01 आवृत्त्यधिकरणम्

  1. आवृत्त्यधिकरणं ॥ आवृत्तिरसकृदुपदेशात् (ब्र.सू.4.1.1)मुण्डकोपनिषदि तृतीयमुण्डके प्रथमखण्डे ॥ ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ज्ञानहेतुभूतपरमात्मप्रसादेन विशुद्धान्तःकरणः सन्निरवयवं परमात्मानं ध्यायमानो ध्यायन्ध्यानेन दर्शनसमानाकारज्ञानविशेषेण परमात्मानं साक्षात्करोतीत्यर्थः । कठवल्ली मन्त्रोयम् ॥इत्यावृत्त्यधिकरणम् ॥