- तदन्तरप्रतिपत्त्यधिकरणम्तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् । (ब्र.सू. 3.1.1)छान्दोग्ये पञ्चमप्रपाठके तृतीयखण्डे ॥प्रकृतिविविक्तजीवयाथात्म्यविषयां पञ्चाग्निविद्यां संसृतिवैराग्याय प्रस्तौति ॥ श्वेतकेतुर्हारुणेयः पञ्चालानाँ समितिमेयाय ॥ अरुणस्यापत्यमारुणिः । तस्यापत्यमारुणेयः पञ्चालानां जनपदानां समितिं सभामाजगाम ॥ तँ ह प्रवाहणो जैवलिरुवाच ॥ जीवलस्यापत्यं जैवलिः नामतः प्रवाहणः पञ्चालराज उक्तवान् ॥ कुमारानु त्वा शिषत्पितेति ॥ हे कुमार त्वां तव पिता अन्वशिषत्किम् । अनुशिष्टवान्किमित्यर्थः । इतर आह ॥ अनु हि भगव इति ॥ हे भगवः पूजार्ह । अनुशिष्टोऽस्मीति । एवमुक्तो जैवलिः पप्रच्छ । वेत्थ यदितोऽधि प्रजाः प्रयन्तीति ॥प्रजा इतोऽधि इत ऊर्ध्वं यत्प्रयन्ति तज्जानीषे किम् । कर्मिणां गन्तव्यदेशः क इत्यर्थः । इतर आह । न भगव इति ॥ जान इति शेषः । पुनः पृच्छति ॥ वेत्थ यथा पुनः पुनरावर्त्तन्ता 3 इति ॥ कर्म्मिणां पुनरावृत्तिप्रकारः क इत्यर्थः । इतर आह । न भगव इति ॥ पुनः पृच्छति । वेत्थ यथाऽसौ लोको न सम्पूर्यत इति ॥ अस्माल्लोकादनवरतं गच्छद्भिः पुरुषैः कस्माद्धेतोः द्युलोको न सम्पूर्यत इत्यर्थः । वाजसनेयके समानप्रकरणे वेत्थ यथासौ लोकः एवं बहुभिः पुनः प्रयद्भिः न सम्पूर्यत इति श्रवणात् । अमुष्य लोकस्याप्राप्ता क इति तु प्रश्नस्य फलितार्थः । इतर आह । न भगव इति ॥ पुनः पृच्छति । वेत्थ यथा देवयानस्य पितृयाणस्य च व्यावर्त्तना इति ॥ देवयानपितृयाणयोर्व्यावर्त्तने भेदके रूपे किं वेत्थेत्यर्थः । केन प्रकारेण तयोर्भेद इत्यर्थः ॥ इतर आह । न भगव इति ॥ पुनः पृच्छति । वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति ॥ आप इति भूतान्तराणामप्युपलक्षणम् । भूतसूक्ष्माणि पञ्चम्यामाहुतौ येन प्रकारेण पुरुषवचसः पुरुष इति वचो यासां ताः पुरुषवचसः । पुरुषशब्दाभिलप्या इत्यर्थः । कस्य पञ्चम्यामाहुतावित्यपेक्षायां पुरुषवचस्त्वभवनकर्तृतया निर्द्दिष्टाः आप एव हूयमानतया सम्बध्यन्ते । असन्निहितार्थान्तरकल्पने गौरवात् । ततश्चापां पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीत्यर्थः । ततश्चापामेव पञ्चस्वप्याहुतिषु हूयमानत्वमिति सिध्यतीति द्रष्टव्यम् । इतर आह ॥नैव भगव इति ॥ “रंहत्यधिकरणे’’ (ब्र.सू.3.1.1) भगवता भाष्यकृता कर्म्मिणां गन्तव्यदेशं पुनरावृत्तिप्रकारं देवयानपितृयाणपथव्यावर्त्तने अमुष्य लोकस्याप्राप्तारं च वेत्थेति पृष्ट्वा, ‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति पप्रच्छेति भाषितम् ॥अथ नु किमनुशिष्टोऽवोचथाः यो हीमानि न विद्यात्कथं सोऽनुशिष्टो ब्रवीतेति ॥ किं कस्मादनुशिष्टोऽस्मीत्युक्तवानसि यो हीमान्यर्थजातानि न जानीयात् स कथमनुशिष्टोऽस्मीति वदेत् । यद्वा किमनुशिष्टःकमर्थमनुशिष्ट इत्यर्थः ॥ स हाऽऽयस्तः पितुरर्द्धमेयाय ॥ स श्वेतकेतुः राज्ञा जैवलिना आयासितः सन् पितुरर्द्धं स्थानमाजगाम ॥तँ होवाचाननुशिष्य वा व किल मा भगवानब्रवीदनु त्वाऽशिषमिति । पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां नैकञ्चनाशकं विवक्तुमिति ॥ मामननुशिष्य समावर्त्तनकालेऽनुशासनीयानि सर्वाण्यननुशिष्यैव त्वामन्वशिषमिति भगवान्मां प्रत्यब्रवीत् राजन्यबन्धुः मां पञ्चप्रश्नानप्राक्षीत् । तेषां मध्ये एकञ्चन एकमपि प्रश्नं विवक्तुं विशिष्य वक्तुं नाशकं न शक्तोऽस्मीति पितरमुवाचेत्यर्थः । राजन्या बन्धवो यस्य स राजन्यबन्धुः, राजन्यानां बन्धुरिति वा । स्वयमराजन्य इत्यर्थः । राजन्याभास इति यावत् ॥ तँ होवाच यथा मां त्वं तदैतानवदः तथाहमेतेषां नैकञ्चन वेदयद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ त्वं मां प्रति तदाऽऽगमनकाले एतान्प्रश्नान्यथाऽवदः तेषां नैकञ्चनाशकं विवक्तुमिति यथोक्तवानसि तथाऽहमपि तेषां मध्ये नैकमप्यज्ञासिषम् । यद्यज्ञासिषं ते प्रियाय पुत्राय समावर्त्तनकाले कुतो नावक्ष्यमिति ॥ स ह गौतमो राज्ञोऽर्द्धमेयाय ॥ एवमुक्त्वा गोत्रतो गौतम आरुणिः राजस्थानमाजगाम ॥ तस्मै ह प्राप्तायार्हां चकार ॥ प्राप्ताय गौतमाय राजाऽर्हां पूजां चकारेत्यर्थः ॥ स ह ततः प्रातः सभाग उदेयाय ॥ ततः प्रातःकाले राज्ञि सभागते सति उदेयाय गौतम आजगाम । यद्वा भजनं भागः पूजा । तेन युक्तः अर्घ्यादिभिः पूज्यमानः समागत इत्यर्थः ॥ तँ होवाच मानुषस्य भगवन् गौतम वित्तस्य वरं वृणीथा इति ॥ हे भगवन् गौतम मनुष्यवित्तसम्बन्धि वरं वृणीष्वेत्युवाचेत्यर्थः ॥ स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति ॥ हे राजन् मानुषं वित्तं तवैव तिष्ठतु, मत्पुत्रस्य समीपे पञ्चप्रश्नलक्षणां यां वाचमुक्तवानसि तामेव मे ब्रूहीति ॥ स ह कृच्छ्री बभूव, तँ ह चिरं वसेत्याज्ञापयाञ्चकार ॥ एवमुक्तो राजा गौतमस्याप्रत्याख्येयतां ज्ञात्वा कृच्छ्री दुःखितो बभूव । तं च गौतमं विद्यार्थं चिरं वसेत्याज्ञप्तवान् ॥ तँ होवाच यथा मा त्वं गौतमाऽवदः यथेयं न प्राक् त्वत्पुरा विद्या ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति ॥ हे गो(गौ)तम त्वं मां यथाऽवदः तथा करिष्यामीति शेषः । इयं वक्ष्यमाणा विद्या पुरा विद्यमानापि त्वत् त्वत्तः प्राक् ब्राह्मणान्न प्राप्तवती । तस्मात्सर्वेषु लोकेषु क्षत्रियजातेरेवैतद्विद्योपदेष्टृत्वम् । अतो ब्राह्मणेष्वेतद्विद्याया अभावात् ब्राह्मणानामेव समीपं गमिष्यामीति बुद्धिर्न कार्या । चिरवासाऽऽज्ञापनमपि सोढव्यमिति भावः ॥ तस्मै होवाच ॥ चिरकालमुषितवते तस्मै राजा विद्यामुपदिदेशेत्यर्थः । वेत्थ यथा पञ्चम्यामाहुतावापः इति पञ्चमप्रश्नप्रतिवचनस्य इतरप्रतिवचनानुकूलत्वात्प्रथमतस्तदेवाह ॥ असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्रश्मयो धूमः अहरर्च्चिः चन्द्रमा अङ्गाराः नक्षत्राणि विष्फुलिङ्गाः । 1। तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति ॥ 2.4॥ पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेवसमिदभ्रं धूमो विद्युदर्च्चिरशनिरङ्गारः ह्रादुनयो विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेर्वर्षं सम्भवति ॥ 2.5॥ पृथिवी वाव गौतमाग्निस्तस्य संवत्सर एव समिदाकाशो धूमो रात्रिरर्चिर्दिशोङ्गाराः अवान्तरदिशो विष्फुलिङ्गाः॥ 1॥ तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्नँ सम्भवति ॥ 2.6॥ पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ॥ 2.7॥ योषा वाव गौतमाऽग्निः तस्या उपस्थ एव समित् यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गाराःअभिनन्दा विष्फुलिङ्गाः॥ 1॥ तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति ॥ 2.8॥ इति द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपेष्वग्निषु पञ्चसु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्चाहुतयः प्रदर्शिताः । देवा इन्द्रियाणि । तेषां होमकर्तृत्वमिन्द्रियार्जितकर्मणां द्युलोकादिगमनहेतुत्वादिति द्रष्टव्यम् ॥ इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति ॥ इत्युक्तप्रकारेण रेतोरूपायां पञ्चम्यामाहुतावप्छब्दितानि भूतसूक्ष्माणि पुरुषशब्दाभिलपनीयानि भवन्तीत्यर्थः । इतिशब्दः पञ्चमप्रश्नप्रतिवचनसमाप्तिद्योतनार्थः ॥ स उल्बावृतो गर्भो दश वा मासानन्तः शयित्वा यावद्वाथ जायते स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति ॥ 2.9॥ स गर्भ उल्बेन जरायुणा वेष्टितः सन् दशमासान्वा यावद्वा नव वा एकादश वा द्वादश वा मातुः कुक्षौ शयित्वा अथानन्तरं जायते जातश्च यावदायुषं जीवति । आयुरवसान एव तं प्रेतं पुरुषं दिष्टं परलोकाय निर्द्दिष्टम् । यद्वा दिष्टं कर्म्मानुसृत्य यतो द्युलोकपर्जन्याद्यग्नेरिहागतः । यतश्च योषिद्रूपाग्नेरुत्पन्नः । तस्मा अग्नय एव देवा हरन्ति । ततश्च द्युपर्ज्जन्यपृथिवीपुरुषयोषित्सु पुनरप्येवं भ्रमतीत्यर्थः । अयं चोपन्यासो वैराग्यहेतोः । कष्टं हि मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्योल्बाशुचिपटावृतस्य शुक्रशोणितबीजस्य मातुरशितपीतरसानुप्रवेशेन विवर्द्धमानस्य निरुद्धवीर्यबलशक्तितेजःप्रज्ञाचेष्टस्य बहुकालं शयनम् । ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिः । कर्मणोपात्तं यावदायुस्तावदेव जीवनं पुनरपि घटीयन्त्रकुण्डिकान्यायेनारोहणावरोहणलक्षणं भ्रमणं श्रूयमाणं वैराग्यमापादयति । अत एतदुपन्यस्तमिति द्रष्टव्यम् ॥ इति नवमखण्डदीपिका ॥वेत्थ यथा देवयानस्य पितृयाणस्य च व्यावर्त्तना इति चतुर्थम्प्रश्नं प्रतिवक्ति ॥ तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते ॥ प्राक्प्रस्तुतस्य संसरतो जीवस्य स्वरूपं तदित्यनेन परामृश्यते । तत्प्रत्यगात्मस्वरूपं ये इत्थमुक्तप्रकारेण द्युपर्ज्जन्यपृथिवीपुरुषयोषित्सु श्रद्धासोमवृष्ट्यन्नरेतःशरीरकतया देहविलक्षणतया प्रकृतिविविक्ततया च ये विदुरित्यर्थः । अत्र ब्रह्मात्मकतया चेत्यपि योजनीयम् । भाष्यकृता “अप्रतीकालम्बनान्’ (ब्र.सू.4.3.14) इति सूत्रे पञ्चाग्निविदोप्यर्च्चिरादिना गतिश्रवणादर्च्चिरादिना गतस्य ब्रह्मप्राप्त्यपुनरावृत्तिश्रवणाच्च, अत एव तत्क्रतुन्यायात् प्रकृतिविनिर्मुक्तब्रह्मात्मत्वानुसन्धानं सिद्धमिति भाषितम् । ये चेमेऽरण्ये स्थित्वा श्रद्धां पुरस्कृत्य तपःशब्दितं ब्रह्मोपासत इत्यर्थः । वाजसनेयके समानप्रकरणे “श्रद्धां सत्यमुपासते’’ इति श्रवणात्सत्यशब्दस्य ब्रह्मपरत्वात् तपःशब्दोऽपि ब्रह्मपरः ॥ “अनियमः सर्वेषाम्’’ (ब्र.सू.3.3.32) इत्यधिकरणे भगवता भाष्यकृता तद्य इत्थं विदुर्य एवमेतद्विदुरिति पञ्चाग्निविद्यानिष्ठान् ये चेम इत्यादिना श्रद्धापूर्वकं ब्रह्मोपासीनांश्चोद्दिश्यार्च्चिरादिका गतिरुपदिश्यते । सत्यं ज्ञानमनन्तं ब्रह्म सत्यं त्वेव विजिज्ञासितव्यमिति सत्यशब्दश्च ब्रह्मणि प्रसिद्ध इति भाषितम् । उक्तं च व्यासार्यैः “परमं यो महत्तपः’’ इत्यादिषु तपःशब्दस्य ब्रह्मपरत्वं दृष्टमिति । वाजसनेयके श्रद्धां सत्यमिति श्रद्धाशब्दस्य द्वितीयान्तत्वश्रवणादिहापि श्रद्धाशब्दो द्वितीयान्तः । छान्दसत्वात्सुपां सुलुगिति सुपो लुक् । ततश्च पुरस्कृत्येत्यध्याहारः । श्रद्धां पुरस्कृत्य ब्रह्मोपासत इत्यर्थः । इतिस्त्वविवक्षितः । अथवैवकारोऽत्राध्याहर्त्तव्यः । ब्रह्मेत्येवोपासत इत्यर्थः । ततश्चाब्रह्मोपासनव्यावृत्तिफलकोऽयमितिशब्दो द्रष्टव्यः । यद्वा श्रद्धातपःशब्दयोः प्रसिद्ध एवार्थः । श्रद्धातपःपरायणानां च ब्रह्मविद्यानिष्ठत्वमर्थसिद्धम् । ततश्च ब्रह्मविद्यानिष्ठा इत्यर्थः फलति । अयं चार्थस्तदप्यविरुद्धम् आर्थत्वादपि शाब्दत्वं सम्भवद्युक्ततममिति वदतां व्यासार्याणामनुमत एव ॥ तेऽर्च्चिषमभिसम्भवन्त्यर्च्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान् ॥ 1॥ मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतम् तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति ॥ अत्रार्चिरादिशब्दास्तत्तदभिमानिदेवतापराः । तत्पुरुषो वैद्युतपुरुषः अमानवः असंसारी ब्रह्मलोकादागत्य ब्रह्मलोकं प्रापयतीत्यर्थः । अमानवः स एत्य ब्रह्मलोकान् गमयतीति श्रुत्यन्तरे श्रवणात् ॥ एष देवयानः पन्था इति ॥ 2॥ स्पष्टोऽर्थः ॥ अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति ॥ ये पुरुषाः ग्राम एव स्थित्वा इष्टं - यागादि, पूर्त्तं - खातादि, दत्तं - दानम्, इतिशब्दस्तज्जातीयोपवासादिकर्मान्तरपरः । यागादानहोमादीनि कर्माणि येऽनुतिष्ठन्तीत्यर्थः । उक्तप्रकारेणानुतिष्ठन्तीत्यर्थ इति व्यासार्यवचनस्याप्ययमेवार्थः । श्रुतौ पूर्वमनुष्ठानप्रकारानुक्तेः । यद्वा श्रद्धापूर्वकत्वरूपोक्तप्रकारवाची इति शब्दः । ते धूममभिसम्भवन्तीत्यर्थः । धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान् षड्दक्षिणैति मासांस्तान् ॥ अत्रापि धूमादिशब्दास्तत्तदभिमानिदेवतापराः । दक्षिणां दिशमादित्य एति “दक्षिणादाच्’’ (अष्टा. 5.3.36) इत्याजन्तोऽयं शब्दः ।
तान्दक्षिणायनमासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः ॥ नैते संवत्सरमभिप्राप्नुवन्ति ॥ एते केवलेष्टादिकर्मकारिणः दक्षिणायनमासान् प्राप्यापि विद्वांस इव न संवत्सरं प्राप्नुवन्तीत्यर्थः ॥ पुनः किं प्राप्नुवन्तीत्यत्राह ॥ मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसम् ॥ स्पष्टोऽर्थः । वेत्थ यदितोऽधि प्रजाः प्रयन्तीति प्रथमः प्रश्नः प्रत्युक्तो भवति ॥ एष सोमो राजा ॥ अत्रैष इत्यनेन नाभिसम्भाव्यश्चन्द्रमाः परामृश्यते । तस्य सोमराजभावोपदेशस्य व्यर्थत्वात् । अपि त्विष्टादिकारी अभिसम्भविता परामृश्यते । तस्या आहुतेः सोमो राजा सम्भवतीति पञ्चाग्निविद्यावाक्यानुसारात् । स्वर्गभोगयोग्यदिव्यदेहयुक्तो भवतीत्यर्थः ॥ तद्देवानामन्नं तं देवा भक्षयन्ति ॥ इष्टादिकारिणामाजानसिद्धदेवकिङ्करत्वादन्नत्वभक्ष्यत्ववादः । सूत्रितं च “भाक्तं वानात्मवित्त्वात् (ब्र.सू.3.1.7) इति । तस्मिन्यावत्सम्पातमुषित्वा ॥ सम्पतत्यनेन सम्पातः कर्मशेषः । यावत्कर्मशेषमुषित्वेत्यर्थः । यावच्छब्दः साकल्यार्थः । साकल्यं च फलप्रदानयुक्तकर्म्मविशेषविषयम् । न तु सर्वकर्मविषयम् ॥ वेत्थ यथा पुनरावर्त्तन्त इति द्वितीयं प्रश्नं प्रतिवक्ति ॥ अथैतमेवाध्वानं पुनर्निवर्त्तन्ते यथेतम् ॥ अथानन्तरमेतमेव धूमादिमार्गं यथेतं यथागतं पुनर्निवर्त्तन्ते । धूमरात्र्यपरपक्षदक्षिणायनषण्मासपितृलोकाकाशक्रमेणारोहणात्तेनैव क्रमेणावरोहणे प्राप्ते तत्र विशेषमाह ॥ आकाशमाकाशाद्वायुम् ॥ यथाकाशाच्चन्द्रमभिसम्भवन्त्येवं चन्द्रमस आकाशमभिसम्भवन्ति । आरोहणावरोहणयोराकाशाभिसम्भवस्त्वविशिष्ट इति भावः । आकाशाद्वायुमभिसम्भवतीति शेषः । वायुर्भूत्वा धूमो भवतीत्युत्तरत्र श्रवणादत्राप्यवरोहन्नाकाशो भवति वायुर्भवतीत्येवार्थः । अवरोहता चाकाशादिभवनं न तत्तच्छरीरकत्वम् । सर्गादिकालमारभ्याऽऽप्रलयमाकाशाद्यभिमानिदेवतानामन्यासां कॢप्तानां सत्त्वेन प्रतिक्षणमवरोहतामाकाशाद्यभिमानिदेवतात्वानुपपत्तेस्तत्सादृश्यमेवार्थः । या आपश्चन्द्रमण्डले शरीरमारब्धवत्यस्तासां कर्मक्षये द्रवीभूतानामाकाशगतानां भेदकाकारप्रहाणेनाकाशसादृश्ये तदुपश्लिष्टा जीवा अप्याकाशसमा इत्युच्यन्ते । ताश्चापः इतश्चामुतश्च नीयमाना वायुसमा भवन्ति । ततश्च तत्संश्लिष्टो जीवोऽपि वायुर्भवतीत्युच्यते । एवमुत्तरत्रापि द्रष्टव्यम् ॥ वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भवति ॥ अपो बिभर्तीत्यब्भ्रम् । मूलविभुजादित्वात्कः । मिह सेचन इति धातोः पचाद्यच् प्रत्यये न्यङ्क्वादित्वात्कुत्वे मेघ इति । ततश्चाब्भ्रशब्देन जलधारणावस्थ उच्यते । मेघशब्देन वर्षोन्मुखावस्थ उच्यते । एवमेव भेदो व्यासार्यैरुक्तः ॥ मेघो भूत्वा प्रवर्षति ॥ मेघसंश्लिष्टो भूत्वा वर्षधारारूपेण भूमौ पततीति फलितोऽर्थः ॥ त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते ॥वर्षसंश्लिष्टभूतसूक्ष्मपरिष्वक्ता जीवा व्रीहियवादिरूपेण जायन्ते । अत्र तेन रूपेण जननं नाम न स्थावरभावप्रतिपत्तिः । स्थावरत्वप्राप्तिहेतुभूतकर्मणामिहाकीर्त्तनात् । किन्तु जीवातंराधिष्ठितेषु व्रीह्यादिषु संश्लेषमात्रम् । सूत्रितं च “अन्याधिष्ठिते पूर्ववदभिलापात्’’ (ब्र.सू.3.1.24) इति ॥ अतो वै खलु दुर्निष्प्रपतरम् ॥ अतः स्थावरादिभावादतिचिरेण निर्गमनं भवति । अत्र खलन्ताद् दुर्निष्प्रपतशब्दादातिशायनिके तरप्प्रत्यये छान्दसे तशब्दलोपे दुर्निष्प्रपतरमिति रूपम् । ततश्चातिशयस्य प्रतियोग्याकाङ्क्षायां प्रागनुक्रान्ताकाशादीनां बुद्धौ सन्निधानात्तेषामेव प्रतियोगित्वेनान्वयः स्यात् । ततश्च व्रीह्यादिष्वाकाशाद्यपेक्षया चिरावस्थानोक्त्याऽऽकाशादिष्ववस्थानस्य तदपेक्षयाल्पकालत्वं पर्यवस्यति । उक्तं च भगवता भाष्यकृता छान्दसस्तशब्दलोपः दुर्निष्प्रपतरं दुःखनिष्क्रमणतरमित्यर्थ इति । न च “तयोरेव कृत्यक्तखलर्थाः’’ (अष्टा.3.4.70) इति खलो भावकर्ममात्रविषयत्वात् पतेश्चाकर्मकत्वेन भावार्थस्यैव परिशिष्टत्वात् तत्र च भावार्थस्य प्रकर्षाभावात्तरपो दौर्लभ्यमिति शङ्क्यम् । शिश्येतरामित्यादिप्रयोगादभावार्थेऽपि प्रकर्षसम्भवात् कर्त्रर्थपचाद्यजन्तात्तरपः सम्भवाच्च भाष्यस्य नानुपपत्तिः । यद्वा आतो युच् (अष्टा.3.3.128) छन्दसि गत्यर्थेभ्यः (अष्टा. 3.3.129) इति च्छन्दसि विशेषविहितखलर्थयुजन्त एवायं शब्दः । रेफरूपवर्णविकारः छान्दसः । नन्वस्य तरप् प्रत्ययत्वाभावे पूर्वनिर्दिष्टाकाशादिभ्योऽतिशयस्तेष्वचिरावस्थानं वा कथं सिध्येदिति चेन्न । वैशब्दस्यावधारणार्थतयाऽतःशब्दितव्रीह्यादिभावादेव चिरनिष्क्रमणे कथिते ततः पूर्वनिर्दिष्टेभ्य आकाशादिभ्योऽचिरान्निष्क्रमणं सिद्ध्यति । तशब्दलोपश्छान्दस इति च भाष्यस्यापि वर्णलोपेन वा वर्णविकारेण वा यथाकथञ्चित्साधुत्वं समर्थनीयमित्यत्र तात्पर्यम् । व्रीह्यादयो हि गिरितटादुदकस्रोतसोह्यमाना नदीं प्राप्नुवन्ति । ततः समुद्रम् । ततो मकरादिभिर्भक्ष्यन्ते । तेऽप्यन्यैः । तत्रैव च मकरेण सह समुद्रे विलीनाः समुद्राम्भोभिर्जलधरैराकृष्टाः पुनर्वर्षधाराभिर्मरुदेशे शिलातले वा हर्म्ये वा पतितास्तिष्ठन्ति । कदाचिद् व्यालमृगादिपीता भक्षिताश्चान्यैः । तेऽप्यन्यैरित्येवं प्रकाराः परिवर्तेरन् । ततो दुर्निष्क्रमणत्वम् ॥यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ अत्र स इत्यध्याहारः । सः व्रीह्यादिसंश्लिष्टोऽवरोहन् जीवः योन्नऽमत्ति यो रेतः सिञ्चति पश्चात्तद्भवति । आकाशादिभाववद्रेतस्सिग्भावोऽप्यौपचारिकः । रेतःसिग्योगी भवतीत्यर्थः । एवमेव व्यासार्यैरुक्तम् ॥ तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ तत् तेषु येऽभ्याशोऽभ्यागन्तारः । अभ्याङ्पूर्वादशेर्धातोः क्विबन्ताद्बहुवचनान्तोऽयं शब्दः । हेति प्रसिद्धौ । यद्यदा रमणीयचरणाः चर्यत इति चरणं, कर्म, रमणीयकर्माणः । भुक्तशिष्टपरिपक्वसुकृतकर्मयुक्ता भवन्तीत्यर्थः । अत्र यदा शब्दानुरोधात् तदेत्यप्यध्याहर्तव्यम् । शिष्टं स्पष्टम् । कपूयचरणाः कुत्सितचरणा इत्यर्थः । भुक्तशिष्टकर्मानुसारि जन्म प्राप्नुवन्तीत्यर्थः । यथासौ लोको न सम्पूर्यता 3 इति तृतीयं प्रश्नं प्रतिवक्ति ॥ अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति । जायस्व म्रियस्वेत्येतत्तृतीयँ स्थानं तेनासौ लोको न सम्पूर्यते ॥ अथशब्दः प्रतिवचनान्तरोपक्रमे वर्तते । यानि भूतान्युक्तयोर्देवयानपितृयाणयोर्मध्ये कतरेण येन केनापि मार्गेण न गच्छन्ति नागच्छन्ति च तानीमानि भूतानि क्षुद्राणि दंशमशककीटादीन्यसकृदावर्तीनि सन्ति जायस्व म्रियस्वेति भवन्ति । पुनःपुनर्जायन्ते म्रियन्त इत्यर्थः । सक्तून्पिब धानाः खादेत्ययमभ्यवहरतीत्यस्य पुनःपुनः पिबति पुनःपुनः खादतीत्यर्थः तद्वत् । “क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः’’ (अष्टा. 3.4.2) इति पौनःपुन्यलक्षणक्रियासमभिहारे लोट् तध्वमोर्हिस्वादेशविधानाज्जायस्व म्रियस्वेति रूपम् । “यथाविध्यनुप्रयोगः पूर्वस्मिन्’’ (अष्टा. 3.4.4) “समुच्चये सामान्यवचनस्य’’ (अष्टा.3.4.5) इति भवन्तीति सामान्यशब्दस्यानुप्रयोगः । उक्तं च व्यासार्यैः “पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गना” इतिवदिति ॥ इत्येतत्तृतीयं स्थानम् ॥ अत्रैतच्छब्देन जायस्व म्रियस्वेति भूतानि भवन्तीति प्रथमान्तशब्देन प्रधानतया निर्दिष्टाः पापकर्माणः परामृश्यन्ते । सर्वनाम्नां पूर्वनिर्द्दिष्टप्रधानपरामर्शित्वात् । स्थानशब्दाभिप्रायेणैकवचनम् । पूर्वनिर्द्दिष्टद्युलोकब्रह्मलोकापेक्षयाक्षुद्रजन्तुभवनादिलक्षणस्थानस्य तृतीयत्वात्तत्स्थानसम्बन्धात् पापकर्माणः तृतीयस्थानमित्युच्यन्ते ॥ तेनासौ लोको न सम्पूर्यते ॥ तेन तृतीयस्थानशब्दितेन पापकर्म्मणाऽसौ द्युलोको न सम्पूर्यते न प्राप्यत इत्यर्थः । अत्रैतत्तृतीयं स्थानमित्येतच्छब्देन पूर्वनिर्दिष्टः, पौनःपुन्येन जननमरणादिभवनलक्षणो धात्वर्थ एव परामृश्यते । तस्यैव तृतीयस्थानत्वम् । ततश्चैतस्य तृतीयस्य स्थानस्य सद्भावादत्रैतत्स्थाने जीवानां प्रायेण प्रचाराद् द्युलोकगन्तॄणामल्पत्वाद् द्युलोको न सम्पूर्यत इत्युक्तावपि भाष्यस्य नविरोधः । अत एव द्युलोकारोहावरोहाभावेन द्युलोकासम्पूर्त्तिवचनादिति भाषितमिति द्रष्टव्यम् ॥ तस्माज्जुगुप्सेत ॥ यस्मात्संसारिणां गतिरुक्तरीत्या कष्टतरा तस्मात्संसाराज्जुगुप्सेत् मा भून्मे एवंविधसंसारमहोदधौ घोरे पात इति निन्देत् । मुक्तिफलकपञ्चाग्निविद्यायाः फलान्तरमप्याह ॥ तदेष श्लोकः ॥ तच्छब्दः प्रसिद्धपरः । एष वक्ष्यमाणः श्लोक इत्यर्थः ॥ स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमावसन्ब्रह्महा च । एते पतन्ति चत्वारः पञ्चमश्चाचरंस्तैरिति ॥ तैराचरंस्तेनादिभिश्चतुर्भिर्विद्यायोनिसम्बन्धमाचरन्नित्यर्थः । शिष्टं स्पष्टम् ॥ 9॥ अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह तैरप्याचरन्पाप्मना लिप्यते ॥ स्पष्टोऽर्थः । विद्याविषयकज्ञानफलमाह ॥ शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ॥ स्पष्टोऽर्थः ॥ ॥ इति दशमखण्डदीपिका ॥