45.वागधिकरणंअत एव च सर्वाण्यनु (ब्र.सू.4.2.2)तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैर्यच्चित्तस्तेनैष प्राणमायाति ॥ इदं च प्रश्नोपनिषद्गतम् । अस्य चायमर्थः । अपगतदेहौष्ण्यः सन्पुनर्जन्मप्राप्तुं मनसि सम्पद्यमानैरिन्द्रियैः सहितं प्राणमीदृश्या मनोवासनयासहित एव सन्नागच्छतीत्यर्थः ॥ ॥ इति वागाधिकरणम् ॥