02 आसीनाधिकरणम्

  1. आसीनाधिकरणं ॥ अचलत्वं चापेक्ष्य (ब्र.सू.4.1.11)छान्दोग्ये सप्तमाध्याये षष्ठखण्डे भूमविद्यायाम् ॥ ध्यानं वाव चित्ताद्भूयः ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षम् ॥ ध्यातुः श्रैष्ठ्यादेव ध्यातारं पृथिव्यादयोप्यनुकुर्वन्ति । तस्माद्ध्यानं श्रेष्ठमित्यर्थः ॥ यत्रैकाग्रता तत्राविशेषात् (ब्र.सू.4.1.1)श्वेताश्वतरोपनिषदि ॥ समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाशयादिभिः । मनोनुकूले न तु चक्षुः पीडने गुहानिवाताश्रयणे प्रयोजयेत् ॥ निम्नोन्नतत्वादिरहिते परिशुद्धे क्षुद्रपाषाणवह्निवालुकारहिते वाद्यध्वनिजलाशयाद्यत्यन्त सामीप्यरहिते मनोनुकूले चक्षुः पीडनादिहेत्वौष्ण्यादिरहिते गुहादि लक्षणनिवातदेशाश्रयणेन योगमनुतिष्ठेदित्यर्थः ॥ इत्यासीनाधिकरणम् ॥ 5॥