- वाक्यान्वयाधिकरणम्वाक्यान्वयात् । 1। 4। 19॥ बृहदारण्यके चतुर्थे षष्ठे च मैत्रेयीब्राह्मणं किञ्चिद्भेदभिन्नमाम्नातम् । तत्र चतुर्थेमैत्रेयी ब्राह्मणं व्याख्यायते ॥ मैत्रेयीति होवाच याज्ञवल्क्यः ॥ मित्रायाः अपत्यं मैत्रेयी तां मैत्रेयीत्यामन्त्र्याह ॥ उद्यास्यन्वाअहमस्मात्स्थानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ मैत्रेयि । अहमस्मात्स्थानात् गार्हस्थ्यलक्षणादाश्रमादुद्यास्यन्नस्मि ऊर्ध्वं गन्तु मिच्छन्नस्मि । हन्त । तव अनया कात्यायन्या सह अन्तं युवयोः कलहशान्तये द्रव्यविभागनिर्णयं करवाणीति ॥ सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णास्यात्कथं तेनामृतास्यामिति ॥ हे भगो । सम्बुद्धौ “विभाषा भवत् भगवदघवतामोच्चावस्य’’ इति आेत्वं रुत्वं विसर्गश्च । सर्वापि पृथ्वी वित्तेन पूर्णा यत् यदि मे मम स्यात् वशंवदास्यादित्यर्थः । तदा तेन वित्तेन कथं कथञ्चिदमृतास्यान्नु संसारान्मुक्तास्यान्नु किमित्यर्थः ॥ नेति होवाच याज्ञवल्क्यः यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् अमृतस्य तु नाशास्ति वित्तेन ॥ उपकरणवताम्भोगसाधनवतां जीवितं सुखजीवनं यथा सिद्ध्यति तथैव ते भोगोपकरणवित्तवत्याः सुखेन जीवनं परं लभ्यते मोक्षस्य वित्तेन साधनेन प्राप्यताशा नास्तीत्यर्थः ॥ सा होवाच मैत्रेयी येनाहन्नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति ॥ ममामृतत्वप्राप्त्यनुपायभूतेन वित्तेनाहं किङ्करिष्यामि भगवन्यदमृतत्व प्राप्त्युपायं वेद तदेव मे ब्रूहीति ॥ स होवाच याज्ञवल्क्यः प्रिया वतारे नः सती प्रियम्भाषस एह्यास्स्व व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ बतेत्यनुकम्पायाम् । मैत्रेयि । त्वं सती प्रियाऽनुकूला च सती प्रियं मनोनुकूलं वाक्यं भाषसे । एहि आगच्छ आस्स्व उपविश । ते अमृतत्वोपायं वक्ष्यामि । किं तु व्याचक्षाणस्य व्याख्यानं कुर्वतो मम वाक्यानि अर्थतो निश्चयेन ध्यातुमिच्छ । यद्वा व्याचक्षाणस्य तु मे मुखं निदिध्यासस्व निदिध्यासनमवलोकनम् । अवलोकयेति यावत् । इति शब्दो वाक्यावसान् । एवभुक्ता मैत्रेयी सावधाना सती स्वस्य श्रवणावधानं ज्ञापयितुमाह ॥ ब्रवीतु मे भगवानिति ॥ स्पष्टोऽर्थः ॥ स होवाच ॥ न वापत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ॥ त्रामृतत्वार्थिन्यै मैत्रेय्यै अमृतत्वसाधनदर्शनविषयतया आत्मैव द्रष्टव्य इत्युपदिश्यमान आत्मा परमात्मेत्यवश्यमभ्युपेयः । “तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते’’ इति तज्ज्ञानस्यैव मोक्षसाधनत्वावगमात् । ब्रह्म तं परादादित्यादिना तस्य सार्वात्म्यकथनात् । आत्मनो वादर्शनेनेत्यादिना तज्ज्ञानेन सार्वज्ञवेदनेनसर्वोपादानत्वप्रतिपादनाच्च । अस्मिन्प्रकरणे द्रष्टव्यतयोपदिश्यमान आत्मा परमात्मेति सिद्धम् । तदुपपादकस्यास्य सन्दर्भस्य यथापरमात्मपरत्वं तथार्थो वर्णनीय इति च सिद्धम् । अतोस्यावाक्यस्यायमर्थः । न वा इत्यत्र वै शब्दोऽवधारणे । नैवेत्यर्थः । पत्युः कामाय । कामः सङ्कल्पः कामाय सङ्कल्पाय सङ्कल्पं सफलीकर्त्तुमित्यर्थः । “क्रियार्थोपपदस्य च कर्मणि स्थानिनः’’ (अष्टा.2.3.14) इति चतुर्थी । पत्युः प्रियत्वम् । अहमस्याः प्रियः स्यामिति पतिसङ्कल्पसाफल्याय न भवति पतिसङ्कल्पायत्तं न भवतीति यावत् । वेदाध्ययनं सफलीकर्त्तुं यज्ञ इत्युक्ते वेदाध्ययनस्य यज्ञः फलमिति हि सिद्ध्यति । एवं सङ्कल्पसा फल्यायप्रियत्वमित्युक्ते सङ्कल्पफलं प्रियत्वमिति हि सिद्ध्यति । ततश्चाहमस्याःप्रियः स्यामिति पति सङ्कल्पायत्तं न पतिप्रियत्वम् । अपित्वात्मनः परमात्मनः कामाय सङ्कल्पाय प्रियो भवतीत्यर्थः । आत्मशब्दस्य परमात्मनि मुख्यवृत्तत्वात् । अत्रापि कामायेत्यत्र पूर्ववच्चतुर्थी । एवमुत्तरत्रापि द्रष्टव्यम् ॥ न वाजायायाः कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वापुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वावित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वाब्रह्मणः कामाय ब्रह्म प्रियं भवत्यामनस्तु कामाय ब्रह्म प्रियं भवति ॥ ब्रह्मब्राह्मण इत्यर्थः ॥ न वाक्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ॥ क्षत्रं क्षत्रियवर्ण इत्यर्थः ॥ न वालोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ॥ स्वर्गाद्या लोका इत्यर्थः ॥ न वादेवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वाभूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वासर्वस्य कामाय सर्वां प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ॥ स्पष्टोऽर्थः । ततः किमित्यत्राह ॥ आत्मा वाद्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ॥ यस्मात् पतिजायादीनां प्रियत्वं यत्सङ्कल्पायत्तं तस्य परमात्मनः प्रसादाय परमात्मा द्रष्टव्यः । स हि परमात्मा दर्शनेन प्रसन्नः सन्सर्वेषामपि वस्तूनां पतिजायादिवत् ततोऽधिकं वा प्रियत्वमापादयितुं शक्रोति । न पश्यो मृत्युं पश्यति न रोगं नोत दुःखतामिति मुक्तौ सर्वेषां प्रियत्वश्रवणादिति भावः । अत्र स्वाध्यायस्यार्थपरत्वेनाधीतवेदः पुरुषः प्रयोजनवदर्थावबोधित्व दर्शनात्तन्निर्णयायस्वयमेव गुरुमुखान्नयायुक्तार्थग्रहणरूपश्रवणे प्रवर्त्तत इति श्रवणस्य प्राप्तत्वाच्छ्रोतव्य इत्यनुवादः । स्वात्मन्येवमेवेति युक्तिभिः श्रुतार्थप्रतिष्ठापनलक्षणमननस्य श्रवण प्रतिष्ठार्थतया प्राप्तत्वान्मन्तव्य इति चानुवादः । अनवरतभावनारूपध्यानमेव निदिध्यासितव्य इति विधीयते । उपायत्वदशाप्रभृति भगवद्ध्यानस्यानुकूलत्वसूचनाय निदिध्यासितव्य इति सन्नन्तपदेन निर्देशः । अत्र स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष इति चध्यानस्यैव मोक्षाव्यवहितहेतुत्वश्रवणात् “क्षीयन्ते चास्य कर्म्माणि तस्मिन्दृष्टे परावरे’’ इति दर्शनस्यापि मोक्षाव्यवहितकारणत्वश्रवणादुभयोरप्येकार्थत्वस्य वक्तव्यत्वात् । दृशिधातोश्चाक्षुषज्ञानवाचितया चाक्षुषज्ञानस्य “न चक्षुषा गृह्यते’’ इत्यचाक्षुषतया प्रतिपन्ने ब्रह्मण्यसम्भवाद्दर्शनशब्देनोपचाराद्दर्शनसमानाकारमति विशदं ज्ञानमभिधीयते । ततश्च द्रष्टव्यो निदिध्यासितव्य इत्याभ्यां दर्शनसमानाकारं ध्यानं विधीयते । “आर्षेयं वृणीते एकं वृणीते द्वौ वृणीते त्रीन् वृणीते न चतुरो वृणीते न पञ्चातिप्रवृणीते’’ इत्यत्रार्षेयं वृणीते त्रीन्वृणीत’’ इत्याभ्यां त्रित्वविशिष्टार्षेयवरणविधानवदिति द्रष्टव्यम् । तस्य किं फलमित्यत्राह ॥ मैत्रेय्यात्मनो वारे दर्शनेन श्रवणेन मत्या विज्ञानेन इदँ सर्वं विदितं भवति ॥ अत्र विज्ञानेनेति विज्ञानशब्दो निदिध्यासनपरः । आत्मा वाद्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति स्थानमानात् । तस्मिन् परमात्मनि दर्शनसमानाकारध्यान विषयीकृते सति तत्प्रसादात्सर्वं विदितं भवति अनुकूलत्वेन विदितं भवति सर्वं प्रियं भवतीति यावत् । यद्वा निदिध्यासितव्यतया निर्दिष्टपरमात्मनः जगत्कारणत्वलक्षणमाह । आत्मनो वाइत्यादिना उपादानोपादेययोरभेदात् । तस्मिन् ज्ञाते सर्वं विदितं भवति । अत्र सर्वमिदमिति शब्दौ स्थूलावस्थचिदचिद्विशिष्टब्रह्मपरौ । आत्मशब्दोऽपि सूक्ष्मचिद्विशिष्ट ब्रह्मपरः । अतस्तयोरभेदात् तद्विज्ञानेन सर्वं विज्ञातमित्युपपद्यते । अनेन जगदुपादानत्वमुक्तं भवति । अत्र निदिध्यासितव्यः इत्युक्त्या सर्वोपादानत्वकथनात् जगत्कारणत्वं सकलपरविद्यानुयायीति वदन्ति । ननु कथमात्मनि ज्ञाते सर्वमिदं विज्ञातं स्याज्जगतस्तद्भिन्नत्वादित्याशङ्क्याह ॥ ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद ॥ ब्रह्मब्राह्मणवर्णः । यस्त्वात्मनः परमात्मनोऽन्यत्र स्थितम् । न तु परमात्मनि । एवमुत्तरत्रापि द्रष्टव्यम् । क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद । लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान्वेद भूतानि तं परा दुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तपरादाद्योऽन्यत्रात्मनः सर्वं वेद ॥ स्पष्टोऽर्थः । ननु सर्वस्य ब्रह्माधारकतया ब्रह्मात्मकत्वेऽपि ब्रह्मात्मकस्य शरीरभूतस्य जगतः शरीरिभूतब्रह्मभिन्नत्वेन तज्ज्ञानेन तज्ज्ञानासम्भवमाशङ्क्य तस्मिन् विज्ञाते इदं सर्वं विदितमितीदं सर्वशब्दाभ्यामन्यैरपि शब्दैस्तच्छरीरकं ब्रह्मैवाभिधीयते इत्यभिप्रेत्याह ॥ इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं विदितं भवति ॥ सर्वशरीरकं ब्रह्म विदितं भवतीत्यर्थ उपपद्यत इति भावः । एवं जगत्कारणविशिष्ट परमात्मोपासनं विधाय उपासनोपकरणभूतमनः प्रभृतिकरणनियमनमाह ॥ स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्च्छब्दाञ्च्छक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ दुन्दुभेरित्यनादरे षष्ठी । ग्रहणशब्द इह निरोधपरः । उपादाननिरोधयोर्द्वयोरपि ग्रहणशब्दवाच्यत्वात् । यथा गृहीतानि पुष्पाणि गृहीताः श्रोतार इति । यथा दुन्दुभौ हन्यमाने ततो निःसरतः शब्दान्ननिरोद्धुं शक्रुयात् । कथं तर्हि निरुणद्धीत्यत्राह । दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याधातस्य वा शब्दो गृहीतः । दुन्दुभिनिरोधेन संयोगनिरोधद्वारा शब्दानि रुध्यन्ते । एवमिन्द्रियेषु व्याप्रियमाणेषु बाह्यार्थ ज्ञानं दुर्निरोधम् । अतो विषयापसारणेन वा इन्द्रियनिरोधेन वा परमात्मसाक्षात्कारविरोधिबाह्यार्थज्ञानं निरुत्ध्यते इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ॥ स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्च्छब्दाञ्च्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मानस्य वा शब्दो गृहीतः । स यथावीणायै वाद्यमानायै न बाह्याञ्च्छब्दाञ्च्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावाद्यस्य वा शब्दो गृहीतः ॥ अत्र वीणाया इति चतुर्थी षष्ठ्यर्थे । छान्दसो विभक्तिव्यत्ययः । सामान्येनोक्तं कारणत्वं प्रपञ्चयति ॥ स यथाऽऽर्द्रैधाग्नेरभ्याहितात्पृथक् धूमा विनिश्चरन्ति । एध शब्द अकारान्त इन्धनवाची । आर्द्रैधाग्निग्रहणं निमित्तोपादानयोर्ज्ञापनार्थम् । अग्निर्हिधूमोत्पत्तौ निमित्तम् । इन्धनं तदुपादानम् । अभ्याहितादाध्मानवीजनादिना प्रवर्त्तितादित्यर्थः । पृथिग्विधा धूमानि र्गच्छन्तीत्यर्थः ॥ एवं वारे अस्य महतो भूतस्य निश्वसितमेतत् ॥ महतो भूतस्य परमात्मनो निश्वसितम् । अनायासेनोद्गतमेतद्वक्ष्यमाणमित्यर्थः । किं तदित्यत्राह ॥ ऋुग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासपुराणं विद्या उपनिषदः श्लोकः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि निश्वसितानि ॥ इतिहासोरामायणादिः । पुराणंविष्णुपुराणादि । विद्याः चतुः षष्टिविद्याः । उपनिषदः प्रसिद्धाः । श्लोकाःस्मृतिरूपाः । सूत्राणिब्रह्मसूत्रादीनि । अनुव्याख्यानानि भाष्य व्याख्यानानि । व्याख्यानानिभाष्यरूपाणि । एतानि सर्वाणि भगवतो निश्वसितानि । अयत्नेन तदुद्गतानीत्यर्थः । यद्यपि सूत्रस्मृतिपुराणादयो व्यासाद्युद्गता इति पुराणेषु प्रसिद्धिः । तथापि तेषां भगवदङ्गत्वादुद्भवन्निश्वसितोक्तिरुपपद्यत इति द्रष्टव्यम् । अत्र वाचकशब्दसृष्टिमात्रमुक्तं षष्ठे । मैत्रेयीब्राह्मणे तु इष्टं हुतमाशितं पायितमित्यादिना भोग्यभोगस्थानभोक्तृवर्गरूपवाच्य सृष्टेरुक्तत्वात् । अनुक्तस्यान्यतो ग्राह्यत्वादत्रापि वाच्यसृष्टिरुक्तेति द्रष्टव्यम् । अनेन पूर्वं सामान्यतो निर्दिष्टं जगत्कारणत्वं विवृतं भवति । स यथादुन्दुभेर्हन्यमानस्येत्यादिना परोपासनोपकरणभूतकरणग्रामनियमनमुक्तं विशदयति ॥ स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनम् ॥ समुद्रस्यापामयनत्वं नाम तदुपादातृत्वमेव । एवं च स्पर्शायतनत्वं नाम तदुपादातृत्वम् । ततश्चायमर्थः । यथा समुद्रो भूयसीरपो गृह्णाति । एवं त्वगिन्द्रियमसङ्ख्याकान्स्पर्शाविशेषान् गृह्णाति । ततश्च त्वगिन्द्रियस्य स्पर्शविषयव्यापारा अनन्ता इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ॥ एवँ सर्वेषाँ रसानां जिव्हैकायनमेवं सर्वेषां गन्धानां नासिकैकायनमेवँ सर्वेषाँ रूपाणां चक्षुरेकायनमेवँ सर्वेषाँ शब्दानां श्रोत्रमेकायनमेवँ सर्वेषाँ सङ्कल्पानां मन एकायनमेवँ सर्वासां विद्यानाँ हृदयमेकायनम् ॥ अवस्थाविशेषविशिष्टं मनो हृदयमित्युच्यते ॥ एवँ सर्वेषां कर्मणाँ हस्तावेकायनमेवँ सर्वेषामानन्दानामुपस्थ एकायनमेवँ सर्वेषां वेदानां वागेकायनम् ॥ स्पष्टोऽर्थः । ततश्चैकैकेन्द्रियवृत्तिविशेषा अनन्ताः । ततश्चात्मसाक्षात्कारार्थिना एते वृत्तिविशेषा निरोद्धव्या इत्यभिप्रायः । ततश्च स यथा दुन्दुभेर्हन्यमानस्येत्यनेनोक्त ब्रह्मोपासनोपयोगिकरणग्रामनियमनं विवृतं भवति । अथ सर्वावस्थास्वपिजीवस्वरूपस्य परमात्मनिष्ठतया स्वातन्त्र्याभावज्ञापनाय जीववाचिशब्देन परमात्मानं निदर्शयन्नमृतत्वोपाय प्रवृत्तिप्रोत्साहनाय भूतसङ्घातात्मकशरीरजन्ममरणानुविधायिनः संसरतो जीवस्या परिच्छिन्नज्ञानैकाकारतामुपपादयति ॥ स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद् ग्रहणायैव स्यात् यतो यतस्त्वाददीत लवणमेव ॥ सैन्धवखिल्यः लवणखण्डः । खिल एव खिल्यः । स्वार्थे यत् । यथा सैन्धवशकलमुदके निक्षिप्तमुदकमनु प्रविश्य लीयते एवमस्य विलीनस्य लवणास्योद्ग्रहणायोदकात्पृथक्वृत्य गृहीतंु यथा नैव कोऽपि शक्तः स्यात् । तच्चोदकं यथा यतो यतः यस्माद्यस्मात्प्रदेशान्मध्यतः पार्श्वतो वा आददीत तत्तोयं लवणमेव भवति ॥ एवं वाइदं महद्भूतमनन्तमपारं विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति ॥ एवमेवैतन्महद्भूतमनन्तमपरिच्छेद्यम् । अपारं गुणतोऽप्यपरिच्छेद्यम् । ब्रह्म विज्ञानधन एव जीवशरीरकतया एतेभ्यो भूतेभ्य उत्थाय तान्येवानुविनश्यति । भूतेषूत्पद्यमानेषु स्वयमुत्पद्यमानस्तेषु नश्यत्सु अनु पश्चात्स्वयं नश्यतीत्यर्थः । देहोत्पत्तिविनाशानुविधाय्युत्पाद विनाशवान् भवति । विनाशो नामात्यन्तज्ञानसङ्कोचः उत्पत्तिर्नाम विकासप्रादुर्भावः ॥ न प्रेत्य सञ्ज्ञास्तीति ॥ प्रेत्य चरमदेहवियोगं प्राप्य मोक्षदशायां स्वाभाविकापरिच्छिन्नज्ञानसङ्कोचा भावेन न सञ्ज्ञास्ति । समित्येकीकारे । ज्ञाधातोर्ज्ञानमर्थः । ततश्च भूतसङ्घातेनैकीकृत्य ज्ञानं सञ्ज्ञाशब्दार्थः । आमोक्षं देहात्मभ्रमोऽनुवर्त्तत इति भावः । नच महद्भूतमनन्तमपारमिति निर्द्दिष्टस्यैव ब्रह्मणो विज्ञानधन एवैतेभ्योभूतेभ्यः समुत्थायेति जीवत्वसंसारित्ववेदनं मुख्यमेवास्तु । विज्ञानधनः जीवशरीरकइति कुतोव्याख्यायत इति वाच्यम् । निरनिष्ठो निरवद्य इतिश्रुतिप्रतिपन्नस्य परमात्मनः संसारित्वासम्भवात् मोक्षधर्म्मे जनकयाज्ञवल्क्यसंवादे “अन्यश्च राजन् स परस्तथान्यः पञ्ञ्चविंशकः । तत्स्थत्वादनुपश्यन्ति ह्येक एवेति साधवः’’ इति शरीरशरीरिणोर्भेदेऽपि शरीरान्तस्थितस्य शरीरिण एकत्वादयमेकः पुरुष इति व्यवहारवदन्तरव स्थितिनिबन्धनः प्रकार्य्यैक्यविषयो भेदव्यवहार इत्युक्तम् । ततश्च जीवस्य परमात्मशरीरतया तद्वाचिना विज्ञानधनशब्देन परमात्मनोऽभिधानं तद्धर्म्म भूतोत्पत्ति विनाशादिना तद्धर्म्मत्त्वं च न विरुद्धमिति द्रष्टव्यम् । नचोत्थानविनाशयोःसद्वारविशेषणत्वे आवश्यके विज्ञानधनत्वस्या परमात्मनि साक्षादेव सम्भवात् विज्ञानघनशब्दस्य जीववाचित्वमाश्रित्य विज्ञानघनशब्देन जीवशरीरकपरमात्मभिधानाश्रयणक्लेशः"अवस्थितेरिति काशकृत्स्नः’’ (ब्र.सू. 1.4.21) इति सूत्रभाष्ये कुतोऽनुभूयत इति वाच्यम् । परमात्मनः स्वरूपेणोत्थानविनाशासम्भवाज्जीव स्वरूपेणोत्थानविनाशस्य वक्तव्यत्वेन जीववाचिपदस्य कस्यचिदावश्यकत्वादन्यस्य चाभावाद्विज्ञानधनशब्दस्य जीववाचित्वसम्भवाच्च विज्ञानधनशब्देन जीवशरीरकपरमात्मा भिधीयत इत्युक्तौ विरोधाभावात् ॥ सा होवाच मैत्रेयी अत्रैव मा भगवानमूमुहन्न प्रेत्य सञ्ज्ञास्तीति ॥ न प्रेत्य सञ्ज्ञास्तीति वाक्ये एवमासां अमूमुहत् । मुहेर्णौ चङ् । मोहयतिस्मेत्यर्थः । विज्ञानघनशब्दितस्य ज्ञानैकाकारस्यात्मनः मुक्तौ सञ्ज्ञाभावो विरुद्ध इति मोहो मे संवृत्त इति भावः । यद्यपि सञ्ज्ञाशब्दो देहात्म्यैक्यभ्रान्तिपर इति न विरोधः । तथापि तदभि प्रायानाभिज्ञानान्मुह्यन्ती मैत्रेय्येवमुक्तवतीति द्रष्टव्यम् ॥ स होवाच न वामोहं ब्रवीम्यलं वाइदं विज्ञानाय ॥ न प्रेत्यसञ्ज्ञास्तीति नाहं मोहं वचो ब्रवीमि । इदं विज्ञानघनशब्दितमहद्भूतं पूर्वनिर्द्दिष्टं प्रेत्यापि विज्ञानायालं ज्ञातुं पर्याप्तम् । ततश्च मुक्तावपि ज्ञानमस्ति ज्ञानिन एव सतो मुक्तस्य न प्रेत्य सञ्ज्ञास्तीति पूर्वनिद्दिष्टसञ्ज्ञाभावो देहात्मैक्यविषयकभ्रान्त्यभावात्मेति भावः । एवं मुक्तौ देहात्मभ्रमनिवृत्तिमुक्त्वा स्वनिष्ठता भ्रमनिवृत्तिं प्रतिपादयति ॥ यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति ॥ यत्र यस्यामवस्थायां द्वैतमिव भवति स्वनिष्ठतया परमात्मनः पृथगिव भवति स्वतन्त्र इव भवतीति यावत् । स्वातन्त्र्यस्याप्रामाणिकत्वद्योतनार्थः इवशब्दः । इतरं जिघ्रति । तत् तदा इतरः भिन्नात्मकः इतरं भिन्नात्मकं जिघ्रति । अत्रेतरेणेत्यध्याहार्यम् । उत्तरत्र तत्केन कं जिघ्रेदिति दर्शनात् । इतरेण स्वतन्त्रेण करणेन जिघ्रतीत्यर्थः ॥ तदितर इतरं पश्यति तदितर इतरमभिवदति तदितर इतरँ शृणोति तदितर इतरं मनुते तदितर इतरं विजानाति यत्रत्वस्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत् तत्केन कं पश्येत् तत्केन कमभिवदेत् तत्केन कं श्रृणुयात् । तत्केन कं मन्वीत तत्केन कं विजानीयात् ॥ यत्र यदा सर्वं वस्तु एकात्मकमेवाभूत्तदा केन भिन्नात्मकेन करणेन कं भिन्नात्मकं जिघ्रेदित्यर्थः । इतरशब्दः सर्वत्र स्वतन्त्रवस्तुपरः । एवं सर्वत्र द्रष्टव्यम् । अत्र सदैकात्मकस्य जगतः कालभेदेन भिन्नाभिन्नात्मकत्वासम्भवात् । आत्मैवाभूत् एकात्मकत्वेन ज्ञातम भूदित्येवार्थः । यस्यात्मभेदप्रतीतिरस्ति तस्य कर्तृकर्मकरणेषु भिन्नात्मकत्वप्रतीतिरनुवर्त्तते । यस्यात्मभेदप्रतीतिर्यदा सर्वथा नास्ति तदा विरुद्धधर्मवत्तया प्रतीतेष्वपि कर्तृकर्मकरणेषु भिन्नात्मकतया प्रतीतिः सर्वथा नास्तीति पर्यवसितोऽर्थः। शिष्टं स्पष्टम् ॥ येने दं सर्वं विजानाति तं केन विजानीयात् ॥ येन परमात्मना प्रसन्नेनानुगृहीतः सर्वज्ञो भवति तं परमात्मानं केन हेतुना विजानीयात् ॥ विज्ञातारमरे केन विजानीयादिति ॥ अत्र विज्ञातृशब्देन प्रक्रमोदितजगत्कारणत्वाक्षिप्तसार्वज्ञाश्रयः परमात्मैवोच्यते । तादृशंविज्ञातारं सर्वज्ञं परमात्मानं प्रक्रमोदितध्यानं विना केन केवलयज्ञदानाद्युपायेन विजानीयात् । उक्तं च व्यासार्यैः परमात्मप्रसादाहृते तस्य दुरवगमत्वपरं केन विजानीयादिति पूर्ववाक्यम् । उपासनातिरिक्तकेवलयज्ञदानाद्युपायान्तरनिषेधपरं विज्ञातारं केन विजानीयादित्युत्तर वाक्यमिति । ततश्च परमात्मप्रसादपरमात्मोपासनयोर्द्वयोरप्यावश्यकत्वं द्वाभ्यां वाक्याभ्यां प्रतिपादितं भवति । अत्र परमात्मोपासनतत्प्रसादसाध्या परमावगतिः किंरूपेति चिन्तायान्दर्शनसमानाकारध्यानरूपावगतिरेव प्रसादोपासनसाध्यत्वेन वाक्यद्वयप्रतिपन्नेति केचिदूचुः । मुक्तिकालीनदेशविशिष्टब्रह्मसाक्षात्कारलक्षणेत्यपरे । नोभयथापि विरोधं पश्यामः । इति शब्दः प्रतिवचनसमाप्तौ । इति ब्रह्मसूत्रेषु प्रथमाध्यायः समाप्तः ॥ 1॥