- चमसाधिकरणं ॥ चमसवदविशेषात् (ब्र.सू.1.4.8)अथमन्त्रिकोपनिषत्"विकारजननीमज्ञामष्टरूपामजाङ्घ्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः ॥ सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् । गौरनाद्यन्तवती सा जनित्री भूतभाविनी ॥ सितासिता च रक्ता च सर्वकामदुधा विभोः । पिम्बत्येनामविषमामविज्ञाताः कुमारकाः ॥ सर्वसाधारणीं दोग्घ्रीं पीड्यमानां तु यज्वभिः । एकस्तु पिबते देवः स्वच्छन्दोऽत्रवशानुगाम् ॥ ध्यानक्रियाभ्यां सततं भुङ्क्तेऽसौ प्रसभं विभुः । चतुर्विंशतिसङ्ख्याकमव्यक्तं व्यक्तमुच्यते ॥ ’’ इति ॥ विकारजननीमित्यादि । अष्टरूपत्वं भूमिरापोनल इत्युक्त प्रकारेण । अजामुत्पत्तिर हिताम् । ध्यायते परमात्मना सङ्कल्परूपज्ञानेन ज्ञायते । अध्यासिताम् अधिष्ठिताम् । तन्यते विस्तार्यते । स्थूलावस्थं क्रियते । समष्टिभूतरूपेण क्रियते । प्रेर्यते व्यष्टिसृष्ट्यर्थं प्रेर्यते । पुरुषार्थं पुरुषाणामर्थनीयम् । भोग्यभोगोपकरणभोगस्थानरूपम् । जगत्सूयते । जनित्रीभूतभाविनीति समष्टिव्यष्टिरुच्यते । सिता सिता च रक्ता च गौणवृत्त्या सत्त्वरजस्तमोमयी । तेजोबन्नद्वारासिताऽसिता रक्ता च । विभोरीश्वरस्य सर्वकामदुधा लीलारसदोग्घ्री । अविषमां भोक्तृकर्मानुगुणपरिणामित्वादपक्षपातिनीम् । अविज्ञाताःदेहादिभ्यो विविच्य स्वात्मभिरज्ञाताः । कर्मवश्यबहुभोक्तृव्यावृत्त्यर्थमेकः स्वच्छन्द इत्युक्तम् । ध्यानक्रियाभ्यां सङ्कल्पसर्गादिव्यापाराभ्याम् । पीड्यमानान्तु यज्वभिः वत्सा हि मातरं क्षीरक्षरणार्थं पीडयन्तो भुञ्जते तद्वत्कर्मवश्यैरात्मभिः भोग्यफलानुरूपं परिणाम्यमानामित्यर्थ इति व्यासार्यैरेते मन्त्रोपनिषन्मन्त्रा व्याकृताः । श्वेताश्वतरे आरम्भे ॥ किं कारणं ब्रह्म कुतस्मजाता जीवाम केन क्व च सम्प्रतिष्ठाः । अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ हे ब्रह्मविदो जगतः कारणं ब्रह्म किं देवतारूपम् । कस्माच्च ब्रह्मणोऽस्माकं जन्मस्थितिश्च । कुत्र वास्माकं सम्प्रतिष्ठाशब्दितो लयश्च । केन वा ब्रह्मणा अधिष्ठिताः सन्तो वयं कष्टरूपजन्मसु व्यवस्थामनुसृत्य वर्त्तामहे इत्येवं ब्रह्मविदां संशयः प्रदर्शितः ॥ ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम् ॥ एवं ध्यानयुक्ता मुनयो “अपहतपाप्मा दिव्यो देव एको नारायणः’‘इति श्रुतिप्रसिद्धदेवशब्दितनारायणात्मिकां कार्योपयोग्यपृथक्सिद्धविशेषणतया शक्तिशब्दितां सत्त्वरजस्तमो लक्षणस्वगुणोपेतां ब्रह्मणो जगत्कारणत्वनिर्वाहिकां प्रकृतिं दृष्टवन्त इत्यर्थः ॥ सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे ॥ सर्वजीवनहेतुभूते सर्वलयाधारे तस्मिन्निरतिशयबृहति ब्रह्मचक्रे हन्ति गच्छतीति संसारकान्तारपर्यटन शीलतया हंसशब्दवाच्यो जीवोऽयं भ्रमतीत्यर्थः ॥ पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥ भ्रामयितृत्वेन परमात्मानं तेन भ्राम्यमाणं तच्छरीरभूतं च स्वात्मानं मत्वा तद्ध्यानप्रीतेन परमात्मना जुष्टः प्रीत्या विषयीकृतः सन्मुक्तिं प्राप्नोतीत्यर्थः ॥ संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः । अनीशश्चात्मा वध्यते भोक्तृभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ईशःपरमात्मा व्यक्तरूपं क्षरमचिद्वर्गमव्यक्तमक्षरं चिद्वर्गं च परस्पर संयुक्तं बिभर्ति न तु बध्यते । अनीशो जीवस्तु बध्यते । नन्वविशिष्टे प्रकृतिसम्बन्धे कुत एतद्वैलक्षण्यमित्यत्राह ॥ भोक्तृभावादिति । भोक्तृत्वाभिसन्धिलक्षणभावसत्त्वात् । परमात्मन स्तु “न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा’’ इति कर्मफलस्पृहाऽभावेन कर्मफललेपाभावादित्यर्थः । त्रयाणां परस्परवैलक्षण्यमेवाह ॥ ज्ञाज्ञौ द्वावजावीशनीशावजाह्येका भोक्तृभोगार्थयुक्ता ॥ ईशानीशौ । ह्रस्वःछान्दसः । भोक्तुर्जीवस्य भोगप्रयोजनसाधिकेत्यर्थः । ननु परमात्मनोऽपिजीववत्फलाभिसन्धिपूर्वककर्तृत्वं कुतो न भवतीत्याशङ्क्याह ॥ अनन्तश्चात्मा विश्वरूपोह्यकर्ता ॥ विश्वशरीरकस्य परमात्मनो “नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमुच्यते’’ इत्युक्तरीत्या सत्यकामत्वाद्यनन्तगुणश्रयतया काम्यमानवस्त्वन्तराभावेन फलाभिसन्ध्यभावेन फलाभिसन्धि पूर्वककर्तृत्वं नास्तीत्यर्थः । एतादृशवैलक्षण्यज्ञानस्य फलमाह ॥ त्रयं यदा विन्दते ब्रह्ममेतत् ॥ एतत् त्रयं परस्परवैलक्षण्येन दर्शन समानाकारध्यानेन विषयीकरोति तदा ब्रह्मभवति मुक्तो भवतीत्यर्थः । ब्रह्ममिति छान्दसं रूपम् । संयुक्तमिति मन्त्रनिर्दिष्टक्षराक्षरशब्दार्थंविवृण्वन्परस्परवैलक्षण्य ज्ञानमात्रेण मुक्ते मनननिदिध्यासनवैयर्थ्यमिति शङ्कां च शमयति ॥ क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः ॥ प्रधानं प्रकृतिस्त्रियामिति प्रधानशब्दिता प्रकृतिः क्षरमित्युच्यते । भोग्यमात्मनो भोगार्थं हरतीति हरो जीवः । अमृतत्वान्मरणधर्मशून्यत्वादक्षरमित्यर्थः । क्षराक्षरशब्दितचेतनाचेतन वर्गेशिता “अपहतपाप्मा दिव्या ेदेव इति देवत्वेननिर्दिष्टो नारायण एव । तस्यारम्भणसंशीलनलक्षणाभिध्यानाद्योजनशब्दिताद्योगात्तत्वाविर्भारूपात्तद्भावाच्च त्रयं यदा विन्दते ब्रह्ममेतदिति निर्द्दिष्टोपासनकालीनब्रह्मानुभवरूपमुक्त्यनन्तरं चरमशरीरवियोगकाले समस्तप्रकृतिसम्बन्धनिवृत्तिर्भवतीत्यर्थः ॥ अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानाँ सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ तेजोबन्नलक्षणविकारगतलोहितशुक्लकृष्णरूपयुक्तां स्वसमानरूपवि विधभूतभौतिकस्रष्ट्रीम् उत्पत्तिरहितां काञ्चित्कश्चिदविद्वान् उत्पत्तिरहिततया तत्समान एव स्वन्तत्राहम्बुद्ध्या सेवमानस्तामनुसृत्य शेते तिष्ठति । अपरोविद्वान्कञ्चित्कालं भुक्त्वोत्पन्न वैराग्यस्त्यजतीत्यर्थः । इतरत्सर्वमुपनिषद्भाष्येऽवगन्तव्यम् ॥ बृहदारण्यके चतुर्थाध्याये द्वितीयब्राह्मणे ॥ तदेषश्लोकोभवति । अर्वाग्बिलश्चमस ऊर्ध्वबुघ्नस्तस्मिन्यशो निहितं विश्वरूपम् । तस्यासते ऋुषयस्सप्ततीरे वागष्टमीब्रह्मणा संविदानेति ॥ अमुं मन्त्रं श्रुतिरेव व्याचष्टे ॥ अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिरःएष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुघ्नः ॥ अर्वाग्बिलश्चमस इति मन्त्रखण्डेनोच्यमानमिदं तदेव शिरः-प्रसिद्धमेव शिरः । कण्ठादुपरिभाग इति यावत् । किं तदित्याशङ्क्याह । एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुघ्नः-चम्यतेनेनेति चमसः । भक्षणसाधनमित्यर्थः । एष मुखरूपश्चमसः । आस्यस्य बिलरूपत्वादर्वाग्बिलत्वंशिरसः ऊर्ध्वस्थूलभागरूपबुघ्नाकारत्वादूर्ध्वबुध्नत्वम् । लोके हि प्रसिद्धश्चमस ऊर्ध्वबिलःतिर्यग्बुघ्नः । अयं तु विलक्षणश्चमस इति भावः ॥ तस्मिन्यशो निहितं विश्वरूपमित्येतद्वाक्यं पञ्चवृत्तिप्राणानाह । तत्र हेतुमाह ॥ प्राणा वै यशो निहितं विश्वरूपम् ॥ प्राणस्य प्राणापानादिरूपबहुरूपतया यशसो विष्वक्प्रसृमरत्वाद्यशस्त्वेन रूपणम् । वृत्तिभेदात् प्राणा इति बहुवचनम् ॥ तस्यासते ऋुषयः सप्ततीर इति प्राणा वा ऋषयःप्राणानेतदाह ॥ नासाक्षिश्रोत्रास्योपाधिसम्बन्धिनः सप्तशीर्षण्याः प्राणाः तस्य समीपे वर्तन्त इत्यर्थः ॥ वागष्टमी ब्रह्मणा संविदानेति वाग्ध्यष्टमी ब्रह्मणा संवित्ता ॥ ब्रह्मणा वेदेन चतुर्मुखेन वा संविदाना संवादं कुर्वती । संवित्ता-समित्येकीकारे-वित्तशब्दो ज्ञानपरः । ब्रह्मणैकप्रत्यया । एकबुद्धिःब्रह्मणैककण्ठा-वेदवादिनीति यवात् ॥