- विधुराधिकरणं ॥ विशेषानुग्रहश्च (ब्र.सू.3.4.38)प्रश्नोपनिषदि प्रथमप्रश्ने ॥ अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्वीक्ष्यादित्य मभिजयन्ते ॥ अथशब्दो वाक्यन्तरोपक्रमे । ये तावत्किं प्रजयाकरिष्याम इति विरक्ता ऋषयः ते कायक्लेशादिलक्षणेन तपसा स्त्रीसङ्गराहित्यलक्षणेन ब्रह्मचर्य्येणास्तिक्यबुद्धिलक्षणया श्रद्धया विद्यया प्रत्यगात्मविद्यया परमात्मानमुपास्यार्चिरादिनोत्तरेणायनेनादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्मगमयतीत्युक्तप्रकारेण ब्रह्मप्राप्तिद्वारभूतमादित्यमभिजयन्ते प्राप्नुवन्तीत्यर्थः ॥