13 पूर्वविकल्पाधिकरणम्

  1. पूर्वविकल्पाधिकरणम्पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् (ब्र.सू.3.3.44)बृहदारण्यके वाजसनेयके अग्निरहस्ये ॥ तत् षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितः ॥तन्मन एव षट्त्रिंशत्सहस्रदिनात्मकपुरुषायुषान्तर्गतैकैकदिनप्रभवमानसवृत्तिसङ्धानग्नित्व-दृष्ट्योपास्यमानान्मनश्चितः आत्मनःसम्बन्धिनः । अत एव अर्कान् अर्चनीयान्मनोमयान्मनोनिष्पाद्यानपश्यदित्यर्थः । कर्मण्यग्न्याख्यायामिति मनश्चीयत इत्यर्थे श्येनचिदादिशब्दवदसौ क्विबन्तो निष्पन्नः मनश्चितो नामाग्नीनित्यर्थः ॥तेषु मनसैवाऽऽधीयन्त मनसाऽचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसाऽस्तुवन्मनसाऽशंसन् ॥एषु मनश्चिदाद्यग्निषु उपयुक्तान्याधानचयनग्रहणस्तोत्रशस्त्राण्यपि मनोनिष्पाद्यान्येवेत्यर्थः । न च सर्वेषां मनोव्यापाराणामग्नित्वदृष्ट्या क्रोडीकृतत्वादाधानचयनग्रहणस्तोत्र शस्त्रादिदृष्टिविषयो व्यापारो नास्तीति शङ्क्यम् । केषाञ्चिद्व्यापाराणामग्नित्वदृष्ट्या क्रोडीकारस्य केषाञ्चित्तदुपयोग्याधानचयनस्तोत्रादिव्यापारत्वेन क्रोडीकारत्वसम्भवान्नानुपपत्तिः ॥यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञीयं कर्म मनसैव ॥ तेषु मनोमयेषु मनश्चित्सु मनसैव मनोमयमक्रियतेत्यर्थः ॥ तद्यत्किञ्चेमानि भूतानि मनसा सङ्कल्पयन्ति तेषामेव सा कृतिः ॥तत्तस्माल्लोके सर्वैर्भूतैः क्रियमाणा मनोव्यापारास्सर्वेप्येतन्निष्पाद्यमानानां विद्यामयानां मनश्चितां निष्पादकव्यापारा इत्यर्थः । मनोव्यापारत्वावच्छिन्नेषु सर्वेषु क्रियमाणाया अग्नित्वदृष्टेः सकलमनोव्यापाराश्रिततया सर्वेषां मनोव्यापाराणां स्वाध्यस्ताग्निनिष्पादकत्वादिति भावः । तदेतदाह ॥तान्येवादधति तां श्चिन्वन्ति तेषु ग्रहान् गृह्णन्ति तेषु स्तुवते तेषु शंसन्ति ॥सर्वाणि भूतानि विदुषा सम्पाद्येषु मनश्चित्स्वग्निषूपयुक्तान्याधानचयनग्रहणस्तोत्रशस्त्राणि निष्पादयन्तीत्यर्थः ॥एतावती वै मनसो विभूतिरेतावती सृष्टिरेतावन्मनो मनस एतेऽग्नयः ॥तदधीनास्तत्कार्यभूताः । एतादृशमाहात्म्यशालि मन इत्यर्थः ॥ षट्त्रिंशत्सहस्राणि ह्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावानसौ पूर्वः ॥ षट्त्रिंशत्सहस्रसङ्ख्याकानामर्चनीयानामग्नीनामेषां मध्ये एकैकोऽप्यग्निः पूर्वोक्तेष्टकचिताग्निसदृश इत्यर्थः । इष्टकचितस्याग्नेः स्वाङ्गिभूतक्रतुद्वारेण यत्फलं तदेव मनश्चिदादीनामपि विद्यामयक्रतुद्वारेण फलमित्यर्थः । एवमुत्तरत्रापि । वाक्चितो वागिन्द्रियव्यापाराः । कर्मचितः वागिन्द्रियातिरिक्तकर्मेन्द्रियव्यापाराः । अग्निचितो जाठराग्निव्यापाराः ॥ते हैते विद्याचित एव ॥ ते एते मनश्चिदादयः सर्वेऽपि विद्याचितः विद्यार्थाश्चित इत्यर्थः । नतु मनश्चिदादीनामेव विद्यारूपचित्त्वं बोध्यते । तस्य सिद्धत्वेन विद्याचित एवेत्यवधारणवैयर्थ्यप्रसङ्गात् । अतो विद्याचित एवेत्यस्य विद्यामयमानसग्रहादेः क्रियामयद्वादशाहादिक्रत्वर्थत्ववद्विद्यामयस्य मनश्चिदादेः प्रसक्तस्य क्रियामयक्रत्वर्थत्वस्य प्रतिषेधार्थत्वमेव ॥तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि विचिन्वन्त्यपि स्वपते ॥ एवंविदे विद्यामयक्रतुमते जाग्रते स्वपते च सर्वदा तानेतानग्नीन्विचिन्वन्तीत्यर्थः । सार्वकालिकसर्वभूतकर्तृकमनोव्यापाराः अग्नित्वदृष्टिविशिष्टविद्यावत्पुरुषशेषभूताश्चयनरूपा एवासन्नित्यर्थः । अत्र सर्वभूतकर्तृकसर्वकालव्यापिमनोव्यापाररूपाग्नेः परिमितकालकर्तृक क्रियामयक्रत्वनुप्रवेशासामर्थ्यान्मनश्चिद्रूपोऽग्निर्मानसग्रहवन्नक्रियामयक्रत्वनुप्रवेशी । अपितु विद्यामयक्रत्वनुप्रवेशीति द्रष्टव्यम् । ते हैते विद्याचित एवेत्येतद्वाक्यं विवृणोति ॥विद्यया हैवैते एवंविदश्चिता भवन्ति ॥एवंविदः पुरुषस्य विद्यया विद्यामयेन क्रतुना सम्बद्धा मनश्चिदादयः चिता भवन्तीत्यर्थ इति भगवता भाष्यकृतोक्तम् । अत्र विद्ययेति प्रयोजनतया हेतौ । विद्यार्थं चिता इत्यर्थ इति व्यासार्यैर्व्याख्यातं च । अत्र विद्यया हैवैत इति वाक्यस्य ते हैते विद्याचित एवेति वाक्यविवरणरूपत्वस्य भाष्य एवाविष्कृतत्वाद्विद्याचित एवेत्यस्यापि विद्यार्था इति पूर्वोक्त एवार्थ इति । इत्यग्निरहस्यप्रकाशिकायां प्रथमं ब्राह्मणम् ॥अग्निलोकम्पृणाविषयाण्युपासनान्युपदिश्यन्ते ॥ अयं वाव लोक एषोऽग्निश्चितः ॥ अस्मिल्ँलोके चित्यग्निदृष्टिः कर्तव्या ॥तस्याप एव परिश्रिताः ॥ समुद्रजले अश्मन्नूर्जमिति परिषिञ्चतीति विहिताग्निपरिषेचनबुद्धिः कर्तव्या ॥ मनुष्या यजुष्मत्य इष्टकाः ॥मनुष्येषु यजुर्मन्त्रोपधेये इष्टकाबुद्धिः कार्या ॥ पशवः सूददोहाः ॥ पशुषु सूददोहमन्त्रोपधेये इष्टकाबुद्धिः कार्या ॥ ओषधयश्च वनस्पतयश्च पुरीषम् ॥ओषधिवनस्पतिष्विष्टकासन्धिच्छादनार्थगोमयबुद्धिः कार्या ॥आहुतयः समिधः ॥ स्पष्टोऽर्थः ॥ अग्निर्लोकम्पृणा ॥भूततृतीयाग्नौ लोकं पृण छिद्रं पृणेति मन्त्रोपधेयशर्कराबुद्धिः कार्या । पृण प्रीणन इत्यस्मात्तौदादिकाल्लोकं पृणतीत्यर्थे मूलविभुजादित्वात्कप्रत्यये लोकस्य पृणे मुम्वक्तव्य इति मुमागमे स्त्रीत्वाट्टापि लोकम्पृणेति रूपसिद्धिः ॥स यो हैतदेव वेद लोकम्पृणाम् ॥एवमग्नौ लोकं पृणादृष्टिं यः करोति ॥ एनं भूतमेतत्सर्वमभिसम्पद्यते ॥ एनं विद्वांसं सर्वाणि भूतान्याश्रयन्तीत्यर्थः ॥ तद्वा एतत्सर्वमग्निमेवाभिसम्पद्यते स यो है तदेवं वेद लोकम्पृणाम् ॥ एवमुक्तप्रकारेणैतदग्निमेतमग्निम् । लिङ्गव्यत्ययच्छान्दसः । लोकं पृणां यो वेद । एनं भूतमेतत्सर्वमभिसम्पद्यते ॥ एनं विद्वांसमेतत्सर्वमभिसम्पद्यते । शेषभूततयाऽऽश्रयतीत्यर्थः ॥