26.जगद्वाचित्वधिकरणम्जगद्वाचित्वात् (ब्र.सू.1.4.16)ऋुग्वेदान्तर्गतकौषीतकि (की) ब्राह्मणोपनिषदि चतुर्थाध्याये ॥ गार्ग्यो ह वै बालाकिरनूचानः सं(सु) स्पष्ट आस ॥ बलाकस्यापत्यं बालाकिः गोत्रतो गार्ग्यः । अनूचानः अं (सां) गाध्यायी अं (सां) गाध्याय्यनूचान इति स्मृतेः । संस्पष्टःसम्यग् विद्यया ख्यातः । एवम्भूतः सन्नास बभूव ॥ स होवासोशीनरेषु सत्त्वमत्स्येषु कुरुपाञ्चालेषु काशीविदेहेष्विति ॥ स बालाकिः उशीनरेषु सत्त्वप्रचुरेषु मत्स्यदेशेषु कुरुपाञ्चालेषु काशीविदेहेषु उषितवान् । इतिशब्दः प्रकारवचनः । एवञ्जातीयकेष्वन्येष्वपीत्यर्थः ॥ स हाजातशत्रुं काश्यमेत्योवाच ॥ अजातशत्रुनामानं काशीराजमधिगम्योवाच ॥ ब्रह्म ते ब्रवाणीति तं होवाचाजातशत्रुः सहस्रं दद्म एतस्यां वाचि जनको जनक इति हवै जना धावन्तीति ॥ ब्रह्म ते ब्रवाणीत्येतस्यामेवं वाचि निमित्ते गवां सहस्रं प्रयच्छामः । सर्वेऽपि ब्रह्मविदः जनक एव ब्रह्मशुश्रूषुर्दाता चेतिजनकस्य समीपे धावन्ति । भवांस्त्वस्मत्समीपमागत्य ब्रह्म ते ब्रवाणीत्युक्तवान् । अनेनैव वाक्येन तोऽषि ता वयं सहस्रं प्रयच्छाम इति भावः ॥ स होवाच बालाकिः य एवैष आदित्ये पुरुषः तमेवाहमुपास इति ॥ आदित्यमण्डलान्तर्वर्तिनं पुरुषं ब्रह्मेत्यहमुपासे । अतस्त्वमपि तमेवोपास्स्वेति भावः ॥ तँ होवाचाजातशत्रुः मामैतस्मिन्संवादयिष्ठाः बृहन्पाण्डुरवासा अतिष्ठाः सर्वेषां भूतानां मूर्द्धेति वा अहमेतदुपास इति ॥ वै शब्दोऽवधारणे । बृहन्महान् । पाण्डुराणि किरणरूपाणि वासांसि यस्य सः पाण्डुरवासाः । आदित्यकिरणानान्नानारूपत्वात् पाण्डुरवासस्त्वमस्तीति द्रष्टव्यम् । बृहदारण्यके बालाक्यजातशत्रुसंवादे बृहत्त्वपाण्डरवासस्त्वे चन्द्रधर्मतयोक्ते इति विशेषः । अतिष्ठाः । सर्वमपिकार्यजातमतिक्रम्य तिष्ठतीत्यतिष्ठाः । सर्वेषां भूतानां मूर्द्धा श्रेष्ठः । तदुपासनस्यानुरूपफलमाह ॥ स यो हैतमेवमुपास्ते अतिष्ठाः सर्वेषां भूतानां मूर्द्धा भवति । स होवाच बालाकिः य एवैष चन्द्रमसि पुरुषस्तमेवाहमुपासे ॥ ‘‘इत्यादि॥ ततो ह बालाकिस्तूष्णीमास ॥ उत्तरापरिस्फूर्तेरिति शेषः ॥ तँ होवाचाजातशत्रुः एतावन्नु बालाक इति ॥ हे बालाके एतावदेव खलु ते विदितमित्यर्थः ॥ एतावद्विति होवाच बालाकिः ॥ एतावदेव विदितमित्युवाचेत्यर्थः ॥ तँ होवाचाजातशत्रुः मृषा वै किल मा संवादयिष्ठाः ॥ ब्रह्म ते ब्रवाणीति मृषोक्त्या मां मृषैवं संवादयिष्ठाः संवादं कारितवानित्यर्थः । एतावन्तं कालमब्रह्मवाद एव प्रवृत्त इत्यर्थः । तर्हि किं तद्वेदितव्यं ब्रह्मेत्यत्राह ॥ स होवाच यो वैबालाके एतेषां पुरुषाणां कर्तायस्य चैतत्कर्म स वै वेदितव्य इति ॥ वै शब्दोऽवधारणे । त्वया ब्रह्मत्वेनोपदिष्टा नामादित्यादिपुरुषणां यः कर्ता ते यत्कार्यभूता किं विशिष्याभिधीयते यस्य प्रत्यक्षादि सन्निधावपि तं चिदचिद्रूपं समस्तं जगत्कार्यम् । क्रियत इति व्युत्यत्त्या कर्मशब्दःकार्यवचनः । स एव वेदितव्यः । नतु त्वदुपन्यस्ता आदित्यादय इति भावः ॥ तत उ ह बालाकिःसमित्पाणिः प्रतिचक्राम उपत्वायानीति ॥ उ शब्दोऽवधारणे । ह शब्दः प्रसिद्धौ । एवमजातशत्रुणोक्तो बालाकिर्गताभिमानो “नीचादप्युत्तमां विद्याम् । आपत्काले ब्राह्मणस्याब्राह्मणाद्विद्योपयोगः’’ इति शास्त्रमनुसृत्य क्षत्रियाप्यजातशत्रोर्विद्यामुपादित्सुर्नानुपसन्नाय ब्रह्मोपदेष्टव्यमिति शास्त्रार्थं जानन्समिद्भार हस्तशिशष्यः सन्नुपगच्छानीति वव्रे ॥ तँ होवाचाजातशत्रुः प्रतिलोमरूपमेव स्यात् यत्क्षत्रियो ब्राह्मणमुपनयेदित्येह्येव (येदेहि) त्वा ज्ञापयिष्यमीति ॥ क्षत्रियो ब्राह्मणमुपनयेदिति यत्तद्विपरीतमेव स्यात् । अत एव हि त्वामुपनयनमन्तरेणैव ब्रह्म विज्ञापयिष्याम्येव । तँ पाणावभिपद्य प्रवव्राज ॥ तं बालाकिं पाणौ गृहीत्वा निर्गत इत्यर्थः ॥ तौ ह सुप्तं पुरुषमीयतुः ॥ तौ बालाक्यजातशत्रू राजभवने सुप्तं कञ्चित्पुरुषं प्राप्तवन्तावित्यर्थः । बालाक्यधिकरण (ब्र.सू.1.4.16) भाष्ये “तौ ह सुप्तं पुरुषमाजग्मतुः’’ इत्युदाहृतं वाक्यं बृहदारण्य गतं नैतच्छाखागतम् । अत एव तत्र व्यासार्यैः तौ ह सुप्तं पुरुषमीयतुरिति श्रुतिरित्युक्तम् ॥ तँ हाजातशत्रुरामन्त्रयाञ्चक्रे बृहन्पाण्डुरवासस्सोमराजन्निति ॥ प्राणो वाव ज्येष्ठश्चश्रेष्ठति ज्यैष्ठ्यश्रैष्ठ्यगुणेन प्राणस्य बृहत्त्वाद् बृहन्नित्यामन्त्रणम् । पाण्डुरवासस्त्वं च प्राणधर्म्मः । किं मे वास इति प्राणेन पृष्टे आपो वास इत्यपां प्राणवासस्त्वोक्तेः । तासां त्वपां शुक्लवर्णाश्रयत्वात् पाण्डुरवासस्त्वमुक्तम् । सप्तान्नब्राह्मणे अथैतस्य प्राणस्यापःशरीरं ज्योतीरूपं असौ चन्द्र इति प्राणस्य चन्द्रसम्बन्धप्रतीतेर्लक्षणया सोमेति प्राणस्य सम्बोधनम् । प्राणो वै सम्राडिति श्रवमाद्राजन्नित्यामन्त्र्यतइति व्यासार्यैरुक्तम् ॥ स उ ह तूष्णीमेव शिश्ये ॥ अनुत्थित एव यथापूर्वमशयिष्टेत्यर्थः ॥ तत उ हैतं यष्ट्या चिक्षेप ॥ सुप्तं यष्ट्या ताडितवानित्यर्थः ॥ स तत एव समुत्तस्थौ ॥ दण्डताडनादेव समुत्तस्थौ । न तु प्राणानामामन्त्रणादिनेत्यर्थः । प्राणनामभिरा मन्त्रणेप्यनुत्थानप्रदर्शनं प्राणान्यत्वज्ञापनार्थम् । सुषुप्तिदशायामुपरतव्यापारेभ्यः शरीरेन्द्रियेभ्योऽन्यत्वं सुज्ञानमिति तस्यामपि दशायामनुपरतव्यापारात् प्राणादन्यत्वं ज्ञापनीयमिति प्राणनामभिरामन्त्रणेऽप्यनुत्थानेन दण्डताडनोत्थानेन च जीवस्य प्राणव्यतिरेकःप्रदर्शितः । एवं देहेन्द्रिय मनः प्राण व्यतिरिक्तं जीवं प्रदर्श्य ततोऽतिरिक्तं परमात्मानं बोधयितुमाह ॥ तँ होवाचाजातशत्रुः क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्वा वा एतदभूत्कुत एतदागादिति ॥ हे बालाके एष पुरुषः अशयिष्टेत्येतत् क्वेति स्वप्नस्थानप्रश्नः । यद्वैतच्छब्दः स्वप्नपरः । अशयिष्टेत्येतत्प्रत्ययार्थमात्रपरम् । क्वैतत्स्वप्नमकृतेत्यर्थः । सर्वथा स्वप्नस्थानप्रश्नः । क्व वा एतदभूदिति सुषुप्तिस्थानप्रश्नः । एतच्छब्दस्य नपुंसकलिङ्गत्वेऽपि प्रकृतवाचि प्रकृतिस्वारस्यात्प्रकृतपुरुषशब्दित जीवपरः । जीवः क्व सुप्तोऽभूदित्यर्थः । कुत एतदागादित्यत्राप्येतच्छब्दो जीवपर एव । प्रबोधकालीनजीवोद्गमनापादानं किमित्यर्थः । ततश्च जीवस्य स्वप्नस्थानसुषुप्तिस्थानोद्गमनापादनानि पृष्टानि भवन्ति । यद्वात्रत्रिष्वपि प्रश्नेष्वेतच्छब्दः सप्तम्यन्तः । एतस्मिन्काल इत्यर्थः । सुपांससुलुगिति सुपो लुक् । एतस्मिन्काले क्व स्वप्नमनुभूतवान्, एतस्मिन्काले कुतो निर्गतः । एवं च त्रयाणामप्येतच्छब्दानामैक रूप्यं च सिद्ध्यति ॥ तदुह बालाकिर्न विजज्ञौ ॥ उत्तरं बालाकिर्नज्ञातवानित्यर्थः ॥ तँ होवाचाजातशत्रुः यत्रैष एतद्बालाके पुरुषोऽशयिष्ट यत्रैतदभूद्यत एतदागात् ॥ यत्रैष एतद्बालाके पुरुषोऽशयिष्ट यत्रैतदभूद्यत्रैतदागात् तदुच्यत इति शेषः । स्वप्नस्थानप्रश्नं प्रतिवक्ति ॥ हितानाम हृदयस्य नाड्यो हृदयात्पुरीततमभिप्रतिष्ठन्ति यथा सहस्रधा केशस्यापि पातः तावदण्व्यः पिङ्गलस्याणिम्ना पूर्णास्तिष्ठन्ते शुक्लस्य कृष्णस्य पीतस्य लोहितस्येति तासु तदा भवति ॥ आत्मनो हितावहत्वाद्धिता इति प्रसिद्धा हृदयसम्बन्धिन्यो नाड्यः हृदयात्पुरीततं पुरीतदाख्यं हृदयान्तर्वर्तिमांसपिण्डविशेषम् । अभिप्रस्थिता भवन्ति-हृदयपुरीतति नद्धा भवन्ति । ततश्च यथाकेशस्यापि सहस्रधापातः अतिसूक्ष्मास्तावदण्व्यः सूक्ष्माः पिङ्गलस्य कृष्णस्य पीतस्यलोहितस्यान्नपीतादिरसस्याणिम्नालेशेन पूणार्स्तिष्ठन्ति अतिसूक्ष्मत्वाल्लेशेनापि पूर्णा भवन्ति । तासु नाडीषु तदा स्वप्नकाले आश्रितो भवतीत्यर्थः । सुषुप्तिस्थानप्रश्नस्योत्तरमाह ॥ यदा सुप्तः स्वपन्न कञ्चन पश्यति अथास्मिन्प्राण एवैकधाभवति । अथैनं वाक्सर्वैर्नामभिः सहाप्येति । चक्षुः सर्वैरूपैः सहाप्येति । श्रोत्रं सर्वैः शब्दैः सहाप्येति । मनः सर्वैर्ध्यानैः सहाप्येतीति ॥ सुप्त इति वर्तमाने क्तः । स्वपन्यदोपरत स्वप्रदर्शनो भवति । अथ स्वप्नानन्तरमस्मिन् प्राणे प्राण शरीरके परमात्मनि एकधा भवति । एकधाभावो नाम जाग्रदाद्यवस्थाजनित देहात्माभि मानकृतरागद्वेषादिलक्षणकालुष्यराहित्येनावस्थानम् । “सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ती"त्यादौ प्राणशब्दस्य परमात्मनि प्रचुरप्रयोगात् । वाजसनेयके समानप्रकरणे य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेत इति आकाशशब्दितस्य सुषुप्त्याधारत्व श्रवणादाकाशप्राणशब्दयोः परमात्मपरत्वमन्तरेणा विरोधासम्भवात् । सता सोम्य तदा सम्पन्नो भवति । “सति सम्पद्य न विदुः । प्राज्ञेनात्मना सम्परिष्वक्तः’’ इति परमात्मनः सुषुप्त्या धारत्वस्य श्रुत्यन्तरश्रवणाच्च प्राणशब्दो योगेन वा पर्यवसानवृत्त्या वा ब्रह्मपरः । परमात्मनोबुद्धिस्थत्वादस्मिन्निति निर्देशोप्युपद्यते । तत्तत्-तदा एनं परमात्मानं अपियन्तं जीवं वागादीद्रींयाण्यपियन्ति। स्वकार्येण सहापियन्तीत्यर्थः नामशब्दो नामाभिलपनपरः । रूपशब्द शब्दौ तज्ज्ञानौपयिकव्यापारपरौ । रूपशब्दादीनां सुषुप्तौ लयासम्भवात् । इन्द्रियव्यापारोपरतेरेव सुषुप्तिशब्दार्थत्वात् । उद्गमनापादनप्रश्नस्योत्तर माह ॥ स यदा प्रतिबुध्यते यथाग्नेर्विष्फुलिङ्गा एवमेतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवाः देवेभ्यो लोकाः ॥ अग्नेर्विष्फुलिङ्गाश्चैतस्मात्परमात्मनः प्राणशब्दिता जीवा यथास्थानं प्रस्थिता भवन्ति तेभ्यश्च देवशब्दितानीन्द्रियाण्येतेभ्यश्च लोकशब्दितानि ज्ञानानि भवन्तीत्यर्थः ॥ तद्यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये एवमेवैष प्राज्ञ आत्मा इदं शरीरमात्मानमनुप्रविष्ट आ लोमभ्य आ नखेभ्यः ॥ क्षुरो धीयते अस्मिन्निति क्षुरधानं क्षुरकोशः तस्मिन्यथा क्षुरः अवहितः प्रविष्टः विश्व म्बिभर्ति वैश्वानराग्न्यादिरूपेणेतिविश्वम्भरो ग्निः तस्य कुलाये नीडे दारुणीति यावत् । एवमेवैष परमात्मा इदं पुरोवर्तिशरीरमालोमभ्य आनखेभ्यः । व्याप्तमित्यध्याहारः । व्याप्तमात्मानं जीवात्मानमनुप्रविष्टः । अन्तर्यामितया अनुप्रविष्ट इत्यर्थः । तादृशस्य सुषुप्त्या धारत्वोद्गमनापादनत्वे सम्भवत इति भावः । यद्वा । इदं वाक्यं जीवशरीरकपरमेव व्याख्येयम् । आत्मानमिदं शरीर आत्मत्वेनाभिमन्यमानमिदं शरीरमालोमभ्य आनखेभ्यो जीवरूपेण प्रविष्ट इत्यर्थः ॥ तमेतमात्मानमेते आत्मानोऽन्ववस्यन्ति ॥ एतादृशं परमात्मानमितरे जीवा अन्ववस्यन्ति अनुवर्त्तन्ते । तत्र दृष्टान्तमाह ॥ यथा श्रेष्ठिनं स्वाः ॥ यथा श्रैष्ट्यवन्तं स्वाः ज्ञातयः अनुवर्तन्ते ॥ तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा श्रेष्ठिनं स्वा भुञ्जन्ते एवमेवैष प्राज्ञ आत्मा एतरात्मभिर्भंुक्ते ॥ यथा श्रेष्ठी स्वैरेवं वा एतमात्मानमात्मानोऽन्ववस्यन्ति । यथा श्रेष्ठिनं स्वाः । यथा कश्चित्प्रभुः भोगोपकरणभूतैः स्वैर्ज्ञातिभिः यथा भोगान् भुङ्क्ते । यथा स्वाश्च बन्धवः तम्ं प्रभुमैश्वर्यादिसमग्रमनुभूयतद्दत्तानि वित्तादीनि चोपजीव्य हृष्यन्ति । एवमेवायं परमात्मा स्वोपकरणभूतैर्जीवात्मभिर्लीलारसं भुङ्क्ते । ते चात्मानः परमात्मदत्तभोगोपकरणाः सर्वैश्वर्यादिविशिष्टं तमनुभूय हृष्टा भवन्तीत्यर्थः । यथा वा स्वाः श्रेष्ठिनं भुञ्जन्तीति पाठे यथाप्रधानपुरुषः स्वकीयैर्भृत्यादिभिर्भोगसाधनान्युपहरद्भिः भोगान्भुङ्क्ते यथा च भोगसाधनान्युपहरन्तःप्रधानपुरुषं पालयन्त्येवमित्यर्थः । “भुजोनवने (अष्टा.1.3.36) इतिभुजेः पालने परस्मैपदित्वादिति’’ ध्येयम् । ईदृशं भोक्तृत्वं जीवद्वारा वा परमात्मनि योजनीयम् ॥ स यावद्धवा इन्द्र एतमात्मानं न विजज्ञौ तावदेनमसुरा अभिबभूवुः स यदा विजज्ञौ अथ हत्वाऽसुरान्विजित्य सर्वेषां देवानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति तथो यो वैवं विद्वान् सर्वान् पाप्मनोऽपहत्य सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद य एवं वेद ॥ इन्द्रो ब्रह्मविद्याऽलाभात् प्रागसुरैः पीडितः इमां ब्रह्मविद्यां लब्ध्वा असुरहननेन विजयी सर्वदेवाधिपत्यं सर्वदेवश्रैष्ठ्यं स्वाराज्यशब्दिताकर्म्मवश्यत्वलक्षणं मोक्षं च प्राप । अतोऽन्योप्येव ंवित्सर्वभूताधिपत्यं सर्वभूतश्रैष्ठ्यं पापापहतिपूर्वकाकर्मवश्यत्वलक्षणस्वाराज्यशब्दितं मोक्षञ्च प्राप्नोतीत्यर्थः । व्यासार्यैस्तु सर्वान् पाप्मनोऽपहत्येत्यनेनापहतपाप्मत्वादिगुणाष्टकमुक्तम् । जरादीनामपि पाप्मान्तर्गतत्वात् । उक्तं हि वाक्यकारैः । “स्युः पाप्मानः कालजरामृत्युशोकादयः सङ्ख्यातत्वात्’’ इति । स्वाराज्यं स्वाधीनत्वम् । अनेन सत्यसङ्कल्पत्वं चोक्तं भवति । तत्स्वाराज्यं संसारिभ्योऽस्य श्रैष्ठ्यरूपम् । आधिपत्यम् । अधिपतिः परमात्मासर्वस्याधिपरिरिति श्रुतेः । तत्सम्बन्धि आधिपत्यं गुणाष्टकं हि ब्रह्मसम्बन्धितया ब्राह्म मुच्यते “ब्राह्मेण जैमिनिः’’ (ब्र.सू.4.4.5) इति । अतो ब्रह्मसम्बन्धितया तत्साधर्म्मरूपं संसारिभ्यः श्रेष्ठतारूपं यत्स्वाराज्यं तदेतीति श्रुतेरर्थ इत्युक्तम् । अन्योऽपि य एतामुपनिषदं वेद सोऽपीदृशं फलमाप्नोतीत्यर्थः ॥