच्यते। भूतसंबंधो हि बंधः। भूतबंधस्तु संसार इति [वाराहे.] वचनात्। न च मरणार्थमेव साधनमनुष्ठेयं। वैराग्याद्यननुष्ठानेऽपि मरणदर्शनात्। ततश्च शास्त्रमिदं व्यर्थमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ तदंतरप्रतिपत्तौ रंहति परिष्वक्तः प्रश्ननिरूपणाभ्यामिति ॥% अस्यार्थः ॥ तदंतरप्रतिपत्तौ शरीरांतरप्राप्त्यर्थं। जीवः संपरिष्वक्तः पृथिव्यादिभूतसंयुक्त एव रंहति इमं देहं परित्यज्य लोकांतरं गच्छतीति ज्ञायते। कुतः। प्रश्ननिरूपणाभ्यां वेत्थ यथेति (छां. 5-3-9.) श्वेतकेतुमृषिंप्रति प्रवाहणस्य राज्ञः प्रश्नात्। तथा इति त्विति प्रवाहणोक्तपरिहाराच्चेत्यर्थः ॥

एवंच बंधनिवृत्तिरूपफलसद्भावात्। न च मरणमेव बंधनिवृत्तिः। मरणे भूतसंपरिष्वक्तस्यैव जीवस्य गमनांगीकारात्। तत्र वेत्येति प्रश्नवाक्ये तस्यैव परिहारवाक्ये च मृतस्य भूतपरिष्वंगाभिधानात्। भूतानां विनिवृत्तिरिति [भारते.] वचनं तु भूतभागविनिवृत्यभिमतमितिं न तद्विरोधः। अतो मरणमात्रेण मोक्षायोगात्। अनुष्ठेयमेव साधनमिति सार्थकमेव शास्त्रमिति सिद्धं ॥

॥ इति तदंतराधिकरणं ॥

%2.अधिकरणं ॥%

अत्र भगवत्प्राप्तिसाधनवैराग्यार्थं जीवस्य समस्तभूतपरिष्वक्तस्य गतिः समर्थ्यते।
<3-1-2>
%(2) ॐ ॥ त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ ॐ ॥%

ननु जीवेन सह आप एव गच्छंति न सर्वाणि। आपः पुरुषेति श्रुतेः। अन्यथा भूतानाति श्रुतिः स्यात्। अतो मृतस्य समस्तभूतबंधाभावात्मरणमेव मोक्ष इति व्यर्थमेव वैराग्यादीति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ त्रयात्मकत्वात्तु भूयस्त्वादिति ॥% अस्यार्थः ॥ जीवः सर्वभूतपरिष्वक्त एव गच्छति। नाद्भिरेव। आप इति विशेषोक्तिस्तु त्र्यात्मकत्वात् अपां क्षितिसलिलानलात्मकत्वात्। तेप्वप्यपां भूयस्त्वात् बाहुल्यात्। युज्यते। अतो न तद्विरोध इत्यर्थः ॥

एवंच आपि इति पुनुरुत्पत्तिश्रवणात्। न च सर्वभूतपरिष्वंगाभावे पुनुरुत्पत्तिर्युज्यते। भूतबंधस्यैव संसारत्वेन तदभावे मुक्तत्वापातात्। एकभूतस्य चाबंधकत्वात्। न च विशेषश्रुतिविरोधः। अपां त्रिवृत्कृतपृथिव्यप्तेजसो हेतुत्वेनाप्‌ग्रहणेनैव सर्वेषां प्राप्तेः। न चापामिव भूतेजसोरपि त्रिवृत्कृतभूतत्रयकारणत्वेन शब्दांतरमपहायाप्‌शब्दस्यैव ग्रहणे कारणाभाव इति। सर्वशरीरेषु संभूयापां बहुत्वस्यैव नियामकत्वात्। अतोऽस्ति सर्वभूतानां जीवं परिष्वज्य गमनमिति स्वाभाविकमरणेन मुक्त्यभावादनुष्ठेयं वैराग्यादीति सिद्धं ॥

॥ इति त्र्यात्मकत्वाधिकरणं ॥

%3.अधिकरणं ॥%

अत्र वैराग्यसिध्यर्थं जीवस्य भूतैः सह गतिः समर्थ्यते।

<3-1-3>
%(3) ॐ ॥ प्रामगतेश्च ॥ ॐ ॥%

ननु न भूतानि सह गच्छंति। प्रमाणामावात्। न च प्रश्नव्याख्याने प्रमाणं। तयोरपि भूतैः सह गमनाप्रतीतेः। आर्थिककल्पनायाश्च विशेषप्रमाणमंतरेणासंभवात्। अतः स्वाभाविकमरणमेव मुक्तिरित्यलं वैराग्यादिभिरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ प्राणगतेश्चेति ॥% अस्यार्थः ॥ भूतव्याप्तप्राणशब्दितेंद्रियाणां जीवेन सह गमनश्रवणाच्च। जीवो भूतसंपरिष्वक्त एव गच्छतीत्यर्थः ॥

एवंच भूतानि जीवेन सह गतिमंति तत्सहगंतृप्राणव्यापकत्वात् इत्यनुमानसद्भावात्। न च व्याप्त्यभावः। यत्र वाव भूतानीति [भाल्लवेय.] श्रुत्या भूतानां प्राणानां च परस्परव्याप्यव्यापकभावामिधानात्। अतः समस्तभूतानां जीवपरिष्वंगसिद्धेन मरणमात्रेण मोक्षोऽतोऽपेक्षितं वैराग्यादीति सिद्धं ॥

॥ इति प्राणगत्यधिकरणं ॥

%4.अधिकरणं ॥%

अत्र प्राणानां जीवेन सहगतिः समर्थ्यते।

<3-1-4>
%(4) ॐ ॥ अग्न्यणात्। तथा च प्राणानां गत्यभावेन साधकाभावाद्भूतानामपि न सह गतिरिति मरणमेव मोक्ष इति व्यर्थं वैराग्यादीत्याक्षिप्य समादधत्सूत्रं पठ
ति ॥

%॥ ॐ ॥ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वादिति।% अस्यार्थः ॥ अग्न्यादिगतिश्रुतेः प्राणानां यत्रेति अग्न्यादीन् प्रति गमनस्योक्तेर्न जीवेन सह गमनमिति चेन्न। कुतः। भाक्तत्वात्। यत्रेति श्रुतेः प्राणभागविषयत्वादित्यर्थः ॥

एवंच एतैर्वाव नेति श्रुतिसद्भावात्। प्राणानां भागेनाग्न्यादौ गत्यंगीकारेणाग्निमिति विशेषश्रुतेरविरोधः। पुरुषस्य मताविति [ब्राह्मे.] वचनात्। पुनः शरीरप्राप्तिसमयेऽग्न्यादौ प्रविष्टानां भागानां जीवसहगतभागेषु प्रवेशांगीकारेण सर्वापगमाभावात्। तथा च भूतानामपि मरणकाले भागेन जीवेन सह गतिः। भागेनाग्न्यादिगतिर्भवति। पुनः शरीरप्राप्तौ जीवेन सह गतेषु भूतभागेष्वग्न्यादीन्प्रति गतानां भूतभागानां प्रवेशो भवतीति विवेकात्। अतोऽस्ति प्राणानां जीवेन सह गतिस्ततो भूतानामपीति न मरणमात्रेण मोक्षोऽतोनुष्ठेयं साधनमिति सिद्धं ॥

अत्र भूतानां जीवेन सह गतिराक्षिप्य समाधीयते।

<3-1-5>
%(5) ॐ ॥ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ॐ ॥%

ननु जीवेन सह भूतानां गमनं भवेत्। तस्मिन्नेतस्मिन्नितीत्युपक्रमे [छां. 5-4-2.] श्रद्धासहितस्यैव होमाभिधानात्। भूतानामपि सह गतावुपक्रमे तथोक्तिप्रसंगात्। अतो भूतानां सहगत्यभावेन भूतानां विनिवृत्तिरेव मोक्ष इति वदतो मरणस्यैव मोक्षत्वप्रसंगाद्‌व्यर्थं वैराग्यागीत्याक्षिप्य समादधत्सूत्रं पठति ॥

%॥ ॐ ॥ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेरिति॥% अस्यार्थः ॥ प्रथमे तस्मिन्नित्युपक्रमे। प्रथमे द्युनामके। प्रथमाग्नौ होमश्रवणात् भूतानां जीवसाहित्यश्रवणाभावाच्च। न जीवो भूतसहितो गच्छतीति चेन्न। कुतः। हि यतः। ता एव प्रस्तुता आप एवोपक्रमगतश्रद्धशब्देनोच्यंते। अतः। तत्कुतः। उपपत्तेः। आपः पुरुषवचसो भवंति (छां. 5-9-1.) त्युपसंहारोपपत्तेरित्यर्थः ॥

एवंच प्रथमाग्नौ भूतसहितस्य होमश्रवणेन भूतानां सहगतेर्वक्तव्यत्वात्। श्रद्धशब्दस्य जहत्स्वार्थलक्षणयाप्‌श्रद्धाविशिष्टजीववाचित्वात्। उपसंहारेऽपां जीवेन सह गतिश्रवणात्। उपसंहारानुसारेणैवोपक्रमस्य नेयत्वात्। न चागमनमात्रविषयत्वमुपसंहारस्येति वाच्यं। मरणकाले तत्परित्यागानुक्तेः। मध्ये संयोगमनभिधायाप इत्यनुवादेन सह गमनस्यैव कल्प्यत्वात्। अतो भूतानां जीवेन सह गतिसद्भावान्मरणस्य मुक्तित्वाभावेनापेक्षितं वैराग्यादिसाधनमिति सिद्धं ॥

॥ इति प्रथमाधिकरणं ॥

%6.अधिकरणं ॥%

अत्र जीवस्य भूतैः सह गतिः समर्थ्यते।

<3-1-6>
%(6) ॐ ॥ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ॐ ॥%

ननु मास्तु भूतानां जीवेन सह गमनं। तथा श्रुत्यभावात्। न चापां प्राणानां च सहगतिः श्रूयतेऽतोऽर्थाद्भूतगतिरपि श्रुता भवतीति। अपां प्राणानां चेति श्रुतौ साक्षाच्छ्रवणाभावेनार्थिकश्रुतेरपलपनीयत्वात्। वैदिकेऽर्थे साक्षाच्छ्रवणसद्भावादेव युक्तीनां प्रवृत्तेर्युक्त्याऽपि न तत्सिद्धिः। ततश्च मरणस्यैव मोक्षत्वप्रसंगादननुष्ठेयमेव वैराग्यादीत्याक्षिप्य पराकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ अश्रुतत्वादितिचेन्नष्टादिकारिणां प्रतीतेरिति ॥% अस्यार्थः ॥ अश्रुतत्वात् भूतानां जीवेन सह गमनस्याग्निं वागप्येतीतिवत्प्रत्यक्षश्रवणाभावान्न तेषां सह गमनमिति चेन्न। कुतः। अथैनमिति (कौंडिण्य.) श्रुत्या इष्टादिकारिणां यागहोमकृतां। प्रतीतेः प्रत्यक्षत एव भूतवियोगसहयोगयोरवगमादित्यर्थः ॥

एवंच प्रत्यक्षश्रुत्यभावेनाश्रवणमंगीकृत्य भूतानामसहगतेर्मंतव्यत्वायोगात्। आर्थिकश्रवणस्याप्यश्रवणबाधकत्वात्। यजमानमरणे भूतानां सहगतेर्विस्पष्टमभिहितत्वेन दृष्टांतेन सर्वत्रापि भूतगतिसिद्धेश्च। अतोऽस्त्येव भूतानां जीवेन सह गतेरिति मरणे मोक्षाभावादनुष्ठेयमेव वैराग्यादीति सिद्धं ॥

॥ इति अश्रुतत्वाधिकरणं ॥

%7.अधिकरणं ॥%

अत्र भगवत्प्राप्त्यर्थं कर्मणामस्थिरफलकत्वोक्त्या वैराग्यादेरावश्यकसाधनत्वं समर्थ्यते।

<3-1-7>
%(7) ॐ ॥ भाक्तंवाऽनात्मवित्त्वात्तथा हि दर्शयति ॥ ॐ ॥%

ननु नानुष्ठेयं मुमुक्षुणा वैराग्यादि। कर्मणैव मोक्षसिद्धेः। अपामसोममिति [ऋ. 8-48-3.] श्रुतेः। न चोमयोरपि साधनत्वाद्वैराग्यादिकमप्यनुष्ठेयमिति वाच्यं। सति हि लघीयस्तुपाये गुरूपायस्यानादर्तव्यत्वात्। अतः सुशकेन कर्मणा मोक्षसिद्धौ वैराग्यादिना कृत्याभावादिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयतीति ॥% अस्यार्थः ॥ काम्यकर्मिणां उक्तममृतत्वं भाक्तं अमुख्यं। कुतः। अनात्मवित्त्वात् तेषामब्रह्मज्ञानित्वात्। वा शब्देन जिज्ञासुज्ञानिकृताकाम्यकर्मजन्यामृतत्वमपि न संसारनिवृत्तिरूपमुख्यामृतत्वरूपं। किंतु अंतःकरणशुद्‌ध्यानंदातिशयरूपनिरतिशयपरममुख्यमिति पक्षद्वयं सूचयति। कुत एतत्। हि यस्मात्। अमृतो वेति, स एनमिति, (बृ. 3-4-15.) कर्मणेति, आत्मानमिति च श्रुतिः तथोक्तान् दर्शयति प्रतिपादयति। तस्मादित्यर्थः ॥

एवंच वैराग्याद्यननुष्ठाने मोक्षासिद्धेः। नचैवं श्रुतिंविरोधः। कर्म हि काम्यमकाम्यं चेति द्विविधं। अकाम्यमपि ज्ञानात्पूर्वभाविपश्चाद्भावि चेति द्विविधं। तत्सर्वमपि श्रुत्यर्थएव। अधिकारिभेदात्। यदा श्रुतिः काम्यकर्मपरा न तदा मुख्यामृतत्वं किंतु बहुकालजीवनरूपभाक्तमर्थमाह। यदा तु ज्ञानात्पूर्वभाव्यकाम्यकर्मपरा तदा मुख्याऽमृतत्वसाधनत्वमेवाह। किं नाम न साक्षात्किंतु कर्मणा शुद्धसत्त्वस्य वैराग्यादिद्वारा मोक्षसाधनत्वमाह। यदातु ज्ञानोत्तरकर्मपरा तदा ज्ञानेन सिध्यति मोक्षेऽतिशयाधायकत्वमाहेति व्यस्थायाः सद्भावात्। कथमपि कर्मणा साक्षान्मुख्यमोक्षसाधनत्वानभिधायकत्वात्। अतो वैराग्याद्यनुष्ठानमंतरेण मोक्षासिद्धेर्न तत्प्रतिपादकशास्त्रवैयर्थ्यमिति सिद्धं ॥

॥ इति भाक्ताधिकरणं ॥

%8.अधिकरणं ॥%

अत्र वैराग्यादिसाधनस्यावश्यानुष्ठेयत्वं समर्थ्यते।

<3-1-8>
%(8) ॐ ॥ कृतत्ययेऽनुशयवान् दृष्टस्मृतिभ्यां ॥ ॐ ॥%

ननु वैराग्यादिनाऽलं। कृतस्य कर्मणो भोगेनैव क्षये बीजाभावेन संसाराभावसंभवात्। न च भोगकाले पुनः कर्मांतरानुष्ठानसंभवेन संसारान्निवृत्तिरिति वाच्यं। इह लोके भोगसमये कर्मानुष्ठाननियमेऽपि स्वर्गादौ तदभावेन तत्रैव सर्वकर्मणां भोगेन क्षये संसारान्निवृत्तिसंभावत्। कर्मणां भिन्नदेशकालविपाकत्वेऽपि यज्ञाद्याराधितभगवत्प्रसादेन भवन्मते सौभर्यादिवत्स्वर्गादावेव सर्वकर्मक्षयो नानुपपन्नः। ततश्च वैराग्यादेरनावश्यकत्वमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यामिति ॥% अस्यार्थः ॥ कृतात्यये कृतस्य कर्मणः स्वर्गादौ भोगेनात्यये क्षये सति। पुनरनुशयवान् भुक्तशेषवानेवेमं लोकं प्रत्यागच्छतीति ज्ञायते। कुतः। दृष्टस्मृतिभ्यां। ततः शेषेणेति दृष्टशब्दितश्रुतेः। भुक्तशेषेति स्मृतेश्चेत्यर्थ ॥

एवंच निर्दिष्टश्रुतिस्मृतिभ्यां स्वर्गाद्यापादककर्मण एव सामस्त्येन क्षयाभावेन सुतरां सर्वक्षयासंभवात्। एकस्य कर्मणो भोगावसरे पुनरनंतकर्मानुष्ठानेन भोगेनासमाप्तेर्द्वित्रावर्तनेषु सर्वक्षयाभावात्। आचतुर्दशमाद्वर्षादिति स्मृतेः। अतो वैराग्यादिसाधनमावश्यकमिति सिद्धं ॥

॥ इति कृतात्ययाधिकरणं ॥

%9.अधिकरणं ॥%

अत्र स्वर्गादागतिप्रकारो निरूप्यते।

<3-1-9>
%(9) ॐ ॥ यथेतमनेवंच ॥ ॐ ॥%

ननु गमनप्रकारेणैवागमनं जीवस्य भवेत्। यथेतमेवेति श्रुतेः। येन यथा स्वर्गं प्रति जीवो गतः समार्गस्तावज्जीवस्य स्मृतिविषयः। न च स्मृतिमात्रपरित्यागेन मार्गांतरेणागमने कारणमस्तीति तेनैवायातीति वक्तव्यं। ततश्चातिक्लेशाभावान्न स्वर्गे वैराग्यमापादनीयमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ यथेतमनेवंचेति ॥% अस्यार्थः ॥ जीवेन यथा येन मार्गेण स्वर्गादिकं। इतं प्राप्तं। तथा तेन। अनेवं अन्येन मार्गेण च। जीव इमं लोकमागच्छतीत्यर्थः ॥

एवंच धूमादभ्रमिति [काषायण.] विशेषश्रुतिसद्भावात्। आकाशपर्यंतं गत्यनुसारेणागमनस्यांगिकारेण पूर्वश्रुतेस्तत्परत्वेनाविरोधात्। आगमने जीवस्य स्वातंत्र्याभावेन युक्तेरप्रयोजकत्वेन तदविरोधात्। तस्मादागमनादावतिक्लेशयुक्तत्वेन स्वर्गफलेऽपि विरक्तेन भवितव्यमिति सिद्धं ॥

॥ इति यथैताधिकरणं ॥

%10.अधिकरणं ॥%

अत्र गतागतस्य कर्मफलत्वं समर्थ्यते।

<3-1-10>
%(10) ॐ ॥ चरणादिति चेन्न तदुपलक्षणार्थेतिकार्ष्णाजिनिः ॥ ॐ ॥%

ननु चरणफलमेव गतागतं न यज्ञादिकर्मणः। तद्य इहेति श्रुतेः। [छां. 5-10-7.] चरणस्य च स यथा कारीति श्रुतेराचार इति स्मृतेश्च कर्मणोऽन्यत्वात्। न चाथ इम इति [छां. 5-10-3.] श्रुतेर्गतागतं यज्ञफलमेव न चरणफलमिति। इष्टापूर्त्तेदत्तमित्युपशब्देन यज्ञसमीपवर्त्तिवाचिना चरणभमभिधायेष्टापूर्त्त इत्यनेन यज्ञं चाभिदायोभयफलस्यते धूममभिसंभवंतीत्यादिना द्विविधस्वर्गाभिधानेनाथ इति श्रुतेश्चरणफलत्वात्। अतो गतागतस्यान्यफलत्वात्कर्मणा पुनरावृत्तिशून्यस्वर्गसिद्धेर्न वैराग्यादिना कृत्यमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिरिति ॥% अस्यार्थः ॥ गतागतं न यज्ञादेर्भवति। किंतु चरणात् यज्ञांगभूताचारादेव। चरणाचराश्रुतेरिति चेन्न। कुतः। यतः श्रुतिः तदुपलक्षणार्थाजहत्स्वार्थलक्षणया यज्ञाचारोभयप्रतिपादिकेति कार्ष्णजिनिराचार्यो मन्यते। अत इत्यर्थः॥

एवंच नान्यः पथा इति [तै.आ. 3-12-7.] श्रुत्या गतागतशून्यफलस्य कर्मसाध्यताया निषिद्धत्वात्। इष्टापूर्त्तामिति [मुं. 1-2-10.] श्रुत्या त्रैविद्यामामिति स्मृत्याच गतागतस्य कर्मफलत्वोक्तेश्च। न च तद्य इहेति श्रुतिविरोधः। तस्याः श्रुतेरुदाहृतश्रुत्याद्यनुरोधेन जहत्स्वार्थलक्षणया यज्ञाद्यर्थत्वोपपत्तेः। अथ यज्ञेनेति विस्पष्टश्रुतेश्च। अपि चैवं कार्ष्णाजिनिराचार्यो मन्यते। अतो गतागतस्य कर्मफलत्वाभाव इति सिद्धं ॥

<3-1-11>
%(11) ॐ ॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ ॐ ॥%

उक्तमाक्षिप्य समादधत्सूत्रं व्याचष्टे ॥

%ॐ ॥ आनर्थक्यमिति चेन्न तदपेक्षत्वादिति ॥% अस्यार्थः ॥ उपलक्षणार्थत्वे चरणशब्दस्यानर्थक्यं। कुतः। रमणियकपूयपदाभ्यामेव कर्मोपलक्षणसंभवादिति चेन्न। कुतः। तदपेक्षत्वात्। तस्य साध्वसाधुयज्ञादिमत्त्वस्य तदपेक्षत्वात् आचारादिसापेक्षत्वात्। तथा च तद्बोधार्थं तत्पदसार्थक्यं संभवतीत्यर्थः ॥

एवंच चरणवैयर्थ्यप्रसंगे यज्ञाद्युपलक्षणत्वमेव नेत्यंगीकारे श्रुत्यादिविरोधस्योक्तत्वात्। यज्ञाद्युपलक्षणत्वमंगीकृत्य चरणकृत्यमात्रं चेद्यज्ञादिकारिणां साध्वसाधुचरणाभ्यमेव रमणीयत्वं भवतीति ज्ञापनाय चरणपदमित्यभ्युपगमात्। अतो गतागतस्य कर्मफलत्वात्क्लेशसाधनं तस्मिंस्तत्साध्ये च विरक्तेन भवितव्यमिति सिद्धं ॥

<3-1-12>
%(12) ॐ ॥ सुकृतदुष्कृते एवेति तु बादरिः ॥ ॐ ॥%

प्रकारांतरेण चरणश्रुतिं व्याकुर्वत्सूत्रं पठति॥

%॥ ॐ ॥ सुकृतदृष्कृते एवेति तु बादरिति ॥% अस्यार्थः ॥ सुकृतदुष्कृते साध्वसाधुकर्मणी। एव श्रुतिस्थचरणशब्दवाच्येन तु तदंगाचरणमिति बादरिराचार्यो मन्यत इत्यर्थः ॥ तु शब्दात् स्वसिद्धातोऽपि स एवेति सूचयति ॥

एवंच चरणपदस्य यज्ञादिवाचकमेव। धर्म कुरुतेत्यर्थस्यांगीकारेऽपि बाधाबाधात्। चरतीति प्रयोगात्। करोतिचरत्योः पर्यायत्वेन धर्मशब्दाभिधेये पुण्यसाधने यज्ञादिसर्वकर्मणि निष्पन्नकृतशब्दाभिधेयत्वस्य सर्वसिद्धत्वेन तत्पर्यायत्वे कर्मणि ल्युडंतस्य चरणशब्दस्यापि क्तेरवर्जनीयत्वात्। अपि चैवमेव बादरिराचार्यो मन्यते। अतो गतागतस्य कर्मफलत्वात्क्लेशसाधने तस्मिंस्तत्साध्ये च विरक्तेन भवितव्यमिति सिद्धं ॥

॥ इति चरणाधिकरणं ॥

%11.अधिकरणं ॥%

अत्रानिष्टादिकारिणामपि गतागतादि दुःखमस्तीति समर्थ्यते ॥

<3-1-13>
%(13) ॐ ॥ अनिष्टादिकारिणामपि च श्रुतं ॥ ॐ ॥%

नन्विष्टादिपुण्यकृतामेव गतागतादिक्लेशः। तेषां विधिनिषेधभीतियुक्तत्वात्। बिभ्यन्पतति पादपादिति न्यायात्। किंच कामनाहि कर्मांगसंगमेव च कर्मफलहेतुर्न तु व्यंग्यं। कामनावंतश्च ते इष्टादिकारिणस्तु स्वात्मानं स्वयमेव विधिनिषेधाभ्यां बध्नंति। उपनीतस्यैव विधिनिषेधविषयत्वात्। अनुपनीतास्तु मत्ताः। न ह्युपनीतं प्रत्यहरहः संध्यामित्यादि शास्त्रं प्रवर्तत इति शक्यते वक्तुं। शूद्रादीनां तत्प्रसंगात्। अतः पुण्यपापकृतामेव गमनागमनादिदुःख न तु पापमात्ररतानां मत्तानां किंतु मोक्ष एवेति पुण्ये तत्फले च विरक्त्या भवितव्यं न तु पापमात्रानुष्ठान इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अनिष्टादिकारिणामपि च श्रुतिमिति ॥% अस्यार्थः ॥ च शब्दो दुःखांतरसमुच्चये। न केवलमिष्टादिकारिणामेव गतागतं किंत्विष्टशब्दितयागादिकर्मविरुद्धपापकारिणामपि। कुतः। यतः। श्रुतं। तद्य इहेति (भाल्लवेयं.) श्रुत्या तथोक्तं। अत इत्यर्थः ॥

एवंच न पुण्यपापे संकल्य्यानुष्ठितानामेव गतागतादिक्लेशः। किं नाम पापमेवानुरक्तानां मत्तानामपि। उक्तश्रुत्या प्रत्येकं गतागतक्लेशाभिधानात्। अतो युक्तमुक्तमिति सिद्धं ॥

<3-1-14>
%(14) ॐ ॥ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ ॐ ॥%

न केवलमनिष्टादिकारिणां गतागतमात्रं। किं नामातिदुःखं पूर्वसूत्रे चशब्देन सूचितमन्यदस्तीत्यर्थं प्रतिपादयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनादिति ॥% अस्यार्थः ॥ तु शब्दोऽवधारणे। सप्तमी द्वितीयार्थे। संयमने नरके। सम्यग्यमशासनमनुभूयैव स्थितानामितरेषामिष्टादिकारिभ्योऽन्येषां मध्ये। आरोहावरोहौ। केषांचिदारोहः नरकादुत्थानं केषांचिदवरोहः ततोऽपि नचिस्थाने नित्यनरके पातो भवति। कुतः। तद्गतिदर्शनात्। तेषां अनिष्टादिकारिणां। तद्गतेः एवंविधगतेः। दर्शनात् सर्व इति (कौंठरव्य) श्रुतावुक्तत्वादित्यर्थः ॥

॥ एवंचोक्तं युक्तमिति सिद्धं ॥

<3-1-15>
%(15) ॐ ॥ स्मरंतिच ॥ ॐ ॥%

उक्तार्थं स्मृत्या समर्थयत्सूत्रं पठति ॥

%॥ ॐ ॥ स्मरंति चेति ॥% अस्यार्थः ॥ स्मृतिकर्तारः उक्तमर्थं गच्छंतीत्यादिस्मृतिभिः प्रतिपादयंति चेत्यर्थः ॥

एवं न च भयकामनाद्यभावविरोधः। अबिभ्यता फलकामनाशून्येनाप्युपभुयक्तस्य विषयस्य मरणहेतुत्वदर्शनात्। अतोऽनिष्टादिकारिणामपि महानर्थत्वेन मोक्षशाया दूरोत्सारितत्वाद्भिवितव्यं तत्रापि विरक्तेनेति सिद्धं ॥

॥ इति अनिष्टाधिकरणं ॥

%12.अधिकरणं ॥%

अत्र भगवद्वेषादिफलस्य नरकस्य नित्यत्वं समर्थ्यते।

<3-1-16>
%(16) ॐ ॥ अपि सप्त ॥ ॐ ॥%

ननु नरकं न निर्गत्य दुःखसाधनं। यावदिंद्राश्चतुर्दशेत्यादाववधिमत्त्वश्रवणात्। न चोभयं युक्तं। विरोधात्। न च पुरुषभेदेन व्यवस्था। चकार नरकं शून्यमिति शून्यताऽभिधानात्। ततश्च संयमने त्वनुभूय केषांचिदवरोह इति प्रागुक्तमयुक्तमिति नेतरपापेभ्यो भगवद्विद्वेषेऽतिशयेन वैराग्येण भाव्यमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अपि सप्तेति ॥% अस्यार्थः ॥ स्मर्तारः रौरवादिसप्तविधनपि नरकान् रौरव इति (भारते.) स्मृतिभिः प्रतिपादयंतीत्यर्थः ॥

एवंच भवेदेवं यद्यकमेव नरकं स्यात्। न चैवं। किं नाम रौरवोऽथेति वचनात्सप्तनकाणि। चकरा नरकमिति रौरवादि पंचनरकविषयाणि। नैवेत उतिष्ठंतइत्यादीनि [कौंठरव्य.] तामिस्रांधंतमिस्रविषयाणि। अन्यानि च बहूनि क्षुद्रनरकाणि। तान्यप्यनित्यफलदानि। अतो भगवद्वेषादिकफलस्य नित्यनरकत्वादितरपापेभ्योऽतिशयेन तत्रैव वैवार्गयेणभवितव्यमिति सिद्धं ॥

॥ इति अपिसप्ताधिकरणं ॥

%13.अधिकरणं ॥%

अत्र नरकस्य सदुःखत्वं समर्थ्यते।

<3-1-17>
%(17) ॐ ॥ तत्रापि च तद्व्यापारादविरोधः ॥ ॐ ॥%

ननु न नरकं सदुःखं। ईश्वरस्यापि दुःखप्रसंगात्‌। भूलोकस्य स्वस्थितानां सर्वेषां दुःखजननस्वभावाभावेन भूलोके सहावस्थितयोर्जीवेशयोर्जीवस्यैव दुःखं नेश्वरस्येति शक्तिवैशेष्यादितिवत् तथा संभवेऽपि नरकस्य स्वस्थितानां सर्वेषां दुःखजननस्वभावत्त्वेन वैषम्यायोगात्। न च तत्रेश्वराभावान्न दुःखप्रसंगः। सर्वं विसृजतीति [कौषरव.] श्रुत्येश्वरस्य कार्यमात्रं प्रति कारणत्वेन तत्रेश्वराभावे सुतरां दुःखायोगात्। ततश्चोभयथाऽपि दुःखाभावसंभवान्न तत्र वैराग्येण भाव्यमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ तत्रापि च तद्‌व्यापारादिविरोध इति ॥% अस्यार्थः ॥ च शब्दो दुःखानुभवं विनैवेत्यर्थसूचकः। तथा च तत्रापि ईश्वरस्य नरके स्थित्वा तत्स्थजीवानियंतृत्वे सर्वमिति श्रुतिविरोधः। तन्नियंतृत्वे दुःखभोक्तृत्वमित्युभयविरोधो नेत्यर्थः ॥

एवंच नरकेपीश्वरव्यापारांगीकारेणाकारणत्वदोषाभावात्। नरकस्यापि तद्वशत्वेनादुःखानुभवेनैव तत्प्रेरकत्वेन तस्य दुःखप्राप्त्यभावात्। सस्वर्ग इति [पौत्रायण.] श्रुतेः नरकेपीति स्मृतेश्च [भागवततंत्रे.]। तथा च नरकस्य स दुःखत्वात्तत्रैव वैराग्येण भाव्यमिति सिद्धं ॥

॥ इति तत्राप्यधिकरणं ॥

%14.अधिकरणं ॥%

अत्र जीवानां गतिस्वातंत्र्यं निराक्रियते।

<3-1-18>
%(18) ॐ ॥ विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ ॐ ॥%

ननु भवंत्येव जीवा गत्यादिफले स्वतंत्राः। अथैतयोरिति [छां. 5-10-8.] वचनात्। न हि स्वातंत्र्याभावे गच्छंति न गच्छंतीति व्यपदेशो युज्यते। न च जीवानां स्यातंत्र्यमप्रतिपादितमिति वाच्यं। साधनफलवदीश्वरदत्त्स्वातंत्र्यांगीकारात्। अतो मूले लब्धफलो नैव शाखाग्रं गंतुमिष्यतीति न्यायात् फल एव स्वातंत्र्यात् किं वैराग्यसाधनेनेति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अविद्याकर्मणोरिति तु प्रकृतत्वादिति ॥% अस्यार्थः ॥ तु शब्दोऽवधारणे। अथैतयोः पथोरिति श्रुतावेतयोरित्यस्य ज्ञानकर्मणोरित्येवार्थः। न तु धूमार्चिरादि मार्गयोरेति। येन जीवस्य फलस्वातंत्र्यं स्यात्। कुतः। प्रकृतत्वात्। तद्य इत्थमिति (छां. 5-10-1) तयोरपि प्रकृतत्वादित्यर्थः ॥

एवंच जीवानां गत्यादिस्वातंत्र्यं प्रमाणाभावात्। अथैतयोरिति श्रुतिगतैतयोरिति शब्दस्य तद्य इत्थमिति विद्याकर्ममार्गयोरपि प्रकृतत्वात्तत्परमर्शकत्वेनास्य वाक्यस्य साधने स्वातंत्र्यनिर्देशात्मकत्वात्। न च विद्याकर्ममार्गवद्देवयानपितृयानयोरपि प्रकृतत्वेन कस्यायं परामर्श इति संदेहेनानिर्णयः। विद्यापथ इति वचनेन परामर्शकनिर्णयोपपत्तेः। अतः फले स्वातंत्र्याभावादपेक्षितं वैराग्यादिसानधनमिति सिद्धं ॥

॥ इति विद्याधिकरणं ॥

%15.अधिकरणं ॥%

अत्रांधंतमसस्य दुःखमात्रत्वं समर्थ्यते।

<3-1-19>
%(19) ॐ ॥ न तृतीये तथोपलब्धेः ॥ ॐ ॥%

नन्वधंतमोऽपि सुखयुक्तमेव। दुःखयुक्तत्वात्। दुःखं हि सुखाविना भूतं। यत्र दुःखं तत्रसुखमिति वचनात्। अतोंऽधंतमस्यपि सुखसद्भावान्न तत्रातिवैराग्यमपेक्षितमित्याशंकां परिहरत्सूत्रमाह ॥

%॥ ॐ ॥ न तृतीये तथोपलब्धेरिति ॥% अस्यार्थः ॥ तृतीये तिर्यग्यातनातम इत्युक्ताधोगतिषु तृतीये तमसि। न सुखमस्तीति शेषः। कुतः। तथोपलब्धेः तथा प्रतीतेरित्यर्थः ॥

एवंचाथाविद्वानकर्मेति श्रुतिसद्भावात्। नांधेतमसि मग्नानामिति [भविष्यत्पर्वणि.] स्मृतेश्च। अतोंऽधेतमसि सुखलेशाभावाद्भवितव्यं तत्र तत्साधने च विरक्तेरिति सिद्धं ॥

<3-1-20>
%(20) ॐ ॥ स्मर्यतेऽपि च लोके ॥ ॐ ॥%

एतमेवार्थं स्मृत्यनुमानाभ्यां च साधयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ स्मर्यतेऽपि च लोके इति ॥% अस्यार्थः ॥ अंधे तमसि सुखराहित्यं नांधेतमसीति स्मृतिकर्त्रा स्मर्यते च स्मृत्या च प्रतिपाद्यते। किंचैतत् लोकेऽपि लोकदृष्टव्याप्तिकानुमानेनापि सिद्धमित्यर्थः ॥

एवंच तिर्यक्ष्विति स्मृतेः [भविष्यत्पर्वणि.] विमताः न सुखवंतः। ईश्वरेण तथानिष्टत्वात्। यो यथा नेश्वरेणेष्टः तथा। शृंगित्वेनानिष्टः शिखी न शृंगीत्यनुमानस्य च सद्भावात्। ईश्वरेण तथानिष्ठत्वं च तदप्रियत्वहेतुसिद्धं। अतोंऽधे तमसि सुखलेशाभाव इति सिद्धं ॥

<3-1-21>
%(21) ॐ ॥ दर्शनाच्च ॥%

प्रत्यक्षेणाप्येतमर्थं साधयत्सूत्रमाह ॥

%॥ ॐ ॥ दर्शनाच्चेति ॥% अस्यार्थः ॥ तृतीये सुखराहित्यं हिरण्यगर्भप्रत्यक्षाच्च सिद्धमित्यर्थः ॥

एवंच नारायणप्रसादेन समृद्धज्ञानचक्षुषा परमुखमंतरेण स्वयमेव सुखाभावस्य चतुर्मुखदर्शनवचनात् [पाद्ये.]। अतोंऽधे तमसि सुखलेशाभाव इति सिद्धं ॥

<3-1-22>
%(22) ॐ ॥ तृतीये शब्दावरोधः संशोकजस्य ॥ ॐ ॥%

अर्थापत्त्याप्येतमर्थं समर्थयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ तृतीये शब्दावरोधः संशोकजस्येति ॥% अस्यार्थः ॥ तृतीय इत्यावर्तते। तृतीये तमसि। तत्रापि तृतीये अंधे तमसि तद्विषये। यः शब्दः। तेन संशोकजस्य सम्यक् शोकजस्य। मोहस्यावरोधः प्राप्तिर्भवतीत्यर्थः ॥

एवंचाधरंतमश्रवणमात्रेण तच्छ्राविणां मोहप्राप्त्यन्यथाऽनुपपत्त्या तत्रत्यदुःखस्य निरवधिकत्ववत् सुखलेशासामानाधिकरण्यातिशयसिद्धेश्च। अतोंऽधे तमसि सुखलेशाभाव इति सिद्धं ॥

<3-1-23>
%(23) ॐ ॥ स्मरणाच्च ॥ ॐ ॥%

ननु तृतीयतमःस्वरूपश्रवणे श्रोतॄणां मोहप्राप्तिरित्येतत्कुतोऽवगम्यते। यदन्यथाऽनुपपत्त्या तत्र सुखाभावावगम इत्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ स्मरणाच्चेति ॥% अस्यार्थः॥ तमस्त्रैविध्यस्य तृतीयतमसः श्रवणे श्रोतृमोहप्राप्तिश्च महातम इति (कौर्मे.) स्मृत्या तदुभयं सिद्धमित्यर्थः ॥

एवं न च श्रवणमात्रेण तच्छ्राविणां मोहप्राप्तिरसिद्धेति। महातमस्त्रिधेति स्मरणात्। अतोंऽधे तमसि सुखलेशाभाद्भवितव्यं तत्र तत्साधने च विरक्तेरिति सिद्धं ॥

॥ इति न तृतीयाधिकरणं ॥

%16.अधिकरणं ॥%

अत्र कर्मिणि धूमादिभावो निवार्यते ॥
<3-1-24>
%(24) ॐ ॥ तत्सावाभाव्यापत्तिरुपपत्तेः ॥ ॐ ॥%

ननु कर्मिणो धूमादिप्राप्तिर्वा तदैक्यं वा भवतीत्यभ्युपेयं। धूमो भूत्वेति [छां. 5-10-5.] वचनात्। अनेन वाक्येन सामानाधिकरण्यबलाद्धूमादिभावतदप्राप्त्योः प्रतीतेः। स्नेहवशाद्रजपुत्रस्य राजपदप्राप्तिवत्। अर्जुनस्येंद्रतादाम्यवच्चोभयोरप्युपपन्नत्वात्। अतः प्रकारद्वयेऽपि सकृदनुष्ठितयज्ञानामाकल्पसमाप्तिरमसुखसंभवाद्‌व्यर्थं कर्मणि तत्फले च वैराग्यमिति प्राप्ते सूत्रकृदाह ॥

%॥ ॐ ॥ तत्स्वाभाव्यापत्तिरुपपत्तेरिति ॥% अस्यार्थः ॥ कर्मणि तत्स्वाभाव्यापत्तिः। तस्य धूमादिदेवस्य। स्वभावस्य स्वभावसदृशस्वभावस्य। प्राप्तिरेव। न तदैक्यं तत्पद प्राप्तिर्वा। कुतः। उपपत्तेः। अन्यस्यान्यैक्यादृष्टस्यास्यैवार्थस्य युक्तत्वादित्यर्थः ॥

एवंचान्यस्यान्याभावासंभवात्। तत्पदस्य नियताधिकारिभिर्ज्ञानेनैव प्राप्यत्वात्। युगपदनेककर्मिसमवायेऽनेकेषामेकपदप्राप्त्ययोगाच्च। तस्मात्तद्गतौ गतिस्तत्स्थितौ स्थितिरित्यादिरूपतत्स्वाभाव्यापत्तिरेवेति श्रुत्यर्थः। अतो धूमाद्यैक्याभावाद्युक्तं तत्कर्मतत्फलयोर्वैराग्यमिति सिद्धं ॥

॥ इति तत्स्वाभाव्याधिकरणं ॥

%17.अधिकरणं ॥%

अत्र स्वर्गादवरूढस्य कर्मिणोऽचिरेण गर्भवासादिप्राप्तिः समर्थ्यते।

<3-1-25>
%(25) ॐ ॥ नातिचिरेण विशेषात् ॥ ॐ ॥%

ननु कर्मो स्वर्गान्निर्गतः कल्पांतरे देहं प्राप्नोति। यथेतमाकाशमि[छां. 5-10-5.]त्यादावागमनवेलायां बहुस्थानप्राप्तिश्रवणात्। तद्गमनं च नाचिरेण संभवति। तत्र तत्र तत्तत्स्वाभाव्येनातिमहासुखे संभवति तद्विहायागमने प्रयोजनाभावात्। न च पुण्याल्पत्वाद्बहुकालावस्थानानुपपत्तिः। देवतासांनिध्यसद्भावेन तत्रावस्थानकारणदेवताप्रसादार्जनोपपत्तेः। न हि प्रेक्षावान् वदान्यमहाप्रभुसांनिध्ये सत्यनाराध्य स्वाभीष्टं न प्राप्नोतीति संभवति। न च तथा सति कल्पांतेऽपि न शरीरप्राप्तिरिति वाच्यं। कल्पांते स्वपरिचितदेवताया मुक्तत्वेन देवतांतरस्य परिचयाभावेनाराधनायोगात्। ततश्च कामानुष्ठानेनैवाकल्पसुखसद्भावात्किंकर्मणि तत्फले च वैराग्येणेति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ नातिचिरेण विशेषादिति ॥% अस्यार्थः ॥ स्वर्गान्निर्गतः कर्मी नातिचिरेण अचिरेणैव। भूमावागत्य ब्राह्मणादियोनिं प्राप्नोति। न चिरेण। कुतः। विशेषात्। तद्य इहेति (छां. 5-10-7) विशेषचनादित्यर्थः ॥

एवंच निर्दिष्टश्रुतेः स्वर्गादिति [नारदीये.] स्मृतेश्च सद्भावात्। कर्मफलस्य क्लप्तकालत्वेनाधिककालस्थायित्वानुपपत्तेः। इह लोक एव च पुण्यार्जनमिति भगवता क्लप्तत्वेन तत्रैव पुनर्देवताराधानानुपपत्तेश्च। अतः कर्मणोऽचिरेणैव गर्भवासादिदुःखसद्भावाद्भवितव्यं कर्मादौ विरक्तिरिति सिद्धं ॥

॥ इति नातिचिरेणाधिकरणं ॥

%18.अधिकरणं ॥%

अत्र कर्मिणां व्रीह्यादिभावनिमित्तकदुःखाभावः समर्थ्यते।

<3-1-26>
%(26) ॐ ॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ ॐ ॥%

नन्वस्त्येव कर्मिणां दृष्टोत्पत्तिरांतरीयकदुःखातिरिक्तबलवद्‌दुःखं तेषां। त इहेति [छां. 5-10-6.] व्रीह्यादिभावश्रवणात्। तद्भावे तच्छेदनादिना दुःखावश्यंभावात्। तच्चायुक्तं। यज्ञादिनाचेयं श्रुतिर्व्रीहिप्रवेशमात्रपरा न तद्भावपरेति वाच्यं। बाधकाभावे मुख्यार्थत्यागायोगात्। व्रीह्यादिप्रवेशमात्रांगीकारें दुःखानिवारणात्। दुःखिसहवास्थानेऽपि दुःखाभोगे कारणं यज्ञादिकर्मफलमेव। अतो दुःखसाधनतया वेदोपदिष्टकर्मणो दुःखजनकत्वे मोक्षहेतुत्वेनोपदिष्टवैराग्यादावप्यनाश्वासादननुष्ठेयत्वं तस्येति प्राप्ते सूत्रमाचष्टे ॥

%॥ ॐ ॥ अन्याधिष्ठिते पूर्ववदभिलापादिति ॥% अस्यार्थः ॥ कर्मिणो अन्याधिष्ठिते अन्यजीवाभिमन्यमान व्रीह्यादिशरीरे प्रवेश एव न तु न तदभिमानित्वं। येन दुःखं स्यात्। तर्हि ब्रीहियवाइत्यभेदोक्तिः कथमित्यत उक्तं। पूर्ववदिति। यथा धूमो भूत्वेत्यादौ (छां. 5-10-5.) धूमादिभावोक्तिः तथा। कुत एतत्। अभिलापात्। सोऽवाग्गत इति (कौषारव।) श्रुतौ तथाऽभिधानादित्यर्थः ॥

एवंच मानाभावेन न कर्मिणां व्रीह्यादिभावेन दुःखं मंतव्यं। अस्यां श्रुतौ कर्मिणो व्रीह्यादिशरीरप्रवेशमात्राभिधानात्। न च दुःखसहावस्थानेन दुःखप्राप्तिः सहावस्थानस्य प्रयोजकत्वात्। तत्प्रयोजकस्याभावात्। न तु व्रीह्यादिशरीरप्रवेश एव श्रुत्यर्थः। न तद्भाव इति। कुतो निश्चय इति चेति। सोऽवाग्गतः। स्थावरान्प्रविश्येति समाख्यानादिति ग्रहणात्। अतो यज्ञादेः सुखसाधनत्वेनोपदिष्टत्वाद्युक्तं वैराग्यानुष्ठानमिति सिद्धं ॥

<3-1-27>
%(27) ॐ ॥ अशुद्धमिति चेन्न शब्दात् ॥ ॐ ॥%

ननु ज्योतिष्टोमादेर्हिसाविशिष्टत्वेन पापाश्रयत्वाद्‌व्रीह्यादिभावेन दुःखमवर्जनीयमित्याक्षिप्य समादधत्सूत्रमाह ॥

%॥ ॐ ॥ अशुद्धमिति चेन्न शब्दादिति ॥% अस्यार्थः ॥ हिंसारूपत्वाद्यज्ञस्य कर्माशुद्धं दुःखसाधनमिति चेन्न। कुतः। शब्दात् श्रीतवाक्यविहितत्वादित्यर्थः ॥

एवंच बाह्यायाः पापहेतुत्वेऽपि वायव्यं श्वेतमालभेतेत्यादिना [तै.सं. 2-1-1.] विहितहिंसायाः पुण्यहेतुत्वेन यज्ञादेः पापमिश्रत्वाभावात्। हिंसात्ववैदिकेति [वाराहे.] स्मृतेः। अतो यज्ञादेः सुखसाधनतयोपदिष्टस्य दुःखकारणत्वाभावाद्युक्तं वैराग्यानुष्ठानमिति सिद्धं ॥

॥ इति अन्याधिकरणं ॥

%19.अधिकरणं ॥%

अत्र स्वर्गादवतीर्णस्य पितृप्रवेशः समर्थ्यते।

<3-1-28>
%(28) ॐ ॥ रेतःसिग्योगोऽथ ॥ ॐ ॥%

ननु न जीवस्य पितृप्रवेशोऽस्ति। मातुरेवेति वचनात्। न च य एव गृही भवतीति श्रुतेर्बाधः। प्रयोजनाभावयुक्तियुक्ततया बलवदेत्छ्रुतिविरुद्धत्वेन तच्छ्रुतेः काकुस्वरेणापि पितृप्रवेशनिषेधपरत्वात्। ततश्चात्यायासाभावेन नातिवैराग्यं कर्मादावपेक्षितमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ रेतः सिग्योगोऽथेति ॥% अस्यार्थः ॥ कर्मिणः प्रथमं रेतः सिग्योगः रेतः सिचा पित्रा योगः संबंधः तत्प्रवेश इति यावत्। अथ अनंतरं। मातृप्रेवेशो भवति न तु प्रथममेवेत्यर्थः ॥

एवंचास्त्येव पितृप्रवेशो जीवस्य ततो रेत इति [र्कौठरव्य.] श्रुतेः। न च पितृप्रवेशो नेत्यर्थः। पितृप्रवेशस्योत्पत्स्यमानसाधारणजीवसंभवात्। ईशक्लप्त्या तस्य संस्कारार्थत्वात्। न च मातुरेवोदरमिति श्रुत्यप्रामाण्यं। पितृप्रवेशानंतरं मातृप्रवेशस्याप्यंगीकारात्। न च मातुरेवेत्यवधारणानुपपत्तिः। स्मृतेः साधारणजीवपरतादशायामवधारणस्यायोगव्यवच्छेदार्थत्वांगीकारात्। गर्भस्थसिद्धशरीरप्रवेशजीवपरतादशायां तु अन्ययोगव्यवच्छेदस्यापि भावात्। अतः पितृप्राप्तेर्विद्यमानत्वाद्भवितव्यं कर्मादावतिवैराग्यमिति सिद्धं ॥

॥ इति रेतोऽधिकरणं ॥

%20.अधिकरणं ॥%

अत्र जीवस्य पितृद्वारा योनिं प्रविश्य शरीरप्राप्तिः समर्थ्यते।

<3-1-29>
%(29) ॐ ॥ योनेः शरीरं ॥ ॐ ॥%

ननु स्वर्गादागतस्य वा पितृवन्मातरं योनिद्वारा प्रविश्य कललबुद्‌बुदादिक्रमेण देहप्राप्तिर्नास्ति। किंतु कस्यचित्स्वर्गादागतस्य पितरं प्रविष्टस्य पुण्यवशेन योनिप्रवेशमंतरासंस्पर्शद्वारेण मातृप्रवेशेन देहलाभः। अपरस्य तु पितृप्रवेशं विनैवान्नादिद्वारा मातृप्रवेशएन तल्लाभः। ततोऽप्यतिशयितपुण्यवत्त्वात्। पक्षद्वयेऽपि कललादिक्रमं विना मातृदेहस्थजरायुगतसिद्धदेहप्राप्तिः। अन्यस्य तु बहिर्निर्गतसिद्धदेहप्राप्तिः। परंतु कस्यापि स्वर्गादागतस्य पापिवच्छरीराद्योनिद्वारा मातृशरीरं प्राप्त कललबुद्‌बुदादिक्रमेण देहप्राप्तिरिति नियमो नास्ति। ततश्चात्यायासाभावान्नातिवैराग्येण कृत्यमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ योनेः शरीरमिति ॥% अस्यार्थः ॥ ल्यब्लोपे पंचमी। कर्मी पितृद्वारा मातृयोनिं प्रविश्यैवाथ तत्र शरीरं लभते न तद्विनेत्यर्थः ॥

एवंच स्वर्गादागतस्यापि पितृप्रवेशस्ततो योनिद्वारा मातृप्रवेशस्ततः कललादिक्रमेण देहप्राप्तिश्चेत्यादिनियमस्य सद्भावात्। दिवः स्थास्नूनिति [पौषायायणश्रुति.] वचनात्। न च देहं गर्भास्थितमिति वाक्यविरोधः। केषांचित्तथाभावस्यापि सत्त्वेन तद्वचनानां तन्मात्रविषयत्वेन यावत्स्वर्गिविषयत्वाभावात्। अतः सामान्यजन्मनि पित्रादिप्रवेशस्य नियमेनापस्वर्गादिरत्र सर्वत्रापि महादुःखाविनाऽभावात्। विरक्तेन भगवान् भजनीय इति सिद्धं ॥

॥ इति योन्यधिकरणं ॥

॥ इति तृतीयाध्यायस्य प्रथमः पादः समाप्तः ॥

——————————————-

॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अथ द्वितीयः पादः ॥

भक्तिरस्मिन् पाद उच्यते।

%1.अधिकरणं ॥%

अत्र भगवत्प्राप्तिसाधनभक्त्यर्थमर्थज्ञानात्मकस्य स्वाप्नप्रपंचस्य भगवदधीनत्वमहिमा वर्ण्यते।

<3-2-1>
%(1) ॥ ॐ ॥ संध्ये सृष्टिराह हि ॥ ॐ ॥%

ननु स्वप्नविषयो नेश्वराधीनः। असत्त्वात्। न चासिद्धो हेतुः। प्रागूर्ध्वमनुपलंभात्। न च तत्कालसूष्टिविरोधांगीकारात्प्रागूर्ध्वमुपलंभाभावो न दोषायेति वाच्यं। प्रमाणाभावादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ संध्ये सृष्टिराह हीति ॥% अस्यार्थः ॥ हि यस्मात्। अथ रथानिति श्रुतिः संध्ये जाग्रत्सुषुप्तिसंधौ भवतीति स्वप्ने भगवतः सृष्टिमाह। अतः सृष्टिः। स्वप्नपदार्थसृष्टिः। भगवत एव जायत इत्यर्थः ॥

एवंचेश्वराधीन एव स्वप्नविषयः। सत्त्वात्। न च प्रागुत्तरकालमुपलंभप्रसंगः। तत्काल एव सृष्टिविरोधांगीकारात्। न च तत्र प्रमाणाभावः। अथ रथानिति [बृ. 6-3-10.] श्रुतेः। अतः स्वप्नविषयस्य भगवदधीनत्वसिद्धेर्महामाहात्म्यं तस्येति युक्ता तत्र भक्तिरिति सिद्धं ॥

<3-2-2>
%(2) ॐ ॥ निर्मातारं चैके पुत्रादयश्च ॥%

ननु कर्तुरभावान्न स्वप्नकालीनसृष्टिर्युक्ता। न हि जीवस्तत्कर्ता। सुप्तत्वात्तस्य। नापीश्वरः। तत्प्रमाणाभावात्। न च पक्षद्वयेऽपि सृष्टिरुपपन्ना। तत्काल एवोत्पत्तिविनाशकर्तुरदर्शनादित्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ निर्मातारं चैके पुत्रादयश्चेति ॥% अस्यार्थः ॥ चो यतः। एके शाखिनः। एनं भगवंतं। य एषु सुप्तेष्विति (कठ. 5-8.) स्वाप्नपदार्थनिर्मातारमामनंति। अपरे च पुत्रादयः। तस्माद्विष्णोरेव जायंत इति वदंति। तस्माद्विष्णोरेव स्वाप्नसृष्टिरित्यर्थः ॥

एवंच न च कर्तुरभावात्सृष्ट्ययोगः। य एष्विति एतस्माद्धेवेति [गौपवन.] श्रुतिभ्यामीस्वरस्यैव कर्तृत्वांगीकारात्। तथा च विष्णोरेव स्वाप्नसृष्टिरिति तत्र युक्ता भक्तिरिति सिद्धं ॥

<3-2-3>
%(3) ॐ ॥ मायामां तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ॐ ॥%

ननु ब्राह्य एव स्वप्न उपलभ्यंते। ते च सर्वैः प्रागूर्ध्वं उपलभ्यंत एवेति चेत्। बाह्यार्थान् शरीरे स्थित्वा पश्यतीत्यंगीकारे व्यवहित मेरुमंदारादिदर्शनाभावप्रसंगात्। बहिर्निर्गत्येत्यभ्युपगमे कुरुषु सुप्तस्य पांचालान् पश्यतः प्रबोधे शरीरप्रवेशोऽस्य पश्चादेवेति प्राप्तेः। किंच हेमंते सुप्तस्य वसंतप्रतीतिस्तावदस्ति। न च वसंतसत्ता तदाऽस्ति। येन शरीरे स्थित्वा बहिर्निर्गत्य वा पश्येत्। नापि बाह्यार्थप्रतीतिकारणमस्ति। इंद्रियाणामुपरतत्वात्। मनसो बाह्यार्थेष्वस्वातंत्र्यादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति ॥% अस्यार्थः ॥ तुरेवार्थे संध्यं मायामात्रं निमित्तोपादानभूताभ्यां मायशब्दितेच्छावासनाभ्यामेव निर्मितं न बाह्यकारणकं। कुतः। कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् बाह्यवत्सम्यगनभिव्यक्तस्वरूपत्वादित्यर्थः ॥

एवंचोपादाननिमित्तसद्भावात्। मनोगतांश्च संस्कारानिति [ब्रह्मांडे.] स्मृतिबलेन वासनाया उपादानत्वेनेश्वरेच्छायाश्च निमित्तत्वेनांगीकारात्। वासनामयानां मेर्वादीनां मनसैव दर्शनसंभवात्। बाह्यकारणाभावात्। प्राक्‌पिंडादीनामूर्ध्वं कपालादीनां प्रतीतेरप्रसंगात्। अतः स्वप्नविषयस्य भगवदधीनत्वसिद्धेस्तत्र भक्तिर्युक्तेति सिद्धं ॥

<3-2-4>
%(4) ॐ ॥ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ॐ ॥%

ननु यदि स्वाप्नविषया बाह्यार्थजन्यास्तर्हि सत्त्वं न प्राप्नोति। शुक्तिरजतवदित्याशंकां पराकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ सूचकश्च हि श्रुतेराचक्षते च तद्विद इति ॥% अस्यार्थः ॥ चो यतः। स्वाप्नपदार्थः सूचकः शुभाशुभज्ञापकः। अतोऽपि नासत्यः। तत्कुतः। यदेति (छां. 5-2-9.) श्रुतेः। प्रत्यक्षतः फलदर्शनाच्चेति हि शब्दः। किंच तद्विदः स्वप्नविदो व्यासादयः आचक्षते च। यदेति श्रुतौ स्वाप्नामर्थक्रियाकारित्वं वदंत्योऽपीत्यर्थः ॥

एवंच शुभाशुभकारणत्वेन सत्यस्यैव निश्चितत्वात्। यदा कर्मस्विति पुरुषमिति [ऐ.आ. 3-2-4.] च श्रतिभ्यामन्वयव्यतिरेकसध्रीचीनप्रत्यक्षेण च कारणत्वसिद्धेः। अपि चैवं व्यासादयो मन्यंते। यद्वा ब्राह्मणो ब्रूयाद्देवतेति वचनबलादिति। अतः स्वप्नविषयस्य भगवदधीनत्वसिद्धेर्माहात्म्यं तस्येति युक्ता तत्र भक्तिरिति सिद्धं ॥

॥ इति संध्याधिकरणं ॥

%2.अधिकरणं ॥%

अत्र भगवतः स्वप्नतिरोधायकत्वमहिमा वर्ण्यते।

<3-2-5>
%(5) ॐ ॥ पराभिघ्यानात्तु तिरोहितं ततो ह्यस्य बंधविपर्ययौ ॥ ॐ ॥%

ननु न स्वप्नतिरोभाव ईश्वराधीनः। तस्य बाह्यज्ञानजन्यत्वेनाज्ञाननाशे संतत्यनुसंभवात्। तथा च ज्ञानाज्ञानविनाशद्वारा स्वप्नतिरोभावसंभवान्न तस्येश्वराधीनत्वमिति न तस्य महामहिमत्वमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बंधविपर्ययौ इति ॥% अस्यार्थः ॥ हि यस्मात्। ततः परमात्मनः सकाशात्। अस्य जीवस्य। बंधविपर्ययौ बंधमोक्षौ भवतः। तस्मात्पराभिध्यानात्तु परमात्मेच्छयैव। संध्यं तिरोहितं लीनं भवति। न कारणांतरादित्यर्थः ॥

एवंच ज्ञानाज्ञानयोरचेतनत्वेन स्वातंत्र्याभावात्। तयोरपि बंधमोक्षयोरीश्वराधीनत्ववत् स्वप्ननिरोधस्यापि तदधीनत्वेन तस्य महामहिमत्वाद्युक्ता तत्र भक्तिरिति सिद्धं ॥

॥ इति पराबिध्यानाधिकरणं ॥

%3.अधिकरणं ॥%

अत्र विष्णोर्जगत्प्रवर्तकत्वमहिमा वर्ण्यते।

<3-2-6>
%(6) ॐ ॥ देहयोगाद्वासोऽपि ॥ ॐ ॥%

ननु न जागरणं भगवदधीनं। तस्य कालधीनत्वात्। न चाचेतनत्वात्तदधीनत्वानुपपत्तिः। कालाधीनत्वस्यानुभवसिद्धत्वेनाचेतनत्वानुमानस्य बाधितविषयत्वात्। न चानुभवो भ्रमः। बाधकाभावात्। अतो जाग्रदवस्थाया भगवदधीनत्वाभावान्नास्य महामहिमत्वमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ देह योगाद्वासोऽपीति ॥% अस्यार्थः ॥ देह योगाद्वासोऽपि देहाभिमानेनावस्थितिरूपजाग्रदवस्थाऽपि पराभिध्यानादेव भवति नान्यत इत्यर्थः ॥

एवंच स एव जागरिते इति[कौँठरव्य.] श्रुतेः। अत एवाचेतनत्वानुंमानमपि कालाधीनत्वनिवर्तकं। श्रुतिविरोधेन प्रत्यक्षस्याप्रामाण्यात्। कालस्य निमित्तमात्रविषयकं प्रत्यक्षं बाधाभावात्प्रमाणमेव। अतो हरेर्जाग्रत्प्रवर्तकत्वेन महामहिमत्वाद्युक्ता भक्तिरिति सिद्धं ॥

॥ इति देहयोगाधिकरणं ॥

%4.अधिकरणं ॥%

अत्र सुप्तप्राप्यत्वमहिमा वर्ण्यते।

<3-2-7>
%॥ ॐ ॥ तदभावो नाडीषु तच्छ्रुतेरात्मनि ह ॥ ॐ ॥%

ननु न केवले परमात्मन्येव स्वापो न नाड्यवस्थानविशिष्टे नाडीसंबंधे। दुःखप्रसंगात्। जाग्रदाद्यवस्थासु चक्षुरादिस्थितभगवद्गतस्यापि जीवस्य देहसंबंधेन दुःखदर्शनात्। न चेष्टापत्तिः। सुप्तिकाले सुखैकानुभवस्य उत्तरकालीनानुस्मृतिसिद्धत्वादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ तदभावो नाडीषु तच्छ्रुतेरात्मनि हेति ॥% अस्यार्थः ॥ अस्य जीवस्य नाडीषु आत्मनि नाडीस्थिते परमात्मन्येव। तदभावः जाग्रत्स्वप्नयोरभावः। सुषुप्तिर्जायते। तस्य तदा तत्प्रवेशो भवति। कुतः। तछ्रुतेः आसु तदा नाडीष्विति (छां. 8-6-3.) श्रुतेः तथा श्रवणादित्यर्थः ॥ हेत्यस्यार्थस्य युक्ततामाह ॥

एवंच नाडीस्थित एव परमात्मनि सुप्तिः। अन्यथा आस्विति सता सौम्येति [छां. 6-8-1.] च श्रुत्योरन्यतरा प्रामाण्यप्रसंगात्। न च दुःखप्राप्तिः। परमात्मन एव नाडीसंबंधांगीकारेण जीवस्य तदनंगाकारात्। अतो भगवतो नाडस्थिस्य सुप्तप्राप्यत्वमहामाहात्म्यक्त्वाद्युक्ता तत्र भक्तिरिति सिद्धं ॥

॥ इति तदभावाधिकरणं ॥

%5.अधिकरणं ॥%

अत्र हरेः सुप्तप्रबोधकत्वमाहात्म्यं वर्ण्यते ॥

<3-2-8>
%(8) ॐ ॥ अतः प्रबोधोऽस्मात् ॥ ॐ ॥%

ननु न सर्वोऽपि सुप्तप्रबोध ईश्वराधीनः। क्वचिद्भेरीताडनादीनां कारणत्वदर्शनात्। अतः सर्वप्रबोधकत्वाभावान्न महैश्वर्यमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अतः प्रबोधोऽस्मादिति ॥% अस्यार्थः ॥ अस्य जीवस्य प्रबोधः सुप्तेरुत्थानं। अस्मात् परमात्मन एव भवति। नान्यतः। कुतः। एष एवेति (कौंडिन्य.) श्रुतत्वादित्यर्थः ॥

एवंच भगवत्येव जीवानां सुप्तत्वेन तदाज्ञया विनाऽवबोधायोगात्। भेरीताडनादीनां स्वतंत्रकारणताग्राहिप्रतितेरेष एवेति श्रुतिविरुद्धत्वेनाप्रामाण्यात्। अतस्तस्यैव सर्वप्रबोधहेतुत्वान्महामहिम्नि युक्ता निरतिशया भक्तिरिति सिद्धं ॥

॥ इति प्रबोधाधिकरणं ॥

%6.अधिकरणं ॥%

अत्र सर्वपुरुषीयसार्वकालिकसर्वावस्थानां भगवदधीनत्वमहिमा वर्ण्यते।

<3-2-9>
%(9) ॐ ॥ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॥ ॐ ॥%

ननु नेश्वरः सर्वेषां सर्वकालीनसर्वावस्थाप्रेरकः। अधिपतित्वात्। राजवत्। यत्किंचिन्नियामकपरत्वेनापि योजयितुं शक्यत्वेनैष ह्येवेति [कौ. 3-8.] श्रुतेरविरोधात्। न च विस्पष्टसमाख्या श्रुत्यभावे युक्तिविरुद्धं सर्वनियामकत्वं श्रुत्यर्थतया प्रतिपत्तुं शक्यते। अतः सर्वावस्थाप्रेरकत्वाभावेन न सर्वैश्वर्यं हरेरिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ स एव च कर्मानुस्मृतिशब्दविधिभ्य इति॥% अस्यार्थः ॥ च शब्दोऽप्यर्थे। स एव ईश्वर एव। सर्वेषामपि सर्वदा सर्वावस्थाप्रेरकः। न देशकालांतरेऽन्यः। कुतः। कर्मानुस्मृतिशब्दविधिभ्यः। एष ह्येवेति कर्मणामीशाधीनत्वश्रुतेः। प्रदर्शक इत्यनुकूलस्मृतेश्च। एष इति शब्दाच्चात्मानमिति (बृ.उ. 3-4-15.) विधेश्चेत्यर्थः ॥

एवंच सर्वकर्मनियामकत्वात्। सुप्त्यादीनां च तदंतर्भावात्। निर्दिष्टश्रुतिस्मृयोः प्रमाणत्वेन सद्भावात्। एष स्वप्नानिति विधेश्च। अन्यस्य स्वप्नादिप्रवर्तकत्वे परमात्मन एवोपास्यत्वासंभवात्। अतः सर्वावस्थाप्रेरके महामहिम्नीश्वरे भक्तिर्युक्तेति सिद्धं ॥

॥ इति कर्मानुस्मृत्यधिकरणं ॥

%7.अधिकरणं ॥%

अत्रेश्वरस्यावांतरावस्थासंस्थितजीवप्राप्यत्वमहिमा निरूप्यते।

<3-2-10>
%(10) ॐ ॥ मुग्धेऽर्धसंपत्तिः परिशेषात् ॥ ॐ ॥%

ननु न मोहो जीवस्य भगवदितरत्र किंतु परमात्मन्येव जाग्रत्स्वप्नावस्थाविलक्षणत्वादन्यथा तत्संकीर्णतापातात्। न च परमात्मनि मोहांगीकारे सुप्तैकदेशत्वप्रसंगः। बाह्यार्थविषयत्वेन तदेकदेशस्येष्टत्वात्। अतः परमात्मन्येव मोहो जीवस्येति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ मुग्धेऽर्धसंपत्ति परिशेषादिति ॥% अस्यार्थः ॥ मुग्धे मूर्च्छायां। जीवस्यार्धसंपत्तिः परमात्मन्यर्धप्रवेशः। कुतः। परिशेषात्। प्रसक्तप्रतिषेधपूर्वकानुमानादित्यर्थः ॥

एवंच भगवति अर्धप्रवेश एव जीवस्य मोहे न समग्रप्रवेशः। परिशेषात्। तथाहि। मोहे तावत्परमात्मविदूरत्वसामीप्यप्रवेशार्धप्रवेशः। न तावत्रयः कल्पाः संभवति। तेषां जाग्रदाद्यवस्थाधर्मत्वात्। एवंच प्रतक्तप्रतिषेधेऽन्यस्याप्रसंगात् परिशिष्टोऽर्धप्रवेशो मोहे जीवस्य। मोहस्यावस्थात्रयातिरिक्तत्वे भवेदेतत्। तदेव कुत इति चेत्। अत्र वक्तव्यं। किं मोहस्य सुप्तावंतर्भाव उच्यते। उत जाग्रत्स्वप्नयोः। नाद्यः। वैलक्षण्यात्। तथाहि। मुग्धः कदाचिदुच्छ्वसति। सवेपधुश्चास्य देहो भवति। भयानकं चास्य वदनं भवति। विस्फुरिते चास्य नेत्रे भवतः। सुप्तस्तु प्रसंनवदनः तुल्यकालं पुनः पुनः उच्छ्वसिति। निमीलितेऽस्य नेत्रे भवतः। न चास्य देहो वेपते। पाणिपेषणमात्रेण च सुप्तमुत्थापयंति। न तु मुग्धं। मुद्‌गरघातेनापि निमित्तभेदस्य भवति मोहस्वापयोः। मुसलघातादिनिमित्तत्वान्मोहस्य सुच्छायानिमित्तत्वात्स्वापस्य च न वदंति मुग्धं सुप्तमिति। नापि स्वाप्नयोरंतर्भावः। दुःखात्मकालातिरिक्तविषयादर्शनात्। अतो मोहोऽवस्थांतरमेव। ततश्च मुग्धप्राप्यत्वेन महामाहात्म्याद्भगवति भक्तिर्युक्तेति सिद्धं ॥

॥ इति संपत्त्यधिकरणं ॥

%8.अधिकरणं ॥%

अत्रेश्वरस्य सर्वरूपेषु निर्दोषाशेषगुणत्वं समर्थ्यते।

<3-2-11>
%(11) ॐ ॥ न स्थानतोऽपि परस्योभयलिंगं सर्वत्र हि ॥ ॐ ॥%

ननु सर्वशरीरास्थितो विश्वादिरूपो हरिः परस्परं भिन्न एव। भिन्नस्थानत्वात्। पटादिवात्। न चाभोदेप्याकाशवद्भिन्नस्थानत्वोपपत्तेरिति वाच्यं। कार्त्स्न्येन भिन्नस्थानत्वस्य हेतुत्वेन विवक्षितत्वात्। अतोऽत्स्येव विश्वादीनां भेदः। ततश्चानुग्राह्यानुग्राहकभावस्यावर्जनीयत्वान्निरतिशयैश्वर्याभावेन न तत्र भक्तिर्युक्तेति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ न स्थानतोऽपि परस्योभयलिंगं सर्वत्र हीति ॥% अस्यार्थः ॥ परस्य परमात्मनः। स्थानतोऽपि अक्ष्यादिस्थानभेदादपि। उभयलिंगं भिन्नरूपं। नास्ति। किंतु सर्वत्र सर्वस्थानेषु स्थितं रूपमेकमेव। कुतः। हि यस्मात् सर्वेष्विति (ऐ.आ. 3-2-3.) श्रुतिरत्रास्ति। अत इत्यर्थः ॥

एवंच विश्वादिरूपो हरिर्भिन्नस्थानोऽपि अभिन्न एवेति प्रतिपत्तव्यः। भेदसाधकभिन्नस्थानत्वानुमानस्य सर्वेष्विति श्रुतिबाधितत्वात्। अतो हरेः स्वगतभेदशून्यत्ेवन सर्वत्र गुणपूर्णत्वाद्युक्ता तत्र भक्तिरिति सिद्धं ॥

<3-2-12>
%(12) ॐ ॥ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ ॐ ॥%

ननु न विश्वादीनामभेदो युक्तः। कार्यकारणमिति श्रुतौ भेदकधर्मव्यपदेशादित्यादिनोक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ न भेदादिति चेन्न प्रत्येकमतद्वचनादिति ॥% अस्यार्थः ॥ भेदात् कार्यकारणबद्धाविति (मां. 2-16.) स्वप्नजाग्रदनुभवजनकत्वरूपभेदकत्वधर्मश्रवणात् विश्वादिरूपाणां नाभेद इति चेन्न। कुतः। प्रत्येकं परस्परं। तेषां रूपाणां। अतद्वचनात्। य एत आत्मेत्यभेदश्रुतेरित्यर्थः ॥

एवंचैषत आत्मे[बृ. 5-7-3.]त्ययमेव स इत्य[वृ. 4-5-1.]यं वै हरय[बृ. 4-5-19.] इत्यादि श्रुतीनामभेदबोधकत्वात्। अपि चामात्रोऽनंतमात्रेति [मां. 4-7.] श्रुतौ विश्वाद्यनंतरूपेण मूलरूपस्य चाभेदस्योक्तत्वात्। अतो हरेः स्वगतभेदरहितत्वेन तस्मिन्भक्तिः कार्येति सिद्धं ॥

<3-2-13>

%(13) ॐ ॥ अपि चैवमेके ॥ ॐ ॥%

ननु नाभेदश्रुतिभिर्भेदश्रुतेर्बाधो युक्तः. तासां कतिपयरूपविषयत्वेन सावकाशत्वात्। नाप्ययं वै हरय इति श्रुतिविरोधः। तत्र परस्परमभेदानुक्तेर्मुलरूपेणापि। एष त आत्मेति श्रुतिवत्स्पष्टमभेदाप्रतीतेः। अतो भेदश्रुतिबलाद्विश्वादीनां भेद एवेत्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ अपि चैवमेक इति॥% यतः एवमभेदं च शब्दादनंतरूपत्वं चैके शाखिनः अमात्र इति श्रुतौ पठंति। अपि अभेदेऽपि भेदव्यपदेशः स्थानभेदाद्यज्यत इत्यर्थः ॥

एवंचैके शाखिनो विश्वाद्यनंतरूपेण चाभेदं पठंति। अतो हरेः स्वगतभेदशून्यत्वेन सर्वगुणापूर्णत्वाद्युक्ता तत्र भक्तिरिति सिद्धं ॥

॥ इति न स्थानतोऽप्यधिकरणं ॥

%9.अधिकरणं ॥%

अत्र विष्णोरप्राकृतरूपं समर्थ्यते।

<3-2-14>

%(14) ॐ ॥ अरूपवदेव हि तत्प्रधानत्वात् ॥ ॐ ॥%

ननु नांगीकर्तव्याऽतिशया भक्तिर्भगवति। भगवतो रूपित्वांगीकारेऽनित्यत्वप्रसंगात्। तदरूपमिति [कठ. 1-3-15.] श्रुत्यप्रमाण्यप्रसंगाच्च। ततश्च भक्तिविलोपः। न ह्यनित्यशरीरे निरतिशया भक्तिरुपपद्यते। नाप्यरूपित्वश्रुत्यप्रामाण्ये सा युज्यते। अरूपित्वश्रुत्यप्रामाण्येऽविशेषात्। श्रुतिमात्राप्रामाण्यापत्त्या भक्तिप्रयोजकगुणसिद्धेः। ततश्च भक्तेरनुपपन्नत्वाद्‌व्यर्थोऽयं पाद इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अरूपवदेव हि तत्प्रधानत्वादिति ॥% अस्यार्थः ॥ ब्रह्म अरूपवदेव प्राकृतरूपरहितमेव। कुतः। तत्प्रधानत्वात् प्रकृत्याद्युत्तमत्वात्। हि शब्दसूचितास्थूलमिति (बृ. 5-8-8.) श्रुतेश्चेत्यर्थः ॥

एवंचापेक्षितैव भगवद्भक्तिः। तस्यारूपित्वे नानित्यत्वरूपित्वश्रुत्यप्रमाण्यलक्षणदोषरहितत्वात्। न चारूपित्वमसिद्धं। प्रकृत्युत्तमत्वेन प्राकृतरूपवैधुर्यसिद्धेः। तदेवं भक्तेरुपपन्नत्वात्सार्थकोऽयं पाद इति सिद्धं ॥

<3-2-15>
%(15) ॐ ॥ प्रकाशवच्चावैयर्थ्यं ॥ ॐ ॥%

ननु ब्रह्मणो रूपाभावे रुक्मवर्णमि[मुं. 3-1-3.]त्यादिरूपित्वश्रुतिवैयर्थ्यं स्यात्। अपि च सौंदर्यसौलक्षण्याद्यभावापत्तेश्चेत्याशंकां पराकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ प्रकाशवच्चावैयर्थ्यमिति ॥% अस्यार्थः ॥ चो हेतुसूचकः। प्रकाशवत् लोकविलक्षणचक्षुरादिप्रकाशे नास्ति प्रकाश इति व्यवहारस्येव। अवैयर्थ्यं न ब्रह्मणो रूपित्वश्रुतीनामप्रामाण्यं। कुतः तस्यारूपित्वेऽपि विलक्षणरूपित्वाभ्युपगमादित्यर्थः ॥

एवंच रुक्मवर्णमित्यादिश्रुतेर्वैयर्थ्याभावः सौंदर्याद्यभावश्च। अप्राकृतशरीरस्यांगीकारात्। अतोऽपेक्षितैव भगवद्भक्तिरिति सिद्धं ॥

<3-2-16>
%(16) ॐ ॥ आह च तन्मात्रं ॥ ॐ ॥%

ननु कथं ब्रह्मणो लोकविलक्षणरूपत्वं। येनानित्यत्वादिदोषाभावः। सर्वरूपाणां प्रकृत्याद्यात्मकत्वनियमात्। इतररूपापेक्षया तद्रूपस्य वैलक्षण्यानुक्तेरिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ आह च तन्मात्रमिति ॥% अस्यार्थः ॥ यतः एकात्म्यमिति (मां. 2-7.) श्रुतिः ब्रह्मणः तन्मात्रं विज्ञानानंदैकस्वरूपमाह वक्तीत्यर्थः। अतो नवैलक्षण्यानिरुक्तिरिति च शब्दार्थः ॥

एवंच निर्दिष्टश्रुतिप्रमाणसद्भावाद्‌ब्रह्मणो विलक्षणरूपत्वमनित्यत्वादिदोषाभावश्चेति सिद्धं ॥

<3-2-17>
%(17) ॐ ॥ दर्शयति चाथो अपि स्मर्यते ॥ ॐ ॥%

ननूक्तश्रुतिद्वये ब्रह्मणो ज्ञानानंदाद्यात्मकत्वमेवोच्यते नत्वानंदादेर्ब्रह्मशरीरत्वं। अतो रूपिपदोक्तदेहित्वश्रुतेर्लोकविलक्षणरूपविषयत्वाभावाद्वैयर्थ्यं सौंदर्याभावश्चापरिहृतः। न च रूपरूपिणोरभेदादिति तत्त्वप्रदीपे तदपि श्रुत्यभिप्रेतमित्युक्तमिति वाच्यं। स्पष्टोक्त्यभावेनानिर्णयादित्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ दर्शयति चाथो अपि स्मर्यत इति ॥% अस्यार्थः ॥ चो यतः चः समुच्चये। न केवलं ब्रह्मणः आनंदाद्यात्मकत्वं दर्शयति। किंतु तद्विज्ञानेनेति (मुं. 2-2-8.) श्रुतिर्ज्ञानस्य ब्रह्मात्मकत्वमपि दर्शयति प्रतिपादयति। अथो इत्यर्थांतरवाचि। अथो विज्ञानस्यापि ब्रह्मरूपत्वं स्मर्यते। व्यासादिभिः शुद्धस्फटिकमित्यादिना। अतो न ज्ञानानंदयोर्ब्रह्मरूपत्वमप्रामाणिकमित्यर्थः ॥

एवंच ब्रह्मणो विलक्षणरूपत्वस्य तद्रूपाणां परस्परमभेदस्य च सिद्धत्वात्। शुद्धस्फटिकसंकाशमिति [मात्स्ये.] स्मृतेः। तदेव भक्तेरुपपन्नत्वात्सार्थकोऽयं पाद इति सिद्धं ॥

॥ इति अरूपाधिकरणं ॥

%10.अधिकरणं ॥%

अत्रेश्वरस्य जीवाद्भेदाभेदो निराक्रियते।

<3-2-18>
%(18) ॐ ॥ अत एव चोपमा सूर्यकादिवत् ॥ ॐ ॥%

ननु जीवस्तावत्परमात्मनो भिद्यत इति श्रुत्यादिसिद्धं। अनुमतं भवतां। एवं सति प्रयुज्यते। जीवः परमात्माभिन्नः। चेतनत्वात्। तदंशत्वात्। मत्स्यादिवत्। एवंचेश्वरस्य जीवेन भिन्नत्वेप्यभेदस्यापि भावात्। दोषेणैक्ये च दुष्टत्वावश्यं भावान्न परमात्मनि भक्तिर्युक्तेति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अतएव चोपमा सूर्य कादिवदिति ॥% अस्यार्थः ॥ अतएव ईशतद्रूपाणामबेदोक्तेरेव। अतए चेतनत्वादिहेतोरेव। उपमा जीवस्य मत्स्यादिसाम्यं। मत्स्यादिवदीश्वराभेद इति चेन्नेतिशेषः। च शब्देन भिन्नत्वसाम्यं समुच्चिनोति। कुतः। यतः सूर्यकादिवत् यथा जलप्रतिबिंबितसूर्यकादेः सूर्यादिप्रतिबिंबाद्भिन्नत्वं तथा जीवस्य प्रतिबिंबत्वात् भिन्नत्वमित्यर्थः ॥ यद्वा ॥ अतएव मत्स्यादीनां ब्रह्मणो ज्ञानादि गुणैरविशेषोक्तेरेव। अतएव सूर्यकादिवत्। उपमा सूर्यकाद्युपमा। जीवस्य मत्स्यादितुल्यांशत्वे तदविशेषापत्तेरेव उपमा ब्रह्मप्रतिबिंबतेत्यर्थः। अतएव ब्रह्मप्रतिबिंबत्वादेव सूर्यकादिवन्न ब्रह्माभिन्नो जीव इति च शब्दार्थः ॥ अथवा ॥ अतएव प्रकृताभ्यां तदधीनत्वतत्सदृशत्वाभ्यामेव। उपमा सूर्यकादिवदित्युपमा दीवेश्वरप्रतिबिंबत्वात् नोपाध्यधीनत्वादिना न तन्निवृत्त्या प्रतिबिंबतानिवृत्तिरित्यर्थः ॥

एवंच जीवः परमात्मना भिन्नः। तत्प्रतिबिंबत्वात्। यो यत्प्रतिबिंबः च चासौ तदभिन्नः। यथा सूर्यकादिः। ननूपाध्यायत्तः प्रतिबिंब उच्यते। न च स उपाध्यायत्तः। तथात्वेऽनित्यत्वप्रसंगात्। ततश्चासिद्धं प्रतिबिंबत्वं। अथ परमात्माधीनत्वे सति चेतनत्वेन तत्सादृश्यं हेतुतया विवक्षितं। तर्हनुपपन्नो दृष्टांतः प्राप्नोतीति चेन्न। चेतनत्वादिविशेषरूपमविवक्षित्वा तदधीनत्वतत्सादृश्ययोरेव हेतुतया विवक्षितत्वात्। अत एवोपमाप्युपपन्ना। बिंबाधीनत्वमिव बिंबसादृश्यस्यापि तत्र सत्त्वात्। नन्वेवमपि पक्षे सर्वदृष्टांतधर्माभावात्। तता चायमित्युपनयो न संभवतीति चेन्न। यथा दृष्टांतः साध्यव्याप्यसाधनवान् तथा पक्षेपीत्येतावन्मात्रस्योपनये विवक्षितत्वेन यावत्साधर्म्यस्याविवक्षितत्वात्। अन्यथाऽनुमानमात्रोच्छोच्छेप्रसंग इति। अतो जीवपरमात्मनोरभेदाभावाद्युक्त भगवति भक्तिरिति तन्महिमावर्णनमुपपन्नमिति सिद्धं ॥

॥ इति उपमाधिकरणं ॥

%11.अधिकरणं ॥%

अत्रेश्वरे भक्त्यर्थं तस्या जीवस्वरूपाभिव्यक्तिरूपफलं निरूप्यते।

<3-2-19>
%(19) ॐ ॥ अंबुवदग्रहणात्तु न तथात्वं ॥ ॐ ॥%

ननु न मोक्षो भक्तिफलं। अनादिसिद्धत्वात्। नित्यानंदज्ञानादिमत्त्वं हि मोक्षः। तच्च स्वरूपमेव। न च स्वरूपमागंतुकं चेति संभवति। ततश्च मोक्षस्य भक्तिफलत्वाभावान्न तदर्थं भक्तिः कर्तव्या। नापि प्रयोजनांतरमस्तीत्यकर्तव्यैव भक्तिरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अंबुवदग्रहणात्तु न तथात्वमिति ॥% अस्यार्थः ॥ सादृश्यार्थे वतिः। सादृश्यं स्नेहाख्यविशेषणेन विवक्षितं। तथा च यतः अंबुवदग्रहणात् स्नेहसहितमाहात्म्यज्ञानाभावात्। भक्तिं विनेति यावत्। तथात्वं सुखाद्यात्मकत्वरूपेश्वरसादृश्यं। न तु सम्यग्व्यज्यते। अतो भक्तिरेव सम्यक् स्वरूपाभिव्यक्तिजनिकेति तदर्थं सा कर्तव्येत्यर्थः ॥

एवंच भक्तिफलमेव मोक्षः। ज्ञानानंदादेर्जीवस्वरूपत्वेन नित्यसिद्धत्वेऽपि तदाविर्भावस्य भक्तिसाध्यत्वात्। भक्त्यभावे तदभाव इति नियमात्। सुप्तौ भक्त्यभावेन ज्ञानानंदाद्याविर्भावमात्रसद्भावेऽपि सम्यगाविर्भावाभावात्। तथा च सम्यगाविर्भाव एव मोक्ष शब्दार्थो भक्त्या साध्यो नाविर्भावमात्रं। यमैवेष इति [कठ 2-23.] श्रुतेर्महित्वबुद्धिरिति [पाद्मे.] स्मृतेश्च। अतौ मोक्षस्य भक्तिसाध्यत्वात्कर्तव्यैव तदर्थं भक्तिस्तन्महिमावर्णन च सार्थकमिति सिद्धं ॥

॥ इति अंबुवदधिकरणं ॥

%12. अधिकरणं ॥%

अत्र पुरुषेषु भक्तेस्तारतम्येन वृत्तित्वं तदनुसृत्य भगवता फलदातृत्वं च निरूप्यते ।

<3-2-20>
%(20) ॐ ॥ वृद्धिह्रासभाक्त्वमंतर्भावादुभयसामंजस्यादेवं ॥ ॐ ॥%

ननु ब्रह्मादीनां मनुष्योत्तमानां च भक्तिरेकप्रकारैव। मोक्षैकरूपफलभागित्वात्। न हि यावत्या भक्त्या मनुष्योत्तमानां मोक्षस्तावत्या भ्रह्मादीनां मोक्षसंभवेऽधिकानुष्ठानाय प्रेक्षावत्प्रवृत्तिः संभवति। अथ न तावता भक्तिस्तेषां मोक्षसाधनतयाऽलं। हंत तर्हि मनुष्योत्तमानामपि भक्तिर्न स्यात्। पर्याप्तसाधनाभावात्। न हि दुःखाभावरूपमोक्षे तारतम्यमस्ति येन भक्तितारतम्युमुपपन्नं स्यात्। अतो भक्तिरेकप्रकारैवेति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ वृद्धिह्रासभाक्त्त्वामंतर्भावादुभयसामंजस्यादेवमिति ॥% अस्यार्थः ॥ वृद्धिह्रासभाक्त्वं भक्त्यादेः साधकेष्वाधिक्यन्यूनता न तावदत्रांगीकार्यं। कुतः। अंतर्भावात् महदल्पफलवतां ब्रह्मादीनामन्येषां च भाक्तत्वेंऽतर्भावात्। तथाऽपि कुतो वृद्धिह्रासभाक्त्वं। एवं भक्तितारतम्ये सत्येव। उभयसामंजस्यात् उभयान् महदल्पफलान् ब्रह्मादिजीवान्प्रति फलदातुरीश्वरस्य सामंजस्यात् वैषम्येन फलदानस्य भक्तितारतम्येन युक्तत्वात्। अन्यथाऽयुक्तत्वात्। अतस्तदंगीकार्यमित्यर्थः ॥

एवंच नैकप्रकारा सर्वेषां भक्तिः। किंतु वृद्धिह्रासवती। अन्यथा प्रमाणसिद्धं सर्वभक्तान्प्रति परमेश्वरे सामंजस्यं न स्यात्। साधनस्योत्तमत्वेनेति [ब्राह्मे.] ततश्च भक्तेः फलानुसारेण तारतम्यसद्भावेन युक्ता तत्र भक्तिरिति सिद्धं ॥

<3-2-21>
%(21) ॐ ॥ दर्शनाच्च ॥ ॐ ॥%

ननु भवेत्साधनतारतम्यं यदानंदतारतम्यं स्यात्। तदेव कुत इति हेत्वसिद्धिमाक्षिप्य परिहरत्सूत्रमाचष्टे ॥

%॥ ॐ ॥ दर्शनाच्चेति ॥% अस्यार्थः ॥ अथात इति (तै. 2-8) श्रुतौ यथेति स्मृतौ च फलतारतम्यदर्शनात् उक्तत्वाच्चोक्तं युक्तमित्यर्थः ॥

एवंच निर्दिष्टश्रुतिस्मृतिभ्यां भक्तेः फलानुसारेण तारतम्यसद्भावेनेश्वरस्य विषमत्वाभावाद्युक्ता तत्र भक्तिरिति सिद्धं ॥

॥ इति वृद्धिह्रासाधिकरणं ॥

%13.अधिकरणं ॥%

अत्र विश्वपालकत्वं समर्थ्यते।

<3-2-22>
%(22) ॐ ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ ॐ ॥%

ननु नेश्वरः पालकः। जगत्सृष्ट्‌वा स्थितस्येश्वरस्य विनाशप्रवृत्यभावमात्रेैण कालिविशेषसंबंधरूपस्थितिसंभवेन पालनरूपतद्‌व्यापारानपेक्षत्वात्। न चावांतरोपद्रवनिरासायेश्वरव्यापारोऽपेक्षित इति वाच्यं। ईश्वरस्यैवावांतरोपद्रवकर्तृत्वेन तदकरणमात्रेण समीहितसिद्धेः। यद्यन्यस्योपद्रवकर्तृत्वे तन्निरासकव्यापाररूपत्वं पालकत्वमन्यस्य स्यात्। न चेश्वरादन्यसंहर्ता येन तन्निरासेनेश्वरस्य पालकत्वं स्यात्। विरोधाभावेन स्वस्य स्वनिवारकत्वायोगात्। ततश्च पालकत्वाभावेन महामहिमत्वाभावान्न तत्र भक्तिरिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति ॥% अस्यार्थः ॥ हि यतः। नैतावदेनेति (ऋ. 10-31-8.) श्रुतिः प्रकृतैतावत्वं। प्रकृतस्य सृष्ट्यादिकर्तृत्वस्य। एतावत्त्वं सृष्टिसंहारकर्तृत्वमात्रपर्यवसितत्वं। प्रतिषेधति निराचष्टे। ततः सृष्ट्यादिकर्तृत्वात्। भूयः अधिकं। पालकत्वं च ब्रवीति। अतः पालकत्वात्। सृष्टिं चेति बूचितपालकत्वाख्यं महिमांतरमपि हरेस्तीति ज्ञापयतीत्यर्थः ॥ च शब्देन सृष्टिं चेति स्मृतिः (ब्रह्मांडे.) सूचिता ॥

एवंच भवत्येवेश्वरः पालकः। नैतावदेनापर इति [ऋ. 10-31-6,8.] श्रुत्या सृष्टिसंहारमात्रकर्तृत्वं प्रतिषिध्य पालकत्वस्याप्यभिधानात्। न चोपद्रवसंहारविलंबमात्रेणैव स्थितिसिद्धेर्न तदर्थमीश्वरापेक्षेति वाच्यं। सर्वस्य धारणार्थं चेतनानामन्नपानद्यर्थं तद्‌व्यापारस्यावश्यकत्वात्। अतः पालनादिमहामहिम्नि हरौ भक्तर्युक्तेति सिद्धं ॥

॥ इति प्रकृत्यधिकरणं ॥

%14.अधिकरणं ॥%

अत्र भगवद्भक्तेः कर्तव्यता मर्थनाय तस्योपलब्धियोग्यत्वं समर्थ्यते।

<3-2-23>
%(23) ॥ ॐ ॥ तदव्यक्तमाह हि ॥ ॐ ॥%

ननु व्यक्तमेवायमीश्वरः। महत्त्वसमानाधिकरणोद्भूतरूपत्वात्। यदा पश्य इति [मुं. 3-1-3.] श्रुतेश्च। न ह्यव्यक्तस्वभावत्वे साधनशतेनापि दर्शनमुपपद्यते। स्वभावस्यानपायात्। ततश्च स्तंभादिवत्पुरुषप्रयत्नेनैव प्रत्यक्षसंभवाद्‌व्यर्थैव तद्भक्तिरिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ तदव्यक्तमाह हीति ॥% अस्यार्थः ॥ तत् ब्रह्मा। अव्यक्तं पुरुषप्रयत्नेन द्रष्टुमशक्यस्वभावं। कुतः। हि यस्मात् । अव्यक्तंच निष्फलमिति (कौंठन्य.) श्रुतिस्थथाऽऽह तस्मादित्यर्थः ॥

एवंचाव्यक्तमेवायमीश्वरः। अरूपमिति श्रुतेः। अत एव प्रत्यक्षताप्रयोजकप्राकृतरूपत्त्वमसिद्धं। ततश्च स्वतोऽव्यक्तस्यापि ईश्वरस्य भक्तिसाध्यप्रसादादापरोक्ष्यसंभवात्सफलत्वाद्भक्ति कर्तव्येति सिद्धं ॥

<3-2-24>
%(24) ॐ ॥ अपि संराधने प्रत्यक्षानुमानाभ्यां ॥ ॐ ॥%

नन्वस्तु स्वतोऽव्यक्तं ब्रह्म। तथाऽपि संराधनेन पुरुषप्रयत्नेन यक्षादिवद्‌व्यक्तं भविष्यति। एवं चेत् किं भक्त्येत्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अपि संराधने प्रत्यक्षानुमानाभ्यामिति ॥% अस्यार्थः ॥ अपि भक्तिरहिताराधनेनापि न ब्रह्म व्यक्तीकर्तुं शक्यः। कुतः। संराधनेऽपि संपूजनेऽपि। अव्यक्तत्वस्य प्रत्यक्षानुमानाभ्यां ज्ञानिप्रत्यक्षसूक्ष्मत्वहेतुकानुमानाभ्यां। सिद्धत्वादित्यर्थः ॥

एवंच भक्त्यभावे सत्यपि समाराधने ब्रह्माप्रत्यक्षत्वस्य ज्ञानिप्रत्यक्षसिद्धत्वेन समाराधनस्य ब्रह्मप्रत्यक्षहेतुत्वाभावात्। यक्षस्यातिसूक्ष्मत्वाभावेन समाराधनसहकृतोंद्रियग्राह्यत्वेप्यतिसूक्ष्मत्वेन ब्रह्मणो यक्षादिवत्तदयोगात्। ततश्च भक्तेः सफलत्वमिति सिद्धं ॥

<3-2-25>
%(25) ॐ ॥ प्रकाशवच्चावैशेष्यं ॥ ॐ ॥%

नन्वस्तु मूलरूपेणाव्यक्तं ब्रह्म। अनुत्पन्नत्वात्। अवताररूपेण व्यक्तीभविष्यति। उत्पन्नत्वात्। मूलरूपेणाव्यक्तानामप्यनलजलभुवामुत्पन्नरूपेण व्यक्तत्वदर्शनात्। न च मूलरूपमेव दृष्टं मोक्षसाधनं तावता रूपमिति शक्यते वक्तुं। लीलाविग्रहस्य गृहीतत्वेनोत्पत्त्यादोषत्वात्। मूलरूपेण समशक्तिमत्त्वात्। पूर्णमद [बृ. 7-1-1.] इति वचनाच्च। ततो व्यर्था भक्तिरिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ प्रकाशवच्चावैशेष्यमिति ॥% अस्यार्थः ॥ चो नञर्थः ॥ प्रकाशवत् यथाऽग्नेः स्थूलसूक्ष्माभ्यां व्यक्ताव्यक्तत्वे। तथा ब्रह्म न किंतु स्वतोऽव्यक्तमेव। कुतः। यतः अवैशेष्यं ब्रह्मणि स्थूलसूक्ष्मत्वविशेषो नास्ति। अत इत्यर्थः ॥

एवंच मूलरूपावताररूपयोरुभयोरप्यव्यक्तत्वेन व्यक्तत्वाव्यक्तत्वविशेषाभावात्। स्थूलसूक्ष्मविशेष इति [गारुडे.] वचनात्। अतो भक्तेः सफलत्वमिति सिद्धं ॥

<3-2-26>
%(26) ॐ ॥ प्रकाशश्च कर्मण्यभ्यासात् ॥ ॐ ॥%

ननु ब्रह्माव्यक्तमवे। तथा च व्यर्थैव तद्भक्तिः। अव्यक्तस्वभावस्य साधनशतेनापि व्यक्तीकर्तुमशक्यत्वादिति प्राप्ते सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ प्रकाशश्च कर्मण्यभ्यासादिति ॥% अस्यार्थः ॥ प्रकाशश्च अपरोक्षज्ञानं च। कर्मणि विषयभूते ब्रह्मणि। अभ्यासात् श्रवणादेरावर्तनात्। भवतीत्यर्थः ॥

एवंच भक्तिपूर्वकश्रवणाद्यभ्यासेन तत्प्रसादे जाते तदापरोक्ष्यांगीकारात्। तथा च भक्तेः सफलत्वमिति सिद्धं ॥

<3-2-27>
%(27) ॐ ॥ अतोऽनंतेन तथा हि लिंगं ॥ ॐ ॥%

नन्वव्यक्तस्वभावस्य श्रवणाद्यभ्यासेनाप्यापरोक्ष्यांगीकारो न युक्तः। अव्यक्तस्वभावत्वरूपयुक्तिविरोधापरिहारादिति चेत् समादधत्सूत्रं पठति ॥

%॥ ॐ ॥ अतोऽनंतेन तथा हि लिंगमिति ॥% अस्यार्थः ॥ अतः अव्यक्तत्वे प्रत्यक्षे च। प्रमाणसद्भावात्। तदन्यथाऽनुपपत्त्या। अनंतेन अपरिच्छिन्नेन ब्रह्मणा। तत्प्रसादेनाव्यक्तस्यापरोक्ष्यं भवतीति ज्ञायते। न केवलमनुपपत्तिमात्रात् कि तर्हि। हि यस्मात्। तथा लिंगं तस्याभिध्यानादित्युक्तमीशप्रसादस्य बंधनिवृत्तिहेतुत्वरूपं। प्रसादस्य दर्शनहेतुत्वज्ञापकमस्ति। तस्मादित्यर्थः ॥

एवंचाव्यक्तस्वभावस्य साधनसामर्थ्येन ग्रहणासंभवेऽपि तत्प्रसादेनापरोक्ष्यांगीकारे बाधकाभावात्। ईश्वरस्याघटितघटकत्वेन सिद्धत्वात्। यद्धि युक्त्येति वचनात्। भगवत्प्रसादस्तदपरोक्षसाधनं मोक्षसाधनत्वादित्यनुमानसिद्धत्वात्। अतो भक्तेः सफलत्वात्तदर्थे तन्महिमावर्णनं सार्थकमिति सिद्धं ॥

॥ इति अव्यक्तत्वाधिकरणं ॥

%15.अधिकरणं ॥%

अत्र भगवतो गुणित्वं समर्थ्यते।

<3-2-28>
%(28) ॐ ॥ उभयव्यपदेशात्त्वहिकुंडलवत् ॥ ॐ ॥%

ननु न भगवद्भक्तिर्युक्ता। तस्यानंदाद्यात्मकत्वेनानंदत्वादिशून्यत्वात्। न चानंदादिभोक्तृत्वं विना तत्स्वरूपत्वं महिमा। अतो गुणित्वाभावेन तत्र भक्त्ययोगाद्‌व्यर्थं तन्माहात्म्यवर्णनमिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ उभयव्यपदेशात्त्वहिकुंडलवदिति ॥% अस्यार्थः ॥ ब्रह्म आनंदगुणकं तद्रूपं च भवति कुतः। उभयव्यपदेशात्। आनंदो ब्रह्म (तै. 3-6.)। आनंदं ब्रह्मण (तै. 2-4) इत्यादिश्रतिषु गुणात्मकत्वेन गुणित्वेन च ब्रह्मण उक्तत्वात्। तदपि कथं। अहिकुंडलवत्। यथाऽहेः सर्पस्य। कुंडलत्वं कुंडलित्वंच। विशेषात्तथेत्यर्थः ॥

एवंचोक्तश्रुतिषूभयव्यपदेशबलेन गुणात्मकस्यापि। अहिकुंडलवत् प्रकाशवत् पूर्वकालवत्। भगवतस्तद्धर्माणां च भेदप्रतिनिधिविशेषांगीकारात्। नेश्वरो गुणवान् गुणात्मकत्वात् यथाऽश्वोऽनश्ववान्। आनंदाद्या न ब्रह्मगुणाः तत्स्वरूपत्वाद्‌ब्रह्मवदित्याद्युक्तीनां बाधाभावात्। तस्य श्रुत्यैकसमधिगम्यत्वोक्तेः। अतो गुणगिणिनि हरौ भक्तिसंभवाद्युक्तं तन्माहात्म्यवर्णनमिति सिद्धं ॥

<3-2-29>
%(29) ॐ ॥ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ ॐ ॥%

दृष्टांतांतरेणैतदेव साधयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ प्रकाशाश्रयवद्वा तेजस्त्वादिति ॥% अस्यार्थः ॥ यथा प्रकाशाश्रयस्यादित्यस्य प्रकाशरूपत्वं तदाश्रयत्वं च तद्वद्‌ब्रह्मणोऽपि अन्यपरित्यागेनादित्यदृष्टां ते को हेतुरित्यत उक्तं। तेजस्त्वादिति। ब्रह्मादित्ययोरुभयोरपि तेजोरूपत्वात्तदभिप्रायेण तदृष्टांतीकरणमित्यर्थः ॥

एवंच भेदप्रतिनिधिविशेषबलादेव गुणगुणिभावस्य युक्तत्वात्। यावद्‌द्रव्यभाविगुणाभिन्नानां घटादीनामतेजोरूपत्वेन तेषां परित्यागेन तेजोरूपत्वसाधर्म्यविवक्षयाऽऽदित्यदृष्टांतस्योक्तत्वात्। अतो ब्रह्मणि गुणगुणिभावो युज्यत इति सिद्धं ॥

<3-2-30>
%(30) ॐ ॥ पूर्ववद्वा ॥ ॐ ॥%

दृष्टांतांतरेण ब्रह्मणो गुणगुणिरूपत्वं साधयत् सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ पूर्ववद्वेति ॥% अस्यार्थः ॥ यथाकालः पूर्वेणाभिन्नोऽपि पूर्वकाल इति पूर्वपदेन विशिष्यते तथा ब्रह्म आनंदेन विशिष्यत इत्यर्थः ॥ आदरार्थं सूक्ष्मस्थूलबुद्धिविवक्षया वा। दृष्टांतत्रयोक्तिः ॥

एवंच यथा पूर्वः काल इति प्रयोगे पूर्वेणाभिन्नोऽपि कालः पूर्व इति विशेष्यश्च विशेषबलाद्भवत्येव। यथा चांगे शयनमिति प्रयोर्गेऽगाभिन्नमपि शयनं यथांऽगं शयनविशेषणकं भवत्येव। इत्यादि दृष्टांतानां सद्भावात्। तेषां चैकस्मिन्नेव विशेषणविशेष्यभावस्य सूक्ष्मस्थूलमतीनां प्रदर्शनार्थमुक्तत्वात्। अतो हरौ गुणगुणिभावो युज्यत इति सिद्धं ॥

<3-2-31>
%(31) ॐ ॥ प्रतिषेधाच्च ॥%

ननु विशेषणविशेष्यभावांगीकारेण गुणित्वसंभवात्। किमनेन गुणगुणिनोरभेदमंगीकृत्य गुणगुणिभावांगीकारेण भेद एव किं न स्यादित्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ प्रतिषधेधाच्चेति ॥% अस्यार्थः ॥ ब्रह्मगुणानां ब्रह्मणश्च नेह नानेति (कठ. 2-4-11) भेदस्य। प्रतिषेधाच्च ब्रह्म गुणात्मकमित्यर्थः ॥

एवंच नेह नानेत्येकमेवाद्वितीयमि[छां. 6-2-1.]त्यादिश्रुतिषु भगवतो ज्ञानानंदादिगुणैरवयवैश्चाभिन्नमिति समाभ्यधिकशून्यमिति चोक्त्वा हीनाधिकभावस्यान्योन्याभावस्य पृथक्त्वरूपस्य च भेदस्य निषिद्धत्वात्। अतो गुणगुणिनि हरौ भक्तिसंभवाद्युक्तं तन्माहात्म्यवर्णनमिति सिद्धं ॥

॥ इति अहिकुंडलाधिकरणं ॥

%16.अधिकरणं ॥%

अत्र भगवद्गुणानां लोकविलक्षणत्वं समर्थ्यते।

<3-2-32>
%(32) ॐ ॥ परमतः सेतून्मानसंबंधभेदव्यपदेशेभ्यः ॥ ॐ ॥%

नन्वीश्वरानंदादिर्लौकिकानंदादिवदानंदादिरेव। न पुनर्ज्ञानादिरपि। आनंदशब्दवाच्यत्वात्। न हि ज्ञानात्मक आनंदशब्दो युज्यते। पटेऽपि टशब्दप्रयोगप्रसंगात्। ततश्चेश्वरानंदस्य लोकविलक्षणत्वाभावान्न तत्र निरतिशयाभक्तिरित प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ परमतः सेतून्मानसंबंधभेदव्यपदेशेभ्य इति ॥% अस्यार्थः ॥ ब्रह्मगुणजातं परं लोकविलक्षणं। कुतः। सेतून्मानसंबंधव्यपदेशेभ्यः। एष सेतुरिति (छां. 8-4-1.) सेतुत्वोक्तेः। यतो वाच (तै. 2-4.) इत्युन्मानशब्दितपूर्णत्वोक्तेः। एतस्यैवानंदस्येति (बृ. 6-3-32.) बिंबप्रतिबिंबभावसंबंधोक्तेः। अन्यज्ञानंत्विति लौकिकानंदाद्भेदोक्तेश्चेत्यर्थः ॥

एवंच निर्दिष्टश्रुत्यादिभिर्ब्रह्मानंदादिसेतुत्वपूर्णत्वबिंबत्वादीनां वैलक्षण्यस्योक्तत्वादलौकिकगुणे हरौ भक्तिः कर्तव्येति सिद्धं ॥

<3-2-33>
%(33) ॐ ॥ दर्शनात् ॥ ॐ ॥%

नन्वन्यानंदादीनां मनोवाग्गोचरत्वाद्भवतु लौकिकत्वं। तावता ब्रह्मानंदादेः कथमलौकिकत्वसिद्धिः। मानाभावादित्यतस्तत्प्रमाणत्वेन दर्शनपदोक्तां श्रुतिं हेत्वंतरेणानंदादेरलौकिकत्वं समर्थयत्सूत्रं पठति ॥

%॥ ॐ ॥ दर्शनाच्चेति ॥% अस्यार्थः ॥ अन्यानंदादीनां प्रत्यक्षसिद्धत्वान्मनोवाग्विषयत्वाच्च ब्रह्मानंदस्यातथात्वादेव लोकविलक्षणत्वमित्यर्थः ॥

एवंच लौकिकानंदादिकं हि दर्शनयोग्यं। ईश्वरानंदादि तु `अदृष्टमव्यवहार्यं’ [कौंडिन्य.] इत्यादिना दर्शनायोग्यमित्युच्यते। ततश्च तल्लोकविलक्षणमेवेति तस्मिन्भक्तिः कर्तव्येति सिद्धं ॥

<3-2-34>
%(34) ॐ ॥ बुध्यर्थः पादवत् ॥ ॐ ॥%

ननु यदीश्वरानंदादिर्लोकानंदादिविलक्षणः। कथं तर्हि लोकानंदादिः श्रुतिपुराणादौ गृहीतसंगतिकस्यानंदादिशब्दस्य तत्र प्रयोगः। न हि लवणेगृहीतसंगतिकः सैंधवशब्दोऽश्वे पृथक् संगतिग्रहं विना युज्यते। येनेहापि तत्र संगतिग्रहाभावेऽपि लौकिकेषु संगतिग्रहणमात्रेण तत्र प्रयुज्यत इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ बुध्यर्थः पादवदिति ॥% अस्यार्थः ॥ यथा लोकपादविलक्षणेषु जीवाख्यभूतेषु पादोऽस्य विश्वा बूतानीति (ऋ. 10-90-3.) पादपदप्रयोगः। बुध्यर्थः भूतानां ईशांशत्वज्ञापनार्थः। तथाऽलौकिकेऽपि ब्रह्मानंदादावानंदपदप्रयोगः। बुध्यर्थः अनुकूलतया वेदनीयत्वादिधर्मज्ञापनार्थ इत्यर्थः ॥

एवंच लौकिकपादस्वरूपांशाभ्यां विलक्षणेषु भिन्नांशेषु जीवेषु पादोऽस्येति पादशब्दप्रयोगवत् लौकिकानां बुध्यर्थमेव लोके गृहीतसंगतिकस्यानंदादि शब्दस्य किंचित्सादृश्यमात्रेण भगवदानंदादौ प्रयोगोपपत्तेः। ज्ञाततावन्मात्रस्य प्रमाणांतरवशात् वैलक्षण्ये ज्ञाते शब्दानां तत्र परममुख्यवृत्तिग्रहोऽपि भवति। अतोऽलौकिकगुणे हरौ भक्तिः कार्येति सिद्धं ॥

॥ इति परमताधिकरणं ॥

%17.अधिकरणं ॥%

अत्र ब्रह्माद्यानंदादीनां भगवदानंदादिप्रतिबिंबत्वं पूर्वनयोक्तं समर्थ्यते।

<3-2-35>
%(35) ॐ ॥ स्थानविशेषात्प्रकाशादिवत् ॥ ॐ ॥%

ननु न ब्रह्माद्यानंदादयो भगवदानंदादिप्रतिबिंबभूताः। तथात्वे वैचित्र्याभावप्रसंगात्। प्रतिबिंबैवचित्र्ये हि कारणद्वयं। बिंबवैचित्र्यं स्थानवैचित्र्यं चेति। न चात्र ब्रह्मादिस्थानवैचित्र्यं प्रतिबिंबवैचित्र्योपपादकं संभवति। तस्यापि भगवद्धर्मप्रतिबिंबत्वेन वैचित्र्यसिद्धये स्थानगुणांतरवैचित्र्यानुसरणेऽनवस्थानात्। नापि बिंबानंदादिवैचित्र्यं। भक्त्यभावप्रसंगात्। ततश्च कारणाभावेन वैचित्र्यासंभवात्। न ब्रह्मानंदादिर्भगवदानंदादिप्रतिबिंब इति तस्यालौकिकत्वाभावान्न तत्र निरतिशयाभक्तिरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ स्थानविशेषात्प्रकाशादिवदिति ॥% अस्यार्थः ॥ प्रकाशादिवत्। यथा सूर्यकांतादिगतसूर्यादिप्रतिबिंबेऽग्निजनकत्वादिवैचित्र्यं। स्थानविशेषात्। सूर्यकांतादिस्थानगुणवैचित्र्यादुपपद्यते तथा ब्रह्मादिस्थानगतभक्त्यादिगुणवैचित्र्याद्भगवदानंदप्रतिबिंबेषु ब्रह्माद्यानंदेष्वपि वैचित्र्यमुपपद्यत इत्यर्थः ॥

एवंच प्रतिबिंब एव ब्रह्माद्यानंदादिः। भगवदानंदादेर्ब्रह्मादीनामनादिकालीनभक्त्यादिगुणवैचित्र्यपरमैश्वर्याभ्यां सूर्यप्रतिबिंबवैचित्र्यवत् आनंदादिवैचित्र्यसंभवात्। ब्रह्मादिगुणेति (वाराहे.) स्मृतेः। अतो ब्रह्मादिगुणबिंबालौकिकगुणे हरौ भक्तिर्युक्तेति सिद्धं ॥

<3-2-36>
%(36) ॐ ॥ उपपत्तेश्च ॥ ॐ ॥%

युक्त्यंतरेणबिंवानंदाद्यवैचित्र्येऽपि प्रतिबिंबवैचित्र्यमुपपादयत्सूत्रं पठति ॥

%॥ ॐ ॥ उपपत्तेश्चेति ॥% अस्यार्थः ॥ बिंबभूतभगवदैश्वर्यवशादेव प्रतिबिंबभूतब्रह्माद्यानंदवैचित्र्योपपत्तेश्च तत्प्रतिबिंबत्वमितरेषां युक्तमित्यर्थः ॥

एवंच भक्त्यादिवैचित्र्यानुपपत्त्यभावात्। तस्य परमेश्वरैश्वर्यादेवोपपत्तेः। परमेश्वरोहि वेदाप्रामाण्यकारणवैषम्यादिपरिहाराय भक्त्यादिवैचित्र्यमपेक्ष्यैव विचित्रानंदादीन् ददाति। अनादिकालीनभक्त्यादिविचित्रगुणांस्तु स्वैच्छयैवैश्वर्यवशाद्ददाति। तत्र वैषम्यादेरदोषत्वात्। ऐश्वर्यात्परमादिति (पाद्मे.) स्मृतेः। अतो ब्रह्मादिगुणबिंबालौकिकगुणे हरौ युक्तैव भक्तिरिति सिद्धं ॥

॥ इति स्थानविशेषाधिकरणं ॥

%18.अधिकरणं ॥%

अत्र ब्रह्मणो ध्यानप्रतीतादन्यत्वोक्त्या पुनरव्यक्तत्व समर्थ्यते।

<3-2-37>
%(37) ॐ ॥ तथाऽन्यत्प्रतिषेधात् ॥ ॐ ॥%

ननु व्यक्तमेव ब्रह्म। ध्यानकाले प्रतीयमानत्वात्। न च ध्येयानां बहुत्वेन ब्रह्मभेदापत्तिः। विशेषबलेनैव बहुत्वोपपत्तेः। ध्येयस्याब्रह्मत्वे च ब्रह्मध्यानाभावेन फलं न स्यात्। अतो ध्यानकाले प्रतीतस्य ब्रह्मत्वेनाव्यक्तत्वाभावाद्‌व्यर्था भक्तिरिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ तथाऽन्यत्प्रतिषेधादिति ॥% अस्यार्थः ॥ यथा जीवानंदादि ब्रह्मानंदादेर्विलक्षणं। तथा ध्यानकाले प्रतीतं वासनात्मकं वस्तु। ब्रह्मणोऽन्यत् तद्भिन्नं। कुतः। यन्मनसेति (केन. 1-6.) श्रुतावन्यस्य ब्रह्मत्वप्रतिषेधादित्यर्थः ॥

एवंचाव्यक्तमेव ब्रह्म। जीवानंदाद्‌ब्रह्मानंदस्य भिन्नत्ववत्ध्येयस्य दुर्लक्षणत्वेन ब्रह्मणस्तदन्यत्वात्। तदेवेति ध्येयस्य ब्रह्मत्वनिषेधाच्च। प्रतिमोपासनवत्प्रतिबिंबोपासनस्यापि ब्रह्मोपासनत्वेन ध्यानकालानुपपत्त्यभावात्। अतो ध्यानकाले प्रतीतस्याब्रह्मत्वेनाव्यक्तत्वात्कर्तव्यैव तद्भक्तिरिति सिद्धं ॥

॥ इति तथाऽन्यत्वाधिकरणं ॥

%19.अधिकरणं ॥%

अत्र भगवत एव सर्वकर्तृत्वादि समर्थ्यते।

<3-2-38>
%(38) ॐ ॥ अनेन सर्वगतत्वमायामयशपब्दादिभ्यः ॥ ॐ ॥%

ननु न भगवत एव सर्वसृष्ट्यादिक्रिया युज्यते। किंतु देशकालांतरेऽन्यतोपि जगतः सा भवति। राजादौ तथा दर्शनात्। तथा च न ब्रह्मणः सकाशादेव सर्वसृष्ट्यादिकं युक्तमिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ अनेन सर्वगतत्वमायामयशब्दादिभ्य इति ॥% अस्यार्थः ॥ अनेन भगवतैव। सर्वदेशकालयोः सृष्ट्यादिर्भवति। न तु देशकालांतरयोरन्येन। कुतः। सर्वगतत्वमायामयशब्दादिभ्यः। एष सर्वगत इति (भाल्लवेय.) सर्वगतत्वश्रुतेः। तस्य च सृष्ट्याद्यर्थत्वात्। विष्णौ प्रयुक्तमायामयशब्दव्याख्यानरूपसर्वत्रेत्यादि (चतुर्वेदशिखायां.) श्रुतेश्चेत्यर्थः। अन्यत्र प्रामाणाभावाच्चेत्यादि शब्दार्थः ॥

एवंच भगवतैव सर्वदेशकालीनसृष्ट्यादि। अनुप्रविश्येति (छां. 6-3-3.) श्रुतिसिद्धसृष्ट्युपयोगिसर्वगतत्वस्यैष सर्वगत इति श्रुतौ विष्णोरभिधानात्। मायामयशब्दव्याख्यानरूपसर्वत्र सर्वमेतस्मादिति चतुर्वेदशिखोक्तेश्च। कालतोऽन्यस्य जगत्कारणत्वे प्रमाणाभावात्। तदभावे संभावनामात्रस्याप्रयोजकत्वात्। अतः सर्वजगजन्मादिकर्तरि ब्रह्मणि भक्तिः कार्यैवेति सिद्धं ॥

॥ इति फलाधिकरणं ॥

%20.अधिकरणं ॥%

अत्र भगवतः स्वर्गादिकर्मफलदातृत्वं साध्यते।

<3-2-39>
%(39) ॐ ॥ फलमत उपपत्तेः ॥ ॐ ॥%

नन्वीश्वरो न फलदाता। अवश्यक्लृप्तनियतपूर्ववृत्तिना कर्मणैव फलसंभवेनान्यथासिद्धत्वात्। ततश्च न तद्भक्तिः कार्येति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ फलमत उपपत्तेरिति ॥% अस्यार्थः ॥ फलं स्वर्गादि। अतः ईश्वरादेव भवति। न कर्मतः। कुतः। उपपत्तेः। ईश्वरस्य चेतनत्वेन फलदातृत्वस्य युक्तत्वादित्यर्थः ॥

एवंचाचेतनत्वात्कर्मणैव फलसंभवाभावेनान्यथासिद्धत्वहेतोरसिद्धत्वेन बाधकाभावात्। अतः परमेश्वर एव कर्मफलदातेति तस्मिन्भक्तिः कार्येति सिद्धं ॥

<3-2-40>
%(40) ॐ ॥ श्रुतत्वाच्च ॥ ॐ ॥%

नन्वीश्वरस्य चेतनत्वेन फलदातृत्वसंभावनैव भवेत्। न निश्चयः। अतः कुतोऽसौ निश्चय इत्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ श्रुतत्वाच्चेति ॥% अस्यार्थः ॥ श्रतत्वाच्च। रतिरिति (बृ. 5-9-28.) श्रुत्युक्तत्वाच्चेश्वरस्यैव फलदार्तृत्वमित्यर्थः ॥

एवंच न केवलं चेतनत्वाद्युपपत्तेः किंतु श्रुत्युक्तत्वाच्चेश्वरस्य फलदातृत्वेन निश्चितत्वात्तस्मिन्भक्तिः कार्येति सिद्धं ॥

<3-2-41>
%(41) ॐ ॥ धर्मं जैमिनिरत एव ॥ ॐ ॥%

ननु नैतच्छ्रुतिबलेनेश्वरस्य फलदातृत्वमंगीकार्यं। कारणस्य कर्मण ईश्वरजन्यत्वेन श्रुतावीश्वरस्य फलदातृत्वस्योपाचारेणैवोक्तत्वात्। किंचैवमाप्ततमो जैमनिराचार्यो मन्यत इतिचेत्तत्परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ धर्मं जैमिनिरत एवेति ॥% अस्यार्थः ॥ जैमिनिराचार्यः धर्मं फलप्रदमाह। तं च धर्मं। अत एव ईश्वरादेव जन्यं मन्यते। कुतः। अत एव एष ह्येवेति (कौ. 3-8.) श्रुतेरेवेत्यर्थः ॥

एवंचोक्तश्रुत्या जैमिन्याचार्याभिप्रायेण यतः फलं तस्मादीश्वरादेव कर्म भवतीति सिद्धं ॥

<3-2-42>
%(42) ॐ ॥ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ॐ ॥%

एतत्परिहाराय सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ पूर्वं तु बादरायणो हेतुव्यपदेशात् इति ॥% अस्यार्थः ॥ बादरायणाचार्यस्तु। पूर्वं पूर्वोक्तं। ब्रह्म धर्मं चोभयं फलहेतुं मन्यते। तत्र ब्रह्म कर्तृत्वेन कर्मकरणत्वेन हेतुरिति विशेषस्तु शब्दार्थः। कुतः। हेतुव्यपदेशात् पुण्येनेति श्रुतौ (प्र. 3-7) ब्रह्मकर्मणोः कर्तृत्वकरणत्वरूपहेतुत्वस्योक्तत्वादित्यर्थः ॥

एवंच श्रुतेरौपचारिकत्वकल्पनं भवेत्। यदीश्वरं विना केवलेन कर्मणा फलं भवेत्। न च तत्संभवति। अचेतनस्य स्वतः प्रवृत्त्ययोगात्। एवंच श्रुत्यन्वयव्यतिरेकबलादुभयोरपि कारणत्वे सिद्धे कर्मैवेश्वरप्रयोज्यमभ्युपगंतव्यं। पुण्येन पुण्यं पापेन पापमिति हेतुव्यपदेशात्। जैमिनिरपि कर्मादिरीश्वराधीनकारणत्वमभिमतमिति न तन्मतमप्रमाणं। अतः परमेस्वरस्यैव कर्मफलदातृत्वान्निरतिशयमहिम्नि तस्मिन्भक्तिः कर्तव्येति सिद्धं ॥

** ॥ इति फलाधिकरणं ॥
॥ इति तृतीयाध्यायस्य द्वितीयः पादः ॥**

—————————————————-

॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अथ तृतीयः पादः ॥

उपासनाऽस्मिन्पाद उच्यते।

%1.अधिकरणं ॥%

अत्र सर्वपरिज्ञानं समर्थ्यते।

<3-3-1>
%(1) ॐ ॥ सर्ववेदांतप्रत्ययं चोदनाद्यविशेषात् ॥ ॐ ॥%

ननु स्वस्वशाखोक्तमेवांतेन ज्ञेयं न सर्वशाखोक्तं। शाखाप्रतिपाद्यानां नानात्वात्। न च नानात्वेऽपि सर्वेषामेकोपास्यता। अनेकप्रागुक्तन्यायेन मोक्षासिद्धिप्रसंगात्। ततश्च सर्वशाखानिर्णायकं ब्रह्ममीमांसाशास्त्रमनुपादेयमिति प्राप्ते पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ सर्ववेदांतप्रत्ययं चोदनाद्यविशेषादिति ॥% अस्यार्थः ॥ पूर्वसूत्रे पूर्वपदोदितं ब्रह्म सर्ववेदांतप्रत्ययं। बहुव्रीहिः। यथाशक्ति सर्ववेदविषयकश्रवणाद्युत्पन्ननिर्णयजन्यज्ञानविषयं। कुतः। चोदनाद्यविशेषात् आत्मेत्यादि (बृ. 3-4-7.) विधीनामादिपदोदितानामत्र ह्येत (बृ. 3-4-7) इत्यादिवाक्योक्तयुक्तीनां चाविशेषात्। सर्वाधिकारिकसाधरणत्वादित्यर्थः ॥

एवंच सर्ववेदश्रवणमननाद्युत्पाद्यज्ञानमेव ब्रह्म सर्वैरुपास्यं। श्रोतव्यो मंतव्य (बृ. 4-4-5.) इत्यादिविधीनां सर्वसाधारणत्वात्। न हि काण्वादिशाखासु तैरेवेदं ज्ञेयं नान्यैरित्युच्यते येन साधारण्यं न स्यात्। अतो भगवत्ध्यानार्थं सर्ववेदोक्तं ज्ञेयमिति सर्वोपादेयं सास्त्रमिति सिद्धं ॥

<3-3-2>
%(2) ॐ ॥ भेदान्नेति चेदकस्यामपि ॥ ॐ ॥%

नन्वेकस्यां शाखायामनंतं ब्रह्मेत्युच्यते। अपरस्यां विज्ञानमिति सत्त्वान्वयपरित्यागेनोच्यते। सत्यत्वभावाभावाभ्यां प्रतिपाद्यं भिद्यते। किं च वस्त्वैक्येंऽशे पौनरुक्त्यं स्यात्। शाखांतरोक्तस्यैव ज्ञानरूपत्वादेः शाखांतरेऽभिधानात्। ततश्च सर्वशाखानिर्णायकं ब्रह्ममीमांसाशास्त्रमनुपादेयमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ भेदान्नेति चेदकस्यामपीति ॥% अस्यार्थः ॥ चेदिति नेति भेदादिति अपीति चावर्तते। तर्हीति शाखायामिति च लभ्यते। तथा च चेद्यदि सर्वशाखोक्तार्थानां भेदात् पृथक्त्वात्। एकैकेन सर्वशाखोक्तं ज्ञेयं न। किंतु स्वस्वशाखोक्तमेवेत्युच्यते। तर्हि अपि स्वस्वशाखोक्तमपि। न ज्ञेयं स्यात्। कुतः। एकस्यामपि भेदात् अर्थभेददर्शनात्। अथ यदि तत्र धर्मभेदादेकस्मिन् धर्मिणि भिन्नधर्मविधानात्। प्रसंगभेदाच्चेति परिहार उच्यते तस्य सर्वशाखोक्तपरिज्ञानेऽपि सम इत्यर्थः ॥

एवंच वादिनाऽप्येकत्वेनाभ्युपगते एकशाखाप्रतिपाद्येप्युपदेशादिभेददर्शनेन व्यभिचारात्। यदपि वस्त्वैक्येंऽशेपौनरुक्त्यमिति। तन्न। एकस्यामपि शाखायामुक्तानामेव गुणानां पुनरभिधानेन समानं। यदि तत्र धर्म्यनुवादेन धर्मविधानान्नोपदेशबेदः। नापि पौनरुक्त्यं। प्रसंगभेदानुवादकत्वाद्वोच्यते। तच्छाखांतरेऽपि समानं। ततश्च सर्वशाखाप्रतिपाद्यमेकमेव वस्त्विति सिद्धं ॥

<3-3-3>
%(3) ॐ ॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॥ ॐ ॥%

ननु लोके शाखाभेदस्य प्रसिद्धत्वाद्विधेरपि विशेषनिष्ठताऽऽवश्यकीत्यत्रसूत्रोक्तहेतोरसिद्धेः। किंचानुष्ठानापेक्षया ज्ञानमात्रस्य सुलभत्वात् यदा सर्ववेदोक्तशक्यकर्मानुष्ठाने सर्वेषामधिकारसद्भावस्तदा तदुक्तब्रह्मज्ञाने सुतरामित्याशंकायां प्रथमसूत्रस्यैव हेत्वंतराभिधायकसूत्रमाह ॥

%॥ ॐ ॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्चेति ॥% अस्यार्थः ॥ स्वाध्यायस्य स्वाध्यायोऽध्येतव्य इति (तै.आ. 2-15.) विधेः। तथात्वेन सर्वसाधारण्येनाध्ययनविधायकत्वेन। समाचारे सर्ववैदिककर्मकरणे। अधिकारात् सर्वेषामधिकारसद्भावाच्च। हीति सूचितायाः वेदः कृत्स्नोऽधिगंतव्य इति स्मृतेश्च एकैकेनापि सर्वशाखाध्ययनेन ब्रह्म ज्ञातव्यमित्यर्थः ॥

एवंच स्वाध्यायोऽध्येतव्य इत्यध्ययनविधेः सामान्यात्। अध्ययनस्य च ज्ञानार्थत्वात्। ततश्च सर्वेषां सर्ववेदोक्तज्ञानेऽधिकार इति सिद्धं ॥

<3-3-4>
%(4) ॐ ॥ सलिलवच्च तन्नियमः ॥ ॐ ॥%

ननु यदि सर्वशाखोक्तप्रकारेण जानतो ध्यानाधिकारस्तर्ह्यधमाधिकारिणां ध्यानाभावः प्राप्त इत्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ सलिलवच्च तन्नियम इति ॥% अस्यार्थः ॥ चोऽवधारणे। तन्नियम इत्यत्र पंचमी तत्पुरुषकर्मधारयौ। सलिलवत् सलिलमिव। तन्नियमः यथा सर्वेषां सलिलानां प्रतिबंधाभावमपेक्ष्यैव समुद्रैकाश्रयत्वनियमः। तथाऽत्रापि तस्याः पुरुषशक्तिमपेक्ष्यैव तन्नियमः। सर्ववेदोक्तप्रकारेण ध्यानेन ब्रह्म ज्ञातव्यमिति नियम इत्यर्थः ॥

एवंच सर्वेषां सर्ववेदोक्तकर्माधिकारस्तावद्दृश्यते। ततो ज्ञानाधिकारोऽपि मंतव्यः। विशेषाभावात्। यानि चेमानि विरुद्धकर्माणि सामगो बटुर्मुडोऽन्यः शिखीत्यादीनि तानि चैकशाखागतविरुद्धधर्मवद्विकत्पेन भवंति। न च मंदानां ज्ञानाभावः। यथा नदीनामि(आग्नेये.)त्यादिवाक्यानां बाधकाभावे समुद्रायतनत्वनियमतात्पर्यवच्छ्रवणादिविधीनामपि यथाशक्ति सर्वश्रवणविधौ तात्पर्यांगीकारात्। ततश्चोक्तं युक्तमिति सिद्धं ॥

<3-3-5>
%(5) ॐ ॥ दर्शयति च ॥ ॐ ॥%

चोदनाद्यविशेषादित्युक्तिसमर्थितार्थं श्रुतिस्मृतिभ्यांच साधयत्सूत्रं पठति ॥

%॥ ॐ ॥ दर्शयति चेति ॥% अस्यार्थः ॥ श्रुतिः स्मृतिश्च सर्वशाखोक्तमार्गेण ब्रह्म ज्ञातव्यमित्यर्थं। दर्शयति ज्ञापयतीत्यर्थः ॥

एवंच सर्वैश्च वेदैरिति (चतुर्वेदशिखायां) सर्वान्वेदानिति (ब्रह्मतर्के.) च श्रुतिस्मृत्योर्भगवतः सर्वैरेव वेदैर्न त्वल्पवेदैर्जिज्ञास्यत्वेन विष्णुमपरोक्षतो ज्ञातुं मुमुक्षोः सर्ववेदानां श्रवणमननादिना ज्ञातव्यत्वस्योक्तत्वात्। अतो भगवत्ज्ञानार्थं सर्ववेदोक्तं ज्ञेयमिति सर्वोपादेयं शास्त्रमिति सिद्धं ॥

॥ इति सर्ववेदाधिकरणं ॥

%2.अधिकरणं ॥%

अत्र ज्ञानार्थं सार्वत्रिकगुणोपसंहारः समर्थ्यते।

<3-3-6>
%(6) ॐ ॥ उपसंहारोऽर्थाभेदाद्विधिशेषत्वसमाने च ॥ ॐ ॥%

नन्वीश्वरः सर्ववेदोक्तगुणोपसंहारेण ज्ञेय एव। न तु ध्यातव्यः। अशक्यत्वात्। अनंतवेदोदितानंतगुणानां स्वभुजवद्युगपद्वुद्धावारोहरूपोपसंहारस्याशक्यत्वेन तत्पूर्वकोपासनस्याप्यशक्यत्वात्। ततश्च तदर्थमापाद्यं सर्वज्ञानं व्यर्थमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ उपसंहारोऽर्थभेदाद्विधिशेषत्वसमाने चेति ॥% अस्यार्थः ॥ विधिशेषवत् विधिविहितस्येव। यथा विधिविहितत्वात्संध्यावंदनादिकमवश्यं कर्तव्यं तथा। अर्थाभेदात्। भेदो विभागः। सर्ववेदार्थभूतानामानंदादिगुणानामण्हतपाप्मत्वादिदोषाभावानां चाभेदात् अविभागात्। तानविभज्येति यावत्। उपसंहारः सर्वगुणानामप्येकबुध्यारोहणरूपोपसंहारः। उपास्य एक इति श्रुतौ (भाल्लवेय.) विहितत्वात्कर्तव्यः। सोऽपि समाने च समानविषय एव। ये ब्रह्मणि योग्याः पूर्णत्वाविरोधिनो गुणाः। तद्विषय एव। न त्वयोग्यरोदनादौ। तथा सत्यनर्थप्राप्तेरित्यर्थः ॥

एवंच सर्ववेदार्थानामानंदादिगुणानामपहतपाप्मत्वादिदोषाभावानां च केषांचिदुपसंहारः केषांचिन्नेति विभागमकृत्वोपसंहारेण परमात्मा ध्यातव्यः। सर्वे गुणा एव ह्युपास्या इति विहितत्वात्। अन्यथा विहितसंध्यावंदनाद्यकरणे प्रत्यवायः स्यात्। अपि च तात्पर्यविषयीभूता धर्मा एवोपास्या नत्वतात्पर्यविषयीभूताः। सोऽरोदीदित्यादिना प्रतीता रोदनादयो दुःखकार्याणां तेषां परमेश्वरेऽयोगात्। अयोग्योपासनस्यानर्थहेतुत्वात्। अतः सर्वगुणोपसंहारस्य कर्तव्यत्वात्सार्थकमेव सर्वपरिज्ञानमिति सिद्धं ॥

<3-3-7>
%(7) ॐ ॥ अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ॥ ॐ ॥%

नन्वात्मेत्येवोपासीतेति [बृ. 3-4-7.] गुणांतरोपसंहारनिषेधेनात्मत्वमात्रोपासनस्य विहितत्वात्। सर्वगुणोपसंहारे विहितक्रियालोपप्रसंग इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अन्यथात्वं च शब्दादिति चेन्नाविशेषादिति ॥% अस्यार्थः ॥ अन्यथात्वं सर्वगुणोपसंहारः कार्य इत्युक्तस्यान्यथाभावः। तस्याकर्तव्यत्वमेवावश्यमंगीकार्यं। कुतः। शब्दात् आत्मेत्येवोपासीतेत्यनुपसंहार श्रुतेरिति चेन्न। अविशेषात् एते गुणा नोपसंहार्या इति विशेषप्रमाणाभावात्। सर्वैर्गुणैरित्यविशेषेणोपसंहारे तु विशेषप्रमाणसद्भावाच्चेत्यर्थः। आत्मेत्येवेत्येवकारस्त्वयोग व्यवच्छेदग इति भावः ॥

एवंचैते गुणा नोपसंहर्तव्या इति प्रमाणाभावात्। सर्वैर्गुणैरेक एवेशितोपासितव्यो न तु दोषैः कथंचिदिति विशेषवचनाच्च। निरवकाशैतच्छ्रुतिविरोधादेवात्मेत्येवोपासीतेत्यवधारणस्यानात्मत्वरूपदोषव्यवच्छेदकत्वमेव न तु गुणांतरव्यवच्छेदकत्वमिति तदपि नानुपसंहारे प्रमाणं अतः सर्वगुणोपसंहारः कर्तव्य इति सिद्धं ॥

<3-3-8>
%(8) ॐ ॥ न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥ ॐ ॥%

ननु नायं सर्वगुणोपसंहारो युक्तोऽशक्यत्वादित्याशंकामभ्युपगमवादेन परिहरन् न वेति सूत्रमुपसंहारः कार्यइत्त्येतयोरनुवृत्यध्याहाराभ्यां व्याचष्टे ॥

%॥ ॐ ॥ न वा प्रकरणभेदात्परोवरीयस्त्वादिवदिति ॥% अस्यार्थः ॥ परोवरीयस्त्वादिवत् यथा स एष (छां. 1-9-2.) इत्युक्तानां निरवधिकसर्वोत्तमत्वरूपपरोवरीयस्त्वादिगुणानामेवोपासनार्थमुपसंहारो न सर्वगुणानां। तद्वत्सर्वगुणोपसंहारो न कर्तव्यो वा। कुतः। प्रकरणभेदात् परोवरीयो वैश्वानरादिप्रकारणभेदात्। अन्यथा तन्न स्यादित्यर्थः ॥

एवंचास्त्वनुपसंहार एव सर्वगुणानां। प्रकरणभेदात्। अन्यथा प्रकरणानि न भिद्येरन्। सर्वाण्यपि प्रकरणान्युपलक्षणतया सर्वगुणपराणीति सर्वोपसंहृतिः कार्यैवेति न मंतव्यं। परोवरीयस्त्वादिप्रकरणस्य श्रूयमाणगुणमात्रपरत्वात्। अन्यतैकेनैव शब्देन सर्वगुणोपलक्षणसंभवेनोद्गीथादिशब्दवैयर्थ्यं स्यात्। अत उक्तं युक्तमिति सिद्धं ॥

<3-3-9>
%(9) ॐ ॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ॐ ॥%

ननु कर्तव्य एव सर्वगुणोपसंहारः। सर्ववेदानां भगवन्नामत्वेन गुणाभिधायित्वात्। गुणाभिधानस्यैव ध्यानार्थत्वादिति प्राप्ते परिहरत्सूत्रमाह ॥

%॥ ॐ ॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपीति ॥% अस्यार्थः ॥ संज्ञातः सर्वविद्यानां भगवन्नामत्वेन तद्गुणोक्तिरूपत्वात्। सर्वविद्योक्तगुणोपसंहारः कार्य इति चेत्। तदुक्तं तत्र चोद्ये तदिष्टमेवेति समाधानं तेनोपसंहारसूत्रेणोक्तमित्यर्थः ॥ न केवलं युक्तिसिद्धमेतत्। किंतु तदपि तस्मिन्नर्थे नाम वा एता इति (कौंडिन्यश्रुतिः.) प्रमाणमप्यस्ति। तु अस्त्येवेत्यर्थः ॥

एवं चास्तु। अस्माभिरपि सर्वगुणोपसंहारस्योक्तत्वेनेष्टत्वात्। नाम वेति कौंडिन्यश्रुतौ विहितत्वेन प्रामाणिकवाच्च। अतः सर्वगुणोपसंहारस्य कर्तव्यत्वात्सार्थकमेव सर्वपरिज्ञानमिति सिद्धं ॥

॥ इति उपसंहाराधिकरणं ॥

%3.अधिकरणं ॥%

अत्र प्रागुक्तोपसंहारानुपसंहारयोः पुरुषभेदेन कर्तव्यत्वं समर्थ्यते।

<3-3-10>
%(10) ॐ ॥ प्राप्तेश्च संमजसं ॥ ॐ ॥%

ननु न युक्तौ प्रागुक्तोपसंहारानुपसंहारौ। विरोधात्। विरुद्धयोर्युगपदनुष्ठानमेकेन न संभवति। न चाधिकारिभेदादुभयोपपत्तिः। नियामकाभावादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ प्राप्तेश्च समंजसमिति ॥% अस्यार्थः ॥ उपसंहारानुपसंहारयोः कर्तव्यत्वं। समंजसं युक्तं। कुतः। प्राप्तेः तत्तद्योग्यपुरुषभेदेन तयोर्व्यवस्थितत्वादविरोधप्राप्तेश्चेत्यर्थः ॥

एवंचोपपन्नावेवोपसंहारानुपसंहारौ। यस्य युगपत्स्वभुजाविव यावंतो गुणा स्पष्टं प्रतिभासंते। रुद्रादीनां तु तत्तद्योग्यतानुसारेणेति विवेकः। अतस्तयोः सामंजस्याद्युक्तं पूर्वोक्तमिति सिद्धं ॥

॥ इति प्राप्त्यीधकरणं ॥

%4.अधिकरणं ॥%

अत्र बहुगुणोपसंहारस्य फलातिशयोक्त्या कर्तव्यता समर्थ्यते ॥

<3-3-11>
%(11) ॐ ॥ सर्वाभेदादन्यत्रेमे ॥ ॐ ॥%

ननु न बहुगुणोपसंहारः कर्तव्यः। उपासनातारतम्यानुसारिफलतारतम्ये प्रमाणाभावादिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ सर्वाभेदादन्यत्रेणे इति ॥% अस्यार्थः ॥ इमे सर्वगुणोपसंहारकर्तृब्रह्मादयः। अन्यत्र तदनुपसंहर्तृभ्योऽन्यत्र। तत्फलविलक्षणमहाफले भवंति तद्भाजो भवंति। कुतः। सर्वाभेदात्। सर्ववेदोक्तगुणानां अविभागेनोपसहंर्तृत्वेनोपासनादित्यर्थः ॥

एवंच कर्तव्य एव बहुगुणोपसंहारः। साधनतारतम्ये फलतारतम्यनियमात्। वेदोक्तमहोपासनवतामतिशयफलाभावायोगात्। अतो बहुगुणोपसंहारः कर्तव्य इति सिद्धं ॥

॥ इति सर्वाभेदाधिकरणं ॥

%5.अधिकरणं ॥%

अत्र सर्वमुमुक्षुसाधारणोपास्यगुणा निर्णीयंते।

<3-3-12>
%(12) ॐ ॥ आनंदादयः प्रधानस्य ॥ ॐ ॥%

ननु न संत्येव साधारणतयोपास्या गुणाः क्लृप्ताः। नियामकाभावात्। ततश्च क्लृप्त्यभावेन प्राथमिकोपासनासंभवात्। उपासनामात्रासंभव इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ आनंदादयः प्रधानस्येति ॥% अस्यार्थः ॥ आनंदादयः आनंदो ज्ञानं सच्छब्दोदितं निर्दोषत्वं आत्मपदोदितस्वामित्वमित्येते चत्वारो गुणाः। प्रधानस्य मोक्षस्यार्थे सर्वमुमुक्षुभिः उपास्या इत्यर्थः ॥

एवंच क्लृप्ता एव सर्वमुमुक्षूपास्या गुणाः। सर्वेषां मुक्तावानंदज्ञानदुःखाभावानामपेक्षितत्वात्। तत्सिद्धये तत्त्वविदा तावदुपास्याः। यत्त्वात्मत्वापर्यायं स्वामित्वं स्वयं बंधानुस्मरणस्य भगवत्प्रीतिसाधनत्वात्तदप्युपास्यं। एवंच प्राथमिकोपास्यनिर्णयात्सर्वाप्युपासना युक्तैवेति सिद्धं ॥

॥ इति आनंदाधिकरणं ॥

%6.अधिकरणं ॥%

अत्र ब्रह्मोपासने प्रियशिरस्त्वादिगुणानां सर्वाधिकारिसाधारण्यनिरासेन सर्वेषां चतुर्गुणनियमः समर्थ्यते।

<3-3-13>
%(13) ॐ ॥ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ ॐ ॥%

ननु प्रियशिरस्त्वादयोऽपि सर्वोपास्याः। आनंदादिघटितत्वात्। अन्यथाऽऽनंदादेः सम्यगनुपासितत्वेन मोक्षासिद्धिः स्यात्। ततश्च चत्वार एव गुणाः सर्वोपास्या इत्ययुक्तमिति प्राप्ते सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ प्रियशिरस्त्वाद्यप्राप्तिरुपवयापचयौ हि भेद इति ॥% अस्यार्थः ॥ सर्वेषामधिकारिणां। प्रियशिरस्त्वाद्यप्राप्तिः। तस्य प्रियमेव शिर (तै.उ. 2-5-2.)इत्यादि श्रुत्युक्त प्रियशिरस्त्वादिगुणोपासनयोग्यता नास्ति। किंतु केषांचिदेव। कुतः। हि यस्मात्। तेषां भेदे फलभेदे फलतारतम्ये हि प्रसिद्धा। नैव सर्वेति (वाराहे.) स्मृतिरस्ति। यस्माच्च भेदे फलभेदसित्ध्यर्थं उपचयापचयौ उपासने वृद्धिह्रासौ। तारतम्यमिति यावत् अपेक्षितौ तस्मादित्यर्थः ॥

एवंच न प्रियशिरस्त्वादयः सर्वोपास्याः। आनंदादिविशेषत्वावलंबनेन तेषामुपासने सर्वेषां सर्वगुणोपास्तिप्रसंगात्। सर्वगुणानामप्यानंदादिचतुष्टयविशेषत्वस्य वक्तुं शक्यत्वात्। न च प्रियशिरस्त्वाद्यनुपासने मोक्षाभावः। यथा योग्यान् गुणपूगानिति श्रुतेर्विशेषानुपासनेऽपि योग्यगुणोपासनामात्रेण फलप्राप्तिसंभवात्। अतः प्रियशिरस्त्वादीनामसाधारण्याच्चत्वार एव सर्वोपास्या इति सिद्धं ॥

॥ इति प्रियशिरस्त्वाधिकरणं ॥

%7.अधिकरणं ॥%

अत्र देवगंधर्वपर्यंतानां ब्रह्मवाणीतरदेवादीनां प्रियशिरस्त्वादिबहुगुमोपासनं समर्थ्यते।

<3-3-14>
%(14) ॐ ॥ इतरे त्वर्थसामान्यात् ॥ ॐ ॥%

ननु विरिंचेतरदेवतादिभिश्चत्वार एव गुणा उपास्या नाधिकाः। सर्वमुमुक्षुणा चतुर्गुणोपासनयोग्यताया निर्णीतत्वात्। अधिकस्यानिर्णयात्। अतो मध्यमगुणानामनुपास्यत्वात्। तदुपसंहारानुपपत्तिरिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ इतरे त्वर्थसामान्यादिति ॥% अस्यार्थः ॥ तु शब्द एवार्थे। अर्थसामान्यात्। ल्यब्‌लोपनिमित्तां पंचमी। उपासनस्य स्वस्वप्राप्यफलसाम्यमपेक्ष्य इतरे चतुर्भ्यः सर्वेभ्यश्चेतरे मध्यमाः गुणाः देवादिभिरुपसहर्तव्या एवेत्यर्थः ॥

एवंच चतुर्गुणाधिका गुणा देवादिभिरुपास्या एव। तदपेक्षितप्राप्यफलनिर्णयं प्रथमतः कृत्वा पश्चात्साधननिर्णयं विधाय ब्रह्मणोऽन्यस्य वा सर्वज्ञस्य गुरोरुपदेशेन योग्यतानिर्णयोपपत्तेः। अतो मध्यमगुणानामपि देवाद्युपास्यत्वाद्युक्तं तदुपसंहाराभिधानमिति सिद्धं ॥

॥ इचि इतराधिकरणं ॥

%8.अधिकरणं ॥%

अत्र सर्वगुणोपसंहारानुपसंहारयोः कर्तव्यत्वे प्रमाणमुच्यते।

<3-3-15>
%(15) ॐ ॥ आध्यानाय प्रयोजनाभावात् ॥ ॐ ॥%

ननु न सर्वगुणोपसंहारो कर्तव्यः। प्रमाणाभावात्। अनुपसंहारिणामपि चतुर्गुणोपासकानां मोक्षस्य जायमानत्वेनैकः परत इति श्रुत्यविरोधात्। व्यबिचारिणश्च साधनत्वायोगेन असाधनं। साधनतया प्रतिपादयतो वाक्यस्याप्रामाण्यात्। न च सर्वविद्यानां भगवद्गुणाभिधायकत्वेन तदुपसंहारः कर्तव्य इति वाच्यं। गुणानां नानास्थानेषूक्तत्वेन तदभिधानस्योपसंहारार्थत्वाभावेनोपसंहारस्य निष्फलत्वेन भगवद्गुणाभिधानस्य तदर्थत्वायोतत्राप्रामाण्यात्। तथा च नोपासनं युक्तमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ आध्यानाय प्रयोजनाभावादिति ॥% अस्यार्थ ॥ वेदेषु सर्वगुणोक्तिरुपसंहारश्च आध्यानाय सम्यग्ज्ञानध्यानार्थं। क्लृप्तो भवेत्। कुतः। प्रयोजनाभावात्। गुणोक्तेस्तदुपसंहारस्यच ध्यानंविना प्रयोजनाभावादित्यर्थः ॥

एवंच कर्तव्य एवोपसंहारः। सर्वविद्यानां भगवन्नामत्वेन तद्गुणाभिधायकत्वात्। तस्य च प्रयोजनांतराभावेनोपसंहारपूर्वकाध्यानार्थत्वात्। न चोपसंहारो निष्फलः। आनंदातिशयलक्षणफलसद्भावात्। तथा च विरिंचेतरैः कतिपयगुणानुपसंहारेण कतिपयगुणोपसंहारः कार्यः। आत्मेत्येवोपासीते [बृ. 3-4-7.]त्याद्यनुपसंहारप्रमाणस्य विद्यमानत्वात्। अत उपासनं युक्तमिति सिद्धं ॥

<3-3-16>
%(16) ॐ ॥ आत्मशब्दाच्च ॥ ॐ ॥%

एवं सर्वगुणोपसंहारं प्रमाणेन समर्थ्यानुपसंहारं च समर्थयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ आत्मशब्दाच्चेति ॥% अस्यार्थः ॥ आत्मेत्येवोपासीते(बु. 3-4-7.)त्यत्रात्मेति भावप्रधानं सावधारणं च। आत्मत्वमात्रोपास्तिविधायकः शब्द आत्मशब्दः। आत्मेत्येवोपासीतेति शब्दः। तस्माद्गुणांतरव्यावृत्तिपूर्वमात्मत्वोपास्तिविधायकशब्दादनुपसंहारश्च सिध्यतीति चार्थः ॥

एवंचोपासनाक्षिप्ताल्पगुणोपसंहारे निर्दिष्टश्रुतेः प्रमाणत्वात्। अन्यथा गुणांतरव्यावृत्तिपूर्वकमात्मात्वोपासनस्यैवात्र विधानादसंगतेः। न चावधारणस्यान्यथात्वमिति सूत्रेऽयोगव्यवच्छेदकत्वस्योक्तत्वात्कथमन्ययोगव्यवच्छेदकत्वमुच्यत इति वाच्यं। उपसंहारानुपसंहारवद्‌ब्रह्मादीन् उत्तमाधिकारिणः प्रत्ययोगव्यवच्छेदकत्वमधमाधिकारिणः प्रत्यन्ययोगव्यवच्छेदकत्वमित्यधिकारिभेदेनाविरोधकत्वात्। अत उपसंहारानुपसंहारयोः कर्तव्यत्वादुपासनं युक्तमिति सिद्धं ॥

॥ इति आध्यानाधिकरणं ॥

%9.अधिकरणं ॥%

अत्रोपासनायामानंदादिचतुर्गुणनियमः समर्थ्यते।

<3-3-17>
%(17) ॐ ॥ आत्मगृहीतिरितरवदुत्तरात् ॥ ॐ ॥%

नन्वात्मत्वमेव सर्वोपास्यं नानंदादयश्चत्वारः। आत्मेत्येवेति [बृ. 3-4-7.] सावधारणवचनात्। इतरगुणहानेनात्मत्वमात्रोपासनस्य सुशकत्वात्। शोघ्रेणेश्वरापरोक्ष्यसिद्धिगुणलाभाच्च। अत आत्मत्वस्यैव सर्वोपास्यत्वादानंदादयः प्रधानस्येत्युक्तमयुक्तं चेदित्यासंकां पारेरत्सूत्रं पठति ॥

%॥ ॐ ॥ आत्मगृहीतिरितरवदुत्तरादिति ॥% अस्यार्थः ॥ यतः इतरवत् सत्यं ज्ञानादि (तै. 2-1.) वाक्ये सत्यादिपदैरन्येषां गुणानामिवात्मगृहीतिः आत्मैवेति वाक्येप्यात्मशब्देन चतुर्णां गुणानां ग्रहणं संभवति। कुतः। उत्तरात् अत्रह्येत (बृ. 3-4-7) इत्युत्तरवाक्याच्च। अतो न चतुर्गुणोपास्त्युक्तेस्तद्विरोध इत्यर्थः ॥

एवांचानंदादयश्चत्वारोऽप्युपास्या एव। आत्मशब्दस्य सत्यादिशब्दवदत्र ह्येते सर्व इत्युत्तरवाक्यबलाद्बव्हर्थकत्वेनानंदाद्यभिधायकत्वात्। अतो विरोधाभावादुक्तं युक्तमिति सिद्धं ॥

॥ इति आत्मगृहीत्यधिकरणं ॥

%10.अधिकरणं ॥%

अत्रात्मशब्दस्य पूर्वोक्तमनुपसंहारमानत्वमाक्षिप्य समाधीयते।

<3-3-18>
%(18) ॐ ॥ अन्वयादिति चेत्स्यादवधारणात् ॥ ॐ ॥%

ननु सर्वोपास्या गुणाः। नासाधारण्येनात्मशब्दोक्ताः। तस्य सर्वगुणाभिधायकत्वात्। ततश्च नास्यानुपसंहारप्रमाणत्वमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अन्वयादिति चेत्स्यादवधारणादिति ॥% अस्यार्थः ॥ नन्वात्मेति वाक्यस्यानुपसंहारमानत्वमयुक्तं। कुतः। अन्वयात्। आत्मशब्दे सर्वगुणानामन्वयात्। इति चेत् स्यात् यत्परोक्तं तत्तथास्यादेव। तथाऽपि नानुपपत्तिः। कुतः। अवधारणात् आत्मेत्येवेत्यवधारणात्। न चानिर्णयः। आत्मशब्दो हि ब्रह्मादीन्प्रत्येव सर्वगुणान्वदति नान्यान्प्रतीति निर्णयोपपत्तेरित्यर्थः ॥

एवंच सत्यमात्मशब्दः सर्वगुणाभिधायकः। तथाऽपि न सर्वन्प्रति। किं नाम तत्तद्योग्यतानुसारेण तांस्तान्प्रति गुणाभिधायकः। ततश्चात्मशब्देन यस्य यावंतो गुणाः प्रतिभासंते तेन तावंतो गुणा उपास्या इत्यामशब्दोक्त गुणानां सर्वोपास्यत्वादुक्तं युक्तमिति सिद्धं ॥

॥ इति अन्वयाधिकरणं ॥

%11.अधिकरणं ॥%

अत्रालौकिकगुणानामेवोपसंहार्यत्वं समर्थ्यते।

<3-3-19>
%(19) ॐ ॥ कार्याख्यानादपूर्वं ॥ ॐ ॥%

ननु भगवद्गुणा लौकिकत्वेनैव ध्यातव्याः। अन्यथाऽलौकिकानामननुभूतत्वात्। वासनाभावेन स्मृतिरूपध्यानात्रभावप्रसंगात्। कर्तव्यं च ध्यानं। अतो लौकिका एव भगवद्गुणा इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ कार्याख्यानादपूर्वमिति ॥% अस्यार्थः ॥ कार्याख्यानात् ध्यानकार्यस्य मोक्षस्यालौकिकत्वोक्तेः। अपूर्वं अलौकिकं गुणजातं। ध्यातव्यमित्यर्थः ॥

एवंचालौकिका एव भगवद्गुणा ध्यातव्याः। तत्ध्यानकार्यस्य मोक्षस्यालौकिकत्वात्। न चालौकिकगुणाप्रतीतेस्तत्ध्यानाभावप्रसंगः। लक्षणमुखेनेंद्रादिरिवोपदेशेन तत्प्रतीत्युपपत्तेः। अतोऽलौकिका एव ध्यातव्या इति युक्तं पूर्वोक्तं भगवद्गुणानामलौकिकत्वमिति सिद्धं ॥

॥ इति कार्याधिकरणं ॥

%12.अधिकरणं ॥%

अत्रोपासनस्य स्वसदृशफलप्रदत्वसिध्यर्थं ब्रह्माणीब्रह्मणोरुपासनस्य समविषमत्वं समर्थ्यते।

<3-3-20>
%(20) ॐ ॥ समान एवं चाभेदात् ॥ ॐ ॥%

ननु भगवदुपासनं न स्वानुसारिफलप्रदस्वभावं। ब्रह्माणीब्रह्मोपासने स्वानुसारिफलजनकत्वाभावात्। न हि यज्जातीयं यज्जनकं न भवति तज्जातीयं तज्जनकस्वभाववदिति क्यते वक्तुं। वेत्रबीजस्य कदलीकांडजननस्वाभाव्यापातात्। न च हेतोः समुचितदेशसिध्यभावः संकनीयः। तयोर्ह्युपासनं समं विषमं वा भवेत्। न तु समविषमं। विरुद्धत्वात्। फलं तु समविषमं। स्थानसाम्येऽपि गुणतारतम्यसद्भावात्। अत उपासनानुसारिफलनियमाभावादितरेत्वर्थसामान्यादित्युक्तमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ समान एवं चाभेदादिति ॥% अस्यार्थः ॥ एवं च एवमपि। ब्रह्मगुणानामलौकिकत्वेऽपि। वाण्याः समाने योग्यगुणविषय एवोपसंहारः न त्वयोग्यक्रियासु। तत्रत्वभेदात् अभेदमपेक्ष्य त्रिविक्रमत्वादिकादाचित्कक्रियास्तत्सजातीयनित्यविक्रांत्यादिष्वंतर्भाव्योपसंहारो भवे दित्यर्थः ॥

एवंचोपासनं स्वानुसारिफलप्रदमेव। ब्रह्माणीब्रह्मणोरुपासनत्वस्य समविषमत्वेन तयोरुपासनानुसारिफलस्यैवभावात्। तथा च यथोपासनं मुक्तौ फलसद्भावादुक्तं युक्तमिति सिद्धं ॥

<3-3-21>
%(21) ॐ ॥ संबंधादेवमन्यत्रापि ॥ ॐ ॥%

ननु न विरिंचस्यापि सदा त्रिविकमत्वादिविशेषक्रियोपसंहारो युज्यते। तासामनित्यत्वेन ध्यानकालेऽभावादित्याशंकां पराकुर्वंत्सूत्रमाह ॥

%॥ ॐ ॥ संबंधादेवमन्यत्रापीति ॥% अस्यार्थः ॥ हिरण्यगर्भस्य तु अन्यत्रापि त्रिविक्रमत्वादिक्रियाविशेषेऽपि। एवं सर्वदोपसंहारो युज्यते। कुतः। संबंधात् क्रियाणां ब्रह्मणा तादात्म्यरूपसंबंधेन नित्यत्वादित्यर्थः ॥

एवंच ब्रह्माणी हि ब्रह्मवत्सर्वान्गुणानुपसंहृत्येवोपास्ते। त्रिविक्रमादींस्तु नित्यविक्रांत्यादिक्रियास्वंतर्भाव्यैव न तु पृथक्। योग्यताविरहात्। ब्रह्मा तु त्रिविक्रमादींस्तु सदोपसंहृत्योपास्ते। त्रिविक्रमत्वादिरपि ब्रह्मस्वरूपत्वान्नित्य एव। अतो यथोपासनं मुक्तौ फलसद्भावादुक्तं युक्तमिति सिद्धं ॥

॥ इति समानाधिकरणं ॥

%13.अधिकरणं ॥%

अत्रात्मशब्दोक्तगुणोपासनस्य सर्वैः कर्तव्यत्वं समर्थ्यते।

<3-3-22>
% (22) ॐ ॥ न वा विशेषात् ॥ ॐ ॥%

ननु नात्मेत्येवोपासीतेति विधिः सर्वाधिकारिसाधारणः। अनंतगुणाभिधायकात्मशब्दघटितत्वात्। न चात्मशब्दस्योत्तमान्प्रति सर्वगुणाभिधायकत्वेऽपि तदितरान्प्रति तदभावेन तत्तद्योग्यगुणाभिधायकत्वादिति सर्वसाधारणमुपपन्नमिति वाच्यं। असंभवात्। न हि शब्दो बुद्धिमान्। येनोत्तमत्वाधिकारिविशेषं प्रति सर्वगुणान्बोधयित्वाऽनुत्तमत्वादपरं प्रत्यल्पानेव बोधयतीति स्यात्। ततश्चानुपसंहारप्रमाणत्वोक्तिरयुक्तेति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ न वा विशेषादिति ॥% अस्यार्थः ॥ आत्मेति वाक्यस्थात्मशब्देन सर्वगुणानां ग्रहणं न वाऽभ्युपगम्यते। कुतः। विशेषात् अधिकारियोग्यताविशेषमपेक्ष्य तस्य तद्योग्यगुणाभिधायकत्वादित्यर्थः ॥

एवंच विधिरयं सर्वाधिकारिसाधारणः। तांस्तान्प्रति तत्तद्योग्यगुणाभिधायकत्वात्। न चासंभवः। अधिकारमपेक्ष्य तत्त्वमस्यादिवाक्यस्य [छां. 6-8-7.] प्रमाऽप्रमाजनकत्ववत्सर्वगुणाभिधायकस्याप्यात्मशब्दस्य तद्योग्यतामपेक्ष्यैव गुणबोधकत्वसंभवात्। तस्मादात्मशब्दोक्तसर्वगुणानां सर्वोपास्यत्वमिति सिद्धं ॥

<3-3-23>
%(23) ॐ ॥ दर्शयति च ॥ ॐ ॥%

ननु चतुर्गुणोपासकस्याप्यात्मशब्दात्पंचगुणानमप्येवं बोधसंभवेन न प्रातिस्विकनियमायोगात्। उपासनानुपपत्तिरिति प्राप्ते विशेषादिति युक्तिसिद्धार्थं श्रुत्याऽपि समर्थयत्सूत्रं पठति ॥

%॥ ॐ ॥ दर्शयति चेति ॥% अस्यार्थः ॥ सर्वानिति (भाल्लवेय.) श्रुतिः स्वोक्तार्थं प्रतिपादयतीत्यर्थः ॥

एवंच यस्य युगपत्स्वभुजाविवात्मशब्देन यावंतो गुणाः प्रतीयंते तावंत एवोपास्या इति नियमसंभवात्। सर्वान् गुणानिति श्रुतेः। तस्मादात्मशब्दोक्तगुणानां सर्वोपास्यत्वादुक्तं युक्तमिति सिद्धं ॥

॥ इति न वाऽधिकरणं ॥

%14.अधिकरणं ॥%

अत्र संभृत्यादिगुणस्य सर्वोपास्यत्वं नेत्युच्यते।

<3-3-24>
%(24) ॐ ॥ संभृतिद्युव्याप्त्यपि चातः ॥ ॐ ॥%

ननु संभृतिद्युव्याप्ती सर्वेषां मनुष्यादीनामुपास्ये मुमुक्षुत्वात् देवादिवत्। तत्फलयोः स्वाधमफलभरणप्रकाशव्याप्त्योर्भाव्यत्वात्। न चैवं सर्वगुणोपास्तिप्रसंगः। तत्फलानिच्छुत्वात्। ततश्च चतुर्गुणोपासननियमभंग इति ॥ यद्वा ॥ देवादयो न संभृतिद्युव्याप्त्युपासनायोग्याः। प्रमाणाभावात्। न च मुमुक्षुत्वात्तदुपासनाधिकारसिद्धिरिति वाच्यं। यदि मुमुक्षुत्वाद्देवाः संभृत्याद्युपासनाधिकारिणः स्युस्तर्हि मनुष्या अपि तथा स्युरविशेषादिति तर्कबाधात्। अत एव न तत्फलेच्छुत्वाद्देवानामधिकारसिद्धिः। ततश्च देवानां मनुष्येभ्योऽतिशयासिद्धिरिति। एवं पूर्वपक्षद्विकप्राप्ते समादधत्सूत्रमाह ॥

%॥ ॐ ॥ संभृति द्युव्याप्त्यपि चात इति ॥% अस्यार्थः ॥ अपि पदेन नञः समाकर्षः। च शब्द एवार्थः। संभृतिद्युव्याप्ती सम्यग्भरणप्रकाशव्याप्ती। न सर्वस्योपास्ये। किंतु देवाद्युपास्ये एव। कुतः। अत एवाधिकारियोग्यतायां विशेषसद्भावादेवेत्यर्थः ॥

एवंच संभृतिद्युव्याप्ती न सर्वोपास्ये। मनुष्याणां तत उपासनायोग्यताविरहात्। न च मुक्तावपेक्षितप्रकाशाद्यसिद्धिः। भगवद्रूपप्रतीतिविषयीकृतप्रकाशादिनैव तत्सिद्धेः। ततश्च नोक्तचतुर्गुणोपासननियमभंगः ॥ यद्वा ॥ देवादयः संभृताद्युपासनावंतः। देवाधिकारेऽन्याधिकाराद्विशेषसद्भावात्। देवादीनामुपास्यास्तु संभृतिद्युपासनासद्भावान्नातिशयभंग इति सिद्धांतद्वयमुक्तं भवति ॥

॥ इति संभृत्यधिकरणं ॥

%15.अधिकरणं ॥%

अत्र सर्वविद्यातो गुणोपसंहारः कर्तव्य इति साध्यते।

<3-3-25>
%(25) ॐ ॥ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥ ॐ ॥%

ननु न विप्रकीर्णगुणोपसंहृतिः कार्या। प्रयोजनाभावात्। न च स्वयोग्यगुणोपासनायोपसंहृतिरिति वाच्यं। उत्तमानां बहुगुणाबिदायकैकविद्योक्तगुणोपसंहारमात्रेण मंदानामल्पगुणाभिधायकैकविद्योक्तगुणोपसंहारमात्रेणैव तत्सिद्धेः। अत उपसंहारवैयर्थ्यान्न सर्वज्ञानोपयोग इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ पुरुषविद्यायामपि चेतरेषामनान्मानादिति ॥% अस्यार्थः ॥ पुरुषविद्यायामपि सर्वविद्योत्तमत्वेन प्रतिज्ञातायामपि। पुरुषसूक्ताख्यविद्यायां केषांचिदेवोक्तत्वादितरेषां तत्रोक्तेभ्योऽन्येषां च गुणानामनाम्नानात्। कर्तव्य एव सर्वविद्यागुणोपसंहार इत्यर्थः ॥

एवंच कार्या एव विप्रकीर्णगुणोपसंहृतिः। सर्वगुणोपासकानामुत्तमानां भावात्। सर्वोत्तमायामपि पुरुषसूक्ताख्यविद्यायां सर्वगुणानामनाम्नानात्। मंदापेक्षितनामप्येकत्रोक्तिनियमाभावाच्च। अतो सर्वतो गुणोपसंहारस्य कर्तव्यत्वादुक्तं युक्तमिति सिद्धं ॥

॥ इति पुरुषाधिकरणं ॥

%16.अधिकरणं ॥%

अत्र भेदनादिगुणानां सर्वोपास्यत्वं निरस्यते।

<3-3-26>
%(26) ॐ ॥ वेधाद्यर्थभेदात् ॥ ॐ ॥%

नन्वग्ने त्वचं यातुधानस्य भिंधीत्यादिनोक्ता [ऋ. 10-87-4,5.] भेदनादिगुणाः सर्वोपास्याः। तत्फलस्य दुष्टनिग्रहस्य सर्वापेक्षितत्वात्। अतो वेधादीनां सर्वोपास्यत्वान्न चतुर्गुणोपासननियम इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ वेधाद्यर्थभेदादिति ॥% अस्यार्थः ॥ अर्थभेदात् वेधाद्युपासफलस्य हिंसादेर्यत्यादियोग्यफलाद्विलक्षणत्वात् वेधादि भिंधि वित्वि शृणीही(बृहत्तंत्रे)त्युक्तवेधादिकं न सर्वोपास्यमित्यर्थः ॥

एवंच नवेधादयः सर्वोपास्याः। तत्फले भेदनादौ यत्यादीनामनधिकारात्। अतो वेधादीनां सर्वोपास्यत्वाभावान्नाभिहितनियमो भज्यत इति सिद्धं ॥

॥ इति वेधाधिकरणं ॥

%17.अधिकरणं ॥%

अत्रोपासनस्य मुक्तावप्यनुवृत्तिः समर्थ्यते।

<3-3-27>
%(27) ॐ ॥ हानौ तूपायनशब्दशेषत्वात्कुशाच्छंदस्तुत्युपगानवत्तदुक्तं ॥ ॐ ॥%

ननु न मुक्तेनोपासना क्रियते। मुक्तस्योपासनविध्यंगीकारे फलप्राप्तिप्रसंगात्। मुक्तत्वाभावप्रसंगाच्च। तदनंगीकारे च प्राप्तव्यफलप्रसंगात्। प्राप्तव्यमंतरापेक्षावत्प्रवृत्यनुपपत्तेः। ततश्च सोपाधिकमेवोपासनमिति मुक्तिसाधनत्वादेवोपासनं कार्यं न तूपासने आदरातिशय इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ हानौ तूपायनशब्दशेषत्वात्कुशाच्छंदस्त्युत्युपगानवत्तदुक्तमिति ॥% अस्यार्थाः ॥ तुरवधारणे यतः हानौ बंधहानिरूपमुक्तौ। तदुक्तं मुक्तानामेतत्सामेति (तै. 3-10.) श्रुता वुपासनमुक्तं। अतो मोक्षेऽपि तेषामुपासनमस्त्येव। तदपि कशाच्छंदस्तुत्युपगानवदेव न विधितः। यथा नियतब्रह्मयज्ञानां नियतसंध्योपासनानंतरमपि कुशैराच्छंदेन स्वेच्छयैव स्तुत्युपगान इवोभयत्र नाम्नोरध्ययनं। तथा स्वेच्छयैव न विधितः। कुतः। उपायनशब्दशेषत्वात्। उपायनं मोक्षः। उपासनविधीनां मोक्षवाक्यशेषत्वादित्यर्थः। तथा च मोक्षार्थोपासनाविधयः कथं तत्रापि ता विदध्युरित्यर्थः ॥

एवंचानुष्ठेयमेव मुक्तावुपासनं। एतत्सामेति वचनात्। न च विधिबद्धत्वेन संसारसमानधर्मत्वं मुक्तेः। विनाऽपि विधिं स्वेच्छयैवोपासनमित्यंगीकारात्। दृश्यते च नियतब्रह्मयज्ञशब्दस्वाध्यायानंतरमपि स्वेच्छयैव कुशैराच्छादनेनैव द्विजन्मनामध्ययनादि। अत उक्तं युक्तमिति सिद्धं ॥

<3-3-28>
%(28) ॐ ॥ सांपराये तर्तव्याभावात्तथा ह्यन्ये ॥ ॐ ॥%

ननु मुक्तस्योपासनं न स्वेच्छया किंतु मोक्षे तदा तदा प्राप्तानिष्टपरिहारार्थमेव। कस्यापि निष्फलप्रवृत्तेरदर्शनादित्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ सांपराये तर्तव्याभावात्तथा ह्यन्य इति ॥% अस्यार्थः ॥ सांपराये मोक्षे। उपासनं स्वेच्छयैवेत्यंगीकार्यं। नत्वनिष्टनिवृत्त्यर्थं। कुतः। तर्तव्याभावात्। मुक्तैः परिहर्तव्यानिष्टस्यैवाभावात्। तदपि कुतः। हि यस्मात्। अन्ये शाकिनः तथा तीर्णोहीति (बृ. 6-3-22.) श्रुतिं पठंति। तस्मादित्यर्थः ॥

एवंच सांपराये तर्तव्याभावात्। अपि च मुक्तैर्योगाद्यप्यनुष्ठीयते। किमुतोपासनं। कृष्णौ मुक्तैरिति भारतवचनात्। अतो मुक्तावप्युपासनानुवृत्तैर्निरूपाधिकं तत्संसारे कर्तव्यमिति सिद्धं ॥

॥ इति हान्यधिकरणं ॥

%18.अधिकरणं ॥%

अत्र मुक्तानां कर्मणि नियमाभावः समर्थ्यते।

<3-3-29>
%(29) ॐ ॥ छंदत उभयाविरोधात् ॥ ॐ ॥%

ननु मुक्ता नियमेनानुष्ठानवंतः। विष्णुपूजात्मकत्वात्कर्मणि शक्तत्वाच्च तेषां। अन्यथा नियमेनोपासनमपि न ते कुर्युः। अविशेषात्। अतो मुक्तानां कर्मोपासनयोः साम्यात्प्राक् न कर्मणोऽतिशयोपासनं कार्यमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ छंदत उभयाविरोधादिति ॥% अस्यार्थः ॥ मुक्ताः छंदतः स्वेच्छामनुसृत्यैव कर्म कुर्वंति न विधितः। कुतः। उभयाविरोधात्। कर्मकरणाकरणयोः विधिबंधप्रत्यवाययोः अभावादित्यर्थः ॥

एवंच न मुक्तानां कर्मणि नियमः। अपि तु स्वेच्छया कदाचित्कुर्वंति कदाचिन्न कुर्वंति। नियमेनानुष्ठानप्रयोजकयोर्विधिबंधप्रत्यवाययोराभावात्। अतो मुक्तस्य कर्मनियमाभावात्संसारेप्युपासनमाधिक्येन कर्तव्यमिति सिद्धं ॥

<3-3-30>
%(30) ॐ ॥ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ ॐ ॥%

ननु मुक्तानां विधिबंधप्रत्यवायाभाव एव कुतो येन कर्मण्यनियम इत्यतः समादधत्सूत्रमाह ॥

%॥ ॐ ॥ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोध इति ॥% अस्यार्थः ॥ हिर्हेतौ। उभयथा हि बंधप्रत्यवाययोरभावादेव। गतेः मुक्तेः। पुरुषार्थत्वं। अन्यथा मुक्तौ बंधप्रत्यवाययोर्भावे। विरोधः मुक्तेः संसारसमत्वेनापुरुषार्थत्वरूपविरोधः स्यादित्यर्थः ॥

एवंच मुक्तेः कर्मनियमाभावांगीकार एव मुक्तेः पुरुषार्थत्वादन्यथा तन्न स्यात्। अतः संसारेप्युपासनमाधिक्येन कार्यमिति सिद्धं ॥

<3-3-31>
%(31) ॐ ॥ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ॐ ॥%

ननु विध्याद्यभावो मुक्तानां कर्मनियमसंभावनायैव भवति। न तूपपादनाय। ईश्वरकर्मणि व्यभिचारात्। अत उपपादकाभावादनुपपन्न एवासौ नियम इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवदिति ॥% अस्यार्थः ॥ यथा लोके यागांगविष्णुक्रमणस्य क्रियानुष्ठाननियमः न यागसंपूर्त्त्यनंतरमपि अस्ति। किंतु कदाचिदेव। तथा मुक्तानां कदाचित्कर्म कुर्वंति न वेत्येवं तावदुपपन्नः युक्तः। कुत एतत्। तल्लक्षणार्थोपलब्धेः तल्लक्षणस्य परंपरया कर्मसाध्यस्यार्थस्य मोक्षस्य। उपलब्धेः प्राप्तत्वादित्यर्थः ॥

एवंचोपपन्न एव स्वेच्छया कदाचित्कर्म कुर्वंति कदाचिन्नेत्येवं भावः। तत्फलस्य मोक्षस्य प्राप्तत्वात्। तत्फलस्य च प्राप्त्यनंतरमप्रवर्तकत्वात्। यथा लोके यागपूर्तिलक्षणफलस्य यागपूर्त्यनंतरं विष्णुक्रमणादौ न प्रवर्तकत्वं किंत्विच्छयैव प्रवर्तकत्वं। अत्र प्रयोगः। मुक्ता न कर्मानुष्ठाननियमवंतः। विशेषहेत्वभावे सति प्राप्ततत्फलत्वात्। यजमानवदिति। अतो मुक्तस्य कर्मनियमाभावेन संसारेप्युपासनमाधिक्येन कार्यमिति सिद्धं ॥

॥ इति छंदाधिकरणं ॥

%19.अधिकरणं ॥%

अत्रोपासनोत्पन्नब्रह्मज्ञानानां सर्वेषां मोक्षनैयत्यं साध्यते।

<3-3-32>
%(32) ॐ ॥ अनियमः सर्वेषामविरोदाच्छब्दानुमानाभ्यां ॥ ॐ ॥%

ननु न सर्वेषां ज्ञानिनां मोक्षः। केषांचित्ज्ञानिनां स्वोत्तमद्रोहशापाभ्यामयोग्यतोत्पादात्। न ह्ययोग्यानां तत्प्राप्तिः संभवति। तथा सत्ययोग्यानामपि सर्वगुणोपसंहारप्रसंगात्। अतः सर्वेषां ज्ञानिनां मोक्षाभावेन न निःशंकोपासनं कर्तव्यमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अनियमः सर्वेषामविरोधाच्छब्दानुमानाभ्यामिति ॥% अस्यार्थः ॥ अनियमः अपरोक्षज्ञानिनां मध्ये केषांचिन्मोक्षः केषांचिन्नेत्येवंरूपव्यवस्थाऽभावो ज्ञायते। कुतः। सर्वेषामपि मोक्षे। अविरोधात् निषेधकाभावात्। किंच शब्दानुमानाभ्यां न कश्चिदिति श्रुतेः (कौंडिन्य.) तन्मूलकानुमानाच्चेत्यर्थः ॥

एवंचात्स्येव सर्वेषां ज्ञानिनां मोक्षः। केषांचिदेव मोक्षो न सर्वेषामिति वदन् प्रष्टव्यः। किं बाधकसद्भावान्न सर्वेषां मोक्ष उत साधकाभावात्। नाद्यः। तदभावात्। न चायोग्यतोत्पादको बाधकः। ये ज्ञानविषया इति वचनादयोग्यतोत्पादानंगीकारात्। न द्वितीयः। न कश्चिदिति श्रुतिविरोधापत्तेः। विप्रतिपन्ना ज्ञानिनो मोक्षवंतः ज्ञानित्वात्संमतवदित्यनुमानाच्च। बाधकाभावेन श्रुतिमूलकत्वेन चोपसंहारानुमानाबाधात्। अतो ज्ञानिनां मोक्षस्य नियतत्वान्निःशंकमुपासनं कार्यमिति सिद्धं ॥

॥ इति अनियमाधिकरणं ॥

%20.अधिकरणं ॥%

अत्रोपासनेऽधिकारनियमः समर्थ्यते।

<3-3-33>
%(33) ॐ ॥ यावदधिकारमवस्थितिराधिकारिकाणां ॥%

ननु नोपासनावंतोऽधिकारनियमवंतः। प्रमाणाभावात्। न च मुक्तावानंदतारतम्यान्यथानुपपत्तिः प्रमाणं। तारतम्यप्रामाणिकत्वेप्युपासनाप्रयत्नतारतम्येनैवान्यथासिद्धेः। अत उपात्स्यधिकारनियमाभावेनेति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ यावदधिकारमवस्थितिराधिकारिकाणामिति ॥% अस्यार्थः ॥ आधिकारिकाणां योग्यतानुसार्युपासनशीलानां ब्रह्मादीनां स्वस्वाधिकारानुसारेणैव मुक्तौ। अवस्थितिः अवस्थितानामुपासनावत्तारतम्येनैव मुक्तौ तेषां फलमित्यर्थः ॥

एवंचात्स्येव नियमः। अयमेतद्गुणोपासने योग्योऽयं नेति तेन विना श्रुत्युक्तानंदतारतम्यकथनस्याप्ययोगात्। प्रयत्नतारतम्यस्यापि योग्यतातारतम्याधीनत्वात्। अधिकाराधिको यत्न इति वचनात्। ततश्चोपासनाधिकारे नियमादुक्तं युक्तमिति सिद्धं ॥

<3-3-34>
%(34) ॐ ॥ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तं ॥ ॐ ॥%

ननु मुक्तावानंदतारतम्यमेव नोपपद्यते। असमत्वे मुक्तानां परस्परविरोधप्राप्तेः। लोके तथा दर्शनात्। तारतम्यश्रुतीनां तु संसारविषयत्वात्। तदंगीकारे मुक्तौ द्वेषेर्ष्यादिप्रसक्तेश्च। अत उपात्स्यधिकारनियमाभावेन प्राप्तेश्च समंजसमित्याद्ययुक्तमिति प्राप्ते सिद्धांतितं ॥

%॥ ॐ ॥ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तमिति ॥% अस्यार्थः ॥ तु शब्दोऽप्यर्थः। अक्षरधियां ब्रह्मज्ञानिनां। विषमत्वेप्यविरोधः विरोधो नास्ति। कुतः। ब्रह्मधीत्वात्। किंच सामान्यतद्भावाभ्यां सर्वेषां दोषाभावात् उत्तमेभ्यः अधमानां उपकाराभावाच्च। कथं। औपसदवत् सच्छिष्यवत्। किंच तदुक्तं। तत् असमत्वेऽपि विरोधो नास्तीत्येतन्नानेति तुरश्रुतावुक्तमतोऽप्यविरोध इत्यर्थः ॥

एवंच विरोधाप्रसंगात्। विरोधे हि विषयलंपट्यां मात्सर्यादयोऽनुपकारित्वं च हेतवः। न च मुक्तेषु संभवंति। ब्रह्मधीत्वात्। निर्दोषत्वाच्च। अनुपकारित्वमपि नास्तीति प्रतियोगिसत्वस्य प्रमाणसिद्धत्वात्। तस्मादुपासनाधिकारे नियमादुक्तं युक्तमिति सिद्धं ॥

॥ इति यावदधिकरणं ॥

%21.अधिकरणं ॥%

अत्रोपासनाधिकारिणां प्राणावसानत्वं समर्थ्यते।

<3-3-35>
%(35) ॐ ॥ इयदामननात् ॥ ॐ ॥%

ननु नाधिकारिणः प्राणावसानाः। प्राणः स्वोत्तमाधिकारिनियम्यः। अधिकारित्वात्। नामादिवत्। इत्यनुमानविरोधात्। अतोऽधिकारिणां प्राणावसानात्वाभावेन हिरण्यगर्भ एव सर्वगुणोपास्तियोग्य इत्युक्तमयुक्तमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ इयदामननादिति ॥% अस्यार्थः ॥ अधिकारितारतम्यं इयदेव प्राणावधिकमेव। कुतः। आमननात्। प्राणो वावेति (कौंठरव्य.) श्रुतेरित्यर्थः ॥

एवंच प्राणावसानत्वमेवाधिकारिणः। निर्दिष्टश्रुतेः। अनुमानस्य च बाधितविषयत्वेन बाधाभावात्। ततश्चाधिकारिणां प्राणावसानत्वेन स एव सर्वगुणोपास्तियोग्य इति सिद्धं ॥

<3-3-36>
%(36) ॐ ॥ अंतरा भूतग्रामवदिति चेत्तदुक्तं ॥ ॐ ॥%

उक्तमाक्षिप्य समादधत्सूत्रं पठति ॥

%॥ ॐ ॥ अंतरा भूतग्रामवदिति चेत्तदुक्तमिति ॥% अस्यार्थः ॥ भूतग्रामवत् यथा नामादिप्राणसमूहे एकस्भादेक उत्तमो दृष्टः। तथा अंतरा परमात्मानं श्रियं च विना प्राणादुत्तमोस्त्विति चेन्नेति शेषः। यतस्तदुक्तं। तत्र प्राणादुत्तमाभावे। नहीति (कौंठरव्य.) प्रमाणमुक्तं। अत इत्यर्थः ॥

एवंचोक्तानुमानस्य प्राणो वावेति श्रुतिबाधितत्वेनाविरोधात्। अत उक्तं युक्तमिति सिद्धं ॥

<3-3-37>
%(37) ॐ ॥ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥ ॐ ॥%

ननु प्राणो वावेति श्रुतिबलेन न प्राणस्य सर्वोत्तमत्वं वक्तुं शक्यं। तथा सतीश्वरद्वयायोगेन प्राण परमात्मनोरैक्यप्रसंगादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवदिति ॥% अस्यार्थः ॥ अन्यथा प्राणादप्युत्तमत्वाभावे। प्राणपरमात्मनोर्भेदानुपपत्तिरिति चेन्न। कुतः। यतः उपदेशवत् यथा श्रुतावुक्तं तथांऽगीक्रियते। अतो नोक्तदोष इत्यर्थः ॥

एवंच छंदोगश्रुत्युक्तप्रकारेण सर्वशब्दस्य संकोचमंगीकृत्य प्राणस्य सर्वाधिकार्युत्तमत्वं ततो महालक्ष्म्यास्ततः परमात्मन उत्तमत्वांगीकारात्। अतोऽधिकारिणां प्राणावसानत्वेन स एव सर्वगुणोपास्तियोग्य इति सिद्धं ॥

॥ इति इयदामननाधिकरणं ॥

%22.अधिकरणं ॥%

अत्रोपासनाधिकारिणः प्राणात्परमेश्वरस्योत्तमत्वं प्रसाध्यते।

<3-3-38>
%(38) ॐ ॥ व्यतिहारो विशिंषंति हीतरवत् ॥ ॐ ॥%

ननु न विष्णोः सर्वोत्तमत्वं युक्तं। प्राणस्योत्तमत्वमुक्त्वा तदुत्तमत्वानभिधानात्। न हि सत्यपि प्राणादुत्तमेतदनभिधाने कारणमस्ति। येनानुक्तिमगण्य्य प्राणादुत्तमत्वं विष्णोः प्रतीमः। न च सत्यपदोदितस्य विष्णोः प्राणादुत्तमत्वं युक्तमिति वाच्यं। प्रकरणभेदकाभावेन सत्यत्वस्य प्राणविशेषणत्वात्। ततश्च न विष्णोः सर्वोपास्यत्वमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ व्यतिहारो विशिंषंति हीतरवदिति ॥% अस्यार्थः ॥ व्यतिहारः प्राणप्रकरणादनंतरं विष्णोः प्रकरणात् प्राक् प्रश्नप्रतिवचनयोरध्याहारः कार्यः। कुतः। हि यस्मात्। इतरवत् नामादितो वागादिकमिवप्राणवादिनः सकाशात् सत्याख्यविष्णुवादिनः छंदोगा एष तु वेति (छां. 7-16.) तु शब्देन विशिंषंति व्यावर्तयंति। तस्मादित्यर्थः ॥

एवंच युक्तमेव विष्णोः सर्वोत्तमत्वं। न च नामादाविव प्रश्नप्रतिवचनाभावात्प्राणादुत्तमाभावे तात्पर्यमिति वाच्यं। प्रायपाठबलेन प्रश्नप्रतिवचनस्यानुमातुं शक्यत्वात्। न च प्रकरणभेदकाभावान्न प्रश्नप्रतिवचनाध्याहार इति वाच्यं। तु शब्दस्य प्रकरणभेदकस्य सद्भावात्। ततश्च प्रश्नप्रतिवचनसंधानपूर्वकं मंत्रद्रष्ट्रा विष्णोः प्राणादुत्तमत्वस्योक्तत्वात्तस्य सर्वोपास्यत्वं युक्तमिति सिद्धं ॥

॥ इति व्यतिहाराधिकरणं ॥

%23.अधिकरणं ॥%

अत्र प्राणाद्विष्णोरेवोत्तमत्वं साध्यते।

<3-3-39>
%(39) ॐ ॥ सैव हि सत्यादयः ॥%

ननु न केवलं प्राणात्सत्यपदोक्तो विष्णुरेवोत्तमः। अपि तु बहवः। सत्यादप्युपरि विज्ञानमिति श्रद्धानिष्ठाकृतिसुखभूमाहंकारात्मनामुक्तत्वात्। सत्यादीनामभेदे प्रमाणाभावात्। अतः प्राणादपि बहूनामुत्तमत्वात्तस्य विष्णुं विना सर्वोत्तमत्वं विष्णोर्निरुपचरितसर्वोत्तमत्वं न युक्तमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ सैव हि सत्यादय इति ॥% अस्यार्थः ॥ हि यस्मात्। सत्याद्याः अह मात्मांता पदार्थाः। सैव ईश्वराख्य परदेवतैव। तस्मात्प्राणाधिकाः बहवः न। किंतु श्रीस्तदीशावेवेत्यर्थः ॥

एवंच सत्यादीनां सर्वेषां परदेवतात्वात्। न चाभेदोक्त्यभावः। सत्यमिति प्रश्ने यथा वै इति तद्‌व्याप्तार्थांतरोपदेशस्य कथमप्ययोगेन विज्ञानस्य सत्यगुणत्वाभिधायकत्वात्। गुणस्य च गुण्यभिन्नत्वात्। स वा एष [छां. 7-15-4.] इत्यादिनाऽहंकारात्मज्ञानान्मोक्षाभिधानात्। स एवाधास्तादिति पूर्णत्वाभिधानाच्च। किंच सर्वेषां सत्यादीनां श्रुत्यंतरे सत्यं पूर्णमित्यादिना पूर्णत्वस्य भगवल्लक्षणत्वोक्त्या ततोऽपि सर्वेषां तदैक्यं। अतः सत्यादीनामात्मांतानां भगवत्स्वरूपत्वेन स एव प्राणादुत्तम इत्युक्तमुपपन्नमिति सिद्धं ॥

॥ इति सत्याधिकरणं ॥

%24.अधिकरणं ॥%

अत्र श्रिय उपासनानधिकारित्वं साध्यते।

<3-3-40>
%(40) ॐ ॥ कामादितरत्र तत्र चायतनादिभ्यः ॥ ॐ ॥%

ननु भवत्येव प्रकृतिरधिकारिणी। न च नामादिष्वपठितत्वादिति वाच्यं। असिद्धेः। न च श्रवणप्रसंगः। अनुच्चारितमेव तद्वाक्यं ऋष्यभिप्रेतमस्तीत्यंगीकारात्। न च संसारित्वासिद्धिः। सीतारुग्मिण्यदिर्जननमरणादिदर्शनेन तत्सिद्धेः। ततश्च नाधिकारिणां प्राणावसानत्वमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ कामादितरत्र तत्र चायतनादिभ्य इति ॥% अस्यार्थः ॥ लक्ष्मीः तत्र भगवत्समीपे स्थिता सती। इतरत्रच भूम्यादावपि। कामात् ईश्वरेच्छयैवावतारान्करोति। कुतः। आयतनादिभ्यः सर्वगतत्वप्रतिपादक सर्वायतनेत्यादिश्रुत्यादिब्य इत्यर्थः ॥

एवंच प्रकृतिर्नाधिकारिणी। अबद्धत्वात्। न च जननादिना तत्सिद्धिः। सीतारुग्मिण्यादेः प्रादुर्भूतत्वेनोत्पत्तेरभावात्। सर्वायतना सर्वकालेति वत्सश्रुतेः। अतः प्रकृतेरधिकारित्वाभावाद्युक्तं प्राणावसानत्वमिति सिद्धं ॥

<3-3-41>
%(41) ॐ ॥ आदरादलोपः ॥ ॐ ॥%

ननु रमाया असंसारित्वे कृतकृत्यत्वेन भगवदुपासनाद्यभावः स्यात्। न चासौ युक्तः। यदर्चितं ब्रह्मेत्यादिप्रमाणविरुद्धत्वात्। आत्रार्चितमुपासितं पूजितं चेत्युक्तेरित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ आदरादलोप इति ॥% अस्यार्थः ॥ आदरात् भगवति निरुपाधिकभक्त्यतिशयात्। अलोपः श्रियो भगवदुपासनाभावो नेत्यर्थः ॥

एवंच श्रीर्नित्यमुक्ताऽबद्धाऽपि निरुपाधिकसर्वातिशयितभक्तिवशान्नियमेन तस्या भगवदुपासनोपपत्तेः। यथा श्रीरिति [बृहत्तंत्रं.] वचनात्। अत उक्तं युक्तमिति सिद्धं ॥

<3-3-42>
%(42) ॐ ॥ उपस्थितेस्तद्वचनात् ॥ ॐ ॥%

ननु न रमाया नित्यमुक्तत्वं युक्तं। कारणाभावात्। न च स्वत एव तत्। तस्या अस्वातंत्र्यादिति प्राप्ते परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ उपस्थितेस्तद्वचनादिति ॥% अस्यार्थः ॥ श्रियो नित्यमुक्तत्वं युज्यते। कुतः। उपस्थितेः हरिसमीपे सदा स्थितेः। श्रियो नित्यसमीपस्थत्वं च। तद्वचनात् द्वावेताविति (गौपवचनश्रुतिः) नित्यसंबंधित्ववचनात्। ज्ञायत इत्यर्थः ॥

एवंच द्वाविति श्रुतिवचनाद्रमायाः समीपस्थितेः सिद्धत्वात्। अतिशयितभगवत्प्रसादाख्यकारणसद्भावात्। अतस्तस्या नित्यमुक्तत्वेनाधिकारिकत्वाभावाद्युक्तं प्राणावसानत्वमिति सिद्धं ॥

॥ इति कामाधिकरणं ॥

%25.अधिकरणं ॥%

अत्र श्रवणमनननिदिध्यासनरूपस्य समस्तस्याप्युपासनस्य कर्तव्यत्वं समर्थ्यते।

<3-3-43>
%(43) ॐ ॥ तन्निर्धारणार्थनियमस्तदृष्टेः पृथग्घ्यप्रतिबंधः फलं ॥ ॐ ॥%

ननु श्रवणमनने एव कार्ये। ताभ्यामेवाज्ञानसंशयविपर्यनिवृत्तौ स्वकारणादेव दर्शनसंभवात्। अथोच्येत। अज्ञानप्रतिबंधकानां दृढत्वात्ध्यानेनैव प्रतिबंधकनिवृत्तिरिति। तर्हि ध्यानेनैव ज्ञानमस्तु। न ज्ञानार्थं श्रवणमनने। न च समुचितानां ज्ञानहेतुत्वे मानमस्ति। न च ज्ञानोत्पादे श्रवणमननयोरुपयोगोऽस्ति। अतः समस्तोपासनस्यावश्याकर्तव्यत्वेन तद्विधानवैयर्थ्यमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्घ्यप्रतिबंधः फलमिति ॥% अस्यार्थः ॥ यतस्तन्नर्धारणार्थनियमः वेदार्थनिश्चयो वेदार्थनियमश्चेत्येतद्रूपं। श्रवणमननफलं ध्यानफलभूतायाः। तद्दृष्टेः ब्रह्मदर्शनात्। पृथगेन भिन्नमेव। अतो न ब्रह्मदृष्टिः श्रवणादिना भवतीत्यर्थः। तथापि न श्रवणमननवैयर्थ्यं। कुतः। हि यस्मात्। अप्रतिबंधः ब्रह्मदृष्टिप्रतिबंधकनिवृत्तिः। तन्नश्चयः तन्नियमद्वारा श्रवणमननयोः फलं। अतो ध्यानसाध्यापि दृष्टिः प्रतिबंधकनिवृत्तिद्वारा श्रवणादिसाध्या भवति। तदर्थं श्रवणादिकमपि कार्यमेवेत्यर्थः। हि शब्देन आत्मा वाऽर इति (बृ. 4-4-5.) श्रुतिः सूचिता ॥

एवंच कर्तव्यमेव समस्तोपासनं। न श्रवणमननमात्रं। तयोस्तत्त्वज्ञानवेदार्थनिर्णयरूपदर्शनातिरिक्तफलहेतुत्वेनदर्शनहेतुत्वाभावात्। ध्यानस्य च दर्शनहेतुत्वेनावश्यकत्वात्। न चैवं श्रवणमननाभावप्रसंगः। तयोः साक्षाद्दर्शनहेतुत्वाभावेऽपि प्रतिबंधकीभूताज्ञानसंशयविपर्ययनिवृत्तिद्वारा दर्शनोपयोगित्वेनावश्यकत्वात्। न च तत्र प्रमाणाभावः। दर्शनार्थ श्रोतव्य इति विहितत्वात्। श्रुत्वा मत्वेति [ब्रह्मतर्के.] स्मृतेश्च। अतः समस्तोपासनस्य कर्तव्यत्वाद्युक्तं तद्विधानमिति सिद्धं ॥

॥ इति निर्धारणाधिकरणं ॥

%23.अधिकरणं ॥%

अत्र भगवत्ज्ञानसाधनश्रवणाद्युपासनस्य सेतिकर्तव्यताकत्वं साध्यते।

<3-3-44>
%(44) ॐ ॥ प्रदानवदेव हि तदुक्तं ॥ ॐ ॥%

ननु श्रवणादिकमेव ज्ञानसाधनं। न गुरुप्रदानपूर्वकं। आत्मावेति श्रुतौ श्रवणादीनामेव ज्ञानत्वाभिधानात्। न हि श्रवणादित्रयमुक्त्वाविशिष्यगुरुप्रदानस्यानुक्तौ कारणमस्ति। किंच गुरुप्रसादस्य श्रवणाद्यंगत्वेऽनुष्ठितश्रवणादेरपि गुरुकोपेन ज्ञानाभावः स्यात्। तथा च जातापरोक्षस्य मोक्षाभावः स्यादविशेषादिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ प्रदानवदेव हि तदुक्तमिति ॥% अस्यार्थः ॥ प्रदानवत् प्रीतिपूर्वकं गुरुपदेशयुक्तमेव श्रवणादिकं ज्ञानसाधनं न केवलं। कुतः। हि यतः। तदुक्तं तस्य ज्ञानस्य गुरुप्रसादार्धानत्वं आचार्यवानिति (छां. 6-14-2.) श्रुतावुक्तमत इत्यर्थः ॥

एवंच गुरुप्रदानयुक्तमेव श्रवणादिकं मोक्षसाधनं। आचार्यवान्पुरुषो वेदेति वचनात्। न चात्मावेति श्रुतौ श्रवणादेरिव गुरुप्रदानस्याप्युक्तिप्रसंगः। गुरुप्रदानस्य श्रवणाद्यंगत्वेन तत्समकक्षित्वाभावात्। न चानुष्ठितश्रवणादेरपि ज्ञानाभावो ज्ञानिनोऽपि मोक्षाभावो गुरुकोपेन स्यादिति वाच्यं। तत्ज्ञानमोक्षयोरीश्वरकल्पितत्वात्। न चैवं गुरुशापो विफलः। ज्ञानादिह्रासहेतुत्वात्। ज्ञानिनो गुरुशापोपीति ये ज्ञानविषया इति चोक्तेः। अतो गुरुप्रदानस्यावश्यकत्वाद्युक्तमेव श्रवणादिकं कर्तव्यमिति सिद्धं ॥

॥ इति प्रदानाधिकरणं ॥

%27.अधिकरणं ॥%

अत्रेतिकर्तव्यतारूपगुरुप्रसादस्य बलीयस्त्वं समर्थ्यते।

<3-3-45>
%(45) ॐ ॥ लिंगभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ॐ ॥%

ननु विशिष्टशिष्यप्रयत्न एव बलवान्। प्रधानत्वात्। न गुरुप्रसादः। इतिकर्तव्यतारूपत्वात्। माभूद्वाऽऽधिक्यं साम्यं तु स्यात्। न शिष्यप्रयत्नस्य दौर्बल्यं। गुरुशिष्ययोः। पुरुषत्वसाम्यात्। अतो गुरुप्रसादस्याप्राबल्यान्नावश्यकत्वमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ लिंगभूयस्त्वात्तद्धि बलीयस्तदपीति ॥% अस्यार्थः ॥ तत् गुरुप्रसादपूर्वकप्रदानमात्रं। बलीयः अतिशयेन बलवत्। कुतः। लिंगभूयस्त्वात् वृषभहंसजलवायसरूपेभ्यो वाय्वग्निवरुणेभ्यो श्रुतविद्येनापि सत्यकामेन गुरुप्रदानादिरूपलिंगबाहुल्यदर्शनात् तथाऽपि तदपि श्रवणादिकमपि कार्यं। कुतः। श्रेतव्य इति (बृ. 4-4-5.) श्रुतेरित्यर्थः। हि शब्दः श्रुतिसूचकः ॥

एवंच गुरुप्रसादो बलवानेव न दुर्बलः। नापि समः। लिंगभूयस्त्वात्। दौर्बल्यमनुमातुं न शक्यं। न च गुरुप्रसादस्य प्राबल्याभावे तद्युज्यते न चेतिकर्तव्यतात्वाद्दौर्बल्यमनुमातुं शक्यं। लिंगभूयस्त्वेन बाधितविषयत्वात्। तथोपकोसलोप्यग्न्यादिभ्यो विद्यां श्रुत्वाऽपि गुरुं प्रार्थयते। तथा ऋषभादिभ्यो विद्यां श्रुत्वाऽपि सत्यकामो गुरुं प्रार्थयते। यागीयहिंसांगे तु व्यभिचाराच्च। न च तावताऽलमिति नं मंतव्यं। अपि वाऽऽत्मेति वचनेन तस्यानुष्ठेयत्वात्। अतो गुरुप्रसादपूर्वकं प्रदानस्य प्राबल्यात्तदपेक्षितमिति सिद्धं ॥

॥ इति लिंगभूयस्त्वाधिकरणं ॥

%28.अधिकरणं ॥%

अत्र पूर्वप्राप्तादन्योऽपि गुरुः स्वीकार्य एवेति समर्थ्यते।

<3-3-46>
%(46) ॐ ॥ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत ॥ ॐ ॥%

ननु प्रथम प्राप्त एव गुरुः स्वीकार्यो न तु तत्परित्यागेनान्यः। परित्याग कारणीभूतपातित्यादिदोषाभावात्। न च प्रथमप्राप्तगुर्वसाध्यफललाभायान्यः स्वीकार्य इति वाच्यं। गुरुस्वीकार्येणैव तदुपपत्तेः। न हि गुरुस्वीकारस्यासाध्यं नास्ति येनान्यः स्वीकार्यः स्यात्। अन्यथैकलव्यस्य विद्याप्राप्तिर्न स्यात्। पातित्यादिदोषं विनापि गुरुपरित्यागे च दोषप्राप्तेश्च। अतः पूर्वप्राप्त एव गुरुरिति नियमात्क्वचित्सर्वज्ञगुरोः प्रथम प्राप्तत्वाभावे प्रागुक्तं न युज्यत इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवादिति ॥% अस्यार्थः ॥ क्रियामानसवत् मानसक्रियारूपध्याने विकल्पः तथा पूर्वविकल्पः पूर्वप्राप्तेन गुरुणा समस्य पश्चात्प्राप्तस्य गुरोः। विकल्पः ग्राह्ये वा नवेति विकल्पः स्यात्। न तु स्वीकार्य एवेति विधिः। कुतः। प्रकरणात्। प्रकृष्टानुग्रहमपेक्ष्य गुरोः स्वीकार्यत्वादित्यर्थः ॥

एवंच न पूर्व प्राप्त एव गुरुरिति नियमः। पश्चात्तनः समग्रानुग्रहं करोति चेत्सोऽपि ग्राह्यः। गुरुपरिग्रहस्य समग्रानुग्रहार्थत्वात्। गुरुप्रसादमंतरा गुरुस्वीकारादिमात्रेण मोक्षादिलक्षणमहाफलाभावात्। समग्रानुग्रहं कर्ता पूर्वस्मादुत्तमश्चेत्पूर्वानुज्ञां विना निःसंशयं स्वीकार्य एव। समश्चेत्पूर्वानुज्ञया स्वीकार्यः। नोचेन्न स्वीकार्यः। इति विकल्पः स्यात्। मानसक्रियावत्। अधमश्चेन्न स्वीकार्य एव पूर्वस्मादुत्तम इति [बृहत्तंत्रं.] श्रुतेः। अतः सर्वज्ञगुरुस्वीकारस्योपपन्नत्वेन तदुक्तप्रकारेणोपासनं कर्तव्यमिति सिद्धं ॥

<3-3-47>
%(47) ॐ ॥ अतिदेशाच्च ॥ ॐ ॥%

हेत्वंतरेण समोत्तमगुरुस्वीकारं समर्थयत्सूत्रमाह ॥

%॥ ॐ ॥ अतिदेशाच्चेति ॥% अस्यार्थः ॥ पूर्वगुरुणैव स्वसमोत्तमगुरुस्वीकारायातिदेशात्। यथे(पौष्यायणश्रुतिः.)त्यातिदिश्यमानत्वात्। युक्तमेव पश्चात्तनस्वीकरणमित्यर्थः ॥

एवंचाचार्योपासनं नाम सविनयमंते स्थितिः। तस्योपचारो नामाभीष्टकरणादिरित्यर्थकत्वात्। ब्रह्मोपास्व ब्रह्मोपचरस्वेति पौष्यायणश्रुतावतिदेशात्। अतः सर्वज्ञगुरुस्वीकारस्योपपन्नत्वेन तदुक्तप्रकारेणोपासनं कार्यमिति सिद्धं ॥

॥ इति विकल्पाधिकरणं ॥

%29.अधिकरणं ॥%

अत्रोपासनस्य कर्तव्यतासमर्थनाय ज्ञानमेव मुक्तिहेतुरिति समर्थ्यते।

<3-3-48>
%(48) ॐ ॥ विद्यैव तु निर्धारणात् ॥ ॐ ॥%

ननु न भगवत उपासनं कार्यं। व्यर्थत्वात्। न च ज्ञानार्थमुपासनं। तस्यापि व्यर्थत्वात्। न च मोक्षार्थं ज्ञानं। ज्ञानस्य मोक्षसाधनत्वानिश्चयात्। यथा ज्ञानस्य मोक्षसाधनत्वं श्रूयते तथा कर्मणोऽपि कर्मणैव ही[गी. 3-20.]त्यादि मोक्षसाधनत्वं स्मर्यते। न च पुरुषार्थसाधनत्वसंदेहेऽपि कृष्यादाविव ज्ञानोपासनादौ प्रवृत्तिः संभवतीति वाच्यं। अल्पवित्तव्ययायाससाध्ये तत्र तथा संभवेऽपि बहुवित्तव्ययायाससाध्यपारत्रिकप्रवृत्तेः संदेहमात्रेणायोगात्। ततो ज्ञानस्य मोक्षसाधनत्वानिर्णयान्न ज्ञानोपासनं कार्यमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ विद्यैव तु निर्धारणादिति ॥% अस्यार्थः ॥ नान्यःपंथा इति (श्वे. 3-8.) निर्धारणात् अन्यनिषेधेन ज्ञानस्यैव मोक्षसाधनत्वनिश्चयात्। विद्यैव मोक्षसाधनं न कर्मादिकमित्यर्थः। श्रुतेः प्राबल्यद्योतकस्तु शब्द ॥

एवंच कार्यमेव ज्ञानार्थमुपासनं। तमेवं विदित्वेति श्रुतेः। कर्मवचनादपि प्राबल्येन विद्यैव मोक्ष इत्यवधारण संभवात्। अतो ज्ञानस्य मुक्तिसाधनत्वात्तदर्थमुपासनं कर्तव्यमिति सिद्धं ॥

<3-3-49>
%(49) ॐ ॥ दर्शनाच्च ॥ ॐ ॥%

नन्वेवं तर्हि ध्यानवैयर्थ्यं भवेत्। श्रवणेनैव मननरूपविचारसंभवात्। तन्मात्रेण मोक्षसंभवादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ दर्शनाच्चेति ॥% अस्यार्थः ॥ न केवलं परोक्षज्ञाप्तिरूपविद्यैव मोक्षः। किंतु दर्ज्ञनाच्च ब्रह्मसाक्षात्कारादपि। अतो न ध्यानवैयर्थ्यमित्यर्थः ॥

एवंच परोक्षज्ञानेन मोक्षानुक्तेर्येन मननेनैव कृतत्वात्ध्यानवैयर्थ्यं स्यात्। किंनामोपासनाजनितेनापरोक्षज्ञानेनेत्यभ्युपगमात्। न च तमेवं विदित्वेति सामान्यश्रुतिसद्भावेन ज्ञानमेव मोक्षसाधनं तत्त्वपरोक्षज्ञानमेवेति नियमो नियामकाभावादिति वाच्यं। दृष्ट्‌वैवेति [कौशिक.] श्रुतिबलेन साधारणश्रुतेरप्यपरोक्षज्ञानपरतया व्याख्ये यत्वात्। अतो ज्ञानस्य मोक्षसाधनत्वेन तदर्थमुपासनं कर्तव्यमिति सिद्धं ॥

॥ इति विद्याधिकरणं ॥

%30.अधिकरणं ॥%

अत्र यत्साधनं भगवदुपास्तिः तस्य ज्ञानस्य मोक्षसाधनत्वं समर्थ्यते।

<3-3-50>
%(50) ॐ ॥ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ॐ ॥%

ननु कर्मसाध्य एव मोक्षः। कर्मणैव संसिद्धिरिति वचनात्। श्रुतिस्मृत्योः सावधारणत्वेऽपि भगवद्वाक्यत्वेन स्मृतेरेवबलवत्त्वात्। ततः श्रुतेः स्मृतिबाधितत्वेन ज्ञानस्य मोक्षसाधनत्वाभावेन न तदर्थमुपासनं कार्यमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ श्रुत्यादिबलीयस्त्वाच्च न बाध इति ॥% अस्यार्थः ॥ मोक्षस्य ज्ञानसाध्यत्वेऽबाधः कर्मणैवेति स्मृतिविरोधो नास्ति। कुतः। श्रुत्यादिबलीयस्त्वात्। ज्ञानस्य मोक्षसाधकत्वोपपादकत्वमेवं विदित्वेत्यादि श्रुतिलिंगादेरतिबलत्वेन स्मृतिगतैव शब्दस्यायोगव्यवच्छेदार्थत्वोपपत्तेरित्यर्थः ॥ एतत्सूचनाय च शब्दः ॥

एवंच विद्यैव मोक्षः। तमेवं विदित्वेति [श्वे. 3-8.] नान्यः पंथा इति [श्वे. 3-8.] निर्धारणात्। तमेवं विदित्वेति वचनात्परोक्षज्ञानेनैव मोक्ष इति न मंतव्यं। दृष्ट्‌वैव तं मुच्यत इति वचनाद्विदित्वेति श्रुतेरप्यपरोक्षज्ञानपरताया एव ग्राह्यत्वात्। न च कर्मणैवेति सावधारणाया ईस्वरवचनेन बलवत्या स्मृत्या बाधः। तमेवं विदित्वेति श्रुतेर्न कर्मभिरिति तत्त्वज्ञानप्रार्थनर्लिगस्य कर्मणा बध्यत इति युक्तिमद्भगवद्वचनस्य च ततो बलवत्त्वात्। न च कर्मणैवेति स्मृत्यप्रामाण्यं। अवधारणस्य कर्मयोगाव्यवच्छेदार्थकत्वात्। अतो ज्ञानस्यैव मोक्षहेतुत्वेन कर्तव्यैवोपासनेति सिद्धं ॥

॥ इति श्रुत्यधिकरणं ॥

%31.अधिकरणं ॥%

अत्र ब्रह्मज्ञानसाधनोपासनस्य भक्तिपूर्वकत्वं समर्थ्यते।

<3-3-51>
%(51) ॥ ॐ ॥ अनुबंधादिभ्यश्च ॥ ॐ ॥%

ननु न ज्ञानार्थं भक्तिरपेक्षिता। प्रसादस्य ज्ञानहेतुत्वे सहायानपेक्षत्वात्। सर्वलक्षणसंपन्न इति [नारायणतंत्रे.] वचनात्। न चैवमुपासनाभावः ज्ञानस्योपासनाऽन्वयव्यतिरेकदर्शनेन प्रसादस्योपासनातिरिक्तापेक्षत्वस्य प्रमाणार्थत्वात्। न चोपासना भक्तिमंतरेण संभवतीति वाच्यं। द्वेषेणापि ध्यानसंभवात्। द्वेषाच्चैद्यादय इति वचनात्। अतो द्वेषेण वा भक्त्या वोत्पन्नेनोपासनेन गुरुप्रसादलक्षणसहकारिवाशात्ज्ञानसंभवेन न तदर्थं भक्त्यादिकमावश्यकमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अनुबंधादिभ्यश्चेति ॥% अस्यार्थः ॥ न केवलं श्रवणादिना। नापि प्रबलगुरुप्रसादेन ब्रह्मदर्शनं भवति। किंत्वनुबंधशब्दितहरिगुरुभक्तिशमादिभ्यश्चेत्यर्थः ॥

एवंच न केवलं ज्ञानार्थं श्रवणादिकं गुरुप्रसादश्चापेक्षितः। किंतु भक्त्यादिकमपि प्रसादार्थं ज्ञानार्थं चापेक्षितं। सर्वलक्षणसंपन्न इति वचनात्। अतो भक्त्यादेर्ज्ञानार्थमपेक्षितत्वादुक्तं युक्तमिति सिद्धं ॥

॥ इति अनुबंधाधिकरणं ॥
%32.अधिकरणं ॥%

अत्रोपासनासाध्यज्ञाने विशेषतारतम्यं समर्थ्यते।

<3-3-52>
%(52) ॐ ॥ प्रज्ञांतरपृथक्त्ववदृष्टिश्च तदुक्तं ॥ ॐ ॥%

ननु सर्वेषामेकप्रकारमेवापरोक्षज्ञानं। भक्त्या मामभिजानातीत्यनेन सर्वेषां पूर्णज्ञानेन मोक्षस्य चाभिधानात्। अतः सर्वेषां दर्शनसाम्यादुक्तं मुक्ततारतम्यमयुक्तमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ प्रज्ञांतर पृथक्त्ववद्दृष्टिश्च तदुक्तमिति ॥% अस्यार्थः ॥ प्रज्ञांतरं प्रज्ञाविशेषः। ध्यानमिति यावत्। तस्य पृथक्त्ववत् अनेकप्रकारत्त्ववत्। तदनुसारेण दृष्टिश्च ब्रह्मदृष्टिरपि अनेकप्रकारा न स्रेवषामेकविधा। किंच तदुक्तं दृष्टेरनेकविधत्वं अंतर्दृष्टय इति (कमठ.) श्रुतावुक्तंचेत्यर्थः ॥

एवंचानेकप्रकारमेवाधिकारिणां भगवद्दर्शनं। तत्साधनस्योपासनस्यानेकप्रकारत्वात्। फलस्य च साधनानुसारित्वात्। न चैवं संपूर्णदर्शनाभावाद्विरिंचेतरेषां मोक्षाभावः। यथायोग्य दृष्टेरेव मोक्षहेतुत्वेन स्वयोग्यदर्शनेन सर्वेषां मोक्षसंभवात्। अतो ज्ञानविशेषसद्भावाद्युक्तं मोक्षतारतम्यमिति सिद्धं ॥

॥ इति प्रज्ञांतराधिकरणं ॥

%33.अधिकरणं ॥%

अत्रोपासनस्य बिंबशब्दितयोग्यात्मरूपविषयकस्यैव मुक्तिसाधनत्वं समर्थ्यते।

<3-3-53>
%(53) ॐ ॥ न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ॐ ॥%

ननु यत्किंचिद्रूपदर्शनमेव मोक्षसाधनं। भगवतः पूर्वरूपेष्वपि साम्यात्। अतो यत्किंचिद्रूपदर्शनस्य मोक्षसाधनत्वान्न बिंबोपासनानियतिरपेक्षिता सिद्यतीति प्राप्ते पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ ना सामान्यापप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिरिति ॥% अस्यार्थः ॥ मृत्युवत् मृत्युमात्रानंतरं यथा न मुक्तिः। किंतु चरममृतिविशेषानंतरमेव। तद्वदत्रापि भगवद्रूपाणां साम्येऽपि उपलब्धेः। भगवद्दष्टिसामान्यात् साधारणरूपापरोक्षज्ञानात्। न सर्वेषां मुक्तिः किंतु स्वस्वबिंबदर्शनादेव। न चैवं सामान्यदर्शनस्य वैफल्यं। तस्य महरादिलोकप्राप्तिसाधनत्वात्। न चैतावता तस्य मोक्षहेतुत्वं प्राप्नेति। हि यतः। लोकपत्तिः लोकप्राप्तिमात्रं न मुक्तिः। तस्मादित्यर्थः ॥ हीत्यनेन सन्मान्यदर्शने(नारायणतंत्रे)त्यादिप्रमाणप्रसिद्धिश्च सूचिता ॥

एवंच भगवद्रूपाणां सामान्येन सामान्यतो दर्शनेन न सर्वेषां मुक्तिः। किं नाम स्वबिंबदर्शनादेव। दर्शनेनात्मयोग्येनेति [अध्यात्मे.] वचनात्। न च दर्शनांतरवैयर्थ्यं। सामान्यदर्शनादितिवचनबलेन तेषां महरादिलोकप्राप्तिहेतुत्वात्। स्वयोग्यज्ञानस्यैव मोक्षहेतुत्वात्। मृत्युत्वसाम्येऽपि लिंगभंगस्यैवानंदाविर्भावहेतुत्वात्। न च लोकप्राप्तिरेव मोक्षः। महरादिलोकं गतानां प्रयलानंतरं मोक्षश्रवणात्। अतो बिंबदर्शनस्यैव मोक्षसाधनत्वात्तदेवोपास्यमिति सिद्धं ॥

॥ इति न सामान्याधिकरणं ॥

%34.अधिकरणं ॥%

अत्रानुबंधादिभ्य इत्यत्र दर्शनसाधनतयोपासनासाहित्येनोक्तभक्तेः स्वातंत्र्यं निरस्यते।

<3-3-54>
%(54) ॐ ॥ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबंधः ॥ ॐ ॥%

ननु भक्त्यैवापरोक्षजानं। न परमात्मप्रसादेन। भक्तिरेवैनं मोचयतीति [माठर.] श्रुतेः। ततः साधनसामर्थ्येनैव दर्शनसंभवान्न तस्याव्यक्तत्वमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबंध इति ॥% अस्यार्थः ॥ तुरपि यद्यपि। परेण च परमात्मनैव। ब्रह्मदर्शनं तथाऽपि शब्दस्य भक्तिरेवैनमिति श्रुतेः। तद्विध्यं परमात्मन इव भक्तेः स्वातंत्र्येण ब्रह्मदर्शनहेतुत्ववाचित्वं युज्यते। कुतः। दर्शनादौ करणत्वादिति हेतुरुपस्कर्तव्यः। यद्वा। परेण वाच्येन निमित्तेन शब्दस्य भक्तिरिति श्रुतेः। ताद्विध्यं युक्तमित्यर्थः। तर्हि कथं भक्तिरिति वाक्येन सत्स्वप्यन्यसाधनेषु अनुबंधो भक्तिः विशिष्योच्यत इत्यत उक्तं। भूयस्त्वादिति। तस्याः साधनेषु। भूयस्त्वात् प्राधान्यात्। तदभिप्रायेणानुबंधो भक्तिर्विशिष्योच्यत इत्यर्थः ॥

एवंच भक्त्या प्रसन्नपरमात्मनैवापरोक्षज्ञानं। एतैरुपायैरिति श्रुत्या स्वेच्छयैव भक्तापरोक्षसिध्यर्थं ब्रह्मधामशब्दवाच्यवायुप्रवेशोक्तेः। न च पूर्वश्रुतिविरोधः। भगवत्प्रसादसाधनेषु भक्तेः प्राधान्याभिप्रायेण भक्तिरेवैनं मोचयतीत्यभिधानात्। अतो दर्शनादेः पुरुषसाध्यत्वाभावाद्युक्तमव्यक्तत्वं ब्रह्मण इति सिद्धं ॥

॥ इति परेणाधिकरणं ॥

%35.अधिकरणं ॥%

अत्रोपासनस्यानादियोग्यतासापेक्षत्वं समर्थ्यते।

<3-3-55>
%(55) ॐ ॥ एक आत्मनः शरीरे भावात् ॥ ॐ ॥%

ननु नोपासनाऽनादियोग्यतासापेक्षा। इंद्राद्यंशजीवानामुत्पत्तिमत्त्वेन तद्योग्यताया अनादिनित्यत्वाभावात्। न चेंद्रादियोग्यतैवार्जुनादीनां योग्यता। अंशस्यंशिमार्गवृत्तित्वाभावात्। ज्ञानादिभेदेन तयोर्भिन्नत्वात्। ततश्चोपासनस्यानादियोग्यतानपेक्षत्वात्तदव्यवस्थितमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ एक आत्मनः शरीरे भावादिति ॥% अस्यार्थः ॥ अंशांशीति पदयोरर्थ एक एव अंशांशिनोरैक्यमेव। कुतः। आत्मनः अंशिनः। इंद्रादिशरीरे कर्मनिर्मितशरीरे। अंशस्यार्जुनादेः। भावात् तदभिमानितया सत्वादित्यर्थः ॥

एवंचात्स्येव सर्वेषामुपासनादावनादियोग्यतासापेक्षा। न चार्जुनादीनामुत्पत्तिमत्त्वेनानादियोग्यताभावः। तेषामंश्यभिन्नत्वेन तद्योग्यताया एव तद्योग्यतात्वात्। तदैक्यं चांशोंश्यभिन्नः। तत्कर्मनिर्मितशरीरवृत्तित्वादित्यनुमानसिद्धं ॥ अतः सर्वेषामुपासनादावनादियोग्यताऽपेक्षितेति युक्ता तद्‌व्यवस्थेति सिद्धं ॥

<3-3-56>
%(56) ॐ ॥ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥ ॐ ॥%

ननु ज्ञानादिभेदादंशांशिनोर्भेद एव युक्तो नाभेद इत्यात्शंकां परिहर्तुं सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवदिति ॥% अस्यार्थः ॥ उपलब्धिवत् ज्ञानसुखादौ परस्परं भेद इव। अंशांशिनोरपि। व्यतेरिको भेद इति तु न। कुतः। तद्भावभावित्वात् अशंस्यांशिकृतभावशब्दितोपसनाजन्यफलानुभवित्वात्। अन्यथा तन्न स्यादित्यर्थः ॥

एवंचांशिनि सुखिनि दुःखिन्यंशस्य तदनुसंधानाभावाद्भेद इति शंकाया अनुदयात्। अन्यथाऽसिद्धेः। अंशिन्यंशगतसर्वानुसंधानभावात्। अंशस्याचिंत्येश्वरशक्तिवशात्सर्वानुसंधानाभावेऽपि प्रधानसाधनोपासनादिफलानुसंधानात्। अतः सर्वेषामुपासनादावनादियोग्यतासापेक्षतेति सिद्धं ॥

॥ इति एकाधिकरणं ॥

%36.अधिकरणं ॥%

अत्र भगवदुपास्तेर्यथायोग्यं ब्रह्माद्यंगदेवतोपास्तेर्युक्तत्वेन कर्तव्यता प्रतिपाद्यते।

<3-3-57>
%(57) ॐ ॥ अंगावबद्धास्तु न शाखासु हि प्रतिवेदं ॥ ॐ ॥%

ननु केवलमेव ब्रह्मोपासनं कार्यं। तमेवैकं जानथेति [मुं. 2-2-5.] वचनात्। ततश्चान्यदेवानामनुपास्यत्वात्। तदभिधायकवेदवैयर्थ्यमिति ॥ यद्वा ॥ कार्यैवांगदेवतोपासना। परंतु ब्रह्मादिषु ये गुणास्ते सर्वदेवेषूपसंहर्तव्याः। ये चाग्न्यादिषु प्रतीता गुणास्तेऽपि सर्वेषु देवेषूपसंहर्तव्याः। ततश्च तारतम्याभाव इति। प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अंगावबद्धस्तु न शाखासु हि प्रतिवेदमिति ॥% अस्यार्थः ॥ तु शब्दो विशेषे। अंगावबद्धाः हरेरंगाश्रिताः। देवा अपि तत्परिवारत्वेन देवैरुपास्याः। तदुपसंहारे तु विशेषोऽस्ति। कः। देवानां प्रतिवेदं सर्ववेदगतासु शाखासु उक्तं यद्‌ब्रह्माद्यंगदेवतावबद्धगुमजातं तत्सर्वं रुद्रादिषु नोपसंहार्यं। किंतु योग्यमेवेत्येवं रूप इत्यर्थः ॥ हीत्यनेन समत्वाद्वेति(ब्रह्मतर्के.) स्मृतिप्रसिद्धिः सूचिता

एवंच कार्यमेवांगदेवतोपासनं। न च श्रुत्यादिविरोधः। प्राधान्ये तदुपासनस्य निषिद्धत्वात्। ततश्च न तद्विधायकवेदवैयर्थ्यं। अपि च। कार्यैवांगदेवतोपासना। परंतु ब्रह्माद्युत्तमेषु प्रतीता गुणा नाधमेषूपसंहर्तव्याः। अयोग्यत्वात्। ततश्च न तारतम्यहानिरिति सिद्धं ॥

<3-3-58>
%(58) ॐ ॥ मंत्रादिवद्वाऽविरोध ॥ ॐ ॥%

एवमेकत्र प्रतीतानां सर्वगुणानामन्यत्रोपसंहाराभाव उक्तः। इदानीमुपसंहाराभ्युपगमेऽपि न विरोध इत्याह सूत्रकृत् ॥

%॥ ॐ ॥ मंत्रादिवद्वाऽविरोधादिति ॥% अस्यार्थः ॥ मंत्रादिवत् यथाऽग्न्याद्यधमदेवतावाचिमंत्रविद्यानां ब्रह्माद्यत्तमदेवतावाचित्वं तथाऽविरोधः अधमगुणानामुत्तमेषूपसंहारेऽपि विरोधो नास्तीति वाऽभ्युपगम्यत इत्यर्थः ॥

एवंच कार्यमेवांगदेवतोपासनं। अधमगुणानामुत्तमेषु सद्भावेप्युत्तमगुणानामधमेष्वभावात्। अतो यथायोग्यमंगदेवतानामुपास्यत्वात्सर्वं युक्तमिति सिद्धं ॥

॥ इति अंगावबद्धाधिकरणं ॥

%37.अधिकरणं ॥%

अत्र भूमगुणस्य सर्वोपासकसाधारणत्वं समर्थ्यते।

<3-3-59>
%(59) ॐ ॥ भूम्नः क्रुतवज्ज्यायस्त्वं तथा च दर्शयति ॥ ॐ ॥%

ननु न भूमगुणः सर्वोपास्यः। वैयर्थ्यात्। न हि कस्यापि निरतिशयपर्यायं भूमत्वनिष्ठं। न चानंदविशेषणत्वादुपास्यत्वं। प्रियशिरस्त्वादौ व्यभिचारात्। अतो भूमत्वस्य सर्वोपास्यत्वाभावाल्लौकिकतयोपासनमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयतीति ॥% अस्यार्थः ॥ क्रतुव्त यथा क्रतुशब्दितप्रायणीयाद्यंगजातस्य। विकृतिकृतिषु अनुवृत्तिं अनुष्ठेयत्वं च। तथा भूम्नः पूर्णत्वगुणस्येतरगुणेभ्यो। जायस्त्वं विशिष्टत्वं। आनंदादिगुणेष्वनुवृत्तितयोपासनस्य सफलत्वं सर्वोपास्यत्वं चेत्येवं रूपं युज्यते। कुत एतत्। हि यस्मात्। भूमैव देव इति (गौपवन.) श्रुतिः। तथा दर्शयति प्रतिपादयति। तस्मादित्यर्थः ॥

एवंच सर्वैरप्युपास्यो भूमगुणः। यथा खलु दीक्षाप्रायणीयोदयनीयसवनत्रयावभृथात्मकस्य क्रतोः सर्वयागेष्वनुवर्तन एव साफल्यात्। अन्यथा वैफल्यात्। ज्यायस्त्वं। तथा भूमत्वस्य सर्वज्ञत्रानंदादिषु सहभावेनोपासन एवेष्टफलसिद्धेर्ज्यायस्त्वात्। अतः सर्वैरानंदाद्याः पुर्णगुणत्वेनोपास्या इति न लौकिकतयोपासनमिति सिद्धं ॥

॥ इति भूमाधिकरणं ॥

%38.अधिकरणं ॥%

अत्राधिकारिणां भूमगुणस्य नानाप्रकारेण प्रतीतेः समर्थ्यते।

<3-3-60>
%(60) ॐ ॥ नाना शब्दादिभेदात् ॥ ॐ ॥%

ननु सर्वेषां भूमत्वमेकप्रकारेणैव प्रतीयते। भूमत्वे विशेषाभावात्। विशेषाभावेऽपि तारतम्येन प्रतीत्यंगीकारे मिथ्योपासनप्रसंग इत्येकप्रकारेणोपास्यत्वान्नोक्ततारतम्यमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ नानाशब्दादिभेदादिति ॥% अस्यार्थः ॥ भूमगुणः सर्वैर्यथायोग्यं नानाप्राकरेणोपास्यः। नत्वेकप्रकारेण। कुतः। शब्दादिभेदात् शब्दादिप्रमाणैरधिकारिभेदात्। भूमगुणस्य नानाप्रकारेण प्रतीतेरित्यर्थः ॥

एवंच नानाप्रकारेणैव भूमत्वस्य प्रतीतेः। शब्दादिभिः प्रमाणैस्तत्प्रतीतेरेवेष्टव्यत्वात्। शब्दादीनां च तत्तद्योग्यतानुसारेणार्थप्रत्यायकत्वात्। न च भूमत्वे विशेषानुपपत्तिः। आनंत्ये तारतम्यवद्भूमत्वे तारतम्योपपत्तेः। अतो भूमत्वदृष्टावधिकारिणां विशेषसद्भावाद्युक्तं तारतम्यमिति सिद्धं ॥

॥ इति नानाशब्दाधिकरणं ॥

%39.अधिकरणं ॥%

अत्र बिंबातिरिक्तरूपोपासनस्याकर्तव्यता निरस्यते।

<3-3-61>
%(61) ॐ ॥ विकल्पो विशिष्टफलत्वात् ॥ ॐ ॥%

ननु नाधिकारिणा नृसिंहाद्युपासनं कार्यं। तस्य मोक्षहेतुत्वाभावात्। फलांतरस्यानपेक्षितत्वात्। प्रत्युत बिंबोपासनविरोधित्वाच्च। ततश्च तत्प्रतिपादकविद्यावैर्थ्यमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ विकल्पो विशिष्टफलत्वादिति ॥% अस्यार्थः ॥ विकल्पः स्वस्वमोक्षसाधनान्यनृसिंहाद्युपासनं कार्यं न वेति द्विविधप्रकारः स्यात्। कुतः। विशिष्टफलत्वात्। तथोपासनस्य दुरितनिवृत्तिरूपफलविशेषमपेक्ष्य कर्तव्यत्वेन तदनुसारेण विकल्पस्यैव युक्तत्वादित्यर्थः ॥

एवंच नृसिंहाद्युपासनस्य न कर्तव्येति न भवति किंतु बिंबोपासनमनुष्ठाय विशिष्टफलापेक्षाचेत्कर्तव्यं। न चेन्न कर्तव्यमिति विकल्पः। न च नृसिंहाद्युपासनाभावे दुरितनिवृत्त्यसिद्धिः। द्वितीयया स्वबिंबोपासनयाऽपि दुरितनिवृत्तिसिद्धेः। ततश्चान्योपासनस्यापि कर्तव्यत्वान्न तद्विद्याया वैयर्थ्यमिति सिद्धं ॥

॥ इति विकल्पाधिकरणं ॥

%40.अधिकरणं ॥%

अत्र ज्ञानसाधनोपासनस्यैवावश्यकत्वं न कामसाधनभगवद्रूपगुणविषयोपासनस्येति साध्यते।

<3-3-62>
%(62) ॐ ॥ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥%

ननु कामसाधनभगवद्रूपोपासनं तदनुगुणोपसंहारेणावश्यकं। तत्साध्यस्य धनादेर्ज्ञानहेतुत्वात्। अतः काम्योपासनस्यावश्यकत्वाद्‌व्यर्थः प्रथम पाद इति प्राप्ते सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावादिति ॥% अस्यार्थ ॥ काम्यास्तु काम्यरूपे कामितसाधनभगवद्गुणास्तु। यथाकामं स्वस्वफले कामानुसारेण। समुच्चीयेरन्न वा अमुमुक्षुभिरुपसंहर्तव्याः मुमुक्षुभिस्तु नोपसंहर्तव्या इति। वा व्यवस्थितविकल्पः स्यात्। कुतः। पूर्वहेत्वभावात् मुमुक्षूणां मोक्षेच्छापूर्वकालीनपूर्वसूत्रोक्तान्यकामाख्यहेत्वभावात्। एवं मुमुक्षुभिरेवेश्वरप्रीत्यर्थमुपसंहार्या फलार्थं नोपसंहार्या इति वा विकल्पः स्यादित्यर्थः ॥

एवंच कामसाधनरूपे कामसाधनगुणाः स्वस्वकामानुसारेणोपसंहर्तव्या न वेति विकल्प एव न तु नियतिः। विकल्पश्चामुमुक्षुभिः कार्यं मुमुक्षुभिर्नेति। मुमुक्षूणां च कामनाविरहात्। अथवा मुमुक्षुष्वेवायं विकल्पः। फलार्थं न कार्यं। ईश्वरप्रसादार्थं कार्यमिति। अतः कामनोपासनस्य वैकल्पिकत्वेन सार्थक्यं वैराग्यपादस्येति सिद्धं ॥

॥ इति कामाधिकरणं ॥

%41.अधिकरणं ॥%

अत्रांगाश्रितत्वेन देवतोपास्तेः कर्तव्यता समर्थ्यते।

<3-3-63>
%(63) ॐ ॥ अंगेषु यथाऽऽश्रयभावः ॥ ॐ ॥%

ननु नांगाश्रितदेवतोपासनं मुमुक्षुणा कर्तव्यं। अधिकारिविशेषं लक्षीकृत्य तत्फलोद्देशेनानभिहितत्वात्। न चैवमप्यधिकारिविशेषः कल्पयितुं शक्यः। कल्पकाभावात्। न च कल्पकाभावेऽपि कल्पना युक्ता। चोदनाद्यविशेषादित्युक्तव्याघातात्। ततश्च निरधिकारिकत्वादंगाश्रितत्वेन देवतोपासनं न कर्तव्यमिति प्राप्ते परिहरत्सूत्रमाह ॥

%॥ ॐ ॥ अंगेषु यथाऽऽश्रयभाव इति ॥% अस्यार्थः ॥ अंगेषु भगवदंगेषु। यथाऽऽश्रयभावः चक्षोः सूर्योऽजायतेत्यादौ यथा यथाऽऽश्रयत्वमुक्तं तथा तैरुपासनं कर्तव्यमित्यर्थः ॥

एवंच चक्षोः सूर्योऽजायते[ऋ. 10-90-13.]त्यादिना यथा यथा भगवदंगाश्रयत्वमुक्तं तथोपासनं कार्यं। अन्यथा तदुक्तिवैयर्थ्यात्। अतो देवानामंगाश्रितत्वेनोपास्यत्वात्सार्थक्यं तद्विधानमिति सिद्धं ॥

<3-3-64>
%(64) ॐ ॥ शिष्टेश्च ॥ ॐ ॥%

युक्त्यंतरेण देवानामंगाश्रितत्वेनोपास्तिमभिदधत्सूत्रं पठति ॥

%॥ ॐ ॥ शिष्टेश्चेति ॥% अस्यार्थः ॥ यस्मिन्निति (पौत्रायण.) श्रुतिविहितत्वाच्च तथोपासनं कर्तव्यमित्यर्थः ॥

एवंच न केवलं चक्षोरित्यादावंगाश्रयत्वेनोक्त्यन्यथाऽनुपपत्त्यांऽगाश्रितत्वेनोपास्तिः कार्या। किंतु शिक्षाविधायक यस्मिन्नेति श्रुतौ तथा विधानात्कार्या। अत उक्तं युक्तमिति सिद्धं ॥

<3-3-65>
%(65) ॐ ॥ समाहारात् ॥ ॐ ॥%

ननु निरधिकारिकत्वात्तद्विधानादिवैयर्थ्यस्यैवोचितत्वाच्च नांगदेवतोपासनं युक्तमित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ समाहारादिति ॥% अस्यार्थः ॥ समाहारशब्देनोपसंहारफलश्रुतिर्गृह्यते। देवानां स्वस्वजनकांगत्वरूपगुणोपसंहारे फलवचनाच्च। तैस्तथोपसंहृत्योपासनं कर्तव्यमित्यर्थः ॥

एवंच काषायणानां समाहरश्रुतिवचनात्संहरेतेति समाहारपदघटितश्रुतेरंगदेवतोपासनस्य परमस्थानरूपसायुज्यप्राप्तिलकत्वावगमात्। निरधिकारिकत्वाभावेन तद्विधानादिवैय्रथ्यकल्पनाया अभावेन च देवैरेवांगदेवतोपास्तिः कार्येति सिद्धं ॥

<3-3-66>
%(66) ॐ ॥ गुणसाधारण्यश्रुतेश्च ॥ ॐ ॥%

हेत्वंतरेणांगदेवतोपासनस्य कर्तव्यतां समर्थयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ गुणसाधारण्यश्रुतेश्चेति ॥% अस्यार्थः ॥ गुणानां भगवद्‌गुणानां। साधारण्यस्य सर्वोपास्यत्वस्य। श्रुतेः साधारण्यादिति (मांडव्य.) श्रुत्युक्तत्वाच्च। देवैस्तथोपासनं कार्यमित्यर्थः ॥

एवंच ज्ञानानंदादिगुणानां सूर्याद्याश्रयचक्षुष्ट्‌वादीनां भगवद्गुणत्वात्। भगवद्गुणानां चोपास्यत्वेनैते उपास्या एते तु नेति विभागं विहाय योग्यानां सर्वेषामुपास्यत्वस्य निर्दिष्टश्रुतावुक्तत्वात्। अत्रांगाश्रितत्वेन देवतोपासनं। देवताश्रयत्वेन तद्गुणबिंबगुणत्वेन च परमात्मोपासनं। तयोः समनियतत्वात्। समाहारात्, गुणसाधारण्यश्रुतेः, दर्शनाच्च, इत्येतेषां विरोधाभावात्। देवैरांगाश्रितत्वेनांगदवताभावनायाः कर्तव्यत्वात्। अतो देवानां भगवदंगाश्रितत्वेनोपासनमुक्तमुपपन्नमिति सिद्धं ॥

॥ इति अंगाधिकरणं ॥

%42.अधिकरणं ॥%

अत्रांगदेवतोपास्तेः सर्वशाखानुक्तत्वेन प्राप्तकर्तव्यत्वशंकानिरासेन कर्तव्यता समर्थ्यते।

<3-3-67>
%(67) ॐ ॥ न वाऽतत्सहभावश्रुतेः ॥ ॐ ॥%

ननु भगवदंगाश्रयत्वेनोपासनं न केनापि कर्तव्यं। तथोपासनस्य तत्तद्योग्यगुणोपासननिरूपणपरासु सर्वशाखासु तत्तद्योग्यगुणोपासनैः सहानुक्तत्वात्। अतोंऽगदेवतोपासनस्याकर्तव्यत्वादुक्तमयुक्तमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ न वाऽतत्सहभावश्रुतेरिति ॥% अस्यार्थः ॥ अंगदेवतोपासनं देवान्यैर्न कार्यं। किंतु देवैरेवेति वा व्यवस्थितविकल्पः स्यात्। कुतः। अतत्सहभावश्रुतेः। तत्सह श्रुतेरभावात्। सर्वशाखागतगुणोपासनेन सहांगदेवतोपासनस्य श्रवणादित्यर्थः ॥

एवंच न कर्तव्य एव सर्वैर्भगवदंगेषु अंगदेवतोपसंहारः। किं नाम देवैरेव कर्तव्यः। सर्वशाखास्वनुक्तेः क्वचिदेवोक्तेः। अतो देवानां भगवदंगाश्रितत्वेनोपासनमुक्तमुपपन्नमिति सिद्धं ॥

<3-3-68>
%(68) ॐ ॥ दर्शनाच्च ॥ ॐ ॥%

देवैरेव भगवदंगाश्रितत्वेनोपासनं कर्तव्यं नान्यैरित्येतमेवार्थं युक्तिसिद्धं श्रुत्याऽपि समर्थयत्सूत्रं पठित्वा तां श्रुतिमुदाहरति सूत्रकृत् ॥

%॥ ॐ ॥ दर्शनाच्चेति ॥% अस्यार्थः ॥ सत्यो ज्ञान इति (कमठ.) श्रुतौ अस्यार्थस्य दर्शनात् उक्तत्वाच्च देवैरेवांगदेवतोपास्तिः कार्या नान्यैरित्यर्थः ॥

एवंच न केवलं युक्तेः किंतु सत्यो ज्ञान इति श्रुतेश्चांगदेवतोपसंहारो देवेतरैर्न किंतु देवेरैव कार्यः। अतो देवानां भगवदंगाश्रितत्वेनोपासनमुक्तमुपपन्नमेवेति सिद्धं ॥

॥ इति न वाऽधिकरणं ॥
॥ इति तृतीयाध्यायस्य तृतीयः पादः ॥

—————————————————

॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अत चतुर्थः पादः ॥

ज्ञानसामर्थ्यमस्मिन्पाद उच्यते ॥

%1.अधिकरणं ॥%

अत्र ज्ञानस्य सर्वपुरुषार्थसाधनत्वमहिमा वर्ण्यते।

<3-4-1>
%(1) ॐ ॥ पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ ॐ ॥%

ननु ज्ञानं मोक्षमात्रसाधनं। न स्वर्गादिपुरुषार्थांतरस्य। ज्ञानिनो मोक्षेतरपुरुषार्थे कामनाविरुद्धत्वात्। अकामितपुरुषार्थत्वे चानिष्टपुण्यवन्मोक्षविलंबहेतुत्वेन पुरुषार्थत्वमेव न स्यात्। अतो ज्ञानस्य मोक्षमात्रहेतुत्वात्सर्वपुरुषार्थसाधनत्वबुध्द्या न तदापाद्यमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ पुरुषार्थोऽतः शब्दादिति बादरायणः इति ॥% अस्यार्थः ॥ पुरुषैरर्थ्यमानं यच्छुभफलं तत्सर्वमपि। अतः ब्रह्मदर्शनाद्भवति। न तु मोक्षमात्रं। कुतः। शब्दात् यं यमिति (मुं. 3-1-10) श्रुतेरिति भगवान् बादरायणो मन्यत इत्यर्थः ॥

एवंच ज्ञानेन यावदपेक्षितं भवति तत्सर्वमाप्यते। न तु मोक्षमात्रं। यं यं लोकमिति श्रुतेः। न च परीश्य लोकानिति [मुं 1-2-12.] प्रजहाति यदेति च श्रुतिभ्यां ज्ञानिनां कामाभावस्योक्तत्वेन कामितं ज्ञानेन भवतीत्युक्तमिति वाच्यं। प्रायः कामाभावस्य श्रुत्याद्युर्थत्वेन सर्वथा कामाभावस्यातदर्थत्वात्। इति बादरायणो मन्यते। अतो ज्ञानस्य सर्वपुरुषार्थसाधनत्वादत्यंतापेक्षितं तदिति सिद्धं ॥

<3-4-2>
%(2) ॐ ॥ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॥ ॐ ॥%

ननु कर्मैव पुरुषार्थसाधनं न ज्ञानमित्याक्षिप्य समादधत्सूत्रमाह ॥

%॥ ॐ ॥ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिरिति ॥% अस्यार्थः ॥ शेषत्वात् ज्ञानस्य कर्मांगत्वात्। निमित्तादेव पुरुषार्थवादः यं यमिति (मुं. 3-1-10.)श्रुतौ ज्ञानस्य स्वर्गादिपुरुषार्थसाधनत्ववादः न तु मोक्ष इव स्वर्गादौ प्राधान्यात्। ततक्थं। यथा अन्येषु स्वर्गसाधनकर्मशेषभूतेषु धनादिषु। यथा स्वर्गं धनादिति प्राधान्यवादः। तथेति नैमिनिराचार्यो मन्यत इत्यर्थः ॥

एवंच ब्रह्मदर्शनस्य मोक्षसाधनत्वसद्भावेन स्वर्गादिषु साधनत्वाभावात्। यं यं लोकमिति श्रुतेः कर्मणैव सिध्यति स्वर्गेऽतिशयाधायकत्वरूपतच्छेषार्थत्वेन पुरुषा्रथवादाविरोधात्। इति जैमिनिराचार्यो मन्यते। अतो ज्ञानस्य सर्वपुरुषार्थसाधनत्वमिति सिद्धं ॥

<3-4-3>
%(3) ॐ ॥ आचारदर्शनात् ॥ ॐ ॥%

ननु श्रुतिबलात्ज्ञानस्यैव सर्वपुरुषार्थसाधनत्वं युक्तं। ततश्च ज्ञानस्यैव सर्वपुरुषार्थसाधनत्वेन कुतः श्रुतेरर्थांतरपरिकल्पनेत्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ आचार दर्शनादिति ॥% अस्यार्थः ॥ यज्ञेन यज्ञमिति (तै.आ. 3-12-7.) देवानामपि कर्मानुष्ठानश्रुतेश्च न ज्ञानादेव सर्वपुरुषार्थप्राप्तिरित्यर्थः ॥

एवंच ज्ञानिनामेव न तु ज्ञानरहितानां देवादित्वप्राप्तानां कर्मानुष्ठानस्य श्रवणात्। देवादिकर्मानुष्ठानवैयर्थ्यप्रसंगात्। अतो न ज्ञानादेव सर्वपुरुषार्थप्राप्तिरिति सिद्धं ॥

<3-4-4>
%(4) ॐ ॥ तच्छ्रुतेः ॥ ॐ ॥%

नन्वेवमस्तु ज्ञानकर्मणोरुभयोरपि स्वर्गसाधनत्वं। ज्ञानस्य कर्मशेषत्वं तु कुत इत्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ तच्छ्रुतेरिति ॥% अस्यार्थः ॥ यदेव विद्ययेति (छां. 1-1-10) ज्ञानस्य कर्मशेषत्वश्रुतेर्न तत्प्रधानमित्यर्थः ॥

एवंच निर्दिष्टा श्रुतिर्बादरायणमते मानुषविषया तत्कर्तृकज्ञानशेषत्ववादिनी प्रतिबंधकयुक्तदेवताविषया चेतीत्यभिप्रायकत्वात्। ज्ञानिना ज्ञानेन कृतकर्मणोऽधिकफलसाधनत्वात्। अतः कर्मशेषत्वश्रुतेर्न प्रधानमिति सिद्धं ॥

<3-4-5>
%(5) ॐ ॥ समन्वारंभणात् ॥ ॐ ॥%

ननु यथा ज्ञानस्य यं यमिति श्रुतमपि प्राधान्यं न स्वीक्रियते। किंतु शेषत्वमेव। तथा यदेव विद्ययेति श्रुतमपि कर्मणः प्राधान्यं नांगीकार्यं! किं नाम ज्ञानशेषत्वं कर्मणः साम्यं वा भवेत्। विशेषप्रमाणाभावादित्याशंकां पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ समन्वारंभणादिति ॥% अस्यार्थः ॥ न कर्मणः ज्ञानशेषत्वं। तत्साम्यं च। किंतु प्राधान्यं। कुतः। समन्वारंभणात्। कर्मैवेति (माठरश्रुतिः.) प्राधान्येन स्वर्गाद्यारंभकत्वश्रुतेरित्यर्थः ॥

एवंच ज्ञानोत्तरकालीनं शुभाशुभं कर्मैव मनुष्याणामेव देवलोके ज्योतिर्मयदेहं मानुषं वा देहं प्रतिबंधकयुक्तदेवानां चोभयं देहमन्वारभेत्। कर्मातिरिक्तज्ञानादिः शरीराद्युत्पादने प्राधान्येन कारणं न भवति। किंतु कर्मशेषतयैव कारणं भवति। अतो न कर्मणो ज्ञानशेषत्वं किंतु प्राधान्यमिति सिद्धं ॥

<3-4-6>
%(6) ॐ ॥ तद्वतो विधानात् ॥ ॐ ॥%

ननु तथाऽपि न ज्ञानस्य कर्मशेषत्वं युक्तं। किंतु स्वयमेव पुरुषार्थ हेतुः। कस्मात्। कर्मणां फलाभावात्। फलाभावेप्याचारस्तु मुक्तवल्लीलया भवेदित्याशंकां परिहरत्सूत्रं व्याचष्टे ॥

%॥ ॐ ॥ तद्वतो विधानादिति ॥% अस्यार्थः ॥ तद्वतः विधानात् ज्ञानी च कर्माणीति (कमठ श्रुतौ.) कर्मविधानात् न ज्ञानिकर्म लीलारूपमित्यर्थः ॥

एवंच ज्ञानौ च कर्माणीति ज्ञानिनोऽपि कर्मविधानेन फलसिद्धेः। ज्ञानिकृतकर्मफलाभावश्रुतिस्तु दुष्कर्मविषया। एवमेव विदिति [सौपर्णश्रुति,] वचनात्। अतो ज्ञानिकृतकर्म न लीलारूपमिति सिद्धं ॥

<3-4-7>
%(7) ॐ ॥ नियमाच्च ॥ ॐ ॥%

इतश्च ज्ञानिकृतकर्म न लीलामात्रीमत्यभिदधत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ नियमाच्चेति ॥% अस्यार्थः ॥ ज्ञानिनोऽपि कर्मनियमाकरणे प्रत्यवायस्य च कुर्वन्निति (ई. 2) श्रुतेश्च। न ज्ञानिकर्म लीलारूपमित्यर्थः ॥

एवंच कर्मकरणेन पापलेपाभावेन भगवत्पूजात्वेन कर्मकरणस्यावश्यकत्वात्। अपि च कर्माकरणे एवं त्वयीति [ई. 2.] वचनात्प्रत्यवायश्रवणात्। अतो ज्ञानिकर्म न लीलामात्रमिति सिद्धं ॥

<3-4-8>
%(8) ॐ ॥ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ॐ ॥%

एवं जैमिनिमतावलंबेन च्चेदिते स्वमतं समर्थयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनादिति ॥% अस्यार्थः ॥ तु शब्दो व्यासमतविशेषद्योतकः। बादरायणस्य त्वेवं ज्ञानादेव सर्वपुरुषार्थप्राप्तिरित्येवं मतं। कुतः। अधिकोपदेशात्। अधिकस्य ज्ञानजन्यमोक्षे कर्माधीनातिशयस्य। ज्ञानादेवेति (कौंठरव्य.) श्रुतावुक्तत्वात्। किंच तद्दर्शनाच्च। तस्य ज्ञानजन्यफले कर्मजन्यातिशयस्य राजसूयादिना (भविष्यत्पर्वणि.) युधिष्ठिरादावुपलंभाच्चेत्यर्थः। अत्र भगवन्मतं देवतानिष्ठज्ञानविषयं। दैमिन्यादिमतं तद्यमनुष्यनिष्ठज्ञानविषयं। अतो न विरोध इति ज्ञेयं ॥

एवंच ज्ञानस्यैव सर्वपुरुषार्थसाधनत्वात्। ज्ञानादेवेति श्रुतौ तथाभिधानात्। युधिष्ठिरादीनां ज्ञानेनैव सिध्यति पुरुषार्थे कर्मणातिशयदर्शनात्। अतो ज्ञानादेव देवानां स्वर्गादिफलस्य कर्मणस्तु तत्रातिशयाधायकत्वेन ज्ञानशेषत्वस्य सिद्धत्वेनाचारादेर्वैयर्थ्याभावाद्विध्यनुपपत्तेरभावात्। ज्ञानादेव सर्वपुरुषार्थप्राप्तिरिति बादरायणमतस्य सद्भावात्। अतो ज्ञानस्य सर्वपुरुषार्थसाधनत्वेनात्यंतापेक्षितं तदिति सिद्धं ॥

<3-4-9>
%(9) ॐ ॥ तुल्यं तु दर्शनं ॥ ॐ ॥%

नन्वस्तु ज्ञानस्य सर्वपुरुषार्थहेतुत्वं कर्मणस्तु तच्छेषत्वं। शेषत्वं च न ज्ञानफलेऽतिशयाधायकत्वेन। नापि तदुत्पत्त्युपयोगित्वेन तदुत्तरभावित्वात्। किंतु ज्ञानेन फले साधयितव्ये सामर्थ्यसंपादकतया ज्ञानेऽतिशयाधायकत्वेनेति किं न स्यादित्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ तुल्यं तु दर्शनमिति ॥% अस्यार्थः ॥ ज्ञानिकर्म न ज्ञानेऽतिशयकृत्। किंतु ज्ञानफल एव। कुतः। यतो दर्शनं ज्ञानं। तुल्यं तु कर्मकरणाकरणयोः समानमेव। अत इत्वर्थः ॥

एवंच ज्ञानिकर्म न ज्ञानेऽतिशयाधायकं। किंतु ज्ञानफल एव। कर्मकरणाकरणयोर्ज्ञानस्य समत्वात्। अन्यथा कर्माभावे ज्ञानस्य पुरुषार्थहेतुत्वं न स्यात्। नापि जैमिनिमतस्थाप्रामाण्यं। तस्य भगवन्मतैकदेशत्वेन प्रामाण्यात्। न च विसंवादिद्वयोः प्रामाण्यायोगः। भगवन्मतस्य देवताविषयत्वात्। जैमिनिमतस्य प्रतिबद्धदेवताविषयत्वेन मानुषविषयत्वेन वाऽविरोधात्। अतो ज्ञानस्य सर्वपुरुषार्थसाधनत्वादत्यंतापेक्षितं तदिति सिद्धं ॥

॥ इति पुरुषार्थाधिकरणं ॥

%2.अधिकरणं ॥%

अत्र ज्ञाने सर्वेषामधिकाराभावो वर्ण्यते।

<3-4-10>
%(10) ॐ ॥ असार्वत्रिकी ॥ ॐ ॥%

नन्वस्ति सर्वेषामपि ज्ञानेऽधिकारः। तदुपयोगिनोऽर्थित्वादेः सर्वत्र सौलभ्यात्। सत्यप्यधिकारप्रयोजके कस्यचिदधिकारे कस्यापि न स्यादिति निरधिकारिताप्रसंगः। अथवा। पुरुषैरर्थ्यमानज्ञानसाध्यस्य मोक्षस्य तदपेक्षितत्वात्। सर्वेषां ज्ञानसाधने श्रवणादौ सामर्थ्यात्तदुपयोगिविद्वत्तासद्भावात्। अतः सर्वेषां ज्ञानाधिकारित्वान्नतदतिशयवदिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ असार्वत्रिकीति ॥% अस्यार्थः ॥ ज्ञानाधिकरिता सर्वजनस्थितानेत्यर्थः ॥

एवंच न सर्वेषां ज्ञानाधिकार इति सिद्धं ॥

<3-4-11>
%(11) ॐ ॥ विभागः शतवत् ॥ ॐ ॥%

नन्वर्थित्वादेः सर्वेषां सद्भावात्कथं नाधिकारितेत्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ विभागः शतवदिति ॥% अस्यार्थः ॥ विभागः केषांचित्ज्ञानाधिकारिता अन्येवां नेति विभागः। शतवत् परापरब्रह्माधिकदेवताशतस्यैव सोमाधिकारः नान्येषामिति विभागवत् नव काट्यो हीत्यादावुक्तत्वादित्यर्थः ॥

एवंच सत्यपि देवत्वे ब्रह्मद्वयाधिकशतानामेव सोमाधिकार इति विभागः। तथा सत्यप्यार्थत्वे केषांचिदधिकारो न सर्वेषामित्यभिप्रायकत्वात्। अतो ज्ञाने सर्वेषामधिकाराभावेनातिशयितं तदिति सिद्धं ॥

<3-4-12>
%(12) ॐ ॥ अध्ययनमात्रवतः ॥ ॐ ॥%

ननु यद्यर्थित्वादिसाम्येऽपि न सर्वेषामधिकारस्तर्हि कस्याप्यसौ न स्यात्। यदि केषांचिदधिकारोऽस्ति तर्ह्यर्थित्वाद्‌व्यतिरिक्ताधिकारप्रयोजकविशेषणस्य वक्तव्यत्वात्। न च तस्तीति सर्वेषां ज्ञानाधिकारित्वान्न तदतिशयवदिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अध्ययनमात्रवत इति ॥% अस्यार्थः ॥ यथाशक्ति सर्ववेदाध्ययनवतो ब्रह्मविद्याधिकारिता नान्वस्येत्यर्थः ॥

एवंच हरिभक्तिपूर्वकाध्ययनवतामेव ग्रहणात्। न चाभक्तस्यानधिकारित्वे चतुर्मुखस्य विरोचनाध्यापने कथं प्रवृत्तिरिति न शंक्यं। अभक्तानामनधिकारितया तदध्ययनस्य वैफल्यमेवेति ज्ञापनायाध्यापनोपपत्तेः। पठेद्वेदानिति [कौषाख.] श्रुतेश्च। अतो ज्ञाने सर्वेषामदिकाराभावादतिशयितं तदिति सिद्धं ॥

॥ इति असार्वत्रिकाधिकरणं ॥

%3.अधिकरणं ॥%

अत्र ज्ञानाधिकारे तारतम्यं समर्थ्यते।

<3-4-13>
%(13) ॐ ॥ नाविशेषात् ॥ ॐ ॥%

ननु सर्वेषामेकप्रकारेणैव ज्ञानाधिकारः। अधिकारतारतम्यकल्पनाभावात्। न च ज्ञानतारतम्यान्यथाऽनुपपत्त्या तत्सिद्धिः। अधिकारसाम्येऽपि प्रयत्नतारतम्यादेव तत्सिद्धेः। अतो न ज्ञानं कर्मणः सकाशादतिशयवदिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ नाविशेषादिति ॥% अस्यार्थः ॥ देवादीनां ज्ञानाधिकारिता। अविशेषात् साम्यात्। न। किंतु तारतम्यादिनेत्यर्थः ॥

एवंच देवादीनां साम्ये न ज्ञानाधिकाराभावः। अन्यथा ज्ञानसाम्यप्रसंगात्। न च शक्तितारतम्येन ज्ञानतारतम्यमुपपन्नं। अधिकारतारतम्याभावे भक्तितारतम्यस्यैवायोगात्। अतः संपूर्णज्ञानाधिकारस्य सर्वसुलभत्वाभावेन सातिशयं ज्ञानमिति सिद्धं ॥

॥ इति अविशेषाधिकरणं ॥

%4.अधिकरणं ॥%

अत्र ज्ञानिनां सदसत्प्रवृत्त्योर्विशेषः साध्यते।

<3-4-14>
%(14) ॐ ॥ स्तुतयेऽनुमतिर्वा ॥ ॐ ॥%

ननु न सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषोऽस्ति केन स्याद्येन स्यादिति [बृ. 5-5-1.] यथेष्ठप्रवृत्तिविधानात्। न हि मोक्षादतिशयितं फलमस्ति। यत्सत्प्रवृत्त्या भवेत्। नापि मोक्षे दुःखमस्ति। यदसत्प्रवृत्त्या भवेत्। अतः सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषाभावेनाद्याधिकारिणोक्तं कर्मणो ज्ञानविशेषत्वमयुक्तमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ स्तुतयेऽनुमतिवेति ॥% अस्यार्थः ॥ ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषोऽस्त्येव। कुतः। यतः यथेष्ठाचारो ज्ञानी मुच्यत एवेति ज्ञानिस्तुतय एव येन स्यात्केन स्यादित्युच्यते। अनुमतिर्वा ज्ञानिनां यथेष्ठाचारेऽभ्यनुज्ञामात्रं वा न त्वत्र यथेष्ठाचारविधिरत इत्यर्थः ॥

एवंच केन स्याद्येन स्यादित्यस्य निषेधशास्त्राबद्धतया ज्ञानिनः स्तुतित्वेनाविधित्वात्। अथवाऽनुमतिमात्रमेतत्। अतोऽस्त्येव ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेष इति सिद्धं ॥

<3-4-15>
%(15) ॐ ॥ कामकारेण चैके ॥ ॐ ॥%

ननु सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषांगीकारो न युज्यते। तथा सत्यसत्प्रवृत्त्या कुंठितशक्तेर्ज्ञानस्य मोक्षसाधनत्वाभावप्रसंगात्। तथा च सदसत्प्रवृत्तिभ्यां कथं विशेषो युज्यत इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ कामकारेण चैक इति ॥% अस्यार्थः ॥ एके शाखिनः। कामकारेण च यथेष्ठाचारेणापि ज्ञानिनां मोक्षं कामचारा इति (सामशाखा.) श्रुतौ पठंति। अतो न ज्ञानिनः सदसत्प्रवृत्त्योर्मोक्षहानिः किंतु फले विशेषमात्रमस्तीत्यर्थः ॥

एवंच कामचारा इति वचनात्ज्ञानिनां यथेष्ठाचारेऽपि मोक्षाभिधानेनासत्प्रवृत्तेरप्रतिबंधकत्वात्तेषां सदसत्प्रवृत्तिभ्यां विशेषोऽस्तीति सिद्धं ॥

<3-4-16>
%(16) ॐ ॥ उपमर्दं च ॥ ॐ ॥%

सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषोऽस्तीतीदमेव साध्यं कैमुत्येन साधयत्सूत्रं पठित्वा च शब्दस्य विषभक्षान्मृतेरिवानिवार्यतया प्राप्तस्य प्रारब्धकर्मणोऽपीत्येवमप्यर्थत्वेन कैमुत्यद्योतकत्वमभिप्रेत्यव्याचष्टे ॥

%॥ ॐ ॥ उपमर्दं चेति ॥% च शब्दोऽप्यर्थः ॥ यदा ज्ञानिनः प्रारब्धकर्मणोऽपि किंचिद्‌भुक्तस्य ज्ञानिनोपमर्दं ईषत्फलह्रासं। ओमित्युच्चार्येति (तुर श्रुतिः) श्रुतावेके साखिनः पठंति तदा ज्ञानोत्तर कालोनासत्कर्म न मोक्षप्रतिबंधकमिति किं वर्णनायमित्यर्थः ॥

एवंच प्रारब्धस्यापि पापस्योपमर्देनोमित्युच्चार्येति श्रुतौ मोक्षः श्रूयते। ततश्च ज्ञानिकृतपापस्य मोक्षाप्रतिबंधकत्वमित्यनायासेन सिद्धं ॥

<3-4-17>
%(17) ॐ ॥ ऊर्ध्वरेतःसु च शब्दे हि ॥ ॐ ॥%

ननु यदिकामचाराणामपि ज्ञानिनां मुक्तियोग्यता तर्हि तद्वज्जिज्ञासूनामपि कामचाराणां ज्ञानाधिकारः स्थात्। अविशेषात्। तथा चाध्ययनमात्रवत इत्युक्तस्य विष्णुभक्तिशमदमादिवतामेवाधिकार इत्यस्य बाधः स्यादित्याशंकामपाकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ ऊर्ध्वरेतः सु च शब्दे हीति ॥% अस्यार्थः ॥ कामचाराणामपि ज्ञानिनां मुक्त्याधिकारवत्कामचाराणां जिज्ञासूनां न ज्ञानाधिकारः। कुतः। हि यस्मात्। शब्दे य इममिवि (माठर.) श्रुतावूर्ध्वरेतत्स्वादि गुणवत्स्वेव ज्ञानोपदेशो विहितः। तस्मादित्यर्थः ॥

एवंच निर्दिष्टश्रुत्या गुरुकुलवासब्रह्मचर्यापरपर्यायोर्ध्वरेतस्त्वादि गुणवत्स्वेव ज्ञानोपदेशस्य विहितत्वात्कामचाराणां जिज्ञासूनां सुतरामपरोक्षज्ञानाधिकाराभावेन तेषामपरोक्षज्ञानाधिकाराभावत्वमिति सिद्धं ॥

<3-4-18>
%(18) ॐ ॥ परामर्शं जैमिनिरचोदना चापवदति हि ॥ ॐ ॥%

एवं केनस्यादित्यस्य यथेष्ठाचारविधित्वमनंगीकृत्य स्तुत्यनुमतिरूपार्थावुक्तौ। अधुना यथेष्ठाचारविधित्वानंगीकारेणैव यज्जैमिनिनाऽर्थांतरमुक्तं तत्प्रतिपादयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ परामर्शं जैमिनिरचोदना चापवदति हीति ॥% अस्यार्थः ॥ जैमिनिः परामर्शं येन स्यादिति वाक्ये प्रातरुत्थायेत्यादिश्रुत्युक्तसदाचारस्यैव ग्रहणमभ्युपेत्यात्र सदाचारस्यैव स्वेच्छया नियमेनाचरणं प्रतिपाद्यं। न तु निषिद्धस्य करणमिति मन्यते। कुतः। हि यस्मात्। अचोदना अनिषिद्धं ज्ञानिना कार्यमिति विध्यभावः अपवदति च प्रत्युत ब्राह्मणो न हंतव्य इति श्रुतिः विकर्म निषेधति च इति। तस्मादित्यर्थः ॥

एवंच प्रातरुत्थायाथ संध्यामुपासीतेत्यादिना ज्ञानिनो संध्यावंदनाद्यचारपरामर्शाद्विधिबंधवर्जित्वेन कामचारणमेव येन स्यादिति श्रुत्या चोच्यते। न तु निषिद्धं कर्तव्यमेवेति विधीयते। ब्रह्मणो न हंतव्य इत्यपवाद श्रवणात्। अतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेष इति सिद्धं ॥

<3-4-19>
%(19) ॐ ॥ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ ॐ ॥%

एवं येन स्यादिति वाक्यस्य जैमिनिमतानुसारेण स्वेच्छया सदाचारविधित्वमेवोक्त्वा यत्स्तुतयेऽनुमतिर्वेत्युक्तमभ्यनुज्ञानं तदेव कामचारश्रुत्यर्थतया प्रतिपादयत्सूत्रं पठति ॥

%॥ ॐ ॥ अनुष्ठेयं बादरायणः साम्यश्रुतेरिति ॥% अस्यार्थः ॥ बादरायणः भगवान् बादरायणस्तु। अनुष्ठेयं स्वेच्छया श्रुत्याद्युक्तानुष्ठानयोग्यकिंचित्कर्माचरणाभ्यनुज्ञानमेव येन स्यादिति श्रुतेरर्थः। नतु सर्वकर्मकरणाय यथेष्ठाचारविधिरेवेति मन्यते। कुतः। साम्युतेः। केनापि प्रकारेण प्रवृत्तावपि ईदृश एवेति ज्ञानिनः साम्योक्तेः ॥

एवंचानुष्ठेयानां मध्ये कामचारो यस्मिन्करवाणीति कामस्तस्यानुचरणं यस्मिन्न करवाणीति कामस्तस्यानाचरणमित्येवानुष्ठेये कामचारानुमतेरेव न तु सर्वेषां कामचारस्य येन स्यादिति श्रुतावुक्तत्वात्। ज्ञानिनः करणाकरणयोर्येन स्यादिति साम्यश्रुतेः [बृ. 5-5-1.]। इति बादरायणो मन्यते। अतो ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेष इति सिद्धं ॥

<3-4-20>
%(20) ॐ ॥ विधिर्वा धारणवत् ॥ ॐ ॥%

एवं केन स्यादिति वाक्यस्य यथेष्ठाचारविधित्वाभावमभ्युपेत्य नियमेन सर्वदाचारविधित्वमनुष्ठेयानां मध्ये कामचाराभ्यनुज्ञानमित्यर्थद्वयं स्तुत्यनुमतिरूपार्थद्वयं चोक्तं। अधुना स्वेच्छाचारणविधिर्वा भवतीत्यर्थप्रतिपादकं सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ विधिर्वा धारणवदिति ॥% अस्यार्थः ॥ यथा वेद धारणविधेः त्रैवर्णिकाधिकारिकत्वमेव न तु सर्वाधिकारिकत्वं। तथा विधिः ज्ञानिनामेव येन स्यादिति स्वेच्छाचारविधिः नत्वज्ञानिनामित्यर्थः। वा शब्दः प्रागुक्तपक्षद्वयात् अस्य पक्षांतरावद्योतकः ॥

एवंच त्रैवर्णिकानां वेदविधिधारणवद्येन स्यादिति स्वेच्छाचारविधेर्ज्ञानिनामेव सद्भावात्। ततश्चोक्तं युक्तमेवेति सिद्धं ॥

<3-4-21>
%(21)ॐ ॥ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ॐ ॥%

उक्तमाक्षिप्य समादधत्सूत्रं पठति ॥

%॥ ॐ ॥ स्तुतिमात्रमुपादानमिति चेन्नापूर्वत्वादिति ॥% अस्यार्थः ॥ केन स्यादिति वाक्यं पूर्वोक्तम्तुतिरेव न स्वेच्छाचरणविधिः। कुतः। उपादानात् ज्ञानिभिरपि संध्यामुपासीतेत्यादिसाधारणविधस्वीकारादिति चेन्न। कुतः। अपूर्वत्वात् अ शब्दवाच्यपरमात्माधीनत्वादित्यर्थः ॥ तथा च ज्ञानिनः स्वेच्छाचरणविधेरप्यभावे सर्वविध्यतिदूरत्वप्रसंगेन परमात्माधीनत्वं न स्यादिति भावः ॥

एवंच विरिंचस्य पूर्वमनादिब्रह्मत्वाभावेन परब्रह्मणो वशगत्वात्। अनादिभिन्नस्य कस्माच्चिदुत्पत्तेरावश्यकत्वे तस्य तदधीनत्वात्। सर्वविधिनिषेधगोचरत्वेन विधिविषयत्वं विना स्तुमिमात्रविषयत्वस्य ब्रह्मण्येव सत्त्वात्। विधीनां विषया इति [ब्रह्मतर्के.] वचनात्। अत उक्तं युक्तमिति सिद्धं ॥

<3-4-22>
%(22) ॐ ॥ भावशब्दाच्च ॥ ॐ ॥%

ननु ज्ञानिनां स्वेच्छाचरणविधेः स्फुटप्रमाणसिद्धत्वे भवेत् येन स्यादिति वाक्यं स्वेच्छाचरणविध्यर्थकं। विधेः स्फुटप्रमाणसिद्धत्वमेव कुत इत्याशंकायां सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ भावशब्दाच्चेतिन ॥% अस्यार्थः ॥ भावः इच्छाभावशब्दघटित यथा विधानमिति (तुर श्रुतिः) श्रुतेश्च केन स्यादित्ययं कामचार विधिरित्यर्थः ॥

एवंच केन स्यादित्यस्य विध्यति दूरत्वेन ज्ञानिनः स्तुतित्वे संध्यावंदनादिसामान्यविध्यभावस्यानने वाक्येनोक्तत्वात्। स्वेच्छाचरणविधेश्च वादिनाऽनंगीकारात्। सर्वविध्यतिदूरत्वेन स्तुतित्वप्रसंगात्। न च तदिष्टं। तस्येश्वरधर्मत्वात्। अत उक्तं युक्तमिति सिद्धं ॥

<3-4-23>
%(23) ॐ ॥ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ ॐ ॥%

ननु केन स्यादिति वाक्यस्य प्रातरुत्थायेति वाक्यानुसारेण जैमिनिमतमवलंब्य ज्ञानिभिः समस्तं कार्यमित्युक्तं। तथा च यस्त्वात्मरतिरिति [गी. 3-17.] वाक्यानुसारेण स्वेच्छाचरणानुज्ञानमर्थ उक्तः। पुनश्च यथापि विधानमित्याद्यनुसारेण स्वेच्छाचरणविधायकत्वमुक्तं। ततश्चैवं वाक्यं न कस्याप्यर्थस्य निश्चायकं स्यादिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ पारिप्लवार्था इति चेन्न विशेषितत्वादिति ॥% अस्यार्थः ॥ नियमेन सर्वधर्माचरणविधिपक्षस्यानुष्ठेयानां मध्ये स्वेच्छया कतिपयधर्माचरणाभ्यनुज्ञानपक्षस्य स्वेच्छाचरणविधिपक्षस्य च परस्परविरुद्धत्वात्। येनस्यादित्यादयः पारिप्लवार्थाः अव्यवस्थितार्थका इति चेन्न। कुतः। विशेषितत्वात् त्रेधा हि ज्ञानिना इति (गौपवन.) श्रुतौ ज्ञानिनां विधिनियतादि पदैर्विशेषितत्वेन तेषामनेकप्रकारत्वस्योक्तत्वादित्यर्थः ॥

एवंच ज्ञानिनां त्रिविधत्वेन तदधिकारानुसारेण तत्तन्निश्चायकत्वसंभवात्। तत्र विधिनियतामनुष्या अनियता देवाः स्वेच्छानियतस्तु चतुर्मुख इति विवेकः। अत उक्तं युक्तमिति सिद्धं ॥

<3-4-24>
%(24) ॐ ॥ तथा चैकवाक्योपबंधात् ॥ ॐ ॥%

ननु ज्ञानिनामनेकप्रकारत्वोक्त्या कथं परिहारो जात इत्याशंकां पराकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ तथा चैकवाक्योपबंधादिति ॥% अस्यार्थः ॥ उक्तपक्षत्रयानुसारिवाक्यानां अधिकारिभेदमाश्रित्याविरोधोनैकवाक्यतायाः युक्तत्वात्। तथा च श्रुतीनामेकवाक्यत्वे सिद्धे येन स्यादिति वाक्यस्यापि एकवाक्योपबंधात् अधिकारिभेदेन व्यवस्थितार्थकत्वोपपत्तेः न पारिप्लवार्थत्वमित्यर्थः ॥ तथा च जैमिनिमतं मनुष्यज्ञानिविषयं। व्यासमतं देवताविषयं। विधिर्वेति मतं विधिवेत्तविषयमिति न विरोध इति भावः ॥

एवंच प्रातरुत्थायेत्यादीनां तथा यथा विधानमपर इति [तुर श्रुतिः] वाक्यस्य चाविरोधेनोक्तं युक्तमिति सिद्धं ॥

<3-4-25>
%(25) ॐ ॥ अत एव चाग्नींधनाद्यनपेक्षा ॥ ॐ ॥%

एवं ज्ञानिनः केन स्यादिति श्रुतिबलेन सदसत्प्रवृत्त्योः शंकितो विशेषः श्रुतेरर्थांतरोक्त्या परामर्शमित्यादिना परिहृतः। तत्रोक्तं ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषे ज्ञानस्यासत्प्रवृत्तिकुंठितशक्तेर्मोक्षसाधनविधुरत्वं कामकारेण चैक इत्यादिना परिहृतं। अत्र तु सत्प्रवृत्त्या ज्ञानिनां विशेषस्यासत्प्रवृत्तिसमुचितमेव ज्ञानं मोक्षसाधनमिति तद्विधुराणां ज्ञानिनां मोक्षो न स्यादित्याशंकां पराकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ अत एवचाग्नींधनाद्यनपेक्षेति ॥% अस्यार्थः ॥ ज्ञानस्य मोक्षसाधनत्वे अग्नींधनाद्यनपेक्षा अग्निहोत्रादिसत्कर्मसापेक्षितत्वं नास्ति। कुतः। अत एव कामचाराणामपि मोक्षस्य प्रमाणसिद्धत्वादित्यर्थः ॥

एवंच न ब्रूमो वयमग्निहोत्रादिसमुचितस्यैव ज्ञानस्य मोक्षसाधनत्वं येनोक्तदोषः स्यात्। न चैवं। किं नाम केवलस्यैव मोक्षहेतुत्वं। कामचाराणमपि मोक्षश्रवणात्। अतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेषसद्भावेन मोक्षो नियत एवेति सिद्धं ॥

<3-4-26>
%(26) ॐ ॥ सर्वापेक्षा च यज्ञादिश्रुतेरस्ववत् ॥ ॐ ॥%

नन्वस्तु ज्ञानिनः सत्प्रवृत्त्या विशेषः। स च मोक्षप्राप्तिरूप एव। नाधिक्यरूपः। न चैवं ज्ञानिनां सुकृतौ कृतावकृतौ च मोक्षश्रुतिविरोधः। तत्प्रवृत्तेर्मोक्षहेतुत्वेप्यसत्प्रवृत्तेरप्रतिबंधकत्वेन तदुपपत्तेरित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ सर्वापेक्षा च यज्ञादिश्रुतेरस्ववदिति ॥% अस्यार्थः ॥ अश्ववत् यथा गतिसाधनाश्वादयः गतिनिष्पत्यर्थमेवापेक्षंते न तत्फलग्रामादिप्राप्त्यर्थ। तथा मोक्षसाधनज्ञानोत्पत्तावेव। सर्वापेक्षा सर्वधर्मापेक्षा। न तु ज्ञानफलमोक्षेऽपि। कुतः। यज्ञादिश्रतेः विवदिष्यंति यज्ञेनेति (बृ. 6-4-22.) श्रुतेरित्यर्थः ॥

एवंच ज्ञानार्थं तावत्सर्वकर्मणोऽपेक्षितत्वेन तेषां निष्पन्नज्ञानस्य मोक्षप्राप्त्यर्थमनपेक्षणात्। तत्र निर्दिष्टनिदर्शनसद्भावात्। अतः सदसत्प्रवृत्तिभ्यां ज्ञानिनां विशेष इति सिद्धं ॥

<3-4-27>
%(27) ॐ ॥ शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदंगतया तेषामवश्यानुष्ठेयत्वात् ॥ ॐ ॥%

ननु यदि सदसत्प्रवृत्तिभ्यां मोक्षतदभावयोरभावस्तर्हि ज्ञानिनस्ताभ्यां विशेषो नास्तीति न तेन सत्कर्म कार्यमसत्कार्यं त्याज्यं। न च ताभ्यां मोक्षे आधिक्यादि भवतीत्युक्तमिति वाच्यं। ज्ञानादेवेति श्रुतेर्ज्ञानादेव तदुपपत्तेरित्याशंकां पराकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधस्तदंगतया तेषामवश्यानुष्ठेयत्वादिति ॥% अस्यार्थः ॥ यद्यपि ज्ञानेनैव मोक्षो नियतः। तथाऽपि ज्ञानी शमदमाद्यपेतः स्यात् शमदमादियुक्तो भवेत्। कुतः। तद्विधेः आचार्यादिति (माठर श्रुतिः) श्रुत्या तस्य ज्ञानिनः शमदमादेर्विधानात्। तथाऽपि न ज्ञानिनः शमदमादिवैयर्थ्यं। कुतः। तदंगतया ज्ञानगंतया तेषां शमदमादीनामवश्यानुष्ठेयत्वात्। अवश्यमनुष्टानार्हत्वात् । तु शब्दः शमदमादेः पूर्णफलार्थत्वं सूचयति ॥

एवंच न च ज्ञानिनां सत्कार्यमसत्त्याज्यमित्यनियमः सदसदनुष्ठानपरित्यागाभ्यां विशेषाभावादिति वाच्यं। अचार्याद्विद्यामिति माठर श्रुतौ ज्ञानिनोऽपि तद्विधानात्। ब्राह्मी वावेति श्रुतौ [केन. 4-7-9.] शमदमादीनामंगत्वाभिधानाच्च। अतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेष इति सिद्धं ॥

<3-4-28>
%(28) ॐ ॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ ॐ ॥%

ननु यदि सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषः। कथं तर्ह्येवं विन्निखिलं भक्षयीतेति तस्य निषिद्धान्न भोजनेऽपिह्रासाभावोक्तिः संभवति। तस्मानन विशेषः स्यादिति पूर्वोक्तस्य तर्कपराहतिमाशंक्य परिहरत्सूत्रमाचष्टे ॥

%॥ ॐ ॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनादिति ॥% अस्यार्थः ॥ च शब्द एवार्थे। ज्ञानिनः सर्वान्नानुमतिः यदि ह वा अप्येवं विदिति निषिद्धानिषिद्धभक्षणस्याभ्यनुज्ञानश्रुतिः। प्राणात्यये प्राणत्यागकालविषयैव न तु सर्वकालविषया। कुतः। तद्दर्शनात् तस्मिन्नर्थे न वाऽजीविष्यमिति (छां. 1-10-4.) श्रुतेस्तदर्थरूपलिंगदर्शनाच्चेत्यर्थः ॥

एवंच जीवनोपाययुक्तनिषिद्ध भक्षणानुमतिस्ततोऽधिकरागप्राप्तानुपानप्रत्याख्यानरूपलिंगप्रतिपादकवचनात्। अतो ह्रासाभावोक्तेरन्यथोपपन्नत्वेन न तद्बलाज्ज्ञानिनः सदसत्प्रवृत्त्योरविशेषः शंकनीय इति ज्ञानिनाऽपि निषिद्धं न कार्यमेव। ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषाम्युपगमे यदि ह वा इति सर्वान्नानुमतिश्रुतेः प्राणात्ययकालविषयत्वेन तद्बाधाभावात्। अतः सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेष इति सिद्धं ॥

<3-4-29>
%(29) ॐ ॥ अबाधाच्च ॥ ॐ ॥%

ननु यदत्रोक्तं ज्ञानिनां न निषिद्धं त्याज्यमिति तत्र किं निषिद्धाकरणे बाधकसद्भावान्निषिद्धं न कर्तव्यमित्युच्यते उत विधिसद्भावादिति प्राप्ते सत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अबाधाच्चेति ॥% अस्यार्थः ॥ ज्ञानिनां निषिद्धाकरणे बाधकाभावाच्च निषिद्धं न कार्यमित्यर्थः ॥

एवंच न केवलं निषिद्धकरणे साधकप्रमाणाभावात्ज्ञानिनः सदसत्प्रवृत्त्योरपिशेषो न युक्तः। किंतु निषिद्धाकरणे बाधकाभावात्। अन्याय्यचरणाभाव इति [ब्रह्मतर्के.] वचनादुक्तहेत्वोरसिद्धेः ततश्च ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेषोऽस्तीति सिद्धं ॥

<3-4-30>
%(30) ॐ ॥ अपि स्मर्यते ॥ ॐ ॥%

ननु ज्ञानिनो निषिद्धकरणनिषेधकप्रमाणाभावान्न सदसत्प्रवृत्त्योर्विशेषो युक्त इत्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अपि स्मर्यत इति ॥% अस्यार्थः ॥ तत्करणेऽल्पफलता च अतीते(हरिवंशेषु.)त्यादिना कृष्णादिभिः स्मृतिभिर्निषिद्धं न कार्यमिति स्मर्यते च। अतोऽपि न निषिद्धं ज्ञानिभिः कार्यमित्यर्थः ॥

एवंच ज्ञानिनस्त्रैलोक्यस्य पापोद्धरणक्षमत्वात्। अतीतानागतेति हरिवंशवचनात्सत्कर्मकरणस्य निषिद्धाकरमस्य च परित्यागं न कार्यमित्युक्तत्वात्। अतोऽपि न ज्ञानिभिर्निषिद्धं कार्यमिति सिद्धं ॥

<3-4-31>
%(31) ॐ ॥ शब्दश्चाऽतोऽकामचारे ॥ ॐ ॥%

ज्ञानिना निषिद्धकरणे न केवलं स्मृतिरेव निषेधिका किंतु श्रुतिरपीत्याह सूत्रकृत् ॥

%॥ ॐ ॥ शब्दश्चाऽतोऽकामचार इति ॥% अस्यार्थः ॥ चो यतः अकामचारे निषिद्ध कर्माभावे। शब्दः स य एतदेवं विदिति (कौडिन्य.) श्रुतिरस्ति। अतोऽपि न निषिद्धं ज्ञानिना कार्यमित्यर्थः ॥

एवंच निर्दिष्टश्रुत्या कामचारस्याल्पफलत्वोक्तेः। सत्प्रवृत्तेः पूर्णफलकत्वसूचनेनासत्प्रवृत्तेरल्पफलत्वस्यार्थादागतत्वात्। अतः पूर्णं यत्ज्ञानफलं तदिच्छुः सन् निषिद्धानि कर्माणि नानुवर्तेतेति सिद्धं ॥

<3-4-32>
%(32) ॐ ॥ विहितत्वाच्चाश्रमकर्माऽपि ॥ ॐ ॥%

नन्वस्तु निषिद्धाचरणे पलह्रासादिबाधकसद्भावात्तत्परित्यागस्तथाऽपि न हानिर्वर्णाश्रमोचितं कार्यं। ह्रासकारणाभावे ज्ञानादेव पूर्णफलसिद्धेरित्याशंकां परिहरत्सूत्रं पठति ॥

%॥ॐ ॥ विहितत्वाच्चाश्रमकर्माऽपीति ॥% अस्यार्थः ॥ चः कारणसमुच्चये। अपि वर्णाश्रमधर्मसमुच्चये ज्ञानिना न केवलं निषिद्धमकार्यं। किंत्वाश्रमधर्मोऽपि वर्णाश्रमोचितकर्माऽपि संपूर्णफलार्थं कार्यं। कुतः। विहितत्वात्। पश्यन्नपीति (कौषारव.) श्रुतिविहितत्वादित्यर्थः ॥

एवंच निर्दिष्टश्रुत्या ज्ञानिनां संपूर्णफलार्थं वर्णाश्रमोचितमपि न कार्यमिति सिद्धं ॥

<3-4-33>
%(33) ॐ ॥ सहकारित्वेन च ॥ ॐ ॥%

ननु विहितत्वेऽपि न ज्ञानिना सत्कर्मानुष्ठेयं। फलाभावात्। ह्रासकारणाभावे ज्ञानादेव पूर्णफलसिद्धेः। अन्यथा समुच्चयवादापत्तिरित्याशंकामपाकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ सहकारित्वेन चेति ॥% अस्यार्थः ॥ ज्ञानिना फलसंपूर्णसिध्यै सत्कर्म कार्यमेव कुतः। यथा राज्ञ इति (कमठ.) श्रुतौ मोक्षफलातिशयकर्मणो ज्ञानसहकारित्वेनोक्तत्वाच्चेत्यर्थः ॥

एवंच यथा मंत्रिणं विनाऽपि कार्यकरणसमर्थस्य राज्ञः फलातिशयहेतुत्वेन मंत्रीसहकार्येवं सदाचारं विनाऽपि मोक्षदानसमर्थस्य फलातिशयहेतुत्वेन सहकारिणः सदाचारस्यावश्यकत्वात्। अतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेषसद्भावेऽपि मोक्षो नियत एवेति सिद्धं ॥

॥ इति स्तुत्यधिकरणं ॥

%5.अधिकरणं ॥%

अत्र ब्रह्मज्ञानस्याधिकारिमात्रप्राप्यत्वं वर्ण्यते।

<3-4-34>
%(34) ॐ ॥ सर्वथाऽपि तु त एवोभयलिंगात् ॥ ॐ ॥%

नन्वनधिकारिभिरपि ज्ञानमाप्यते। असुराणामपि प्रल्हादादीनां ज्ञानस्मृतेः। न च स्मृत्युक्तमप्यसंभावितत्वान्न सिध्यतीति वाच्यं। वेदानधिकारेऽपि शूद्राणां वेदप्राप्तेर्दृष्टत्वेन तदनधिकारिणां तत्प्राप्तेः संभावितत्वात्म। अतोऽयोग्यैरपि ज्ञानस्य प्राप्तुं शक्यत्वेनायोग्यानामपि मोक्ष इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ सर्वथाऽपि तु त एवोभयलिंगादिति ॥% अस्यार्थः ॥ सर्वथाऽपि देशकालगुरूपदेशाद्यनेकसाधनसंपत्तावपि ये ज्ञानयोग्याः त एव ज्ञानमाप्नुवंति। नायोग्याः। कुतः। उभयलिंगात्। उभयोः योग्यायोग्ययोः इंद्रविरोचनयोः। विरिंचोपदेशसाम्येऽपि सम्यग्विपरीतज्ञानप्राप्तिरूपज्ञा पकादेवेत्यर्थः ॥

एवंच गुरूपसत्त्याद्यनेकोत्साहेऽपि योग्यानामेव ज्ञानप्राप्तिर्नायोग्यानां। य आत्मेती [छां. 8-7-3.] द्रविरोचनयोरेकप्रकारेण चतुर्मुखोपदेशेऽपद्रि एव सम्यग्ज्ञानमाप। विरोचनस्तु विपरीतज्ञानमापेत्युभयविधलिंगात्। अतो भगवत्ज्ञानस्य योग्यैकसाध्यत्वेन योग्यानामेव मोक्ष इति सिद्धं ॥

<3-4-35>
%(35) ॐ ॥ अनभिभवं च दर्शयति ॥ ॐ ॥%

ननु महताप्रयत्नेनायोग्यताया अभिभावयितुं शक्यत्वादयोग्यानामपि ज्ञानप्राप्तिर्भवेत्। दृष्टं हि विश्वामित्रस्य महताप्रयत्नेन विप्रत्वमित्याशंकामपाकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ अनभिभवं च दर्शयतीति ॥% अस्यार्थः ॥ चो यतः। दैवीमेवेति श्रुतिः। न केवलं योग्यायोग्यस्वरूपं दर्शयति। किंत्वनाभिभवं च। दर्शयति प्रतिपादयति। अतो नायोग्यानां ज्ञानप्राप्तिरित्यर्थः ॥

एवंच निर्दिष्टश्रुत्या देवासुरस्वभावस्य योग्यायोग्यत्वयोः प्रतिपादितत्वाद्योग्यानामेव मोक्ष इति सिद्धं ॥

<3-4-36>
%(36) ॐ ॥ अंतरा चापि तु तद्दृष्टेः ॥ ॐ ॥%

ननु मास्तु तमोयोग्यानां मुक्तियोग्यानां चातिदार्ढ्येन स्वभावाभिभवायोगेन सम्यग्विपरीतज्ञानप्राप्तिः। तथाऽपि सा मध्यममनुष्याणां भवतु। कोटिद्वयविषयकतया तत्ज्ञानस्य दार्ढ्याभावेन तत्स्वभावाभिभवस्य कर्तुं शक्यत्वादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अंतरा चापितु तद्दृष्टेरिति ॥% अस्यार्थः ॥ च शब्दस्तु शब्दोऽवधारणे। अंतरा सम्यग्ज्ञानविपरीतज्ञानयोर्मध्ये। स्थितानां नित्यसंसारिणामपि मिश्रस्वभावानभिभव एव कुतः। तद्दृष्टेः तेषां तस्मिन्मिश्रज्ञान एव तस्योदाहृतस्य दृष्टेर्दर्शनादित्यर्थः ॥

एवंच मिश्रज्ञानं एव तेषां दार्ढ्यदृष्टेस्तत्स्वभावाभिभवाभावान्मोक्षो योग्यानामेवेति सिद्धं ॥

<3-4-37>
%(37) ॐ ॥ अपि स्मर्यते ॥ ॐ ॥%

ननु देवानां मानवानां सम्यग्ज्ञानादिस्वभावत्वे तद्योग्यतास्वभावत्वे च भवेदभिभवाभावः। तदेव कुतः। तादृशस्वभावत्वे च तथा फलेन भाव्यं। तदपि कुत इत्याशंकां स्मृत्या परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अपि स्मर्यत इति ॥% अस्यार्थः ॥ कृष्णादिभिः स्वभावानभिभवः असुरा इति (स्कांदे.) स्मर्यते च अतोऽपि देवदानवमानवस्वभावानां नाभिभव इत्यर्थः ॥

एवंचासुरा आसुरेणैवेति स्कांदवचनाद्देवादीनां तत्तत्स्वभावानुसारिणा कर्मणा ज्ञानेन च तत्तत्स्वभावस्य तादृश फलस्य च तथा तत्तत्फलस्वभावायोर्व्यत्यासाभावस्य चोक्तत्वेनोक्तं युक्तमिति सिद्धं ॥

<3-4-38>
%(38) ॐ ॥ विशेषानुग्रहं च ॥ ॐ ॥%

हेत्वंतरेण देवानामेव सम्यग्ज्ञान तत्फले नान्येषामित्यर्थप्रतिपादकसूत्रमुपन्यस्य तदपेक्षितं पूरयति ॥

%॥ ॐ ॥ विशेषानुग्रहं चेति ॥% अस्यार्थः ॥ च शब्दो युक्तिसमुच्चये। यतः शृण्वे वीर (ऋ. 6-47-16.) इति श्रुतिः परमेश्वरस्य विशेषानुग्रहं च। दर्शयति प्रतिपादयति। अतो देवानामेव सम्यक् ज्ञानतत्फले नान्येषामित्यर्थः ॥

एवंच शृण्वे वीर इत्यसुरान्दमयन्निति [भविष्यत्पर्वणि.] च श्रुतिस्मृत्योर्देवेषु विशेषानुग्राहकयोः प्रमाणत्वेन देवानामेव नान्येषां सम्यज्ञानफले भवत इति सिद्धं ॥

<3-4-39>
%(39) ॐ ॥ अतस्त्वितरज्ज्यायो लिंगाच्च ॥ ॐ ॥%

ननु यदुक्तं श्रुतिस्मृतिभ्यां न दैत्यानां तत्स्वभावाभिभवेन देवत्वप्राप्तिरिति तदेव युक्त्याऽपि समर्थयत्सूत्रं पठति ॥

%॥ ॐ ॥ अतस्त्वितरज्ज्यायो लिंगाच्चेति ॥% अस्यार्थः ॥ तु शब्दोऽवधारणे। अतो देवभागादसुरभागस्य कदाप्यूनत्वाभावात्। इतरत् असुरवृंदमेव। अतो देवभागाज्ज्यायः बहुलं। कुतः। लिंगात् तस्माज्जनतां न यियादिति (बृ. 3-3-10.) जनसंघप्रवेश निषेधोक्त्यन्यथाऽनुपपत्तिरूपलिंगात्। च शब्दसूचित ततः कनीयस इति (बृ. 3-3-1.) श्रुतेश्चेत्यर्थः ॥

एवंचासुराणां देवत्वे प्राप्ते दैत्यभागस्य कालक्रमेण क्षीणत्वमापन्नं स्यात्। प्रत्यहं ब्राह्मणाय दीयमानधान्यादिराशेः क्षयदर्शनात्। न च तदस्ति। असुरा बहुला इति वचनात्। तेन न दैत्यानां स्वरूपोपमर्देन देवत्वं भवतीति सिद्धं ॥

<3-4-40>
%(40) ॐ ॥ तद्‌भूतस्य तु तद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ॥ ॐ ॥%

जैमिनिमतेनापि स्वरूपाभिभवो नेत्यर्थं समर्थयत्सूत्रं पठति ॥

%॥ ॐ ॥ तद्‌भूतस्य तु तद्‌भावो जैमिनिरपि नियमात्तद्रूपाभावेभ्य इति ॥% अस्यार्थः ॥ तद्‌भूतस्य तु देवभूतस्यैव। तद्भावः देवताभावः एवमसुरस्यैवासुरभावः जैमिनेराचार्यस्यापि सिद्ध एव। कुतः। नियमात्तद्रूपाभावेभ्यः। नासुरा इति च शब्दसूचितश्रुतेः नासुराणामिति अतद्रूपत्वश्रुतेः। अभावः अभूतिः देवासुराणां। तं। भूरिति (ऐ.आ. 2-18.) भाव शब्दितश्रुतेरित्यर्थः ॥

एवंच निर्दिष्टश्रुतिभिरसुरजातेरेवासुरत्वं देवजातेरेव देवत्वमिति जैमिनेराचार्यस्यापि सिद्धं ॥ स्वरपतो देवानां प्रल्हादादीनां ब्रह्मादिशापेन तिरोहितस्वभावत्त्वात्। तेषां पुनर्निजस्वरूपत्वमुपपन्नं। कारणांतरादुक्तस्यान्यथाभावाभावात्। अतो भगवत्ज्ञानस्य योग्यैकसाध्यत्वेन योग्यानामेव मोक्ष इति सिद्धं ॥

॥ इति उभयलिंगाधिकरणं ॥

%6.अधिकरणं ॥%

अत्र ब्रह्मज्ञानस्य देवतापदाकांक्षाशून्यैरेव प्राप्यत्वमहिमा वर्ण्यते।

<3-4-41>
%(41) ॐ ॥ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ॐ ॥%

ननु देवतापदमन्यैः प्राप्यं। स्वधर्मनिष्ठेत्यादेः। अतो देवत्वादिकमस्वाभाविकं। अपि तु प्रयत्नाधीनं। ततश्चायोग्यैरपि ज्ञानं प्राप्यमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ न चाधिकारिकमपि पतनानुमानात्तदयोगादिति ॥% अस्यार्थः ॥ च शब्दः ज्ञानार्थिनां अयोग्याकांक्षा वर्जनरूपेतिकर्तव्यतांतरसूचकः। आधिकारिकमपि देवतापदमपीतरैर्नकांक्ष्यं। भगवदैश्वर्यादिकं तु सुतरामिति सूचयितुमपि शब्दः। कुतः। पतनानुमानात्। अयोग्येच्छात्वतः पतनस्य स्मार्तयुक्तिसिद्धत्वात्। अत एव तदयोगात्। अयोग्याकांक्षायाः कर्तुमयुक्तत्वादित्यर्थः ॥

एवंच न देवपदमन्यैः प्राप्यं। तदाकांक्षामात्रस्य पातहेतुत्वात्। ब्रह्मादिपदाकांक्षावान्पतति अयोग्यवृत्तिमत्त्वात्। अयोग्यवृक्षारोहाय प्रयतमानवदिंति प्रयोगसंभवात्। देवासुरेति वचनाद्योग्यत्वविशेषणसिद्धेः। न च प्रयत्नस्य पतनकारणत्वेऽपि नेच्छामात्रं पतनकारणमिति। स्वकीयमिच्छमानमिति वचनात्। अतो ब्रह्मादिपदस्य तद्योग्यैकलभ्यत्वेनोक्तं युक्तमिति सिद्धं ॥

<3-4-42>
%(42) ॐ ॥ उपपूर्वमपीत्येके भावशमनवत्तदुक्तं ॥ ॐ ॥%

कैमुत्येनापि देवतापदाकांक्षाऽयोगं साधनयत्सूत्रं पठति ॥

%॥ ॐ ॥ उपपूर्वमपीत्येके भावशमनवत्तदुक्तमिति ॥% अस्यार्थः ॥ भावशमनवत्। भावे चित्ते। शमनं भगवननिष्ठा येषां ते भावशमनः। ऋषयः। तत्पदं यथा नाकांक्ष्यं। तथा उपपूर्वमपि उपशब्दपूर्वकोपदेवशब्दोक्तगंधर्वपदमपि ज्ञानिभिर्ना कांक्ष्यं। किमुत सुतरां देवादिपदमिति सूचयितुमपि शब्दः। इत्येके शाखिनः मन्यंते। कुतः। यतो ज्ञानार्थिना यथेतींद्रद्युम्नश्रुतौ। तदुक्तं तथोक्तं। अत इत्यर्थः ॥

एवंच ब्रह्मादिपदस्य तद्योग्यैकलभ्यत्वादुक्तं युक्तमिति सिद्धं ॥

<3-4-43>
%(43) ॐ ॥ बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॥ ॐ ॥%

ज्ञानार्थिना यथा देवादिपदं नाकांक्ष्यमेवं ज्ञानभक्त्यादिकमाकांक्ष्यं न वेति संदेहमपाकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ बहिस्तुभयथाऽपि स्मृतेराचाराच्चेति ॥% अस्यार्थः ॥ बहिस्तु देवादिपदेभ्योऽन्यत्र। ज्ञाने भक्त्यादिविषये। उभयथाकांक्षायामनाकांक्षायामपि न दोषः। कुतः। देवर्षीति स्मृतेराचाराच्च नानात्वमिति शुभाचारविधायकशब्दाच्चेत्यर्थः

एवंच न तु देवपदादिकमिव स्वर्गादिकमपि नाकांक्ष्यमुच्यते। देवर्षिगंधर्वादिपदादिभ्योऽन्यत्र शुभविषये आकांक्षायामपि पतनाभावात्। देवर्षिगंधर्वाणां पदाकांक्षिणः पतनं नेत्युभयथा श्रुतेः। अतोऽविरुद्धकामः स्यादित्याचाराभिधानात्। ततो ब्रह्मादिपदस्य तद्योग्यैकलभ्यत्वेनोक्तं युक्तमिति सिद्धं ॥

॥ इति आधिकारिकाधिकरणं ॥

%7.अधिकरणं ॥%

अत्र ब्रह्मज्ञानस्य संनिधिमात्रेणास्वामिनोऽपि पराधीनस्य ज्ञानिनः कर्तुः फलदातृत्वमहिमा वर्ण्यते।

<3-4-44>
%(44) ॐ ॥ स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ॐ ॥%

ननु ब्रह्मज्ञानफलं देवानामेव न मनुष्याणामिंद्रियादिप्रवर्तकत्वेन तेषामेव ज्ञानस्वामित्वात्। लोके च स्वामिन एव फलदर्शनात्। यदुकिंचेति [माध्यंदिनायन.] श्रुतेः। न च कर्तृत्वेनाख्यामिनामपि फलं। कर्तृत्वस्याप्रयोजकत्वात्। न च स्वामित्वात्फलं। असिद्धेः। किंचैवमाप्ततम आत्रेयो मन्यत इति। ततश्च ज्ञानिनां मोक्षनियमोऽयुक्त इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ स्वामिनः फलश्रुतेरित्यात्रेय इति ॥% अस्यार्थः ॥ समुदायविवक्षया स्वामिन इत्येकवचनं। तथा च स्वामिनां देवानामेव। ज्ञानफलं भवति। न प्रजानां। कस्मात्। तेषामेव ज्ञानस्वामित्वात्। यदुकिंचेति तेषामेव फलश्रुतेश्चेत्येवमात्रेयाचार्यो मन्यत इत्यर्थः ॥

एवंच देवानामेवेंद्रियप्रेरकत्वेन स्वामित्वात्। लोके च स्वामिन एव फलदर्शनात्। यदु किंचेति (माध्यंदिनायन) श्रुतेश्च। अतो देवानामेव ज्ञानफलमित्यात्रेयेणोक्तं युक्तमिति सिद्धं ॥

<3-4-45>
%(45) ॐ ॥ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॥ ॐ ॥%

नन्वात्रेयमतविरोधो भवेदिति तन्मतावलंबेन पूर्वपक्षिते सिद्धांतयत्सूत्रं पठति ॥

%॥ ॐ ॥ आर्त्विज्यमित्वौडुलोमिस्तस्मै हि परिक्रियत इति ॥% अस्यार्थः ॥ हि यस्मात्। तस्मै प्रजार्थं देवैः परिक्रियते प्रजाद्वारा ज्ञानं संपाद्यते। तस्मादार्त्विज्यं आर्त्विज्यमिवेति शेषः। ऋत्विजां यज्ञफलमिव प्रजानामप्यल्पज्ञानफलमस्तीत्यौडुलोमिराचार्यो मन्यत इत्यर्थ ॥

एवंच न केवलं देवानामेव फलं किंतु प्रजानामपि। तासां देवैः क्रियमाणे ज्ञानयज्ञे ऋत्विक्तेन सत्रयागे ऋत्विजां याजमान्यमिव देवाधीनत्वस्वामित्वसद्भावात्। तदर्थं देवैः क्रियमाणत्वाच्च। अतात्रेयाचार्यमताविरोधात्। प्रजानामप्यल्पफलाभ्युपगमात्तदुपपत्तेः। श्रुत्यादेस्तदभिप्रायकत्वादित्यौडुलोमिराचार्यो मन्यत इत्यर्थः ॥

<3-4-46>
%(46) ॐ ॥ सहकार्यंतरविधिः पक्षेणतृतीयं तद्वतो विध्यादिवत् ॥ ॐ ॥%

ननु यदि देवैः प्रजार्थं ज्ञानादि साध्यते तर्हि तत्फलं प्रजानमेव भवेत्। न किंचिद्देवानामित्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ सहकार्यंतरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवदिति ॥% अस्यार्थः ॥ तद्वतो प्रजावतो राज्ञः शिष्यवतो गुरोश्च। विध्यादिवत् विधानफलयोरिव। यथा प्रजानां शिष्यानां पालनव्याख्यानयोः राजगुरुसहकारित्वेन विधानं फलं च तयोरेव मुख्यतया स्वविहित ज्ञानदाने प्रजानां सह कार्यंतरविधिः देवैरनुग्राह्यरूपविशेषसहकार्यंतरत्वेन करणं। पक्षेण पक्षत्वेन। तृतीयं आत्रेयौडुलोमिपक्षापेक्षया तृतीयः। अयमेव बादरायणीयपक्षः इत्यर्थः ॥

एवंच प्रजार्थं देवैः क्रियमाणत्वेऽपि देवानां मुख्यस्वामित्वेन मुख्यं फलं। प्रजानां सहकारिमात्रत्वेनाल्पं फलमित्यंगीकारात्। प्रजानामपि ज्ञानफलसद्भावात्। पूर्वोक्तमतद्वयाविरोधेनोक्तं युक्तमिति सिद्धं ॥

॥ इति फलश्रुत्यधिकरणं ॥

%8.अधिकरणं ॥%

अत्र ब्रह्मज्ञाने विशेषाधिकारिणां यतीनां सर्वाश्रमिभ्योऽतिशयसमर्थनेन ज्ञानमहिमा वर्ण्यते।

<3-4-47>
%(47) ॐ ॥ कृत्स्नभावात्तु गृहिणोपसहारः ॥ ॐ ॥%

ननु मुक्तौ यतिभ्यो गृहस्थ एवोत्तमः। तस्य ज्योतिष्टोमादिसर्वकर्माधिकारित्वात्। सर्वकर्मानुष्ठानं च चिरकालसाध्यं। चिरकालसाध्य एव हि मोक्ष उत्तमः। किंच छंदोग आचार्यकुलाद्वेदमधीत्येति गृहस्थस्य मोक्षमुक्त्वोपसंहारः क्रियते। न च गृहस्थादुत्तमसद्भावे तदनुक्तोपसंहारो युज्यते। अतः कर्मिणामेवोत्तत्वेन न ज्ञानमतिशयमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ कृत्स्नभावात्तु गृहिणोपसंहार इति ॥% अस्यार्थः ॥ यतः कुटुंब इति (छां. 8-15-1.) श्रुतौ गृहीणो गृहस्थस्यैव मोक्षफलोक्त्या पर्यवस्यति। कृत्स्नभावात् संपूर्णगृहस्थधर्मवतो देवानपेक्ष्यैव। अतः श्रुत्यविरोधाच्च यतेरेव सर्वाश्रमिषूत्तमत्वमित्यर्थः ॥

एवंच मनुष्येषु यतेरेव सर्वापेक्षयोत्तमत्वं न गृहिणः। गृहिमोक्षाद्यतिमोक्षस्य चिरकालसाध्यत्वात्। गृहिणां बहुकर्माधिकारभावोऽपि तैः सर्वेषामननुष्ठानेन कतिपयानुष्ठानेनैव तदपरोक्षज्ञानसिद्धेः। न चैवं गृहिणोपसंहारविरोधः। तस्य देवताविषयत्वात्। अतो धर्माधिकारिषु ज्ञानप्रचुराणां यतीनामेवोत्तमत्वेन युक्तं ज्ञानस्यातिशयितत्वमिति सिद्धं ॥

<3-4-48>
%(48) ॐ ॥ मौनवदितरेषामप्युपदेशात् ॥ ॐ ॥%

युक्त्यंतरेण मानुषयतिभ्यो देवानामुत्तमत्त्वं समर्थयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ मौनवादितरेषामप्युपदेशादिति ॥% अस्यार्थः ॥ मौनवत् यतित्वस्येव। इतरेषां अन्याश्रमधर्माणामपि। उपदेशात् देवा एव ब्रह्मचारिण इति (कौंठरव्य.) श्रतावुक्तत्वात्। सर्वाश्रमिभ्यो देवानामुत्तमत्वमित्यर्थः ॥

एवंच देवेषु संपूर्ण यतिधर्मस्य सद्भावेन तेषां यत्युत्तमत्वात्। न च देवानां यतित्वाभावः। कृत्स्ना ह्येत इति [पौत्रायण.] श्रुत्या देवानां यतित्वसद्भावस्य प्रतिपादितत्वात्। अपि च यथा ह्येते मुनय इति [कौठरव्य.] श्रुतेर्यतित्वदृष्टांतेव सर्ववर्णाश्रमित्वाभिधानात्। अतो ज्ञानप्रचुराणां यतीनामेवोत्तमत्वाद्युक्तं ज्ञानस्यातिशयत्त्वमिति सिद्धं ॥

॥ इति कृत्स्नभावाधिकरणं ॥

%9.अधिकरणं ॥%

अत्रापरोक्षज्ञानसंगतपरोक्षज्ञानस्यातिगोप्यत्वमहिमा वर्ण्यते ॥

<3-4-49>
%(49) ॐ ॥ अनाविष्कुर्वन्नत्वयात् ॥ ॐ ॥%

अपरोक्ष ज्ञानहेतुपरोक्षज्ञानसिद्धये आविष्कारेणैव वेदविद्योपदेष्टव्या। सभाचत्वरादावुपविश्यविद्योपदेशेऽप्यशेषज्ञानयोग्यानां ज्ञानलाभसिद्धेः। आवश्यकश्च बहूपदेशः। यथा यथेति [माठर.] श्रुतेः। अत आविष्कारेणैवोपदेष्टव्यत्वात्तस्य रहस्यत्वातिशयो न सिध्येदिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अनाविष्कुर्वन्नन्वयादिति ॥% अस्यार्थः ॥ गुरुः अनाविष्कुर्वन्सभादिषु आविष्कारमकुर्वन्नेव। शिष्येभ्यो विद्यामुपदिशेत्। कुतः। अन्वयात् अयोग्यानामपि ज्ञानप्राप्तिप्रसंगरूपयुक्तेरित्यर्थः ॥

एवंचानाविष्कारेण स्वविद्योपदेशः कार्यः। आविष्कारेणोपदेशेऽयोग्यानामपि ज्ञानप्रसंगात्। न च तदिष्टं। विद्या हवै ब्राह्मणमाजगामेति [मुक्ति उ. 1-51.] तन्निषेधात्। अतोऽल्पाविष्कारेण ज्ञानस्योपदेष्टव्यत्वेन युक्तस्तस्यातिशय इति सिद्धं ॥

॥ इति अन्वयाधिकरणं ॥

%10.अधिकरणं ॥%

अत्रापरोक्षज्ञानस्य प्रतिबंधभावे साधनसंपत्तिजन्मन्येवोत्पत्तिः समर्थ्यते।

<3-4-50>
%(50) ॐ ॥ ऐहिकमप्रस्तुतप्रतिबंधे तद्दर्शनात् ॥ ॐ ॥%

ननु ज्ञानसाधनं कृष्यादिवदैहिकफलस्यैव हेतुः। ततः साधनसंपूर्तिजन्मन्येवापरोक्षज्ञानं। कस्यचित्प्रतिबंधकवशात्साधने दुष्टे नैकदापि फलोदयः। षंडबीजावापिना कदापि फलानुदयदर्शनात्। न हि दुष्टं बीजं कालांतरे फलहेतुरिति दृष्टं। न च यागादिवदुपपत्तिः। तस्यैहिकफलहेतुत्वाभावेन वैषम्यात्। अतो ज्ञानस्यैवैहिकत्वेन प्राप्तत्वात्कस्यचित्प्रतिबंधकेन तदनुदयेजन्मांतरेप्यनुदय एवेति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ ऐहिकमप्रस्तुतमप्रतिबंधे तद्दर्शनादिति ॥% अस्यार्थः ॥ अप्रस्तुतप्रतिबंधे प्रस्तुतप्रतिबंधशब्दोक्तप्रारब्धकर्माभावे। अपरोक्षज्ञानमैहिकं श्रवणादीनां संपूर्तिजन्मन्येव भवति। प्रतिबंधे तु जन्मांतरे भवति। कुतः। तद्दर्शनात्। श्रुत्वेति (सौपर्ण.) श्रतौ तथा प्रतिपादनादित्यर्थः ॥

एवंच श्रवणादिकमैहिकहेतुरिति सत्यं। तथाऽपि श्रवणादिसंपूर्तिजन्मन्येव भवतीति न नियमः। किंतु प्रतिबंधकसद्भावे जन्मांतरेऽपि भवति। अतः प्रतिबंधकाभावे ज्ञानस्यैहिकत्वान्नोक्तानुपपत्तिरिति सिद्धं ॥

॥ इति ऐहिकाधिकरणं ॥

%11.एधिकरणं ॥%

अत्र ब्रह्मज्ञानस्य स्वोत्पत्तिजन्मानंतरमेव प्रतिबंधकाभावे मुक्तिसाधनत्वमहिमा वर्ण्यते।

<3-4-51>
%(51) ॐ ॥ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ॐ ॥%

नन्वपरोक्षज्ञानोदये देहपातानंतरमेव मोक्षो भवतीत्यंगीकारो युक्तः। न तु विलंबांगीकारः। विलंबे कारणाभावात्। एवमेव कस्यचिन्मोक्षविलंबांगीकारे तस्य कदाऽपि मोक्षो न स्यात्। तत्साधनानां गतवीर्यत्वात्। न हि जीर्णानां धान्यानामंकुरकार्यकारिता। ततश्चानियम इत्युक्तव्याघात इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेरिति ॥% अस्यार्थः ॥ एवं यथा ज्ञानेऽनियमः तथा मुक्तिफलानियमः। मोक्षाख्यफलेऽपि ज्ञानिनः तच्छरीरपातानंतरमेव मोक्ष इति नियमो नास्ति। किंतु असति प्रारब्धे तद्देहपातानंतरमेव। सति तु तद्देहांतरावसाने मोक्षो भवति। ननु कुत एवं कल्प्यते। ज्ञानजन्मानंतरं मुक्त्यभावे कदाऽपि मुक्तिर्नेत्येवं कुतो न कल्प्यत इत्यत उक्तं। तदिति। तस्यां ब्रह्मसंस्थित इति श्रतौ तस्मिन्ब्रह्मणि अवस्थितस्य तत्ज्ञानिन इति यावत्। अवधृतेः अमृतत्वमेतीत्येवेति मोक्षफलावधारणादित्यर्थः। अतः प्रतिबंधककल्पनेति भावः। उक्तस्य सर्वस्यैतद्यायार्थस्य प्रसिद्धत्वसूचनार्था द्विरुक्तिः ॥

एवंच ज्ञानोदये देहपातानंतरमेव मोक्ष इति न नियमः। किंतु प्रतिबंधकाभावे तद्देहपातानंतरं। अन्यथ तु जन्मांतरं प्राप्येत्यनियमः। धर्मो स्वर्गमिति श्रुतेः। विद्वानममृतमिति [नारायणाध्यात्म.] स्मृतेश्च। अतो ज्ञानिनां प्रतिबंधकाभावे मोक्षस्यादूरत्वेनोक्तं युक्तमिति सिद्धं ॥

** ॥ इति मुक्तफलाधिकरणम् ॥
॥ इति तृतीयाध्यायस्य चतुर्थः पादः समाप्तः ॥
॥ इति तृतीयाध्यायः समाप्तः ॥**

—————————————————————————————-

** ॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अथ चतुर्थाध्यायः ॥**

**** ब्रह्मदर्शनजन्यमोक्षरूपाख्यफलं निगद्यतेऽस्मिन्नध्याये।

** ॥ अथ प्रथमः पादः ॥**

मोक्षलक्षणज्ञानफलस्य कर्मक्षयोत्क्रांतिमार्गभोगभेदेन चातुर्विध्याद्दर्शनपूर्वकालीनसंचितकर्मनाशाख्यफलं निगद्यतेऽस्मिन्पादे।

%1.अधिकरणं ॥%

अत्र नित्यशः कार्यं सर्वथाभाव्यं साधनमुच्यते। प्रायिकत्वाच्चाध्यायानां पादानां च न विरोधः।

<4-1-1>
%(1) ॐ ॥ आवृत्तिरसकृदुपदेशात् ॥ ॐ ॥%

ननु सकृदेव श्रवणादिकमनुष्ठेयं। तावतैव विधिपर्यवसानात्। अन्यथा सकृदेव ज्योतिष्टोमादिकमनुष्ठाय कृती न स्यात्। एवं च विहितश्रवणाद्यनुष्ठानेन ज्ञानदर्शनात्। विधेरप्रामाण्यात्। प्रमाणांतरस्याप्यभावात्। न श्रवणादिज्ञानसाधनमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ आवृत्तिसकृदुपदेशादिति ॥% अस्यार्थः ॥ ज्ञानार्थं श्रवणादीनामावृत्तिः कार्याः। कुतः। असकृदुपदेशात्। बहुवारं श्वेतकेतुं प्रति उद्दालकेन परतत्त्वस्येपदिष्टत्वादित्यर्थः ॥

एवंचावृत्तेरेव श्रवणादीनां फलहेतुत्वात्। अपरोक्षज्ञानसिद्धयेऽसकृदनुष्ठानस्योद्दालकेनोपदेशात् ततश्च श्रवणाद्यावर्तौ नियमेन फलोपलंभेन तद्विधेः प्रामाण्याच्छ्रवणादिकं ज्ञानसाधनमिति सिद्धं ॥
</4-1-1>

<4-1-2>
%(2) ॐ ॥ लिंगाच्च ॥ ॐ ॥%

हेत्वंतरेण श्रवणाद्यावृत्तिं साधयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ लिंगाच्चेति ॥% अस्यार्थः ॥ भृगुणा श्रुतस्य पुनरालोचनेनापरोक्षितत्वरूपलिंगदर्शनाच्चावृत्तिः कर्तव्येत्यर्थः ॥

एवंच स तपो तप्यतेत्याद्यावर्तनलिंगश्रवणात् [तै. 3-2-1.]। ततश्च श्रवणाद्यावृत्तिः कार्येति सिद्धं ॥
</4-1-2>
॥ इति आवृत्यधिकरणं ॥

%2.अधिकरणं ॥%

अत्रात्मत्वोपास्तेर्नित्यशः कार्यत्वं समर्थ्यते ॥

<4-1-3>
%(3) ॐ ॥ आत्मेति तूपगच्छंति ग्राहयंति च ॥ ॐ ॥%

ननु न नित्यश आत्मत्वस्योपदेश उपासनं च कार्यं। अतिप्रसिद्धत्वात्। किंत्वप्रसिद्धस्यैव। कस्यचिद्गुणस्य। ततश्च न तत्र वेदस्य महातात्पर्यं युक्तमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ आत्मेति तूपगच्छंति ग्राहयंति चेति ॥% अस्यार्थः ॥ तु शब्द एवार्थे। आत्मा विष्णुः। आत्मेति मम स्वामीति। उपास्य एव। कुतः। यस्मात्ज्ञानिनः। तथोपगच्छंति जानंति उपासते च। शिष्यान्प्रति ग्राहयंति उपदिशंति च। तस्मादित्यर्थः ॥

एवंच मोक्षसाधनाभिज्ञैर्विष्णोरात्मेत्युपदेशस्योपासनस्य च नित्यशोऽनुष्ठीयमानत्वात्। नान्यमिति श्रुतेः। आत्मेतीति स्मृतेश्च। [भ.प.] उपासनस्य फलहेतुतायाः प्रामाणिकत्वेन प्रसिद्धेरप्रयोजकत्वात्। न हि राजप्रीतिसाधनमिति प्रसिद्धत्वेन राजा प्रीत्यर्थिभिर्न वर्ण्यते। येनेह तथा स्यात्। अतो विष्णोः स्वामित्वस्य सदा सर्वतोपास्यत्वाद्युक्तं तत्र वेदानां तात्पर्यमिति सिद्धं ॥
</4-1-3>
॥ इति आत्माधिकरणं ॥

%3.अधिकरणं ॥%

अत्र ब्रह्मज्ञानार्थिनो विष्णुप्रतीकैक्योपासनवर्जनमावश्यकमिति प्रतिपाद्यते।

<4-1-4>
%(4) ॐ ॥ न प्रतीके न हि सः ॥ ॐ ॥%

ननु प्रतीकं ब्रह्मतयोपास्यं। नामोपास्वेत्यादिविधीनां स यो मनो ब्रह्मेति पर्यालोचनया नाम ब्रह्मेत्युपासीतेति [छां. 7-1-5.] शाखांतरपर्यालोचनया च प्रतीके ब्रह्मदृष्टिरिति तात्पर्यावगमात्। न च प्रतीकब्रह्मणोर्भेदेन तथोपासना संभवः। उपासनायां फलस्यैव प्रयोजकत्वेन वस्तुतथात्वस्याप्रयोजकत्वात्। ततश्च प्रतीके ब्रह्मत्वेनोपासनस्य कर्तव्यत्वात्। उक्तं स्वामित्वोपासनमयुक्तमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ न प्रतीके न हि स इति ॥% अस्यार्थः ॥ प्रतीके नामाद्यधिष्ठानविषये। आत्मेत्युपास्तिर्न कार्या। किंतु तद्गततया। कुतः सविष्णुः। हि यस्मात्। नामादिप्रतीकं। न भवति। तस्मादित्यर्थः ॥

एवंचोक्तविधीनां प्रतीके ब्रह्मदृष्ट्यभिधायकत्वात्। प्रतीकस्याब्रह्मत्वेन मिथ्योपासाप्रसंगाच्च। न हि मिथ्योपासा फलहेतुः। मिथ्योपासाया अनर्थहेतुत्वेन प्रमाणसिद्धत्वात्। कथं तर्ह्युपासना कार्येति चेत्। तत्स्थत्वेनेति ग्रहणाद्‌द्वितीयाश्रवणात्। महाव्याकरणमूलकसुपां सुपो भवतीति कात्यायनवचनेन द्वितीयायाः सप्तम्यर्थत्वात्। ततश्च प्रतीकस्थत्वेनैव ब्रह्मोपासनं कार्यमिति सिद्धं ॥
</4-1-4>
॥ इति न प्रतीकाधिकरणं ॥

%4.अधिकरणं ॥%

अत्र ब्रह्मत्वोपास्तेरावश्यकत्वं समर्थ्यते।

<4-1-5>
%(5) ॐ ॥ ब्रह्मदृष्टिरुत्कर्षात् ॥ ॐ ॥%

ननु ब्रह्मत्वं सदा सर्वथा नोपास्यं। उपासनं तु भगवत्प्रसादार्थं। स च नित्यहं विविधगुणोपासनेनैव भवेदिति व्यर्थं ब्रह्मत्वोपासनं। अतो ब्रह्मत्वस्य सदोपास्यत्वाभावादुक्तमयुक्तमिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ ब्रह्मदृष्टिरुत्कर्षादिति ॥% अस्यार्थः ॥ ब्रह्मणि परमेश्वरे। ब्रह्मदृष्टिः पूर्णत्वोपास्तिः कार्या। कुतः। उत्कर्षात् पूर्णस्योत्कृष्टतया तथोपास्तेरप्युत्कृष्टत्वादित्यर्थः ॥

एवंच कार्यमेव सदा सर्वथा ब्रह्मत्वोपासनं। भगवत उत्कृष्टत्वात्। तथोपास्तेस्तत्प्रसादजनकत्वात्। ब्रह्मत्वोपासकातिरिक्तचतुर्गुणोपासकैरप्यात्मत्वादिविशेषणतया ब्रह्मत्वोपासनस्यात्मेत्येवेति [व्र.त.] वचनात्कार्यत्वात्। तथा च ब्रह्मणो विशिष्योपास्यत्वादुक्तं युक्तमिति सिद्धं ॥
</4-1-5>
॥ इति ब्रह्माधिकरणं ॥

%5.अधिकरणं ॥%

अत्र विष्ण्वंगाश्रितत्वेन देवतोपासनमावश्यकमिति साध्यते।

<4-1-6>
%(6) ॐ ॥ आदित्यादिमतयश्चांग उपपत्तेः ॥ ॐ ॥%

ननु न सर्वदा सर्वथा तथोपासनं देवैः कार्यं। सूर्यादिभिरितस्ततः संचरणेन सदा भगवदंगाश्रितत्वाभावात्। तथाप्युपासनेऽन्यथोपासनत्वेनानर्थप्रसंगात्। सत्स्वपि गुणांतरेषु स्वाश्रयत्वेन भगवदुपासने विशेषकारणाभावात्। अत आश्रयाश्रयिभावस्यासदातनत्वेन सर्वोपास्यत्वाभावात्तद्वत्सदातनत्वाभावेन नात्मत्वोपासनमावश्यकमिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ आदित्यादिमतयश्चांग उपपत्तेरिति ॥% अस्यार्थः ॥ अंगे भगवदंगे। आदित्यादिभिर्देवैः आदित्यादिमतयः आदित्याद्याश्रयांगकत्वोपासना कार्या। कुतः। उपपत्तेः तेषां तत्प्रवेशापेक्षितत्वेन तथोपासनस्य युक्तत्वादित्यर्थः ॥

एवंच चक्षोः सूर्योऽजायतेत्यादिनोक्तं [ऋ. 10-10-13.] स्वाश्रयत्वेन भगवदंगोपासनमादित्यादिदेवैः सर्वथा कार्यमेव। मुक्तौ तत्र लयस्यापेक्षितत्वात्। रूपांतरेणांगानां स्वाश्रयत्वेन मिथ्योपासनाप्रसंगाभावात्। अतस्तदुपासनस्यावश्यकत्वादुक्तमात्मत्वोपासनं युक्तमिति सिद्धं ॥
</4-1-6>
॥ इति आदित्याधिकरणं ॥

%(6.अधिकरणं ॥%

अत्रासनादिनियमः साध्यते ॥

<4-1-7>
%(7) ॐ ॥ आसीनः संभवात् ॥ ॐ ॥%

ननु नासनं सर्वापेक्षितं किंतु कृताकृतं। भगवद्दर्शनार्थं यद्युपासनाद्यन्वेष्टव्यं। उपासनादिकं च विनाऽप्यासनं सिध्यति। न च मनसः सम्यक् भगवद्विषयत्वसिध्यर्थमासनं। तेन विनाऽपि तत्सिद्धेः। कथमन्यथास्मर्तव्य इति सर्वदोपासनाभिधानं युज्यते। ततश्चासनस्यानावश्यकत्वात्तच्छास्त्रं पाक्षिकमनुपादानलक्षणमप्रामाण्यं प्राप्नोतीत्याशंकां परिहरत्सूत्रमाचष्टे ॥

%॥ ॐ ॥ आसीनः संभवादिति ॥% अस्यार्थः ॥ जिज्ञासुरासीनः आसने उपविशन्नेव उपासनं कुर्यात्। कुतः। संभवात् तस्यासने सत्येवं युक्तत्वादित्यर्थः ॥

एवंचासनयुक्तेनैव जिज्ञासुना विशेषत उपासनं कार्यं। सत्येवासन उपासनस्य सम्यक् संभवात्। ध्यानार्थमेवासननियमाभिधानात्। अत आसनस्यावश्यकत्वात्तदुपदेशावैयर्थ्यमिति सिद्धं ॥
</4-1-7>

<4-1-8>
%(8) ॐ ॥ ध्यानाच्च ॥ ॐ ॥%

ननु सर्वदोपासनं कार्यमासनं चापेक्षितमित्युक्तमनुपपन्नं। विरुद्धत्वेनोभयोरेकदा समावेशायोगात्। तत्रान्यतरस्मिन् त्याज्ये श्रुतिविहितत्वात्सर्वदोपासनमुपादायासनमेव त्यज्यते। तद्विधायकश्रुत्यभावादतो नासनमावश्यकमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ ध्यानाच्चेति ॥% अस्यार्थः ॥ अविच्छिन्नस्मृतिरूपोपासनस्यैव ध्यानत्वात्तदपेक्षयैवासननियमाभ्युपगमान्न स्मरणोपासनमादाय व्यभिचार इत्यर्थः ॥

एवंच स्मरणात्मकत्वं ध्यानात्मकत्वं चेत्युपासनस्य द्वैविध्यात्। आद्यस्य सार्वकालिकत्वेनासननियमाभावेऽपि द्वितीयस्य योग्यविज्ञेयध्यानत्वेनासनस्यावश्यकत्वमिति सिद्धं ॥
</4-1-8>

<4-1-9>
%(9) ॐ ॥ अचलत्वं चापेक्ष्य ॥ ॐ ॥%

ननु ध्यानार्थमासननियमः तत्साध्यस्य चित्तविक्षेपपरिहारस्य प्रत्याहारादिनाऽपि संभवादिति प्राप्ते समादधत्सूत्रमाह ॥

%॥ ॐ ॥ अचलत्वं चापेक्षेति ॥% अस्यार्थः ॥ न केवलं प्रत्याहारादिना मनोविक्षेपाभावो भवति। किंत्वचलत्वं चापेक्ष्य शरीराचलत्वं चापेक्ष्य। अतस्तदर्थं आसीन एव ध्यायेदित्यर्थः ॥

एवंच चित्तविक्षेपपरिहारस्यासनसाध्यशरीराचलत्वमपेक्ष्यैव प्रत्याहारादिना साध्यत्वात्। अचलं चेच्छरीरमिति [ब्रह्यांडे.] स्मृतेः। तथा चासनस्यावश्यकत्वमिति सिद्धं ॥
</4-1-9>

<4-1-10>
%(10) ॥ ॐ ॥ स्मरंति च ॥ ॐ ॥%

स्मृतिभिरप्यासनस्यावश्यकत्वं समर्थयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ स्मरंति चेति ॥% अस्यार्थः ॥ स्मृति कर्तारः कृष्णादयः। आसनानियममावश्यकमित्येतमर्थं समं कायशिरोग्रीवमिति स्मरंतीत्यर्थः ॥

एवंच समं कायं शिरोग्रीवमिति [गीता 6-13.] वचनादासनस्यावश्यकत्वमिति सिद्धं ॥
</4-1-10>

<4-1-11>
%(11) ॐ ॥ यत्रैकाग्रता तत्राविशेषात् ॥ ॐ ॥%

नन्वेवं तर्हि पर्वताग्रे नदीतीर इत्यादि मनुस्मृतिवचनात्। देशकालादिनियमोऽप्यंगीकार्यः स्यादित्यशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ यत्रैकाग्रता तत्राविशेषादिति ॥% अस्यार्थः ॥ यत्र यस्मिन्देशे काले। आसने च एकाग्रता ध्यानस्यैकनिष्ठता भवति। तत्रैव तस्मिन्देशे काले आसन एव ध्यानं कुर्यात्। कुतः। अविशेषात्। देशकालादिना ध्यानज्ञानयोर्विशेषाभावादित्यर्थः ॥

एवंच देशकालादिनियमस्य मनःप्रसादार्थत्वात्। तस्य यत्रैकाग्रता तत्रैव स्थातव्यत्वात्। तमेवदश सेवेतेति [वाराहे.] वचनात्। ततश्चासनस्यावश्यकत्वादुपदेशावैयर्थ्यमिति सिद्धं ॥
</4-1-11>
॥ इति आसानीधिकरणं ॥

%7.अधिकरणं ॥%

अत्र ध्यानस्य प्रायणांतत्वं समर्थ्यते ॥

<4-1-12>
%(12) ॐ ॥ आ प्रायणात्तत्रापि हि दृष्टं ॥ ॐ ॥%

ननु मुमुक्षुणा न मोक्षपर्यंतं ध्यानं कार्यं। ध्यानस्य ज्ञानसाधनत्वेनाभिहितत्वात्। न चानंदातिशयार्थं तदिति वाच्यं। तस्य तद्धेतुत्वाभावात्। भावेऽपि न नियमेनाकार्यं। श्रवणादिनाऽपि तत्संभवात्। ततश्च शुकादीनां ज्ञानिनां तदाग्रहवैयर्थ्यमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ आ प्रायणात्तत्रापि हि दृष्टमिति ॥% अस्यार्थः ॥ मुमुक्षुणा आ प्रायणात् मोक्षपर्यंतं। ध्यानं कर्तव्यमेव। कुतः। हि यस्मात्। तत्रापि मोक्षेऽपि। दृष्टं ज्ञानं श्रुतं स्मृतं च। तस्मादित्यर्थः ॥

एवंच ध्यानस्य ज्ञान इवानंदातिशयेऽपि प्रधानसाधनत्वात्। स यो हवै इति श्रुतेः [प्र. 5-1.]। शृणुयादित्यादिस्मृतेश्च [ब्रह्मांडे.]। अतो मोक्षपर्यंत ध्यानस्य कर्तव्यत्वेन ज्ञानिनामपि तद्विचित्रफलेन मुक्तौ तारतम्यसत्वेन च ध्यानं कार्यमिति सिद्धं ॥
</4-1-12>
॥ इति आ प्रायमाधिकरणं ॥

%8.अधिकरणं ॥%

अत्र प्रासंगिकं समाप्य कर्मक्षयाख्यफलसिद्धिः समर्थ्यते।

<4-1-13>
%(13) ॐ ॥ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ ॐ ॥%

ननु न ज्ञाने मोक्षो नापि द्वेषेण तमः। प्रागापादित कर्मणां भावात्। न तानि ज्ञानविद्वेषजन्मनि भुज्यंते। विभिन्नानेकशरीरभोग्यफलत्वात्। न च कायव्यूहेन युगपद्भोगः। विभिन्नदेशकालविभागत्वात्। किं तर्हि क्रमेण भोगः। न च क्रमेण सर्वकर्मणां भोगेन क्षयानंतरं सदसन्मोक्षावुपपद्येते। बहुकालांतरितयोर्ज्ञानविद्वेषयोर्जीर्णधान्यवत्क्षीणशक्तित्वेन मोक्षजनकत्वासंभवात्। तद्भोगसमये पुनरनंतकर्मानुष्ठानेन कर्मावसानासंभवाच्च। न च ज्ञानद्वेषाभ्यामेवाभुक्तानामेव पुण्यपापानां क्षयः। नाभुक्तमिति स्मृतिविरोधात्। न च प्रायश्चित्तेन वा भुक्तकर्मणमेव ज्ञानेन क्षयः संभवः। विप्रतिपत्तेः। सृहदाहे दग्धदेहेष्वधिकारवत्कृतपापानामेव द्वादशाद्बादिकर्माधिकारित्वाभिप्रायेण ब्रह्महा द्वादशाद्बमित्यादिवचनानां प्रवृत्तत्वेन कर्मक्षयार्थमप्रवृत्तत्वात्। अतो ज्ञानद्वेषाभ्यां सदसन्मोक्षासिद्धेरुक्तमयुक्तमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्व्यपदेशादिति ॥% अस्यार्थः ॥ तदधिगमे तस्य ब्रह्मणः। अधिगमे अपरोक्षज्ञाने सति। उत्तरपुर्वाघयोः अपरोक्षज्ञानोत्तरपूर्वकालीनाघयोः। अश्लेषविनाशौ उत्तरस्याश्लेषः पुर्वस्य विनाशश्च। भवतीति ज्ञायते। कुतः। तद्वयपदेशात्। तयोः अश्लेषविनाशयोः तद्यथेति (छां. 4-14-3.) श्रुतावुक्तत्वादित्यर्थः ॥

एवंच निर्दिष्ठश्रुत्या ज्ञानद्वेषाभ्यां सदसन्मोक्षौ भवत इति सिद्धं ॥
</4-1-13>

<4-1-14>
%(14) ॐ ॥ इतरस्याप्येवमसंश्लेषः पाते तु ॥ ॐ ॥%

एवं ब्रह्मज्ञानिनो मुक्तिसिध्यर्थं ज्ञानादेवाघविनाशाश्लेषावुकत्वा तत्समानन्यायत्वाद्भगवद्वेषिपुम्यस्यापिमिथ्याज्ञानादेव विनाशाश्लेषौ तमःसिध्यर्थं वदत्सूत्रं पठति ॥

%॥ ॐ ॥ इतरस्याप्येवमसंश्लेषः पाते त्विति ॥% अस्यार्थः ॥ तु शब्दोऽनुत्थानवाची। इतरस्य भगवत्ज्ञानीतरद्वेषिणः। पाते तु अनुत्थानतमःपाते प्रत्यासन्ने। तदर्थमितरस्य पापेतर पुण्यस्यापि। एवं ज्ञानिपापवत्। असंश्लेषः उत्तरस्यासंश्लेषः पूर्वस्य विनाशश्च भवतीत्यर्थः ॥

एवंचैवं सुकर्मणश्चापि पततस्तमसि ध्रुवमिति [आग्नेये.] द्वेषिकृत पूर्वोत्तरपुण्ययोर्द्वेषेण विनाशाश्लेषौ भवत इति श्रवणादुक्तं युक्तमिति सिद्धं ॥
</4-1-14>

<4-1-15>
%(15) ॐ ॥ अनारब्धकार्ये एव तु पूर्वें तदवधेः ॥ ॐ ॥%

ननु ब्रह्मज्ञानिद्वेषिणोर्ज्ञानादिनैव पापपुण्यक्षये ज्ञानाद्युदय एव सद्यो मोक्षादिप्रसंग इत्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ अनारब्धकार्ये एव तु पूर्वे तदवधेरिति ॥% अस्यार्थः ॥ तु शब्दश्चार्थः। पूर्वे विष्णुद्वेषज्ञानपूर्वकालीने। अनारब्धकार्ये एव पुण्यपापे विनश्यतः। कुतः। तदवधेः। तस्य मोक्षस्य प्रारब्धकर्मनिवृत्यवधित्वश्रुतेः स्मृतेश्चेत्यर्थः ॥

एवंच ज्ञानद्वेषोदयानंतरमेव मोक्षापत्तेरभावात्। अप्रारब्धानामेव प्राचीनपुण्यपापानां विनाशांगीकारेण प्रारब्धभोगाय विलंबस्य भाव्यत्वादुक्तं युक्तमेवेति सिद्धं ॥
</4-1-15>

<4-1-16>
%(16) ॐ ॥ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ ॐ ॥%

ननु ज्ञानिकृतपूर्वोत्तरपुण्ययोरश्लेषविनाशौ विद्येते न वा। नाद्यः। इष्टविघातिनो ज्ञानस्यापुरुषार्थत्वप्रसंगात्। द्वितीये मोक्षभावप्रसंगः। प्राचीनबहुपुण्यबोगसमये पुनः पुनः पुण्यानुष्ठानसंभवेनापर्यवसानादिति प्राप्ते समादधत्सूत्रमाह ॥

%॥ ॐ ॥ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनादिति ॥% अस्यार्थः ॥ तु शब्दो विशेषद्योतकः। अग्निहोत्रादिजिज्ञासुब्रह्मज्ञानिकृताग्निहोत्राद्यकाम्यकर्मतत्कार्यायैव ज्ञानमोक्षोभयकार्ययैव भवति। कुतः। तद्दर्शनात्। तथा न हास्येति (बृ. 3-4-15.) श्रुतावुक्तत्वादित्य्रथः ॥

एवंचाकाम्यानां पुण्यानामश्लेषविनाशाभावात्। तावता मोक्षस्यासंभवाभावात्। प्राचीनपुण्यस्य ज्ञानजन्मन्युपयोगात्। उत्तरस्य तु ज्ञानकार्यमोक्षानुप्रवेशादुक्तं योग्यमिति सिद्धं ॥
</4-1-16>

<4-1-17>
%(17) ॐ ॥ अतोऽन्यदपीत्येकेषामुभयोः ॥ ॐ ॥%

काम्यपुण्यविषय इति द्वितीयपक्षं पराकुर्वत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अतोऽन्यदपीत्येकेषामुभयोरिति ॥% अस्यार्थः ॥ अतः प्रारब्धकर्मादन्यत् भिन्नं ज्ञानात्पुर्वोत्तरकाम्यं पुण्यं अनिष्टं अप्रारब्धं च विनाशाश्लेषौ प्राप्नोति। कुतः। यत इत्येवं प्रकारेणैकेषां शाखिनां शाखासूभयोर्ज्ञानोत्तरपूर्वयोरप्रारब्धानभीष्टयोः काम्यपुण्ययोः परित्यागेन पाठोऽस्ति। अत इत्यर्थः ॥

एवंच मुक्तावनुभवकारणादन्यदप्रारब्धमनभीष्टं काम्यं पुण्यं यत्तस्य विनाशत्वादलेपश्च ज्ञानोत्तरं क्रियमाणस्येति तस्य पुत्रा दायमुपयंतीति [शाट्यायन.] वचनादुक्तं योग्यमिति सिद्धं ॥
</4-1-17>

<4-1-18>
%(18) ॐ ॥ यदेव विद्ययेति हि ॥ ॐ ॥%

ननु यदुक्तं ज्ञानिकृतोत्तरकालीनाकाम्यपुण्यस्य कथं मोक्षानुप्रवेशः। कर्मणो नाशशिरस्काल्पफलर्त्वोदित्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ यदेव विद्ययेति हीति ॥% अस्यार्थः ॥ ज्ञानिकृतमल्पमपि पुण्यमक्षयफलं भवति। कुतः। हि यस्मात्। यदेव विद्ययेति (छां. 1-1-10.) श्रुतिरस्ति। अत इत्यर्थः ॥

एवंच ज्ञानिकृतस्यानंतफलप्रतिपादकनिर्दिष्टश्रुतिसद्भावात्। तथा च ज्ञानिकृतकर्मणो मोक्षानुप्रवेश इति सिद्धं ॥
</4-1-18>

<4-1-19>
%(19) ॐ ॥ भोगेन त्वितरे क्षपयित्वाऽथसंपत्स्यते ॥ ॐ ॥%

नन्वेवमपि द्वेषिज्ञानिनोर्न मोक्षतमसी सिध्यतः। प्रारब्धप्रतिबंधसद्भावादिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ भोगेन त्वितरे क्षपयित्वाऽथ संपत्स्यत इति ॥% अस्यार्थः ॥ तु शब्दो ज्ञानिनः प्रारब्धभोगोपमर्दरूपविशेषद्योतकः। ज्ञानी भोगेन भोगानुवेन। इतरे प्रारब्धपुण्यपापे। क्षपयित्वा विनाश्य। अथ अनंतरं। नियमेन संपत्स्यते ब्रह्म प्राप्नोति। एवं ब्रह्मद्विद् तमः प्राप्नोतीत्यर्थः ॥

एवंचोभावपि ज्ञानिद्वेषिणौ भोगेन प्रारब्धकर्मणि क्षपयित्वा ब्रह्मतमसी प्राप्नुवतः। आरब्धेति स्मृतेः [ना.तं.] अत उक्तं युक्तमिति सिद्धं ॥
</4-1-19>
॥ इति तदधिगमाधिकरणं ॥
॥ इति चतुर्थाध्यायस्य प्रथमः पादः ॥

————————————————-

॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अथ द्वितीयः पादः ॥

देवानां मोक्ष उत्क्रांतिश्चास्मिन्पादे उच्यते।

%1.अधिकरणं ॥%

अत्र वाचो मनसि लयः समर्थ्यते।

<4-2-1>
%(1) ॐ ॥ वाङ्मनसि दर्शनाच्छब्दाच्च ॥ ॐ ॥%

ननु न वाङ्मनसि लीयते। उभयोः समत्वात्। नियामकाभावात्। मनः पूर्वरूपमिति मनसः प्राधान्यमिव वाक् पूर्वरूपमिति वाचोऽपि प्राधान्यश्रवणात्। अतो वाचो मनसि लयाभावेन मोक्षाभावादनियम इत्युक्तव्याधात इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ वाङ्मनसि दर्शनाच्छब्दाच्चेति ॥% अस्यार्थः ॥ वाक् वागभिमानिन्युमाषदगृहीता वारुणी सौपर्णी च। मनसि मनोऽभिमानि रुद्रशब्दितशेषगरुडे च विलीयते। कुतः। वाचो मनोऽधीनत्वादिति शेषः। तत्कथं। दर्शनात् तस्य प्रत्यक्षसिद्धत्वात्। किंच शब्दाच्च तथा श्रुतेश्चेत्यर्थः ॥

एवंच तस्येति [छां 6-15-1.] शब्दात्। प्रत्यक्षत एव वाचो मनोवशत्वदर्शनेन तत्र तल्लयस्य संभावितत्वात्। अत्र पूर्वोत्तरवर्णदेवतात्वविषये गुणप्रधानभावे च मुनिमतविवाद एवोच्यते न स्वयं किंचिदभिदीयत इति वाङ्मनसयोः साम्याभावेनोभयोर्ग्राह्यत्वात्। विशेषानुक्तेः प्राधान्यविषये तु ऋषिपुत्रमतस्यैव ग्राह्यत्वात्। मनसेति युक्त्या मनःपूर्वकस्य विशेषश्रवणात्। प्रत्यक्षानुसारित्वाच्च। अत एव ज्ञानिनां मोक्षनियमो युक्त इति सिद्धं ॥
</4-2-1>

<4-2-2>
%(2) ॐ ॥ अत एव च सर्वाण्यनु ॥ ॐ ॥%

ननु वाचो लयनिर्णयेऽपि न सर्वदेवानां मोक्षः। लयानिश्चयादित्याशंकां समादधत्सूत्रमाह ॥

%॥ ॐ ॥ अत एव च सर्वाण्यन्विति ॥% अस्यार्थः ॥ च शब्दोऽप्यर्थः ॥ च सर्वाणि सर्वाणि दैवतान्यपि। अनु यथाऽनुकूलं। स्वस्वयोग्येषु देवेषु लीयंते। कुतः। अत एव अग्निविति (गौपवन.) श्रुतेरेवेत्यर्थः ॥

एवंच निर्दिष्टश्रुत्या यथाऽनुकूलं सर्वदेवानां लयनिर्णयेन युक्त एव ज्ञानिनां मोक्षनियम इति सिद्धं ॥
</4-2-2>
॥ इति वाङ्मनोधिकरणं ॥

%2.अधिकरणं ॥%

अत्र मनसः प्राणे लयः समर्थ्यते।

<4-2-3>
(3) ॐ ॥ तन्मनः प्राम उत्तरात् ॥ ॐ ॥

ननु न प्राणे मनो लीयते। तत्समत्वात्। दृश्यते हि प्राण इव मनसोऽपि प्रवर्तकत्वं। न च तदनुपपन्नत्वान्न तत्र लयः। तस्य भगवदुत्पन्नत्वश्रवणात्। ततश्च भगवति लयस्य प्रतिवादिनाऽनंगीकारात्। अंगीकृतस्य प्राणे लयस्यानुपपन्नत्वात् इति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ तन्मनः प्राण उत्तरादिति ॥% अस्यार्थ ॥ पूर्वोक्तमनोभिमानि शेषः सुपर्णश्च। प्राणे तच्छब्दितचतुर्मुखे। लीयते। कुतः। उत्तरात् मनः प्राण (छां. 6-15-1.)इत्युत्तरवाक्यादित्यर्थः ॥

एवंच मनः प्राण इति श्रवणात्। न च समत्वाचत्तत्र लयोऽनुपपन्नः। मन उत्क्रामदित्यादिना नीचोच्चभावश्रवणात्। न च तदनुत्पन्नत्वात्तत्र लयासंभवः। वायोरिति [कौंडिन्य.] रुद्रस्य तस्मादुत्पत्तिश्रवणेन मनः प्राणयोः साम्याभावात्। प्राणद्वारा भगवदुत्पन्नत्वार्थकत्वेन भगवत उत्पन्नत्वोक्तिविरोधाभावात्। ततश्च मनः प्राणे लीयत इति सिद्धं ॥
</4-2-3>
॥ इति मनः प्राणाधिकरणं ॥

%3.अधिकरणं ॥%

अत्र प्राणशब्दोक्तचतुर्मुखस्येश्वरे लयः समर्थ्यते।

<4-2-4>
%(4) ॐ ॥ सोऽध्यक्षे तदुपगमादिभ्यः ॥ ॐ ॥%

ननु न प्राणो परमात्मनि लीयते। तस्यातदधीनत्वात्। तस्यानन्याधीनत्वे बहुश्रुतिसद्भावेन चक्षुरादिवदित्यादौ तदधीनत्वमुक्तमिति समाधानायोगात्। बहुबाधविरुद्धत्वेन वैपरीत्यस्यैवोचितत्वात्। महांतमिति तस्य लयाभावोक्तेश्च। अतः प्राणस्य लयाभावान्न कस्यापि मोक्ष इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ सोऽध्यक्षे तदुपगमादिभ्य इति ॥% अस्यार्थः ॥ सः चतुर्मुखः। अध्यक्षे अधिपतौ परमात्मनि लीयते। कुतः तदुपगमादिभ्यः परमात्मप्राप्त्यादिप्रतिपादक सर्व इति श्रुत्यादिभ्य इत्यर्थः ॥

एवंच हिरण्यगर्भस्य भगवदधीनत्वात्। निरवकाशबहुश्रुतिसद्भावेन तदनिर्णयाभावात्। अनधीनत्वश्रुतीनांत्वीश्वरान्याधीनत्वाभावपरत्वेन सावकाशत्वात्। प्राणस्य तेजसीतिस्मृतेस्तेजसो द्वारमात्रपरत्वेन तत्र लयपरत्वाभावात्। अतो विरिंचस्य लयसद्भावादुक्तः सर्वज्ञानिनां मोक्ष इति सिद्धं ॥
</4-2-4>
॥ इति अध्यक्षाधिकरणं ॥

%4.अधिकरणं ॥%

अत्र प्राग्विशिष्योक्तेभ्योऽन्येषां देवानां पृथिव्यादिसमस्तभूतेषु लयः समर्थ्यते ॥

<4-2-5>

नन्वग्नावेव सर्वेषां देवानां लयोऽस्तु। न तु सिद्धांत्यभिमतो विभागेन भूतेषु लयः। अग्नौ सर्व इति [गौपवन.] श्रुतेः। विपर्यये च प्रमाणाभावात्। अतोऽशेषदेवानामग्नौ लयादुक्तमयुक्तमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ भूतेषु तच्छ्रुतेरिति ॥% अस्यार्थः ॥ विशिष्योक्तेभ्योऽन्येभ्यो देवाः। भूतेषु पंचभूतेषु। लीयंते। कुतः। तछ्रुतेः। भूतेषु देवा इति (बृहत्.) श्रतेश्चेत्यर्थः ॥

एवंच विशिष्योक्तेभ्योऽन्येषां योग्यतानुसारेण तत्तद्भूतेषु लयस्य भूतेष्विति श्रुतावुक्तत्वात्। भूतेष्विति निरवकाशबहुवचनश्रवणाबलेनाग्नाविति श्रुतेः संकोचनीयत्वेन तदविरोधात्। ततश्च सर्वेषामग्नौ लयाभावेन पंचभूतेषु देवानां लय इति सिद्धं ॥
</4-2-5>
॥ इति भूताधिकरणं ॥

%5. अधिकरणं ॥%

अत्र देवानां सर्वभूतेषु लयः समर्थ्यते।

<4-2-6>
%॥ ॐ ॥ नैकस्मिन् दर्शयतो हि ॥ ॐ ॥%

नन्वग्नावेव सर्वेषां देवानां लयो भवेत्। अग्नाविति [गौपवन.] श्रुतेः। सर्वेषां देवानाम्नावग्नेर्वायाविति लयांगीकारेण भूतेषु लयस्यांगीकृतत्वात्। अतोऽधमानामुत्तमेषु लयाभिधानादित्युक्तव्यवस्थाऽनुपपत्तिरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ नैकस्मिन् दर्श,योत हीति ॥% अस्यार्थः ॥ नैकस्मिन् अग्नावेव सर्वे देवाः न लीयंते। किंतु यथायोगं सर्वभूतेषु। कुतः। हि यस्मात्। दर्शयतः पृथिव्यामृभव इति ऋभवः पृथिव्यामिति मोहपनिषच्चतुर्वेदशिखे च तथा प्रतिपादयतः। तस्मादित्यर्थः ॥

एवंच निर्दिष्टश्रुतिभ्यां पंचस्वपि लयाभिधानात्। का तर्ह्यग्नाविति श्रुतेर्गतिरिति चेत्। एतच्छ्रुतिबलेनाग्नाविति श्रुतौ सर्वशब्दं संकुच्याग्नौ सर्वदेवानां लययोग्यानामेव वक्तुमुचितत्वात्। अतोऽग्नावेव सर्वेषां लयाभावादुक्तव्यवस्था युक्तेति सिद्धं ॥
</4-2-6>
॥ इति एकस्मिन्नधिकरणं ॥

%6.अधिकरणं ॥%

अत्र प्रकृतेर्विष्णौ लयाभावः साध्यते।

<4-2-7>
%(7) ॐ ॥ समना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ॐ ॥%

ननु प्रकृतिः परमात्मनि लीयते। तेजः परस्यां देवतायामिति [छां. 6-15-5.] श्रुतेः। उत्ताना वै इति श्रुत्या देवगवानामुत्तानानां वहनासिद्धिवत्प्रकृतेर्लयश्रवणेऽपि तदधीनत्वेऽसंभावितत्वात्तदसिद्धिः ॥ ततश्च भगवति लयसद्भावादधिकारिणां प्राणावसानत्वोक्तिरयुक्तेति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ समना चासृत्युपक्रमादमृत्वं चानुपोष्य ॥ ॐ ॥% अस्यार्थः ॥ आद्यश्चो नभः समाकर्षणार्थः। द्वावेति श्रुतिसमुच्चयो द्वितीयः। तथा च लक्ष्मीर्न लीयते। कुतः। यतस्तस्याः अनुपोष्य परमात्मानमनुपास्यैवामृतत्वं। नित्यमुक्तत्वं तत्कुतः। असृत्युपक्रमात् कदाऽपि संसारोपक्रमाभावात्। सोऽपि कुतः। यतःसमाना देशतः कालतःसमो ना परम पुरुषो यस्याःसा समना तस्मादित्यर्थः ॥

एवंच नित्यमुक्तत्वात्। संसारसंबंधाभावात्। विभुत्वात्परमात्मवत्। सीतारुक्मिण्यादिरूपेणापि नित्यत्वात्। द्वौ वा वेति [बृहत्.] श्रुतेः। ततश्च प्रकृतिर्न परमात्मनि लीयत इति सिद्धं ॥
</4-2-7>

<4-2-8>
%(8) ॐ ॥ तदपीतेः संसारव्यपेदशात् ॥ ॐ ॥%

नैतावता साम्यमित्युक्तसाध्ये हेतुतया सूत्रं पठति ॥

%॥ ॐ ॥ तदपीतेः संसारव्यपदेशादिति ॥% अस्यार्थः ॥ तस्यां प्रकृतौ। अपीतेः लयस्य। संसारव्यपदेशात्। विलीन इति (सौपर्ण.) संसारहेतुत्वश्रुतेर्न मोचकेश्वर साम्यं प्रकृतेरित्यर्थः ॥

एवंच मूलरूपवत्सीताद्यवताराणामपि नित्यत्वेन गर्भवासादिरूपसंसारसंबंधस्यासंभवात्। न चैतावतासाम्यं। प्रकृतौ लीनस्य संसाराभिधानात्। परमात्मनि लीनस्य मुक्तत्वाभिधानात्। तथा च प्रकृतिर्भगवति न लीयत इति सिद्धं ॥
</4-2-8>

<4-2-9>
%(9) ॐ ॥ सूक्ष्मं प्रमाणतश्च तथोपलब्धे ॥ ॐ ॥%

हेत्वंतरेण प्रकृतिपुरुषयोः सर्वसामम्यं प्रतिषेधत्सूत्रं व्याचष्टे ॥

%॥ ॐ ॥ सूक्ष्मं प्रमाणतश्च तथोपलब्धेरिति ॥% अस्यार्थः ॥ प्रकृतेरपि सूक्ष्मं ब्रह्म। प्रमाणतः ज्ञानानंदादिगुणपरिमाणतश्चाधिकं। कुतः। तथोपलब्धेः॥ सर्वेत इति (तुरश्रुतिः.) तथाश्रुतेः। अतोऽपि प्रकृतेर्न ब्रह्मसर्वसाम्योमत्यर्थः ॥

एवंच प्रकृतेरपि परमात्मनः सूक्ष्मत्वस्य ज्ञानानंदादिगुणपरिमाणाधिकस्य चाभिधानात्। तथा च प्रकृतेर्न ब्रह्मसर्वसाम्यमिति सिद्धं ॥
</4-2-9>

<4-2-10>
%(10) ॐ ॥ नोपमर्देनातः ॥ ॐ ॥%

ननु यदि प्रकृतेर्न पुरुषेण सर्वसाम्यं तर्हि नित्यमुक्तत्वादिसाम्यमपि न स्यात्। ब्रह्मादिवत्। ततश्च तयोः साम्यवचनानामसाम्यवचनानां च सद्भावेन न किंचिदपि सिध्यतीति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ नोपमर्देनात इति ॥% अस्यार्थः ॥ अतः साम्यतदभावयोः साधितत्वात्। नोपमर्देन स्वातंत्र्यादिगुणबाधेन। प्रकृतेः परमात्मना नित्यमुक्तत्वादिनैव साम्यमित्यर्थः ॥

एवंचैतस्य विशेषगुणा ज्ञानानंदादिपरमाणाधिक्यगुणादयस्तेषामनुपमर्देन नित्यमुक्तत्वादिना साम्यांगीकारे बाधकाभावात्। देशतः कालतश्चेति [भविष्यत्पर्वणि.] स्मृतेः। ततश्च प्रकृतेर्नित्यमुक्तत्वादिना भगवतः साम्यमिति सिद्धं ॥
</4-2-10>

<4-2-11>
%(11) ॐ ॥ अस्यैव चोपपत्तेरूष्मा ॥ ॐ ॥%

श्रुतिरूपयुक्त्यंतरेण किंचित्साम्यं प्रतिपादयत्सूत्रं पठति ॥

%॥ ॐ ॥ अस्यैव चोपपत्तेरूष्मेति ॥% अस्यार्थः ॥ उष्मावत्त्वानुष्मावत्त्वप्रतिपादिका द्विधाहीदमिति (सौपर्ण.) श्रुतिरप्यस्यैव किंचित्साम्यरूपार्थस्यैवोपतत्तेर्घटनायोपपादिका भवतीत्यर्थः ॥

एवंचोष्मा शब्देन घ्राणनाद्यविषयत्वाद्यनुकूलसामर्थ्यस्योच्यमानत्वात्। चेतनजातस्योष्मावदनूष्मावदिति द्वैविद्यात्। तत्र चक्षुराद्यगोचरत्वानुकूलसामर्थ्यवत्त्वाद्भगवत ऊष्मनामवत्त्वोक्तत्वात्। अनूष्मवत्प्रकृतिः। तस्यां देशकालव्याप्तिनित्यमुक्तत्वादिसाम्यस्योपपत्तेः। तथा च प्रकृतेः किंचित्साम्यमिति सिद्धं ॥
</4-2-11>

<4-2-12>
%(12) ॐ ॥ प्रतिषेधादिति चेन्न शारीरात् ॥ ॐ ॥%

नन्वसमो वा एष पर इति [चतुर्वेदशिखायां.] साम्यप्रतिषेधात्। न प्रकृतेस्तस्य किंचित्साम्यमित्याक्षिप्य समादधत्सूत्रमाचष्टे ॥

%॥ ॐ ॥ प्रतिषेधादिति चेन्न शारीरादिति ॥% अस्यार्थः ॥ प्रतिषेधात् ईश्वरस्यान्यसाम्यप्रतिषेधात्। प्रकृतेर्देशकालव्याप्तत्यादिनाऽपि परमात्मसाम्यं। नेति चेन्न। कुतः। यतः शारीरात् जीवेनैवेश्वरस्य साम्यं प्रतिषिध्यते न प्रकृतितः। अत इत्यर्थः ॥

एवंच शारीरादेव तत्र साम्यस्य प्रतिषिद्धत्वात्। शरीरमात्रमधिकृत्य तदभिमानितया स्थिताच्छरीरकृतोत्पत्तिनाशयुक्ताज्जीवादीश्वरस्य साम्यस्य प्रतिषिद्धत्वात्। न तु प्रकृतेरित्यवधारणार्थः। ततश्च प्रकृतेः किंचित्साम्यमिति सिद्धं ॥
</4-2-12>

<4-2-13>
%(13) ॐ ॥ स्पष्टो ह्येकेषां ॥ ॐ ॥%

नन्वसमो वेति [चतुर्वेदशिखायां.] श्रुतेः सामान्यरूपत्वादत्र परमात्मनः शारीरेण साम्यं प्रतिषिध्यते न प्रकृतेरिति प्राप्ते समादधत्सूत्रं व्याचष्टे ॥

%॥ ॐ ॥ स्पष्टो हेयेकेषामिति ॥% अस्यार्थः ॥ हि यस्मात्। एकेषां शाखासु प्रकृतेः अथेति (माध्यंदिनायन श्रुतौ.) समाऽसमात्ववादः स्पष्टोऽस्ति तस्मादित्यर्थः ॥

एवंच केचिद्धर्मेण समाः सर्वधर्मैरसमाश्चेतना इति माध्यंदिनायनानां समादिवादस्य स्पष्टत्वात्। ततश्च शारीराद्धि साम्यं प्रतिषिध्यत इति सिद्धं ॥
</4-2-13>

<4-2-14>
%(14) ॐ ॥ स्मर्यते ॥ ॐ ॥%

न केवलं साम्यश्रुतेर्विशेषश्रुतिबलाच्च संकोचः। किंतु विशेषस्मृत्यापीत्याह सूत्रकृत् ॥

%॥ ॐ ॥ स्मर्यत इति ॥% अस्यार्थः ॥ कृष्णादिभिरुक्तार्थे मत्स्य इति (वाराहे.) स्मर्यतेचेत्यर्थः ॥

एवंच विष्णोरभेदान्मत्स्याद्यावतराणां समत्वात्। ब्रह्मादिचेतनानामसमत्वात्। प्रकृतेस्तु समाऽसमात्वात्। तथा च प्रकृतेर्नित्यमुक्तत्वादिना लयाभावाद्युक्तं प्राणावसानत्वमधिकारिणामिति सिद्धं ॥
</4-2-14>
॥ इति समनाधिकरणं ॥

%7.अधिकरणं ॥%

अत्र चतुर्मुखेतरदेवानां परमात्मनि लयः समर्थ्यते।

<4-2-15>
%(15) ॐ ॥ तानि परे तथा ह्याह ॥ ॐ ॥%

ननु न देवाः परमात्मनि लीयंते। तत्प्रतिबिंबत्वशून्यत्वात्। किंतु प्राणे। तत्प्रतिबिंबत्वात्। श्रूयते हि देवानां प्राणप्रतिबिंबत्वं परमात्मप्रतिबिंबाभावश्च। प्रतिबिंब इत्यादिना हिरण्यगर्भेतरदेवानां तस्मिन्प्रविष्टानामामात्यभृत्यन्यायेन तस्य लयकाले बहिर्भावं कृत्वा तस्यैकस्यैव परमात्मनि लयात्। अतो न दैवानां मोक्ष इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ तानि परे तथा ह्याहेति ॥% अस्यार्थः ॥ तानि सर्वाणि दैवतानि चतुर्मुखद्वारा। परे परमात्मनि। लीयंते। कुतः। हि यस्मात्। तथाऽऽह सर्व इति (कौषारव।) श्रुतिः तथाऽऽह। तस्मादित्यर्थः ॥

एवंच प्राणस्य भगवतः प्रतिबिंबत्वात्। सर्वे देवा इति श्रुतेः। अतो देवानां प्राणद्वारा परमात्मनि लयसद्भावादुक्तं युक्तमिति सिद्धं ॥
</4-2-15>
॥ इति पराधिकरणं ॥

%8.अधिकरणं ॥%

अत्र देवादिमुक्तानामीश्वराधीनत्वं समर्थ्यते।

<4-2-16>
%(16) ॐ ॥ अविभागो वचनात् ॥ ॐ ॥%

ननु मुक्ताः स्वतंत्रा न पराधीनाः। मुक्तत्वात्। एते देवा इति [गौपवनश्रुतौ.] सायुज्यभाजां सत्यकामत्वश्रुतेश्च। अतो मुक्तानां स्वातंत्र्यात्परमेश्वरस्य सर्वोत्तमत्वोक्तिर्विरुद्धेति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अविभागो वचनादिति ॥% अस्यार्थः ॥ भगवदिच्छा तद्भक्तेच्छानां। अविभागो विषयैक्यं। न तु विरोधः। कुतः। वचनात् एते देवा इति श्रतेरित्यर्थः ॥

एवंच परतंत्रा एव मुक्ताः। मुक्तत्वात्। स्वतंत्रस्य संसारायोगात्। नापि मुक्तौ स्वातंत्र्ये मुक्तिर्नाम घटते। न हि प्रेक्षापूर्वकारिणो निगडबद्धं स्वाधीनं संतं मुक्तौ स्वातंत्र्यसंभवे मोचयंति। अपि तु मुक्तावपि स्वाधीनमेव। येनेह मुक्तौ स्वतंत्रात् प्रेक्षापूर्वकारी परमेश्वरो मोचयतीति प्रतिद्येमहि। न च श्रुतिविरोधः। श्रुत्या परमेश्वरकामानुसारिकामत्वरूपपारिभाषिकसत्यकामत्वस्यैवाभिधानात्। कामेनेति [तै.आ. 3-15-4.] श्रुतेः। मुक्तानामिति [ब्राह्मे.] स्मतेश्च। अतो मुक्तानां स्वातंत्र्याभावेन परमेश्वरस्यैव सर्वोत्तमत्वमिति सिद्धं ॥
</4-2-16>
॥ इति विभागाधिकरणं ॥

%9.अधिकरणं ॥%

अत्र प्रतीकालंबनाप्रतीकालंबनतदितरमनुष्याणां मुक्त्यर्थं देहोत्क्रमणस्याज्ञानिमरणविलक्षणत्वं समर्थ्यते।

<4-2-17>
%(17) ॐ ॥ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यत्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥ ॐ ॥%

ननु ज्ञानिचरममरणं प्रारब्धनिबंधनत्वात्तत्पूर्वमरणवत्पृथक्‌जननमरणदर्शनसदृशं। ततश्च ज्ञानिनां देहादुत्क्रमणस्य पामरमरणवदेव वैलक्षण्याभावान्न ज्ञानमतिशयवदिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यातच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकयेति ॥% अस्यार्थः ॥ तस्मिन्नुत्क्रांतिकाले। तदोकोऽग्रज्वलनं। तस्य परमात्मनः। ओकसः आश्रयभूतस्य हृदयस्याग्रे ज्वलनं भवति। अथ तत्प्रकासितद्वारः तेन प्रकाशेन विद्योतितमार्गः सन्। देहाज्जीव उत्क्रामति। ननु कथमेतद्यज्यते। विद्यासामर्थ्यात्। ज्ञानसामर्थ्यात्। तच्छेषत्यनुस्मृतियोगाच्च विद्यांगप्राप्यस्मरणसाहित्याच्च। किंच हार्दानुगृहीतः हृदयस्थभगवदनुग्रहगृहीतः। सन् याति। कया शताधिकया सुषुम्ना नाड्येत्यर्थः ॥

एवंच ज्ञानसामर्थ्यात्। तस्य हृदयस्याग्रं प्रद्योतते। परमात्मा तत्प्रकाशीतद्वारं जीवमादाय सुषुम्नया नाड्या निष्क्रामति। प्राण एनमनुव्रजति तस्य हैतस्येति [बृ. 6-4-2.] श्रुतेः। न च ज्ञानसामर्थ्यात्पूर्वं मरणस्याप्येवं विधत्वप्रसंगः। गत्यनुस्मरणरूपसहकारिविरहात्। अतो ज्ञान्युत्क्रमणस्याज्ञमरणवैलक्षण्येन ज्ञानमाहात्म्यं युक्तमिति सिद्धं ॥
</4-2-17>

<4-2-18>
%(18) ॐ ॥ रश्म्यनुसारीति ॥ ॐ ॥%

ननु यदि प्रकाशितनाडीद्वारो निष्क्रामति तर्ह्यज्ञवन्नाड्यंतस्तमसैव गमनं स्यात्। यद्यंतरप्यस्ति प्रकाशस्तर्हि द्वारपदवैयर्थ्यमित्याशंकां परिहरत्सूत्रं पठित्वा तच्छेषमात्रं पूरयति ॥

%॥ ॐ ॥ रश्म्यानुसारीति ॥% अस्यार्थः ॥ रश्म्यानुसारी अंतस्थितादित्यप्रकाशानुसारी सत् जीवो निष्क्रामतीत्यर्थः ॥

एवंच ज्ञानिनो नाड्यंतस्तु सौररश्मिप्रकाशेनेश्वरमनुसृत्य देहाद्गमनात् द्वारपदावैयर्थ्यात्। सहस्रं वेति [पौत्रायण.] श्रुतेः। अत उक्तं युक्तमिति सिद्धं ॥
</4-2-18>

<4-2-19>
%(19) ॐ ॥ निशि नेति चेन्न संबंधात् ॥ ॐ ॥%

ननु रात्रौ सौररश्मीनामभावेन देहारंभककर्मक्षये मरणाभावात्। तदा पर्यवसितकर्मणां केषांचित्ज्ञानिनामपेक्षितोत्क्रमणस्य केषांचित्ज्ञानिनामेवं केषांचिदनेवमिति वैलक्षण्यस्य चायुक्तत्वादित्याक्षिप्य समादधत्सूत्रं पठति ॥

%॥ ॐ ॥ निशि नेति चेन्न संबंधादिति ॥% अस्यार्थः ॥ ननु निशि आदित्यरश्मीनामभावात्। ज्ञानिनः उत्क्रमणं। नेति चेन्न। नस्यादिति चेन्न। कुतः। संबंधात् सूर्यरश्मीनां सर्वदा संबंदादित्यर्थः ॥

एवंच रात्रौ बाह्यादित्याभावेऽपि अंतरादित्यस्य सत्त्वात्। तद्रश्मिसंबंधस्य सर्वदा नाडीषु सद्भावेन रात्रावेव मरणोपपत्तेः। तथा च ज्ञानिनां रात्रौ मरणं भवतीति सिद्धं ॥
</4-2-19>

<4-2-20>
%(20) ॐ ॥ यावद्देहभावित्वाद्दर्शयति च ॥ ॐ ॥%

ननु नाडीरश्मिसंबंधः सर्वदाऽस्तीति नाम किं। सदातन उत देहपातपूर्वकालीनः। आहोस्विद्यावद्देहभावी। पक्षत्रयस्याप्यसंभवः। सदा नाडीनामभावात्। कदाचित्ज्ञानिनोऽपि तमसोत्क्रांतिप्रसंगात्। तन्नियमे प्रमाणाभावात्। इति प्राप्ते समागदधत्सूत्रमाह ॥

%॥ ॐ ॥ यावद्देहभावित्वाद्दर्शयति चेति ॥% अस्यार्थः ॥ यावद्देहभावित्वात् रश्मिसंबंधस्य यावच्छरीरभावित्वात्। रात्रावपि ज्ञानिनः उत्क्रमणं युक्तं। कुतः। च यतः। दर्शयति संसृष्ट इति (माध्यंदिनायन.) श्रुतिः तथा प्रतिपादयति अत ईत्यर्थः ॥

एवंच निर्दिष्टुश्रुत्या ज्ञानिनो रात्रौ मरणमस्तीति सिद्धं ॥
</4-2-20>

<4-2-21>
%(21) ॐ ॥ अतश्चायनेऽपि हि दक्षिणे ॥ ॐ ॥%

ननु व्यर्थोऽयं ज्ञानिनो रात्रावुत्क्रमणसंभवप्रतिपादनायासः। दक्षिणे मरणादिति वचनात्। मोक्षार्थं तेषां दक्षिणायनोत्क्रांत्ययोगात्। तद्वद्रात्रावप्युत्क्रांत्यभावोपपत्तेरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अतश्चायनेऽपि हि दक्षिण इति ॥% अस्यार्थः ॥ च शब्दः प्रतिज्ञाद्वयसमुच्चये। अपि दक्षिणे मरणादिति स्मृतिसत्वेऽपि। दक्षिणे अयने। दक्षिणायनकाले। ज्ञानिनः उत्क्रांतिर्युक्ता। कुतः। अतः सौररश्मिसहस्रनाडीसंबंधस्य तदाऽपि सत्त्वात्। हि यतः। एवं अतः दक्षिणायन दृष्टांतेन रात्रावुत्क्रांत्यभावो न वाच्य इत्यर्थः ॥

एवंच दक्षिणे मरणादिति स्मृतेर्दक्षिणायनसंज्ञिकनाडीमरणस्य। स्वर्गहेतुत्वं। उत्तरायणसंज्ञिकनाडीमरणस्य जनोलोकादिहेतुत्वमित्यर्थत्वात्। शतं पंचैवेति [नारायणाध्यात्म.] वचनात्। ये साद्यो विष्णुलोकं गच्छंति ते सुषुम्नया निष्क्रामंति। त उत्तरायणरश्मिभिर्निर्गच्छंतीति विवेकसद्भावात्। अतो ज्ञानिनामुत्क्रमणस्याज्ञमरणवैलक्षण्यात्ज्ञानमाहात्म्यं युक्तमिति सिद्धं ॥
</4-2-21>
॥ इति तदोकोऽधिकरणं ॥

%10.अधिकरणं ॥%

अत्र गत्यनुस्मरणादेरावश्यकत्वं समर्थ्यते।

<4-2-22>
%(22) ॐ ॥ योगिनः प्रति स्मर्येति स्मार्ते चैते ॥ ॐ ॥%

ननु न गत्यर्थं विद्यागत्यनुस्मृती अपेक्षिते। अग्निर्ज्योतिरिति [भ.गी. 8-24,25.] स्मृतौ केवलकालमरणाद्यधीनत्वस्योक्तत्वात्। लोके फलानुस्मरणाभावेऽपि फलदर्शनेन तथैवात्रापि कल्प्यत्वाच्च। ततश्च न ज्ञानं संपुर्णमोक्षसाधनमिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ योगिनः प्रति स्मर्येति स्मार्ते चैत इति ॥% अस्यार्थः ॥ चो यतः। एते ब्रह्मचंद्रगती। योगिनः प्रति ज्ञानकर्मयोगिनः प्रति स्मर्येते स्मृत्या उच्येते। स्मार्ते च स्वानुस्मृतिसाध्ये च। गतीत्यादिना (अध्यात्म्ये.) स्मर्येते। अतस्तयोर्न केवलं कालादिकृतत्वमित्यर्थः ॥

एवंच स्मृत्युक्ते एते गती ज्ञानकर्मयोगाभ्यामेव स्मर्येते। न कालस्मरणात्। अग्निर्ज्योंतिरिति [भ.गी 8-24.] श्लोके ब्रह्मविद इति विशेषणात्। धूमो रात्रिरिति [भ.गी. 8-25.] श्लोके योगीति विशेषणात्। न च लोकानुसारिता। सर्वथा लोकानुसारित्वस्य छिदादावप्यभावेनादोषत्वात्। कथंचित्साम्यस्येहापि भावात्। अतो विशिष्टोत्क्रमणस्य विद्यादिसापेक्षत्वाद्युक्तं ज्ञानस्य संपूर्णमोक्षसाधनत्वमिति सिद्धं ॥
</4-2-22>
॥ इति योग्यधिकरण ॥

** ॥ इति चतुर्थाध्यायस्य द्वितीयः पादः ॥**

———————————————–

॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अथ तृतीयः पादः ॥

मार्गो गम्यं चास्मिन्पाद उच्यते।

%1.अधिकरणं ॥%

अत्र ज्ञानिप्राप्यमार्गं साध्यते।

<4-3-1>
%(1) ॐ ॥ अर्चिरादिना तत्प्रथितेः ॥ ॐ ॥%

ननु द्वावेव मार्गाविति। तत्रैकस्मिन् मार्गेऽर्चिषो लोकः प्रथमः। मार्गांतरे तु वायुलोकः। तेऽर्चिषमभिसंभवंति [छां. 5-10-1.] स वायुमागच्छती[बृ. 7-10-1.]त्युभयविधश्रुतिविरोधः। ततश्च गुरूपदेशात्प्राक् निर्णयाभावात्स्मरणानुपपत्तिरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अर्चिरादिना तत्प्रथितेरिति ॥% अस्यार्थः ॥ उत्क्रांतो ज्ञानि अर्चिरादिना मार्गेण गच्छति। कुतः। तत्प्रथितेः। तस्य तेऽर्चिषमभिसंभवंतीति श्रुतौ तस्यार्थस्य प्रसिद्धत्वादित्यर्थः ॥

एवंच द्वावेव मार्गौ प्रथितावर्चिरादिर्विपश्चितां। धूमादिः कर्मिणां चैवेति [ब्रह्मतर्के.] स्मृतेः। तत्र द्वावग्नेः सुतौ एकस्मिन्पुरे संस्थितौ। तत्रैकोऽग्निनामकोऽपरो ज्योतिर्नामकः। तदुभयाधिष्ठितस्य लोकस्य प्रथमप्राप्तिः। प्रबलैतच्छ्रुतिविरोधेन स वायुमिति श्रुतेरर्चिरनंतरार्थत्वोपपत्तेः। अत एक एव विपश्चितो मार्ग इति विनिर्णयादनुस्मृतिसंभव इति सिद्धं ॥
</4-3-1>
॥ इति अर्चिराद्यधिकरणं ॥

%2.अधिकरणं ॥%

अत्र वायोर्द्वितीयप्राप्यत्वं साध्यते।

<4-3-2>
%(2) ॐ ॥ वायुशब्दादविशेषविशेषाभ्यां ॥ ॐ ॥%

नन्वधिकारिविभेदेन मार्गभेदात्। वायुलोकस्येवाहर्लोकस्यापि द्वितीयप्राप्यत्वं। स वायुमागच्छति [बृ. 7-10-1.] अर्चिषोऽहरिति [छां. 5-10-1.] चोभयत्रापि श्रुतिसद्भावात्। न चैकस्य पूर्वत्वं परस्यानंतर्यमिति व्यवस्था। विशेषप्रमाणाभावात्। अतो मार्गनिर्णयाभावादनुस्मृत्ययोग इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ वायुशब्दादविशेषविशेषाभ्यामिति ॥% अस्यार्थः ॥ अविशेषविशेषाभ्यां वायोः प्राप्यत्वश्रुतेः उभयपर्यालोचनया वायोः द्वितीय प्राप्यत्वमेवेत्यर्थः ॥

एवंचार्चिष इति वायोः प्रथम प्राप्यत्वश्रुतेः सामान्यश्रुतेश्च मुख्यप्राथम्यबाधेऽमुख्यप्राथम्यपरत्वात्। तद्यथा न हिंस्यादिति निषेधस्य यागीयपशुहिंसानिषेधपरत्वासंभवेन बाह्यहिंसानिषेधपग्त्वं। तथा स इतो गत इति विशेषश्रुतेश्च। अतो मार्गानिर्णयेन युक्ता तदनुस्मृतिरिति सिद्धं ॥
</4-3-2>
॥ इति वायुशब्दाधिकरणं ॥

%3.अधिकरणं ॥%

अत्र तटिदभिमानिलोकस्य संवत्सराभिमानिलोकानंतरप्राप्यत्वं साध्यते।

<4-3-3>
%(3) ॐ ॥ तटितोऽधि वरुणः संबंधात् ॥ ॐ ॥%

ननु वरुणतटितोरुभयोरपि संवत्सरानंतर्यं। मासेभ्यः संवत्सरमिति [कौंडिन्यश्रुतिः.] तथा संवत्सरात्तटितमि[गौपवनश्रुतिः.]त्युभयथाश्रुतेर्मार्गभेदेनोभयोरपि संवत्सरानंतर्योपपत्तौ अन्यतरस्वीकारे कारणाभावात्। अतो मार्गनिर्णयाभावात्तदनुस्मरणानुपपत्तिरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ तटितोऽधि वरुणः संबंधादिति ॥% अस्यार्थः ॥ तटितोऽधि तटित्प्राप्त्यनंतरं वरुणः प्राप्यः। कुतः। संबंधात् वरुणस्य तटित उपरि संबंधादित्यर्थः ॥

एवंच वरुणतटितोरुभयोरपि संवत्सरानंतर्यं न ग्राह्यं। किंत्वेक एव मार्गः। तत्र संवत्सरानंतरं तटितमेव गच्छति। न च श्रुत्यंतरविरोधः। तटितोऽनंतरं वरुणस्य प्राप्यत्वेन तदर्थत्वोपपत्तेः। तत्र तटित इत्युपरिसंबंधश्रुतेः। अतो मार्गैक्येनानुस्मरणमुपपद्यत इति सिद्धं ॥
</4-3-3>
॥ इति तटिदधिकरणं ॥

%4.अधिकरणं ॥%

अत्रार्चिरनंतरप्राप्यस्य वायोरातिवाहिकत्वं समर्थ्यते।

<4-3-4>
%(4) ॐ ॥ आतिवाहिकस्तल्लिंगात् ॥ ॐ ॥%

ननु स वायुमागच्छतीति [बु. 7-10-1.] प्रथमप्राप्ततयोक्तो वायुर्मुख्यः। वायुशब्दस्य तत्रैव मुख्यत्वात्। बाधकं विना मुख्यार्थत्यागायोगात्। मुख्यत्वेऽपि प्राप्यत्वात्। अतो वायोरर्चिषानंतरं प्राप्यत्वान्न तस्याधिक्यमिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ आतिवाहिकस्तल्लिंगादिति ॥% अस्यार्थः ॥ पूर्वं द्वितीयप्राप्यत्वेनोक्तो वायुरातिवाहिक एव न मुख्यः। कुतः। तल्लिंगात् पूर्वप्राप्यत्ववायुशब्दात्। अर्चिषः स इति रूपतद्धर्मादेरित्यर्थः ॥

एवंच पूर्वगमनलिंगात्। पूर्वगमनमात्रस्यार्चिरादिगतत्वेनातिवाहिकत्वासाधकत्वेऽपि वायुत्वनिश्चयसहकृतस्य तत्साधकत्वमुपपन्नमेव। तद्यथा त्रिवर्णेतरमात्रस्यांत्यजादिगतत्वेन शूद्रत्वासाधकत्वेऽपि वर्णनिश्चयसहकृतस्य शूद्रत्वसाधकत्वमुपपद्यते। तथा चातिवाहिक एवायं वायुः प्रथमप्राप्य इति मुख्यस्य मुख्यत्वमिति सिद्धं ॥
</4-3-4>

<4-3-5>
%(5) ॐ ॥ उभयव्यामोहात्तत्सिद्धे ॥ ॐ ॥%

नन्वेवमपि नायं पूर्वपक्षोऽनुवर्तते। मुख्यस्य प्रथमप्राप्यत्वानंगीकारे तदप्राप्तिप्रसंगरूपबाधकसद्भावात्। अथ मतं। द्यौर्वव विद्युत्तत्पतिं वायुमुपगम्येति पुनरपि वायुप्राप्तिः श्रूयते। स मुख्यो भविष्यतीति न मुख्यप्राप्तिरदोष इति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ उभयव्यामोहात्तत्सिद्धोरिति ॥% अस्यार्थः ॥ सप्तम्यर्थे पंचमी। उभयव्या मोहात् पूर्वोक्तवायुरातिवाहिको मुख्यो वा उत्तरोक्तवायुरातिवाहिको मुख्यो वेति संदेहे। तत्सिद्धेः तेन दिवस्पतित्वविशेषणेन तस्य उत्तरोक्तस्य वायोर्मुख्यत्वसिद्धेर्नानिर्णय इत्यर्थः ॥

एवंचासंशयानुवृत्तिदोषः किं पूर्वोक्तातिवाहिक उतापर। तथा परत्रोक्तातिवाहिक किंवापरः। इति संशयनिरासे कारणाभावात्। ततश्चायमातिवाहिक इति निश्चयो न घटत इति चेन्न। उत्तरे दिवस्पतित्वविशेषणेन मुख्यवायुत्वनिश्चये परत्र परिशेषेण वाऽऽतिवाहिकत्वनिश्चयोपपत्तेः। उत्क्रांतस्त्विति [ब्रह्मतर्क.] स्मृतेश्च। अतः प्रथम प्राप्यस्यातिवाहिकत्वाद्युक्तं मुख्यस्य मुख्यत्वमिति सिद्धं ॥
</4-3-5>
॥ इति आतिवाहिकाधिकरणं ॥

%5.अधिकरणं ॥%

अत्र मुख्यवायोरंतिमत्वं समर्थ्यते।

<4-3-6>
%(6) ॐ ॥ वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ॐ ॥%

ननु वायोः परतो ब्रह्मणोऽर्वाग्गंतव्योऽस्ति। तथांऽगीकारे बाधकाभावात्। एवं च न वायोरस्ति ब्रह्मप्रापकत्वरूपं विशिष्टं माहात्म्यमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ वैद्युतेनैव ततस्तच्छ्रुतेरिति ॥% अस्यार्थः ॥ ज्ञानी वैद्युतेनैव विद्युत्पत्तिना वायुनैव ब्रह्म गच्छति न तु मध्ये। ततः वायोरन्यः प्राप्योऽस्ति। कुतः। तच्छ्रुतेः। तस्य वायोरेव स एनान् ब्रह्मगमयतीति (छां. 4-15-6.) ब्रह्मगमयितृत्वश्रुतेरित्यर्थः ॥

एवंच नास्त्येव वायोरनंतरप्राप्यः। यतो विद्युत्पतिनावायुनैव ब्रह्मप्राप्तिः। न तदन्येन तस्य ब्रह्मप्रापणसामर्थ्याभावात्। वायोः सामर्थ्ये प्रमाणत्वेन स एनानिति श्रुतिसद्भावात्। विद्युत्पतिरिति [बृहत्तंत्र.] स्मृतेश्च। अतो वायोरेवांतिमप्राप्यत्वाद्युक्तं तस्यातिशयेन प्राधान्यमिति सिद्धं ॥
</4-3-6>
॥ इति वैद्युताधिकरणं ॥

%6.अधिकरणं ॥%

अत्र पूर्वं विचारितेनार्चिरादिना मार्गेण गतानामल्पाधिकारिणां देवानां च गम्यं निरूप्यते।

<4-3-7>
%(7) ॐ ॥ कार्यं बादरिरस्य गत्युपपत्तेः ॥ ॐ ॥%

नन्वर्चिरादिमार्गेण गतानां सर्वेषां कार्यब्रह्मप्राप्तिरेव न परप्राप्तिः। तत्प्राप्तेरेवोपपन्नत्वात्। देवव्यतिरिक्तानां परप्राप्त्ययोग्यत्वस्य ऋते देवानिति [अध्यात्म.] वचनात्सिद्धत्वादिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ कार्यं बादरिरस्य गत्युपपतेरिति ॥% अस्यार्थः ॥ कार्यं उत्पत्तिमच्चतुर्मुखाख्यं। ब्रह्म। वायुर्गमयतीति स इति श्रुत्यर्थ इति वादरिराचार्यो मन्यते। कुतः। अस्य चतुर्मुखस्यैव। गत्युपपत्तेः प्राप्यत्वोपपत्तिरित्यर्थः ॥

एवंचोत्क्रांतानां परप्राप्त्यनुपपत्तौ देवभिन्नत्वे सति बद्धत्वादिति युक्तिबलेन ब्रह्मश्रुतेरमुख्यार्थत्वांगीकारात्। देवानां साक्षाद्‌ब्रह्मप्राप्तेर्देहलयानंतरं मुक्तिदशायां वा ततः पूर्वं मानुषत्वेन जातानां देवानामुत्क्रांत्यनंतरं बंधदशायामेवेत्यभ्युपगमात्। चतुर्मुखमुक्तेरर्वागर्चिरादिमार्गेण गतानां कार्यं ब्रह्म गमयतीति बादिरिर्मन्यत इति सिद्धं ॥
</4-3-7>

<4-3-8>
%(8) ॐ ॥ विशेषितत्वाच्च ॥ ॐ ॥%

कार्यस्यैव प्राप्तौ न केवलं युक्तिर्नापि स्मृतिः साधिका किंतु विशेषश्रुतिरपीत्याह सूत्रकृत् ॥

%॥ ॐ ॥ विशेषितत्वाच्चेति ॥% अस्यार्थः ॥ यदीति (कौषारव.) श्रुतौ प्राप्तव्यब्रह्मणश्चतुर्मुखपदेन विशेषितत्वाच्चोक्तं युक्तमित्यर्थः ॥

एवंच यदि हवावेति श्रुत्या परमात्मानमभिपश्यन्नपि देवभिन्नज्ञानिनो बंधकाले चतुर्मुखाख्यमेव ब्रह्मप्राप्यत्वार्थकत्वेन प्रमाणबलादन्यज्ञानादन्यप्राप्तेरुक्तत्वाच्च। निर्दिष्टविशेषणसद्भावात्। अत उक्तं युक्तमिति सिद्धं ॥
</4-3-8>

<4-3-9>
%(9) ॐ ॥ सामीप्यात्तु तद्व्यपदेशः ॥ ॐ ॥%

ननु ब्रह्मविदाप्नोति परमिति [तै. 2-1.] साक्षाद्‌ब्रह्मप्रप्त्युक्तिविरोधो भवेत्। तस्याः कार्यब्रह्मप्राप्त्यनंतरं समीप एव परप्राप्त्यर्थकत्वादिति प्राप्ते पराकुर्वत्सूत्रमाह ॥

%॥ ॐ ॥ सामीप्यात्तु तद्व्यपदेश इति ॥% अस्यार्थः ॥ यतस्तद्व्यपदेशः ब्रह्मविदिति परब्रह्मप्राप्तिश्रुतिः। सामीप्यात् चतुर्मुखं प्राप्याचिरेण परं प्राप्नोतीति कालसामीप्यादेव। तदनुसृत्यैव प्रवर्तते। अतो न तद्विरोध इत्यर्थः ॥

एवंच निर्दिष्टश्रुतेः कार्यपरप्राप्त्योः कालसामीप्यान्निमित्तादेव प्रवृत्तत्वेन ज्ञानिनः समीपकाल एव कार्यं प्राप्याचिरेणैव परस्यापि प्राप्तेरित्यर्थकत्वात्। अवधारणशून्यत्वेन कार्यप्राप्तेर्निषेधाभावात्। सामान्यश्रुतेश्च विशेषश्रुत्या बाधोपपत्तेः। अतो ज्ञानिनां प्रलये पूर्वप्राप्तिसद्भावेन तस्य कार्यप्राप्तिरिति सिद्धं ॥
</4-3-9>

<4-3-10>
%(10) ॐ ॥ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ ॐ ॥%

ननु समीपत एव परं ब्रह्म प्राप्नोतीति कोऽर्थः। प्रलयादर्वाक् उत प्रलय एव। नाद्यः। प्रथमं परप्राप्तौ बाधकत्वेनोक्तस्य बद्धत्वस्यात्रापि बाधकत्वसाम्यात्। तथात्वे वा प्रथममेव परप्राप्त्युपपत्तेः। न द्वितीयः। विशेषप्रमाणाभावादिति प्राप्ते परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ कार्यात्ययेतदध्यक्षेण सहातः परमभिधानादिति ॥% अस्यार्थः ॥ कार्यात्यये महाप्रलये। तदध्यक्षेण सह कार्यस्वामिना चतुर्मुखेन सह। अतः चतुर्मुखात्। परं उत्तमं ब्रह्म। ज्ञानी गच्छति। कुतः। अभिधानात् तथा श्रुतेरित्यर्थः ॥

एवंच सकलकार्यविलयानंतरं कार्याधिपतिना चतुर्मुखेन सह तत्प्रसादान्मुमुक्षोः परप्राप्तेरभ्युपगमात्। प्रलये ज्ञानिनां लिंगशरीरान्मुक्तत्वेन तदभावेन बद्धत्वाविरोधात्। तत्र प्रमाणत्वेन ते हेति [सौपर्ण.] श्रुतिसद्भावात्। अतश्चतुर्मुखस्य कार्यप्रपंचाधिकृतत्वात्तद्‌ब्रह्मजिगमिषूणां तेनैव सह गमनं युक्तमिति सिद्धं ॥
</4-3-10>

<4-3-11>
%(11) ॐ ॥ स्मृतेश्च ॥ ॐ ॥%

स्मृत्याप्येतमर्थं साधयत्सूत्रमुपन्यस्यतां स्मृतिमुदाहरति ॥

%॥ ॐ ॥ स्मृतेश्चेति ॥% अस्यार्थः ॥ ब्रह्मणेति स्मृतेर्विद्यमानत्वाच्च ज्ञानी चतुर्मुखेन सह परं प्राप्नोतीति सिध्यतीत्यर्थः ॥

एवंच निर्दिष्टश्रुत्या परात्मानो ज्ञानिनो ब्रह्मणां संवत्सरशतानंतरं प्रलये संप्राप्ते सति चतुर्मुखेन सह ब्रह्म प्रविशंतीति कार्यब्रह्मणा सहगमनं युक्तमिति सिद्धं ॥
</4-3-11>

<4-3-12>
%(12) ॐ ॥ परं जैमिनिर्मुख्यत्वात् ॥ ॐ ॥%

पूर्वपक्षांतरं सूचयत्सूत्रमुपन्यस्यति ॥

॥ ॐ ॥ परं जैमिनिर्मुख्यत्वादिति ॥% अस्यार्थः ॥ ज्ञानी परं ब्रह्मैव प्राप्नोति। न तु कार्यब्रह्म। कुतः। मुख्यत्वात् ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वादिति जैमिनिराचार्यो मन्यत इत्यर्थः ॥

एवंच स एनानिति [छां. 4-15-6.] श्रुतिवाक्ये ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वेन वायुरेनान् परं ब्रह्मगमयति न कार्यमिति जैमिन्याचार्यो मन्यत इति स्थितं ॥
</4-3-12>

<4-3-13>
%(13) ॐ ॥ दर्शनाच्च ॥ ॐ ॥%

ननु ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वेऽपि प्रागुक्तोपपत्तिश्रुतिस्मृतिविरोधात्तद्‌ग्रहणानुपपत्तेरमुख्यार्थकल्पना युक्तेत्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ दर्शनाच्चेति ॥% अस्यार्थः ॥ ज्ञानी परं ब्रह्मैव गच्छति। कुतः। तेन श्रवणादिभिः परब्रह्मण एव दृष्टत्वादित्यर्थः ॥

एवंच ज्ञानिभिः श्रवणादिसाधनैरपरोक्षतया परब्रह्मण एव ज्ञातत्वेनान्यस्यादृष्टत्वेन वायुस्तान् परं गमयतीत्युपपन्नमिति सिद्धं ॥
</4-3-13>

<4-3-14>
%(14) ॐ ॥ न च कार्ये प्रतिपत्यभिसंधिः ॥ ॐ ॥%

हेत्वंतरेण परप्राप्तिरेवोपपन्नेत्येतमर्थं प्रतिपादयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ न च कार्ये प्रतिपत्त्यभिसंधिरिति ॥% अस्यार्थः ॥ इतोऽपि ज्ञानिनः कार्यब्रह्मप्राप्तिरनुपपन्ना। कुतः। चो यतः। कार्ये ब्रह्मणि विषये। ज्ञानिनः प्रतिपत्त्यभिसंधिः। प्रतिपत्तिः उपास्तिः। अभिसंधिः प्राप्नुवानीतीच्छा। नास्ति। अत इत्यर्थः ॥

एवंच ज्ञानिनां कार्य एव प्रतिपत्त्यभिसंध्योरभावात्। परविषये तु तयोरभावाभावात्। यदुपास्ते पुमानिति [पाद्मे.] स्मृतेः। ततश्च वायुः परमेव तान् गमयति न कार्यमिति सिद्धं ॥
</4-3-14>

<4-3-15>
%(15) ॐ ॥ अप्रतीकालंबनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च ॥ ॐ ॥%

अधिकारिभेदेनोभयप्राप्तिरिति सिद्धांतयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ अप्रतीकालंबनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्चेति ॥%अस्यार्थः ॥ वायुरप्रतीकालंबनान् व्याप्तोपासकानधिकारिणः नयति परं ब्रह्म गमयति। अन्यान् प्रतीकालंबनान् प्रतिकशब्दितदेहांत उपासकान् कार्यब्रह्म नयतीति। स एनान् इति (छां. 4-15-6.) श्रुत्यर्थ इति बादरायणाचार्यो मन्यते। कुतः। उभयथा च दोषात्। एनां व्यवस्थामनंगीकृत्य सर्वेषां एकैकप्राप्त्यंगीकारे कार्यब्रह्मपरब्रह्मपाप्त्यंगीकारे कार्यपरब्रह्मप्राप्तिपक्षद्वयोक्तदोषत्वप्राप्तेः। ननु यत्प्राप्तुमभिवांछंति तत्प्राप्नोतीति (पाद्म.) वचनात्तत्तदिच्छामात्रेण तत्तत्प्राप्तिसंभवान्नोक्तव्यवस्थांगीकार्येत्यत आह। तत्क्रतुश्चेति। अनेन स यथा कामो भवति तत्क्रतुर्भवतीत्यादि (बृ. 6-4-5.) श्रुतिर्गृह्यते। च शब्दो यत इत्यर्थे। यतः स यथेति श्रुतिस्तत्तत्प्राप्तीच्छामात्रेण तत्तत्प्राप्तिं प्रतिषिध्य तत्ज्ञानोपासनापरोक्षैरेव तत्प्राप्तिं वक्ति। अतस्तत्तदिच्छामात्रेणैव न तत्प्राप्तिर्युज्यत इत्यर्थः ॥

एवंच वायुः प्रतीकालंबनान्मनुष्यांश्च कार्यं नयति। अप्रतीकालंबनेषु ऋषीणां शतं राज्ञां शतं च परं न्यतीति श्रुत्यर्थत्वात्। सर्वान्कार्यं नयतीत्यर्थत्वे सर्वान्परमेव नयतीत्यर्थत्वे च दोषसद्भावात्। न चेच्छावशेनैव कार्यपरप्राप्त्योरसंभवेनाप्रतीकालंबनत्वादिविशेषांगीकारो व्यर्थ इति वाच्यं। स यथा काम इति श्रुतौ तत्प्राप्तीच्छूनामिच्छानुसारेण तत्प्राप्तिप्रतिषेधात्। प्रतीकालंबनत्वादिविभागे प्रतीकमिति [गारुड.] स्मृतेः प्रमाणत्वेन सद्भावात्। अतो ज्ञानिनामधिकारिभेदेनोभयप्राप्तिरिति भगवान्बादरायणो मन्यत इति सिद्धं ॥
</4-3-15>

<4-3-16>
%(16) ॐ ॥ विशेषं च दर्शयति ॥ ॐ ॥%

यदुक्तं नेच्छानुसारेण प्राप्तिरपि तु प्रतीकालंबनादिक्रमेणैवेति न तद्युक्तं। केचिदप्रतीकालंबनाः केचित्प्रतीकालंबना इति नियमे प्रमाणाभावेन यथेष्टमप्रतीकालंबनत्वापादनस्यापि संभवादित्याशंकां परिहरत्सूत्रं पठति ॥

%॥ ॐ ॥ विशेषं च दर्शयतीति ॥% अस्यार्थः ॥ चो यतः। अंतः प्रकाशा इति (चतुर्वेदशिखायां) श्रुतिः केचनाप्रतीकालंबनाः केचनप्रतीकालंबनाः इति विशेषं भेदं दर्शयति प्रतिपादयति। तस्माच्चोक्तं युक्तमिर्त्यथः ॥

एवंचांतः प्रकाशा इति श्रुत्या प्रतीकाप्रतीकलंबनयोर्विशेषभेदस्य प्रतिपादित्वात्। अतोऽप्रतीकालंबनानित्याद्युक्तं युक्तमिति सिद्धं ॥
</4-3-16>
** ॥ इति कार्याधिकरणं ॥
॥ इति चतुर्थाध्यायस्य तृतीयः पादः ॥**

————————————————-

॥ श्रीः ॥
॥ हरिः ॐ ॥
॥ अथ चतुर्थः पादः ॥

॥ भोगमाहास्मिन्पादे ॥

%1.अधिकरणं ॥%

अत्र मुक्तस्य ब्रह्मानतिक्रमेणैव भोग्यानुभवः साध्यते ॥

<4-4-1>
%(1) ॐ ॥ संपद्याविहाय स्वेन शब्दात् ॥ ॐ ॥%

ननु मुक्तो ब्रह्मातिक्रम्य मुक्तौ भोगान्भुंक्ते। एतं सेतुं तीर्त्वेति [छां. 8-4-2.] ब्रह्मातिक्रमानंतरं रूपाविर्भावस्योक्तत्वेनानतिक्रम्य स्थितस्य स्वरूपानुभवायोगात्। अतो मुक्तस्य ब्रह्‌मातिक्रमनियमान्न तद्गम्यमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ संपाद्याविहाय स्वेन शब्दादिति ॥% अस्यार्थः ॥ ज्ञानी संपद्य ब्रह्म प्राप्य। अविहाय ब्रह्मानतिक्रम्य। स्वेन आविर्भूतस्वरूपेणावस्थितः सन् भोगान्भुंक्ते। कुतः। शब्दात् स एवं विदिति (सौपर्णं.) श्रुतेरित्यर्थः ॥

एवंच ब्रह्म संपद्याविहायैव भोगान्भुंक्ते। स एवमिति श्रुतेः। परंज्योतिरिति श्रुतेश्च। एतमिति [छां. 8-4-2.] श्रुतेर्ब्रह्मप्राप्तयेन्यतरणस्यैव तदर्थत्वनाविरोधात्। अतो मुक्तस्य ब्रह्मादिक्रमाभावात्तदेव गम्यमिति सिद्धं ॥
</4-4-1>
॥ इति संपद्याधिकरणं ॥

%2.अधिकरणं ॥%

अत्र ब्रह्म प्राप्य तदविहायैव भोगभोक्तुर्मुक्तत्वं साध्यते।

<4-4-2>
%(2) ॐ ॥ मुक्तः प्रतिज्ञानात् ॥ ॐ ॥%

ननु स तत्र पर्येतीति श्रुत्युक्तो न मुक्तः। पर्येतीति क्रियाप्रतीतेः। मुक्तस्य कृतकृत्यार्थत्वेन क्रियाऽसंभवात्। न चामुक्तस्यैवं विधभोगासंभवः। प्रागसंभवेऽपि गवत्प्राप्त्यनंतरं संभवात्। न च श्रुत्युक्तस्यामुक्त्त्वे स्वेन रूपेणेति [छां. 8-3-4.] वाक्यविरोधः। तत्र निर्गुणोपासकस्य स्वरूपाविर्भावाभिधानात्। स तत्रेति {छां. 8-12-3.] दहरविद्योपासस्यामुक्तस्यैव भोगाभिधानात्। अतः श्रुत्युक्तस्यामुक्तत्वान्न मुक्तस्य भोग इति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ मुक्तः प्रतिज्ञानादिति ॥% अस्यार्थः ॥ स तत्र पर्येतीति श्रुतौ मुक्त एवोच्यते। कुतः। प्रतिज्ञानात् मुक्तादन्यस्य दिव्यभोगं प्रतिषिध्याहरह इति (बृहत्.) श्रुतौ मुक्तस्यैव ब्रह्मप्राप्त्या दिव्यभोगोक्तेरित्यर्थः ॥

एवंच निर्दिष्टश्रुतौ मुक्तस्यैवोक्तत्वात्। मुक्तत्वं विनैतद्भोगासंभवात्। स्वरूपाविर्भावोक्तेश्च। एकप्रकरणत्वसंभवे भिन्नप्रकारणत्वकल्पनाऽयोगात्। अन्यथाऽतिप्रसंगात्। अतो युक्त एव मुक्तस्य भोग इति सिद्धं ॥
</4-4-2>
॥ इति मुक्ताधिकरणं ॥

%3.अधिकरणं ॥%

अत्र मुक्तप्राप्यस्य ज्योतिषो ब्रह्मत्वं साध्यते।

<4-4-3>
%(3) ॐ ॥ आत्मा प्रकरणात् ॥ ॐ ॥%

ननु परंज्योति [छां. 8-3-4.] शब्दोक्तो न विष्णुः। किंत्वादित्यो भवेत्। स तेजसीति [प्र. 5-5.] श्रुत्या समाख्यानात्। एवंच न मुक्तस्य ब्रह्मसमीपे भोग इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ आत्मा प्रकरणादिति ॥% अस्यार्थः ॥ परंज्योतिः शब्देन आत्मा परमात्मैवोच्यते न सूर्यः। कुतः। प्रकरणात् अस्य वाक्यस्य परमात्मप्रकरणत्वादित्यर्थः ॥

एवंच य आत्मेति [छां. 8-1-5.] भगवत एवारभ्याधीतत्वेनास्य तत्प्रकरणात्वात्। प्रकरणस्य समाख्यातो बलवत्त्वात्। सूर्यमंडलप्राप्त्यनंतरं पापकर्मविनाशांगीकारेण स तेजसीति वाक्यस्य किंस्तुध्नप्राप्तिपूर्वकालिकसूर्यप्राप्तिपरत्वेन सावकाशत्वात्। परंज्योतिःशब्दस्यान्यत्राभावाच्च। अतः परं ज्योतिर्ब्रह्मैवेति तत्प्राप्त्याविहायैव मुक्तो भोगान्भुंक्त इति सिद्धं ॥
</4-4-3>
॥ इति आत्माधिकरणं ॥

%4.अधिकरणं ॥%

अत्र सायुज्यभाजां भगवद्भुक्तभोगभोक्तृत्वं समर्थ्यते ।

<4-4-4>
%(4) ॐ ॥ अविभागेन दृष्टत्वात् ॥ ॐ ॥%

ननु मुक्ताः परमात्मनाऽभुक्तभोगान् भुंजते। अवाप्तमहापुरुषार्थत्वात्। अन्यथा कदाचिन्मुक्तानां भोगेच्छायामप्यवाप्तकामत्वेन परमात्मनस्तदनिच्छायां मुक्तानां भोगो न स्यात्। परमात्मभोगं विना तेषां भोगायोगात्। ततश्च भगवदभुक्तभोगभोक्तृत्वान्न तस्य सर्वभोक्तृत्वमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अविभागेन दृष्टत्वादिति।% अस्यार्थः ॥ अविभागेन परमात्मभुक्ताः क्रमेणैव मुक्तैः भोगाः भुज्यंते। कुतः। दृष्टत्वात् यानेवाहमिति (चतुर्वेदशिखायां.) श्रुतेरित्यर्थः ॥

एवंच भुक्तानेव भोगान्भुंजंते मुक्ताः। यानेवाहं शृणोमीति श्रुतेः। मुक्ताः प्राप्येति [भविष्यत्पर्वणि.] स्मृतेश्च। अतो मुक्तानां भगवद्भुक्तभोगभोक्तृत्वाद्युक्तं तस्य सर्वभोक्तृत्वमिति सिद्धं ॥
</4-4-4>
॥ इति अविभागाधिकरणं ॥

%5.अधिकरणं ॥%

अत्र ब्रह्मप्राप्तस्य सायुज्यमुक्तस्य भोगः समर्थ्यते।

<4-4-5>
%(5) ॐ ॥ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ॐ ॥%

ननु न मुक्तानां भोगो युक्तः। शरीराभावात्। तेषां देहसद्भावांगीकारे मुक्तत्वव्याघातात्। अतो मुक्तौ भोगासंभवादपुरुषार्थत्वमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ ब्राह्मेण जैमिनिरुपन्यासादिभ्य इति ॥% अस्यार्थः ॥ ब्राह्मेण ब्रह्मसंबंधिदेहेनैव। मुक्तो भोगान्भुंक्ते। कुतः। उपन्यासादिभ्यः ब्रह्मणेति (माध्यंदिनायन.) श्रुतेः। आदि पदोक्तादत्त इति स्मृतेर्युक्तेश्चेति जैमिन्याचार्यो मन्यत इत्यर्थः ॥

एवंच मुक्तानां देहाभावेऽपि ब्राह्मेण देहेन भोगस्य युक्तत्वात्। निर्दिष्टश्रुतिस्मृत्योश्च। जैमिन्युक्तस्यापि प्रामाणिकत्वेन बादरायणोक्तेरविरोधात्। अतो मुक्तौ भोगसंभवाद्युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धं ॥
</4-4-5>

<4-4-6>
%(6) ॐ ॥ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ॐ ॥%

एवं देहाभावमभ्युपगम्य मुक्तस्य भोगं समर्थ्य देहसद्भावमभ्युपगम्य तत्समर्थयत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिरिति ॥% अस्यार्थः ॥ चितिमात्रेण ज्ञानैकस्वरूपदेहेन। मुक्तो भोगान्भुंक्ते तदात्मकत्वात्। चिन्मात्रदेहस्यैव मुक्तस्वरूपत्वात्। तस्य च संसृत्यहेतुत्वादित्यौडुलोमिराचार्यो मन्यत इत्यर्थः ॥

एवंच मुक्तानां चिन्मात्रेण पृथग्विद्यमानत्वात्। तेषां शरीरस्य चैतन्यस्वरूपेण पृथग्विद्यमानत्वात्। तेषां चिदात्मकत्वाच्चितिमात्रशरीरस्य च मुक्तस्वरूपत्वात्स्वरूपस्य चाकृत्रिमत्त्वेन संसारानापादकत्वात्। सर्वदेहपरित्यागेन ब्रह्मदेहाद्भिन्नचितिमात्रेण मुक्ता भुज्यंते। सर्वं वेति [उद्दालक.] श्रुतेः। इत्यौडुलोमिराचार्यो मन्यते। अतो मुक्तौ भोगः संभवतीति सिद्धं ।.
</4-4-6>

<4-4-7>
%(7) ॐ ॥ एवमुपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ॐ ॥%

ननु न सूत्रद्वयोक्तपरिहारौ युज्येते। देहाभावाभावयोर्विरुद्धत्वादित्याशंकां पराकुर्वत्सूत्रं पठति ॥

%॥ ॐ ॥ एवमुपन्यासात्पूर्वभावादविरोधं बादरायण इति ॥% अस्यार्थः ॥ एवमौडुलोम्युक्तप्रकारास्योपन्यासात् स व एष इति (सौपर्ण.) श्रतौ उक्तत्वात्। पूर्वभावात् पूर्वस्मिन् जैमिन्युक्तपक्षेऽपि भावात् प्रमाणसद्भावात्। अविरोधं पक्षद्वयस्याविरोधं। बादरायणाचार्यो मन्यत इत्यर्थः ॥

एवंच बादरायणाचार्य उभयमतयोरविरोधं मन्यते। सर्वं वा इति [उद्दालक.] श्रुतौ मुक्तस्य चिच्छरीरमात्रोक्तावपि स वा एष इति श्रुतौ [उद्दालक.] औडुलोम्युक्तचिच्छरीरभोगस्याप्युपन्यासात्। चिन्मात्रस्य ब्राह्मेण भोग इति जैमिन्युक्तस्य च प्रमाणेषु भावेन प्रमिते च विरोधाभावात्। प्रथमस्य चिन्मात्रदेहविषयत्वात्। द्वितीयस्य तु जडदेहाभावविषयत्वात्। अतो मुक्तौ भोगसंभवाद्युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धं ॥
</4-4-7>
॥ इति ब्राह्माधिकरणं ॥

%6.अधिकरणं ॥%

अत्र मुक्तस्य संकल्पमात्रसाध्यभोगः समर्थ्यते ॥

<4-4-8>
%(8) ॐ ॥ संकल्पादेव च तच्छ्रुतेः ॥ ॐ ॥%

ननु तत्तदुपायसाध्यसाधनसाध्यो मुक्तभेगः। ओकसि स्थितभोगत्वात्। पृथिव्याद्योकसि स्थितसंसारिभोगवत्। अन्यथा लोकविरोधात्। ततश्च संकल्पसाध्यत्वाभावान्मुक्तेरपुरुषार्थत्वमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ संकल्पादेव च तचछ्रुतेरिति ॥% अस्यार्थः ॥ चो विरुद्धपक्षव्यावृत्यर्थः। संकल्पादेव स्वेच्छानुसारेणैव मुक्ता भोगान् भुंजते। कुतः। तच्छ्रुतेः। तस्मिन्नर्थे स यदीति श्रुतेरित्यर्थः ॥

एवंच मुक्तानां भोगादिषु प्रयत्ननिरपेक्षत्वात्। स यदि .xxxलोककाम इति [छां. 8-2-1.] श्रुतेः। न च लोकविरोधः। निर्देषे भगवदोकसि तथात्वस्यैव युक्तत्वात्। अतो मुक्तभोगस्य संकल्पमात्रसाध्यत्वाद्युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धं ॥
</4-4-8>
॥ इति संकल्पाधिकरणं ॥

%7.अधिकरणं ॥%

अत्र ब्रह्मप्राप्तिमतां मुक्तानां स्वाधमनियम्यत्वराहित्येन भोगः साध्यते।

<4-4-9>
%(9) ॐ ॥ अत एव चानन्याधिपतिः ॥ ॐ ॥%

ननु मुक्ताः स्वावरनियम्याः। सर्वाधिपतिसदननिविष्टत्वात्। राजसदननिविष्टामात्यादिवत्। दृश्यंते ह्यमात्या अपि राजशासननिविष्टा नीचैरपि प्रतिहारैर्नियम्यमानाः। अन्यथा लोकविरोधः स्यात्। अतो मुक्तस्याधमनियम्यत्वान्मुक्तेः संसारसमानधर्मत्वमिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ अत एव चानन्याधिपतिरिति ॥% ॥ अस्यार्थः ॥ च शब्दो विरुद्धसंकाव्यावर्तकः। अनन्याधिपतिः मुक्तः स्वोत्तमस्वकीयान्याधिपतियुक्तो न। कुतः। अत एव सत्यसंकल्पादेवेत्यर्थः ॥

एवंच सर्वेषां परमात्माधिपतित्वात्। प्राणादिनामपर्यंतदेवानां क्रमेणाधिपतित्वात्। यैर्ज्ञानं सुप्रतिष्ठितं तेषामाचार्याणामप्यधिपतित्वात्। ततोऽन्यस्य नीचाधिपतित्वाभावात्। सत्यसंकल्पात्। लोके ह्यनपेक्षितस्यैव भावात्। तच्च मुक्तस्य सत्यसंकल्पादेवायुक्तत्वात्। परमोऽधिपतिरिति [वाराह.] स्मृतेः। अतो मुक्तस्याधमाधिपतिशून्यत्वाद्युक्तं मुक्तेः संसारवैलक्षण्यमिति सिद्धं ॥
</4-4-9>
॥ इति अनन्याधिपत्यधिकरणं ॥

%8.अधिकरणं ॥%

अत्र परमेश्वरं प्राप्तानां भोगानुपपत्तिः परिह्रियते ॥

<4-4-10>
%(10) ॐ ॥ अभावं बादरिराह ह्येवं ॥ ॐ ॥%

ननु न मुक्तानां भोगो युज्यते। देहभावाभावयोर्विरोधात्। मुक्तस्य बाह्यदेहांगीकारे दुःखप्रसंगात्। तदनंगीकारे भोगासंभवः। अशरीरेण भोगायोगात्। न च चिच्छरीरेण भोगोपपत्तिः। सुप्त्यादौ विद्यमानस्य तस्यापि भोगायतनत्वादर्शनात्। न ब्राह्मेण देहेन तदुपपत्तिः। परदेहस्य परं प्रति भोगायतनत्वायोगात्। अतः कथमपि मुक्तानां निर्दुःखभोगायोगादपुरुषार्थत्वं मुक्तेरिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ अभावं बादरिराह ह्येवमिति ॥% अस्यार्थः ॥ प्राकृतदेहाभावमंगीकृत्य चिन्मात्रदेहेन मुक्तस्य भोगोऽस्ति। एवं बादरिराचार्यो मन्यते। कुतः। हि यस्मात्। अभावं प्राकृतशरीराभावं। अशरीरो वावेति (कौंठरव्य.) श्रुतिराह। तस्मादित्यर्थः ॥

एवंच चिन्मात्रदेहसद्भावात्। सुप्त्यादौ विद्यमानस्याज्ञानाद्यावृतत्वेन तदा भोगायतनत्वाभावेप्यज्ञाननिवृत्त्यनंतरं तत्संभवात्। न हि प्रतिबद्धकारणं कार्यं न जनयतीत्येतावता तदुपरमेऽपि कार्यं न जनयतीति सांप्रतं। न च दुःखप्रसंगः। बाह्यदेहाभावात्। अशरीरो वावेत्याम्नानादिति बादरिराचार्यो मन्यते। तथा च युक्त एव मुक्तान ां भोग इति सिद्धं ॥
</4-4-10>

<4-4-11>
%(11) ॐ ॥ भावं जौमिनिर्विकल्पाम्नानात् ॥ ॐ ॥%

मुक्तानांदेहसद्भावमभ्युपगच्छत्सूक्षमुपन्यस्यंति ॥

%॥ ॐ ॥ भावं जैमिनिर्विकल्पाम्नानादिति ॥% अस्यार्थः ॥ जैमिनिः मुक्तानां भाव चिन्मात्रातिरिक्तदेहसद्भावं मन्यते। कुतः। विकल्पाम्नानात् विकल्पस्योभयविधदेहस्याम्नानात्। चिता वाऽचितावेति (उद्दालक) श्रुत्या प्रतिपादनादित्यर्थः ॥

एवंच जैमिनिराचार्यः कदाचिन्मुक्तस्यापि कस्यचिदुत्तमस्य भोगार्थमिच्छया प्राकृतदेहस्यापि भावं मन्यते। तत्र श्रुतिप्रमाणसद्भावात्। ततश्च मुक्तानां भोगोऽस्तीति सिद्धं ॥
</4-4-11>

<4-4-12>
%(12) ॐ ॥ द्वादशाहवदुभयं बादरायणोऽतः ॥ ॐ ॥%

नन्वेतन्मतद्वयस्य परस्परविरुद्धत्वात्। शरीरभावाभावयोरसंभावात्किं तत्स्वमतमित्याकांक्षाया सूत्रं पठति ॥

%॥ ॐ ॥ द्वादशाहवदुभयं बादरायणोऽत इति ॥% अस्यार्थः ॥ बादरायणः उभयविधं प्राकृतदेहभावाभावाख्यं। मतं स्वमतं मन्यते। कुतः। अतः प्रमाणसद्भावात्। कथमेतद्युज्यते। द्वादशाहवत्। यथा द्वादशात्मकः क्रतुरहीनसत्रोभयात्मकः तथैवेत्यर्थः ॥

एवंच शरीरभावाभावयोरसंभवाभावात्। प्रत्युत द्वादशाहपरिसमाप्यस्य यागस्येच्छयैककर्तृत्वेऽहीनत्वमनेकेषां कर्तृत्वे सत्रत्त्वमिव मुक्तानामिच्छया शरीरभावाभावयोरुपपत्तेः। ततश्च मतद्वयस्याविरोध इति सिद्धं ॥
</4-4-12>

<4-4-13>
%(13) ॐ ॥ तन्वभावे संघ्यवदुपपत्तेः ॥ ॐ ॥%

ननु भवतु देहभावाभावरयोरविरोधः तथाऽपि कथं भोगोपपत्तिः। देहत्वे सदुःखादिः स्यात्। न तेद्भोगायोग इत्यनुपपत्तेरुक्तत्वादिति प्राप्ते समादधत्सूत्रमाह ॥

%॥ ॐ ॥ तन्वभावे संघ्यवदुपपत्तेरिति ॥% अस्यार्थः ॥ संध्यवत् यथा स्वप्नावस्थायां बाह्यदेहाभावेऽपि भोगसंबधः तद्वन्मुक्तावपि। तन्वभावेऽपि प्राकृतदेहाभावेऽपि। उपपत्तेः। भोगस्य युक्तत्वाद्देहाभावपक्षो युज्यत इत्यर्थः ॥

एवंच शरीराभावेऽपि भोगस्य स्वप्नवदुपपत्तेः संध्यं तृतीयमिति [बृ. 6-3-9.] श्रुतेः। अत उक्तं युक्तमिति सिद्धं ॥
</4-4-13>

<4-4-14>
%(14) ॐ ॥ भावे जाग्रद्वत् ॥ ॐ ॥%

ननु संध्यवज्जाग्रद्वद्भोग इव सुषुप्त्यादिवद्भोगाभावोऽपि किं न स्यादिति प्रतिदृष्टांतस्यापि वक्तुं शक्यत्वात्। देहाभावे स्वप्नवद्देहसद्भावे जाग्रद्वद्भोग इत्येतत्कुत इति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ भावे जाग्रद्वत् ॥% अस्यार्थः ॥ जाग्रद्वत् यथा जाग्रदवस्थायां। देहसद्भावेऽपि भोगसंभवः। तद्वन्मुक्तावपि। भावे प्राकृतदेहसद्भावेऽपि भोगो युज्यत इत्यर्थः ॥

एवंच स्वप्नावस्थापन्नानां देहाभिमानेन विनाऽपि प्राकृतेन यथा भोगो युज्यते। एवं मुक्तस्य स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित्स्वीकृत्य जागरितवद्भुक्त्वा त्यागः कदाचनेति [ब्रह्मवैवर्त.] स्मृतेः। अतो मुक्तानां भोगोऽस्तीति सिद्धं ॥
</4-4-14>

<4-4-15>
%(15) ॐ ॥ प्रदीपवदावेशस्तथा हि दर्शयति ॥ ॐ ॥%

ननु शरीरदशायां जाग्रद्वन्मुक्तानां बाह्यदेहेन भोगोऽभिमतः। तथा सति दुःखमपि भवेदिति प्राप्ते समादधत्सूत्रं पठति ॥

%॥ ॐ ॥ प्रदीपवदावेशस्तथा हि दर्शयतीति ॥% अस्यार्थः ॥ प्रतदीपवत् यथा प्रदीपस्य दीपिकादिप्रवेशः तद्गततैलादिभोगः कार्ष्ण्याद्यभोगश्च। तद्वन्मुक्तानामावेशः जडशरीरप्रवेशः। तत्र साधुभोगानुभवः दुःखाद्यननुभवश्चास्ति। कुतः। हि यस्मात्। तीर्णोहीति (बृ. 6-3-22.) श्रुतिः। तथा दर्शयति तथा प्रतिपादयति। तस्मादित्यर्थः ॥

एवंचोक्तनिदर्शनवन्मुक्तस्य बाह्यशरीरानुप्रविष्टत्वेऽपि सुखस्यैव भोगसद्भावात्। अतो मुक्तानां निर्दुःखभोगानुभव इति सिद्धं ॥
</4-4-15>

<4-4-16>
%(16) ॐ ॥ स्वाप्ययसंपत्योरन्यतरापेक्षमाविष्कृतं हि ॥ ॐ ॥%

ननु तीर्णोही[बृ. 6-3-22.]त्येतद्वाक्यं स्वर्गादिविषयं किं न स्यात्। बाधकाभावात्। तथा च न मुक्तानामदुःखत्वे प्रमाणमेतत्। स्वर्गलोक इत्यादिना स्वर्गे दुःखाभावसिद्धेरिति प्राप्ते सूत्रितं ॥

%॥ ॐ ॥ स्वाप्यसंपत्त्योरन्यतरापेक्षमाविष्कृतं हीति ॥% अस्यार्थः ॥ स्वर्गे लोक इति (कठ. 1-12.) वाक्य स्वाप्ययसंपत्त्यारेन्यतरापेक्षं अन्यतरविषयः। कुतः। हि यस्मात्। अस्य चात्र पिताऽपितेति (बृ. 6-3-22.) श्रुत्या सुप्तिमुक्तिविषयत्वं आविष्कृतं प्रकटीकृतं। तस्मादित्यर्थः ॥

एवंचोक्तं युक्तमिति मुक्तानां निर्दुःखभोगानुभवो युक्त एवेत्युपपन्नं मोक्षस्य पुरुषार्थत्वमिति सिद्धं ॥
</4-4-16>
॥ इति अभावाधिकरणं ॥

%9.अधिकरणं ॥%

अत्र ब्रह्मप्राप्तस्य मुक्तस्य भोगेयत्ता समर्थ्यते।

<4-4-17>
%(17) ॐ ॥ जगद्व्यापारवर्जम् ॥ ॐ ॥%

ननु मुक्ता अपि पारमेश्वरजगद्‌व्यापारमाप्नुवंति। सर्वान्कामानिति [ऐ.आ. 5-4.] श्रुतेः। न च सर्व सब्दसंकोचः। बाधकाभावात्। अन्यथा सत्यकामत्वव्याघातः। कामिताप्राप्तौ दुःखप्रसंगश्च। अतो मुक्तानां जगज्जन्मादिकर्तृत्वादयुक्तं लक्षणसूत्रमिति प्राप्ते सूत्रमाह ॥

%॥ ॐ ॥ जगद्व्यापारवर्जमिति ॥% अस्यार्थः ॥ मुक्तः जगत्सृष्ट्यादिव्यापारवर्जं यथा भवति तथा सर्वान्कामानाप्नोतीत्यर्थः ॥

एवंच मुक्तानां सर्वकामावाप्तौ प्रमाणाभावात्। सर्वान्कामानिति श्रुतेर्योग्यकामावाप्तेरेवार्थाभिधायकत्वात्। अतो मुक्तानां जगद्‌व्यापाराभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</4-4-17>

<4-4-18>
%(18) ॐ ॥ प्रकरणादसंनिहितत्वाच्च ॥ ॐ ॥%

ननु सर्वान्कामानिति [ऐ.आ. 5-4.] श्रुतेरीश्वरपरत्वेन जीवपरत्वाभावात्। अनया श्रुत्या मुक्तस्य जगद्‌व्यापारसिद्धिरित्येवोत्तरस्य युक्तत्वादिति प्राप्ते सूत्रितम् ॥

%॥ ॐ ॥ प्रकरणादसंनिहितत्वाच्चेति ॥% अस्यार्थः ॥ च शब्दः साध्यसमुच्चये। सर्वान्कामानिति श्रुतौ जीव उच्यते। कुतः। प्रकरणात् अस्य वाक्यस्य जीवप्रकरणत्वात्। तथा च न तत्रासंकोचेन जीवस्य सर्वकामभोग उपयुज्यते। किंतु संकोचेनैव। कुतः। असन्निहितत्वात् जीवानां जगद्व्यापारसामर्थ्यविदूरत्वादित्यर्थः ॥

एवंच सर्वान्कामान इति श्रुतेः संकोचेनैव जीवपरत्वमित्युत्तरस्य युक्तत्वात्। श्रुतेर्जीवपरत्वात्। शरीरभेदादुत्क्रम्येति जीवप्रकरणात्। श्रुतेः संकोचः कुत इति चेत्। जीवस्य तादृशसामर्थ्यविधुरत्वात्। स्वाधिकानंदप्राप्ताविति [वाराह.] स्मृतेश्च। अतो मुक्ताना जगद्‌व्यापाराभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</4-4-18>

<4-4-19>
%(19) ॐ ॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमंडलस्थोक्तेः ॥ ॐ ॥%
नन्वस्य्तेव मुक्तानां जगदैश्वर्यं। सर्वस्मै देवा इति [तै.उ. 1-5.] प्रत्यक्षोपदेशादित्यादिनाक्षिप्य समादधत्सूत्रं व्याचष्टे ॥

%॥ ॐ ॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमंडलस्थोक्तेरिति ॥% अस्यार्थः ॥ मुक्तानां जगदैश्वर्यमस्तीत्यंगीकार्यं। कुतः। प्रत्यक्षोपदेशात् ता यो वेदेति (तै.उ. 1-5.) श्रुत्या स्फुटं मुक्तस्याखिलदेवतापूज्यत्वस्य प्रतिपादनादिति चेन्न। कुतः। आधिकारिकमंडलस्थोक्तेः अत्र वाक्ये मुक्तहिरण्यगर्भस्यैव मुक्तस्वस्वाधिकारनियुक्तदेवतासमूहपूज्यत्वाभिधानादित्यर्थः ॥

एवंचानया श्रुत्या सर्वमुक्तानां सर्वजगदैश्वर्यसिध्यंगीकारे तस्याश्चतुर्मुखविषयत्वेन बाधकात्। चतुर्मुखस्य तदंगीकारे तस्य मुक्ताधिकारिमंडलाधिपत्यस्यैवाभिधानेन सर्वाधिपत्यनभिधानात्। आत्मेत्येव परमिति [गारुड.] वचनाच्च। तथा चोक्तं युक्तमिति सिद्धं ॥
</4-4-19>

<4-4-20>
%(20) ॐ ॥ विकारावर्ति च तथा हि दर्शयति ॥ ॐ ॥%

ननु ब्रह्मादिदेवानां मुक्तनियामकत्वमेव कुतोंऽगीक्रियते। संसारिनियामकत्वमपि किं न स्यादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

%॥ ॐ ॥ विकारावर्तिच तथा हि दर्शयतीति ॥% अस्यार्थः ॥ चो नभोऽनुकर्षणार्थः ॥ मुक्तनां विकारावर्ति। विकारं संसारं। आवर्तयतीति प्रवर्तयतीति। विकारवर्ति। संसारविषयकव्यापारो न। कुतः। इममिति (छां. 4-15-6.) श्रुतिस्तथा दर्शयति प्रतिपादयति। तस्मादित्यर्थः ॥

एवंच निर्दिष्टश्रुत्या स्वाधिकारेणेति [वाराह.] वचनेन च मुक्तानां संसारविषयकव्यापाराणां निषेधादतो मुक्तानां जगद्‌व्यापाराभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</4-4-20>
॥ इति जगद्‌व्यापाराधिकरणं ॥

%10.अधिकरणं ॥%

अत्र ब्रह्मप्राप्तानां मुक्तानां भोगादिना वृद्धिह्रासो निराक्रियते।

<4-4-21>
%(21) ॐ ॥ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ ॐ ॥%

ननु मुक्तानामप्यानंदादीनां वृद्धिह्रासौ विद्येते। एतत्सामेत्यादिना [तै.उ. 3-10.] तस्याप्युपासनादिश्रवणात्। किंच भोगानां स्त्रीभिर्वायानैर्व [छां. 8-12-3.]त्यादिना वृद्धिह्रासौ दृश्येते। कारणानुगुणत्वात्कार्यस्यानंदादीनामपि तावंगीकर्तव्यौ। मुक्तानामपि वृध्यादिसद्भावात्संसारसमानधर्मत्वेन मुक्तेरपुरुषार्थत्वमिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमान इति ॥% अस्यार्थः ॥ मुक्तस्य यथा प्रकारेणैवावस्थितिः न तु वृद्धिह्रासौ स्तः। कुतः। यतः स एष इत्यादि (जाबाल.) श्रुतिः स्थितिमेकप्रकारेणैवावस्थानमाह। न केवलमेतावात्किंतु प्रत्यक्षानुमाने च ज्ञानिप्रत्यक्षकारणाभावलिंते चैवं श्रुत्युक्तार्थः। दर्शयतः ज्ञापयतः। अत इत्यर्थः ॥

एवंच जाबालश्रुतेः महतां प्रत्यक्षान्मुक्तो न वृध्यादिमान् तत्कारणशून्यत्वादिति लिंगाच्च। तथा चैवमेकप्रकारेणावस्थानस्य ज्ञापितत्वात्. न ह्रास इति [ब्रह्मवैवर्त.] स्मृतेश्च। अतो मुक्तानां वृध्याद्यभावेन न संसारसमानधर्मत्वं मुक्तेरिति सिद्धं ॥
</4-4-21>

<4-4-22>
%(22) ॐ ॥ भोगमात्रसाम्यलिंगाच्च ॥ ॐ ॥%

ननु न मुक्तानंदादिवृद्धौ ह्रासे च कारणाभावः। कदाचिद्भोगवृद्धेः कदाचित्तदभावस्य प्रमितत्वात्। किं माभूध्रासो वृद्धिस्तु भविष्यति। तस्य सत्यकामत्वेन कामिताशेषप्राप्त्या वृद्धिसंभवात्। न च नासौ कामयतीति युक्तं। आनंदवृद्धेरिष्टत्वेन कामनानंगीकारायोगादिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ भोगमात्रसाम्यलिंगाच्चेति ॥% अस्यार्थः ॥ अन्यत्राविशेषं विना भोगमात्रस्य विशेषे सत्यपि मुक्तस्य साम्यशब्दितैकप्रकारोक्तिरूपलिंगात् न भोगविशेषः। तद्वृध्यादौ कारणमिति न मुक्तो वृध्यादिमानित्यर्थः ॥

एवंचैतमानंदमयमिति [तै.उ. 2-8.] श्रुतौ भोगानां वृद्धौ ह्रासे च मुक्तानंदसाम्याभिदानेन मुक्तिभोगानां वृद्धिह्रासयोस्तदानंदवद्धिह्रासो प्रत्यकारणत्वात्। योग्यस्य प्राप्तत्वात्। अयोग्यकामनायाश्च न चायोग्यं विमुक्तोपीत्यनेन निषिद्धत्वेन कामानंगीकारस्यायुक्तत्वात्। अवृद्धिह्रासरूपत्वमिति [कूर्म.] वचनात्। कादाचित्कविशेषस्य त्वभ्युपगंतव्यत्वात्। अतो मुक्तानां वृध्याद्यभावेन न संसारसमानधर्मत्वं मुक्तेरिति सिद्धं ॥
</4-4-22>
॥ इति स्थित्यधिकरणं ॥

%॥1.अधिकरणं ॥%

अत्र ब्रह्म प्राप्यभोगान् भुंजानस्य मुक्तस्यापुनरावृत्तिः समर्थ्यते।

<4-4-23>
%(23) ॐ ॥ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ ॐ ॥%

ननु मुक्तः पुनरावृत्तिमान्। स्वस्थानं विहायान्यत्रगमनात्। स्वर्गादिगतवत्। न च स्वर्गं गतस्य युगमन्वंतरादिमात्रवासित्वाद्युक्ता पुनरावृत्तिर्न मुक्तस्य सतस्यानंतकालवासित्वादिति वाच्यं। समस्तस्यापि कालस्य कदाचित्समाप्तिसंभवात्। न च कालस्यानंतत्वात्समाप्त्ययोगः। अनंतस्यापि कालस्य भारतयुद्धे त्रयोदश्याः पंचदशीत्ववदेकैकस्यास्तिथेरनेकतिभ्यात्मकत्वेन समाप्तिसंभवात्। अतः पुनरावर्त्तिसद्भावादपुरुषार्थता मुक्तेरिति प्राप्ते सूत्रं पठति ॥

%॥ ॐ ॥ अनावृत्तिः शब्दादनावृत्तिः शब्दादिति ॥% अस्यार्थः ॥ मुक्तस्यानावृत्तिः पुनरावृत्तिर्नास्ति। कुतः। शब्दात् न च पुनरावर्तत इति (छां. 8-15-1.) श्रतेरित्यर्थः ॥ द्विरुक्तिरुक्तार्थस्यैवमेवेत्यवधारणार्था ॥

एवंच मुक्तो न पुनरावृत्तिमान्। न च पुनरावर्तत न च पुनरावर्तत इति शब्दात्। सर्वान्कामानिति [ऐ.आ. 2-5-15.] श्रुतेश्च। किंच सत्यकामस्य मुक्तस्य न मुक्तेः परावृत्तिर्युक्ता। कामनाविरहात्। अनंतकालस्थायित्वाच्च न पुनरावृत्तिः। न चानंतस्यापि कालस्य समाप्त्यनंतरं पारवृत्तिरस्त्विति वाच्यं। अनंतकालसमाप्तिमभिधायानंतरमिति पुनः कालसद्भावोक्तेर्व्याहतत्वात्। अतो मुक्तानां पुनरावृत्तेरभावाद्युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धं ॥
</4-4-23>
** ॥ इति अनावृत्त्यधिकरणम् ॥
॥ इति चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥
॥ इति चतुर्थाध्यायः समाप्तः ॥**

———————————————————————————-

]