07 सम्बन्धाधिकरणम्

  1. सम्बन्धाधिकरणम्सम्बन्धादेवमन्यत्रापि (ब्र.सू.3.3.20)बृहदारण्यके सप्तमाध्याये चतुर्थब्राह्मणादौ ॥ हृदयस्य प्रजापतित्वेनोपासनमुक्त्वा सत्यत्वेनोपासनमाह -य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्मेति ॥प्रस्तुत्य व्याहृतिशरीरकब्रह्मविद्या श्रूयते ॥तद्यत्सत्यमसौ स आदित्यः य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः ॥ यत्प्रसिद्धं सत्यमसौ स आदित्यः स क इत्यत्राह । य एष एतस्मिन्मण्डले पुरुष इति । य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते य एषोऽन्तरक्षिणि पुरुषो दृश्यत इति श्रुतिप्रसिद्ध इत्यर्थः ॥तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन् ॥अधिदैवतमध्यात्मं चावस्थितौ आदित्यचाक्षुषपुरुषौ परस्परोपकारकौ भवतः । रश्मिद्वारा आदित्यपुरुषश्चाक्षुषस्य पुरुषस्योपकारकः । आदित्यरश्मिसम्बन्धाभावे चाक्षुषपुरुषस्य परमात्मनः स्वकार्यासमर्थत्वात् । चाक्षुषश्च पुरुषः प्राणनद्वारा आदित्यपुरुषस्योपकारकः । प्राणनाभावे आदित्यपुरुषस्य परमात्मनः प्रकाशकत्वाभावात् ॥स यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते रश्मयः प्रत्याययन्ति ॥ एवं विद्वानुत्क्रान्तिवेलायां द्वारभूतमादित्यमण्डलं द्रष्टुं शुक्रोति । सूर्यरश्मयः एनं प्रति प्रतिकूलं नायन्ति । अस्योपासकस्य चक्षुःप्रतिघाताय न प्रभवन्ति, चक्षुरादित्यमण्डलस्थयोः परस्परोपकार्योपकारकभावज्ञानवैभवादिति भावः ॥य एष एतस्मिन्मण्डले पुरुषः तस्य भूरिति शिरः ॥ आदित्यमण्डले वर्त्तमानस्य सत्यपुरुषस्य भूरिति व्याहृतिः शिर इत्यर्थः । तच्छिरस्कत्वेन ध्यानं कर्त्तव्यमिति भावः । तत्रोपपत्तिमाह ॥ एकँ हि शिर एकमेतदक्षरम् ॥ एकत्वसङ्ख्यासाम्यादिति भावः ॥ भुव इति बाहू ॥ तत्रोपपत्तिमाह ॥ द्वौ बाहू द्वे एते अक्षरे ॥ द्वित्वसाम्यादिति भावः ॥ सुवरिति प्रतिष्ठा ॥ प्रतिष्ठा पादावित्यर्थः । तत्रोपपत्तिमाह ॥द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहरिति ॥ तस्यादिमण्डलान्तर्वर्त्तिनः अहरित्युपनिषद्रहस्यनामेत्यर्थः । उक्तं च व्यासार्यैः सम्बन्धादेवमन्यत्रापीत्यत्रोषनिषदौ रहस्यनामनी इत्यर्थः इति ॥हन्ति पाप्मानं जहाति च य एवं वेद ॥ अहरित्यस्य हन्तेर्जहातेश्च रूपसम्भवमभिप्रेत्य तदनुसारेण फलमाह - स पाप्मानं हन्ति जहाति च । एवमुत्तरत्रापि द्रष्टव्यम् ॥योऽयं दक्षिणेऽक्षन् पुरुषः - तस्योपनिषदहमिति (अध्यात्मं) हन्ति पाप्मानं जहाति च एवं वेद ॥पूर्ववदर्थः ॥