- दक्षिणायनाधिकरणंअतश्चायनेपिदक्षिणे (ब्र.सू.4.2.19)तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्ते ॥ इति बृहदारण्यकपञ्चाग्निविद्यागतं वचनम् । तेषां कर्मिणां यदा कर्मपर्यवैति परिक्षीणं भवति ॥ ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीय स्वेत्येवमेनाँस्तत्र भक्षयन्ति ॥ तदा ततश्च्युता द्रवीभूता आकाशसादृश्यं प्राप्नुवन्तीत्यर्थः ॥ इति दक्षिणायनाधिकरणम्