- अर्चिराद्यधिकरणंअर्चिरादिना तत्प्रथितेः (ब्र.सू.4.3.1)स वायु मागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा डम्बरस्य खमिति ॥ बृहदारण्यकगतम् । रथचक्रं रध्रं यादृग्भवति तथा प्राप्ताय ब्रह्मविदे स वायुर्विजिहीते मार्गप्रदे (वे) शादवयवान्निस्सारयति । डम्बरशब्दो वाद्यविशेषवाची ॥ इत्यर्चिराद्यधिकरणम् ॥ 1॥