- उभयलिङ्गाधिकरणम्प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः (ब्र.सू. 3.2.21)बृहदारण्यके चतुर्थाध्याये तृतीयब्राह्मणारम्भे ॥द्वे वाव ब्रह्मणो रूपे । मूर्त्तं चामूर्त्तं च । मर्त्यं चामृतं च । स्थितं च यच्च । सच्च त्यच्च ॥ब्रह्मणो द्वे शरीरे । वावशब्दः प्रसिद्धौ । मूर्त्तं कठिनम् । अमूर्त्तमकठिनम् । मर्त्यं च मरणधर्म्मि नश्वरमित्यर्थः । अमृतं तदितरत् । स्थितम् अव्यापकम् । यत् व्यापकम् । एति गच्छति सर्वानिति यत्, व्यापकमित्यर्थः । सत् प्रत्यक्षोपलभ्यम् । त्यत् - तदिरत् ॥तदेन्मूर्त्तम् । यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्त्यमेतत्स्थितमेतत्सत् ॥ वाय्वन्तरिक्षव्यतिरिक्तं पृथिव्यप्तेजोलक्षणं त्रयमपि कठिनत्वविनश्वरत्वाव्यापकत्व- प्रत्यक्षोपलभ्यत्वरूपधर्म्मयुक्ततया मूर्त्तमर्त्त्यस्थितसच्छब्दवाच्यमित्यर्थः ॥तस्यैतस्य मूर्त्तस्यैतस्य मर्त्त्यस्यैतस्य स्थितस्यैतस्य सतः एष रसः य एष तपति सतो ह्येष रसः ॥य एष तपति मण्डलरूपेणेत्यर्थः । आदित्यमण्डलं सच्छब्दितस्य तेजोबन्नस्य रस इत्यर्थः । तेजोबन्नवन्मण्डलस्य प्रत्यक्षोपलभ्यमानत्वात् । आदित्यमण्डले मूर्त्तत्वादिचतुष्टययुक्ते तेजोबन्नरसत्वबुद्धिः कर्त्तव्येत्यर्थः ॥अथामूर्त्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यत् तस्यैतस्यामूर्त्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्त्यस्य ह्येष रस इत्यधिदैवतम् ॥अमूर्त्तत्वामृतत्वयत्त्वत्यत्त्वलक्षणधर्म्मचतुष्टयाश्रयवाय्वन्तरिक्षरसत्वबुद्धिरादित्यमण्डलस्थपुरुषे कर्त्तव्येत्यर्थः ॥एवमधिदैवतमुपासनप्रकारमुक्त्वा अध्यात्मं मूर्त्तामूर्त्तरसोपासनचिन्ताप्रकारमाह ॥अथाध्यात्ममिदमेव मूर्त्तं यदन्यत् प्राणाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतत् स्थितमेतत्सत् । तस्यैतस्य मूर्त्तस्यैतस्य मर्त्त्यस्यैतस्य स्थितस्यैतस्य सतः । एष रसो यच्चक्षुः सतो ह्येष रसः । अथामूर्त्तं प्राणश्च यश्चायमन्तरात्मन्नाकाशः । एतदमृतमेतद्यदेतत्त्यत्तस्यैतस्यामूर्त्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेक्षन् पुरुषस्त्यस्य ह्येष रसः ॥प्राणहार्दाकाशव्यतिरिक्तं शरीरान्तर्वर्त्ति मूर्त्तत्वादिधर्म्मचतुष्टयाधारभूतं यत् तस्य चक्षुरेव रसः । अमूर्त्तत्वादिचतुष्टयाश्रयप्राणहार्दाकाशयोर्दक्षिणाक्षिस्थपुरुषः परमात्मा रस इत्यर्थः ॥
नन्वहिकुण्डलाऽधिकरण(ब्र.सू. 3.2.26)भाष्ये मूर्त्तामूर्त्तस्याचित्प्रपञ्चस्य ब्रह्मणो रूपत्वं ‘द्वे वाव ब्रह्मणो रूपे’ इत्यादिनोपदिश्यत इत्युक्तम् । तद्व्याचक्षाणैर्व्यासार्यैश्चिदचिदात्मकप्रपञ्चकथनेन अचित्प्रपञ्चोऽपि कथितः स्यादित्यर्थः । नत्वन्ययोगव्यवच्छेदः । सङ्गत्युपयोगित्वेनाचित्प्रपञ्चमात्रोपादानं कृतमिति भाष्यस्थमचित्प्रपञ्चपदं चित्प्रपञ्चस्याप्युपलक्षणमिति व्याख्यातम् ॥
न चास्मिञ्च्छ्रुतिसन्दर्भे चित्प्रपञ्चसमर्पकं किमपि पदं दृश्यत इति चेन्न ॥ वाय्वन्तरिक्षादिवाय्वन्तरिक्षादिशब्दानामचित्संसृष्टचित्परत्वोपपत्त्या चित्प्रपञ्चस्याप्युपादानसम्भवेन चेतनाचेतनप्रपञ्चस्य द्वे वाव ब्रह्मणो रूपे इत्यादिना ब्रह्मशरीरत्वप्रतिपादनादिति ध्येयम् ॥तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथापुण्डरीकं यथासकृद्विद्युत्तम् ॥ कौसुम्भ-वासः-कम्बल-शक्रगोपकृम्यग्निज्वालाम्भोजैककालीनानेकविद्युत्सदृशं रूपमस्य भवतीत्यर्थः । विद्युत्तं भावे निष्ठा । युगपत् प्रवृत्तविद्योतनमित्यर्थः ॥सकृद्विद्युत्तेव हवा अस्य श्रीर्भवति य एवं वेद ॥युगपत्प्रवृत्तविद्युदिवास्य श्रीः प्रकाशमाना भवति य एवं वेदेत्यर्थः ।
द्वे वाव ब्रह्मणो रूपे इति मूर्त्तामूर्त्तात्मकरूपवत्त्वं ब्रह्मणः प्रतिपाद्य तत्प्रयुक्तेयत्तालक्षणपरिच्छेदरूपप्रकारवत्त्वं प्रसक्तं प्रतिषेधति ॥अथात आदेशो नेति नेति ॥आदेश उपदेश इत्यर्थः । क्रियत इति शेषः । अथातःशब्दौ वाक्यान्तरोपक्रमार्थौ । इतिशब्द इयत्तालक्षणप्रकारवचनः । नैवं नैवमित्यर्थः । मूर्त्तामूर्त्तात्मकद्वयवत्त्वप्रयुक्तेयत्तालक्षणप्रकारयुक्तो नेत्यर्थः ।
इयत्ताया नेति नेतीति वीप्साऽऽत्यन्तिकाभावद्योतनार्था ।
नेतिनेतीतीयत्तानिपेध एव, न पूर्वोक्तप्रकारनिषेध इत्यभिप्रायेणाह ॥न ह्येतस्मादिति नेत्यन्यत्परमस्ति ॥इति नेतीयत्तारहितं यद्ब्रह्म प्रतिपादितं तस्मादेतस्मादन्यद्वस्तु परं न ह्यस्ति । ब्रह्मणोऽन्यत्स्वरूपतो गुणतश्च परमुत्कृष्टं नास्तीत्यर्थः । न त्वन्यमात्रस्य निषेधः । तथाहि सत्यन्यत्परमिति पदद्वयवैयर्थ्यापत्तेः । तदेवोपपादयति ॥अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यम् ॥ इति । प्रकृतिवत्स्वरूपविकाररहिततया सत्यशब्दवाच्येभ्यः प्राणशब्दनिर्दिष्टचेतनेभ्योऽपि कदाचिदपि ज्ञानादिसङ्कोचाभावात्परमात्मा सत्यं निर्विकारमित्यर्थः ॥