- अध्यक्षादिकरणंसोऽध्यक्षे तदुपगमादिभ्यः (ब्र.सू.4.2.4)प्रश्नोपनिषदि षष्ठप्रश्ने ॥ स ईक्षाञ्चक्रे कस्मिन्नहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजतेति ॥ मदुत्क्रान्तिप्रतिष्ठासहभूतोत्क्रान्तिप्रतिष्ठः को वा स्यादिति विचिन्त्य प्राणं जीवोऽसृजदित्यर्थः । अत्र जीवस्य प्राणस्रष्टृत्वमदृष्टद्वारा द्रष्टव्यम् ॥ इति अध्यक्षाधिकरणं