24 अर्थान्तरत्वादिव्यपदेशाधिकरणम्

  1. अर्थान्न्तरत्वादिव्यपदेशाधिकरणंसुषुप्त्युक्रान्त्योर्भेदेन (ब्र.सू.1.3.43)न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च (ब्र.सू.1.4.10)सन्ध्ये सृष्टिराह हि (ब्र.सू.3.2.1)प्रतिषेधादिति चेन्न शारीरात् (ब्र.सू.4.2.12)एतद्विषयवाक्यार्थनिर्णयाय बृहदारण्यकषष्ठाध्यायगतवाक्यान्यत्यन्तोपयुक्तानि व्याख्यायन्ते ॥ अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किञ्ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्यात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ स्वप्ने बाह्येन्द्रियाणामुपरतत्वादादित्यादिप्रकाशकाभावाच्चात्मैव स्थितिगतिहेतुभूत प्रकाशको भवतीत्यर्थः । आत्मैवास्यज्योतिरित्यत्रात्मशब्दनिर्दिश्यमानं पुरुषस्वरूपं किमिति पृच्छति । कतम आत्मेति ॥ हृत्कमलमध्यगतः प्राणशब्दितेन्द्रियमध्यगः विज्ञानधर्मक इत्युत्तरमाह ॥ योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः ॥ अत्र विज्ञानमय इति प्राचुर्यार्थे मयटाऽऽत्मनोज्ञानव्यतिरेक उक्तः । प्राणेष्विति सप्तमीनिर्देशादिन्द्रियव्यतिरेकोऽपि सिद्धः । अत्र ज्योतिश्शब्दितात्मनो विज्ञानमयत्वोक्त्या धर्मभूता ज्ञानद्वारा भासकत्वमादित्यादीनामिव प्रभाद्वारा ज्योतिष्ट्वमिति भावः ॥ स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव ॥ स जीवः अहङ्कारविमूढात्माकर्ताहमिति मन्यत “इत्युक्तरीत्या परायत्तकर्तृत्वेऽपि स्वातन्त्र्य लक्षणकर्तृत्वाभिमानयुक्तः सन् लोकद्वयेऽपि सञ्चरति । ध्यायतीव चलतीव । परतन्त्रप्रभौ प्रभुरिवेत्युक्तिवत्परायत्तकर्तृत्वाश्रये ध्यायतीवेतीव शब्दप्रयोगे नानुपपत्तिः । ततश्चलोकद्वय सञ्चारध्यानादेर्देहातिरेक उक्तो भवति ॥ ननु स्वप्ने स्वयञ्ज्योतिष्ट्वं कुतोऽभ्युपगन्तव्यमिन्द्रियाणां प्रकाशकत्वादित्याशङ्क्याह ॥ स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामुपादाय स्वयं निहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयञ्ज्योर्ति भवति ॥ यदायंस्वप्नमनुभवति तदा सर्वावतः सर्ववतः भोग्यभोगोपकरणादिसर्वयुक्तस्य जगतो मात्रा मीयतेनेनेति मात्रा प्रकाशकेन्द्रियवर्गः तमुपादाय स्वयमेव तमिन्द्रियवर्गं निहत्य निश्चेष्टतामापाद्य निर्व्यापारं कारयित्वा स्वयं निर्माय जीवस्य स्वाप्नपदार्थस्रष्टृत्वमदृष्टद्वारा द्रष्टव्यम् परैरपि तथैवोक्तत्वात् । स्वेन भासेत्यस्यैव विवरणं स्वेन ज्योतिषेति । प्रस्वपितिस्वप्नमनुभवतीत्यर्थः । अत्रास्यां दशायां पुरुषः स्वयं ज्योतिर्भवति प्रकाशकान्तराभावादित्यर्थः । यद्यपि स्वप्नपदार्थभानं धर्मभूतज्ञानेनैव नात्मज्योतिषा । तथाप्यादित्यादि प्रकाशकान्तर स्थानाभिषिक्त आत्मैवेति भावः । यद्यपि स्वप्ने आदित्यादिज्योतिस्सृष्ट्यभ्युपगमे प्रकाशकान्तरव्यतिरेको न वक्तुं शक्यः । तथापि लोकप्रसिद्धादित्यादिज्योतिरन्तराभावाज्जाग्रदादिवैषम्यमस्तीति द्रष्टव्यम् । नन्वत्मनैवायं ज्योतिषास्ते कर्म कुरुते इत्यादिनोपपद्यते । अर्थस्यैवाभावेनाऽऽसनकर्मकरणादीनामभावादित्याशङ्क्याह ॥ न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते ॥ युज्यन्त इति योगाः। रथयोगा अश्वादयः । रथरथाश्वमार्गादयःजाग्रद्दशानुभवयोग्या न सन्ति ॥ अथ तु तत्तत्पुरुषत्तत्कालमात्रानुभाव्यानर्थान्परमात्मा सृजते । न तत्रानन्दा मुदः प्रमुदो भवन्त्यथानन्दान्मुदः प्रमुदः सृजते ॥ अनुकूलदर्शनजा प्रीतिरानन्दः । स्वकीयत्वबुद्धिजा प्रीतिर्मुत् । विनियोगजन्या प्रीतिः प्रमुत् ॥ न तत्र वेशान्ताः पुष्करिण्यः स्त्रवन्त्यो भवन्त्यथ वेशान्तान्पुष्करिण्यः स्त्रवन्त्यः सृजते ॥ वेशन्ताः पल्वलानि । वेशान्ता इति दीर्घश्छान्दसः । पुष्करिण्यो वाप्यः । स्त्रवन्त्यो नद्यः । पुष्करिणीः स्त्रवन्तीः सृजत इत्यर्थः । अत्र “वा छन्दसीति’’ पूर्वसवर्णदीर्घाभावः । ननु स्वप्नेदृग्यस्मिन्देशे यदा रथं पश्यति तदानीं तत्र स्थितोऽन्यस्तं न पश्यति तत्र तस्यान्यत्र नयनचिह्ना नि वा नाशचिह्नानि वा नोपलभ्यन्ते । अतःकथमीदृशीस्वप्नार्थसृष्टिरुपपद्यतामित्यत्राह ॥ स हि कर्तेति ॥ सकलप्रपञ्चनाटकसूत्रधारः सर्वेश्वरः खलु तत्र कर्ता स किं वा कर्तुं नशक्नुयादिति हि शब्दाभिप्रायः ॥ तदेते श्लोका भवन्ति ॥ सुप्तमधिकृत्यैते वक्ष्यमाण श्लोकाः प्रवृत्ता इत्यर्थः ॥ स्वप्नेन शरीरमभिप्रहत्यासुप्तः सुप्तानभिचाकरीति । शुक्रमादाय पुनरेति स्थानं हिरण्मयः पुरुष एक हँसः ॥ स्वप्नेनेतीत्थं भावे तृतीया । स्वप्नेनोपलक्षितस्सन् । शारीरमभिप्रहत्यशरीरीनष्टचेतामापाद्य असुप्तः अलुप्तप्रकाश एव सन् सुप्ताल्ँलुप्तप्रकाशान्प्राणानभितश्चाकशीति । “कशगति शब्दयो’‘रित्यस्माद्यङ् लुगन्तादिदं रूपम् । पर्यटतीत्यर्थः । शुक्रं ज्योतिष्मत्प्रकाशकम् । मन आदीन्द्रियवर्गमादाय स्वप्नान्ते पुनः स्वस्थानमेति । हिरण्मयः प्रकाशमयः । एकहंसः एक एव हन्ति गच्छतीति एक हंसः ॥ प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादपरश्चरित्वा । स ईयते अमृतो यत्र कामं हिरण्मयः पुरुषः एकँ हसः ॥ अवरं निकृष्टं स्थूलं शरीरं प्राणेन पञ्चवृत्तिप्राणेन रक्षन्प्राणस्यापि स्वप्ने जीवेन सह निर्गमे सद्योमरणमेव स्यात् । अतः प्राणेन शरीरं रक्षन्कुलायाज्जाग्रच्छरीराद् बहिर्निर्गत्य यत्र कामं काम्यत इति कामं यत्र भोग्यं तत्र सर्वत्र चरित्वा अमृतः अमरणधर्मा हिरण्मयः एकहंसः पुनरपिस्वस्थानमीयते गच्छतीत्यर्थः । यद्वा यत्र कामं तत्र ईयते गच्छतीत्यर्थः ॥ स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ स्वप्नान्ते स्वप्नमध्य इत्यर्थः । अन्तश्शब्दो मध्यवचनः । उच्चावचं पुण्यपापलक्षणमृत्कुष्टापकृष्टं सङ्गच्छमानो देवः जीव इत्यर्थः । बहूनि देवादीनि रूपाणि भजत इत्यर्थः । उत शब्दोप्यर्थः । स्त्रीभिःसह मोदमान इव जक्षदिव । जक्षणं भक्षणं हसनं वा । जक्षभक्षहनयोरिति हि धातुः । भयानि बिभेत्येभ्य इति । व्याघ्रादीनि पश्यन्निवापि भवतीत्यर्थः ॥ आराममस्य पश्यन्ति न तं पश्यति कश्चनेति ॥ अस्य जीवस्याराममुपकरणभूतमुद्यानादिकं देहेन्द्रियादिकञ्च सर्वेपि पश्यन्ति । तं देहेन्द्रियादिविविक्तमन्तर्बहिस्सञ्चरन्तमपि न पश्यन्तीति लोकं प्रत्यनुक्रोशं दर्शयतिश्रुतिः । इतिर्मन्त्रसमाप्तौ । लोकप्रसिद्धिरपि तथेत्याह ॥ तं नायतं बोधयेदित्याहुर्दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते ॥ यत एव स्वप्ने इन्द्रियाण्युपहृत्य जीवो बहिर्निर्गच्छति । अत आयतं गाढं सुप्तम् । यम उपरमे निष्ठा । “अनुदात्तोपदेशे’‘त्यनुनासिकलोपः । तं न बाधयेदित्याहुः चिकित्सकाः । ते हि तत्र दोषं पश्यन्ति दुर्भिषञ्ज्यं हास्मै भवति यमेष न प्रतिपद्यते । बहिर्निर्गत आत्मायमिन्द्रियदेशं न प्रतिपद्यते । कदाचिद्व्यत्यासेनेन्द्रियाणीन्द्रियान्तरदेशे प्रवेशयेत् । तत्रान्ध्यबाधिर्यादिदोषप्राप्तौ दुर्भिषज्यं हास्मै भवति दुःखेन भिषक्कर्मास्मै दोषाय भवति । अयं दोषो दुर्विचिकित्स एव स्यादित्यर्थः ॥ स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैवा पुण्यं पापम्पुनः प्रतिन्यायं प्रतियोन्या द्रवति बुद्धान्तायैव ॥ स्वप्नान्ते स्वप्नस्थान इत्यर्थः । अन्तशब्दः स्थानवचनः । “अन्तः समाप्तौ स्थाने च निर्णयेभ्यन्तरेपि चेति नैघण्टुकाः’’ । बुद्धान्तो बोधस्थानं जागरणमिति यावत् । स्वप्नस्थाने क्रीडित्वा चरित्वा पुण्यपापफलमनुभूय पश्चाद्यथान्यायं यथागतम् । अयनमायः गमनम् । योनिशब्दः स्वप्नस्थानाद्यथागतं जाग्रत्स्थानमागच्छतीत्यर्थः ॥ तद्यथा महामत्स्य उभे कूले अनुसञ्चरति पूर्वं चापरं चएवमेवायं पुरुष एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च ॥ कूलद्वयसञ्चारिमत्स्यवज्जाग्रत्स्वप्नस्थानसञ्चरणशीलो भवतीत्यर्थः । एवं स्थानद्वयसञ्चारं प्रदर्श्य सुषुप्तिदशां प्रकाशयति । तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलायायैव घ्रियते एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति ॥ यथा आकाशे श्येनो वा गरुडो वा विशेषेण विपरिपत्यपतनं कृत्वा श्रान्तः सन्पक्षौ संहत्यलीयतेऽस्मिन्पक्षीनिलयः नीडः । समीचीननीडायैव घ्रियते अवविष्ठते । धृङ् अवस्थान इति धातुः । एवमेवायं पुरुषः बुद्धान्तस्वप्नान्तसञ्चरणश्रान्तो यत्र स्थाने सुप्तः न कामाद्युपगतः स्वप्नांश्चान्यान्पदार्थांश्च न पश्यति तादृशाय पूर्वोक्तस्थानद्वयकालुष्यरहितः सुषुप्तिस्थानाय धावतीत्यर्थः । ननु क्वचित्स्वप्नादिदर्शनं क्वचित्तदभाव इत्यत्र किं विनिगमकमित्याशङ्कायां स्थानवैषम्यकृतमित्याह ॥ ता वा अस्यै ता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्न स्तावताणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः अथ यत्रैनं घ्रन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति ॥ यत्र स्थितमेनं केचन घ्नन्तीव जिनन्तीव जयन्तीव गजो विद्रावयतीव गर्तमिव पतननिमित्तं भाति ताः केशसहस्रांशसूक्ष्मा नाना रूपान्नरसपूर्णा हिता नामिका नाड््यो भवन्तीत्यर्थः ॥ यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते ॥ यद्यज्जाग्रदृशायां भयसाधनं पश्यति तत्सर्वमासु नाडीष्वविद्यया कर्मवशान्मन्यते प्रत्येतीत्यर्थः । हितानामकस्वप्नवहनाडीस्थितस्यकर्मसम्बन्धसत्त्वात् । भीषणस्वाप्नपदार्थप्रति भानं सम्भवतीति भावः ॥ अथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः ॥ स यथा कुमारो वा महाराजो वा महाब्राह्मणो वा अतिसीमानं दस्य गत्वा शयीतैवमेवैष एतच्छेते इति बालाकिब्राह्मणोक्तरीत्या यत्र स्थाने स्थितस्य देववद्राजवच्चानन्दानुभवः स्वव्यतिरिक्तानुकूलप्रतिकूलवस्त्वनुपलम्भः सोऽस्य जीवस्य परमो लोकः मुख्याश्रयः । परत्मात्मेति भावः ॥ तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपम् ॥ तदेतत् । अस्यातिच्छन्दाः । छन्दशब्द इच्छावाची । अतिच्छन्दमभिलाषातिगम् । अपहतपाप्मपापप्रतिभटम् । अभयं प्रियम्प्राप्यं रूपं परमात्मैवेत्यर्थः । ततः किमित्यत्राह ॥ तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नातरं एवमेवायं पुरुषः प्राज्ञेनात्मनासम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् ॥ यथा प्रियस्त्रीपरिष्वक्तस्यान्तरदुःखादिपदार्थज्ञानं बाह्यपदार्थज्ञानं वा नास्ति एवं परमप्रियेण प्राज्ञेन परमात्मना परिष्वक्तस्य बाह्याभ्यन्तरज्ञानाभाव उपपद्यते । अत्र च परिष्वङ्गो नाम लय एव । “स्वाप्ययात्’’ (ब्र.सू.1.1.10) इति सूत्रे स्वमपीतो भवतीति भाष्यै वाक्यसमानार्थतयैतद्वाक्यस्योदाहृत्वात् । अथवा जाग्रत्स्वप्नभोगप्रदकर्म सम्बन्धविरोधि परिष्वङ्गः सम्बन्धविशेषः सुषुप्तिमात्रकालवर्तीति द्रष्टव्यम् ॥ तद्वा अस्यै तदाप्तकाममात्मकाममकामँ रूपं शोकान्तरम् ॥ तदेव प्राज्ञात्मलक्षणमवाप्तसमस्तकाममात्मव्यतिरिक्तकामनाशून्यम् शोकान्तरं शोकबाह्यम् । अन्तरशब्दो बहिर्योगवचनः । प्राप्यं रूपमित्यर्थः ॥ अत्र पिताऽपिता भवति माताऽमाता ॥ अत्र परमात्मनि सुषुप्तिस्थानेलीनस्य पित्रादयो न सन्ति । तद्रूपस्य शरीरसम्बन्धघटककर्मसम्बन्धशून्यतया अशरीरस्य जनकाभावेन पित्रादेरभावादिति भावः ॥ लोका अलोकाः ॥ तस्याश्रयशून्यत्वादिति भावः ॥ देवा अदेवाः ॥ अनुग्राहकशून्यत्वादिति भावः ॥ वेदा अवेदाः ॥ अननुशासनीयस्वरूपत्वादिति भावः ॥ अत्र स्तेनोऽस्तेनो भवति भ्रूणहाऽभ्रूणहा चण्डालोऽचण्डालः पौल्कसोऽ पौल्कसः श्रमणोऽश्रमणः तापसोऽतापसः ॥ परिशुद्धात्मस्वरूपेस्ते यादिकर्तृत्वाद्यसम्भवादितिभावः । अत्र हेतमाह ॥ अनन्वागतं पुण्येनाननव्गतं पापेन ॥ शरीरसम्बन्धघटकपुण्यपापासंस्पर्शनादिति भावः । ननु चरमदेहवियोगानन्तरभावित्वात्सर्व कर्मप्रहाणस्य कथं सुषुप्तौ कर्मसम्बन्धाभाव इत्याशङ्क्याह ॥ तीर्णो हि तदा सर्वांश्छोकान्हृदयस्य भवति ॥ मनस्तापरूपफलाभावाद्विद्यमानानामपि कर्मणां फलप्रदानाभिमुख्याभावात् । कर्मणामसम्बद्धप्रायत्वात् । शरीरसम्बन्धाभावेन तदनुबन्धिमातापित्रादयो न सन्तीत्यर्थः । ज्ञातृस्वरूपस्य सुषुप्तस्यात्मनो बाह्याभ्यन्तरज्ञानाभावः किन्निबन्धन इत्याशङ्क्याह ॥ यद्वै तन्न पश्यति पश्यन्वै तत्र पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविनाशित्वान्न तु तद्दितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ॥ द्वैतं बाह्यमाभ्यन्तरं वा स्वातिरिकं वस्तु सुषुप्तौ जीवो न पश्यतीति यत् । तत् पश्यन् वै न पश्यति । वै शब्द एवार्थः । पश्यतः दर्शनयोग्यज्ञानवत एव बाह्यान्तरादर्शनमित्यर्थः । नन्वपश्यतः कथं पश्यत्त्वमित्यत्राह । नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविनाशित्वादिति । ज्ञातुर्धर्मभूतज्ञानस्य नित्यत्वाद्विनाशो नास्तीत्यर्थः । तर्हि सुषुप्तौ कथमदर्शनमिति तत्राह । न तु तद्दितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येदिति । अयमर्थः । ज्ञानस्वरूपाभावानिबन्धनो बाह्यान्तरद्वितीयज्ञानाभावो न भवति । अपि तु ततो विभक्तस्य प्राज्ञात्मनः पृथक्सिद्धस्यान्यस्यबाह्यान्तररूपद्वितीयवस्तुनोऽभावादेवानुकूलप्रतिकूलपदार्थादर्शनमित्यर्थः । नच पृथक् सिद्धपदार्थाभावस्य जाग्रत्स्वप्नयोरपि समत्वात् । तत्रैव सुषुप्तावप्यविद्यमानपृथक्सिद्ध पदार्थानुभवोऽस्त्विति शङ्क्यम् । तत्र कर्मरूपदोषवशात्पृथक्सिद्धपदार्थोपलम्भसम्भावत्सुषुप्तै कर्मदोषस्याकार्यकरत्वेनासम्बद्धप्रायत्वस्योपपादितत्वाच्च । नच तर्ह्यापृथक्सिद्धतया ब्रह्मात्मकत्वेनैव विषयाणामुपलम्भोऽस्त्विति शङ्क्यम् । एतं ब्रह्मलोकं न विन्दत्यनृतेन हि प्रत्यूढा इति छान्दोग्योक्तरीत्या अनृतशब्दितकर्मविशेषेण जीवधर्मभूतज्ञानस्य तिरोहिततया ब्रह्मण उपलम्भासम्भवेन ब्रह्मात्मकतयाप्युपलम्भासम्भवाद् ब्रह्मात्मकत्वाब्रह्मात्मकत्वोभयबहिर्भूत पदार्थस्याभावादिति भावः ॥ सलिल एको द्रष्टाऽद्वैतो भवति एष ब्रह्मलोकः सम्राडिति हैनमनुशशास याज्ञवल्क्यः ॥ यथा जले जलं प्रक्षिप्तमेकं भवत्येवं सलिलवत्स्वच्छस्वभावे परमात्मनि लीनो यं द्रष्टा जीवः प्राज्ञात्मपरिष्वङ्गवशेनैकीभूतः सन्नद्वैतो भवति । देवादिलक्षण भेदकाकार शून्योभवतीत्येष ब्रह्मलोक एष सुषुप्त्याधारभूतपरमात्मा ह सम्राडिति याज्ञवल्क्योऽनुशिष्ट वानित्यर्थः । ननु कथं सुषुप्त्याधारस्य ब्रह्मलोकत्वं ब्रह्मलोको हि परमगतित्वादिना श्रूयत इत्यत्राह ॥ एषास्य परमागतिः ॥ जीवस्यार्चिरादिगत्या प्राप्यागतिरेषैव ॥ एषास्य परमा सम्पत् ॥ तत्त्वज्ञानादिना प्राप्यापि सम्पदेषैव ॥ एषोऽस्य परमो लोकः ॥ शाश्वतं भोगस्थानमप्येष एव ॥ एषोऽस्य परम आनन्दः ॥ निरतिशयानुकूलोप्यस्यायमेवेत्यर्थः । ननु स्वर्गादिषु भोगेष्वनुकूलेषु जाग्रत्सु कथमेतस्य परमानन्दत्वमित्यत्राह ॥ एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ स्वर्गादिवैषयिकसुखानुभवितारः सर्वेऽप्येतदानन्दसहस्रांशानुभवितार इत्याह । एतस्य परलोकसञ्चरणप्रकारमाह ॥ तद्यथा नस्सुसमाहितमुत्सर्जद्यायादेवमेवायँ शारीर आत्मा प्राज्ञेनात्म नान्वारूढ उत्सर्जन्या (द्या) ति ॥ यथा अनश्शकटं सुतरां समाहितं यात्रोपकरणसम्भाराक्रान्तं सत्पूर्वदेशमुत्सृज्य याति । एवमेव शकटस्थानीयो जीवः प्राज्ञेन परमात्मना सारथिस्थानीयेन सम्बन्धविशेषं प्राप्तः शरीरमुत्सृज्य याति । कदेत्यत्राह ॥ यत्रैतदूर्ध्वोच्छ्वासि भवति ॥ यदा एतच्छरीरमूर्ध्वोच्छ्वासि भवतीत्यर्थः ॥ तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्त्येवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासि भवति ॥ यथा जिगमिषुं राजानं तदुपजीविनः सर्वे तदाज्ञामन्तरेणाभिमुख्येनायान्ति । एवमेवेममात्मानं भोक्तारमूर्ध्वश्वासकाले सर्वे प्राणा आत्मनः समीपमायान्तीत्यर्थः ॥ स एतास्तेजोमात्रास्समभ्याददानो हृदयमेवान्ववक्रामति ॥ स आत्मा तेजोमय्यो मात्रास्तेजोमात्राः प्रकाशकांशा इत्यर्थः । इन्द्रियाणीति यावत् । ता एताः समभ््याददानः समिति स्वप्नापेक्षया वैषम्यमुच्यते । अस्त्येव स्वप्ने अभ्यादानं न तु सम्यक् । सवासनमभ्यादायेत्यर्थः । हृदयमेव पुण्डरीकाकारमन्वाक्रामति अन्वागछति ॥ तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्रो वा अन्येभ्यो वा शरीरदेशेभ्यः ॥ तस्य हैतस्य म्रियमाणस्य सम्बन्धि यत् हृदयस्याग्रं नाडीमुखान्निर्गमनद्वारं प्रद्योतते उपसंहृतकरणतेजः प्रज्वलितं सत् प्रदीप्तं भवति । तत्प्रकाशितद्वारः सन्नेष आत्मा निष्क्रामति चक्षुरादिद्वारेभ्यः ॥ तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तम्ं सर्वे प्राणा अनूक्रामन्ति ॥ उक्रामन्तमध्यक्षं जीवं मुख्यप्राणोऽनूक्रामति तं मुख्यप्राणं जीवं तदघीना इतरे प्राणा अनूत्क्रामन्तीत्यर्थः ॥ स विज्ञानो भवति स विज्ञानमेवान्ववक्रामति ॥ तस्यान्दशायमुत्क्रामन् जीवः यं यं वापि स्मरन्नित्युक्तन्यायेन प्राप्तव्ययोनिविषयक स्मृतिमान्भवतीत्यर्थः । तच्च ज्ञानं कर्माधीनन्न तु पुरुषयत्नसाध्यम् । यं योगिनः प्राण वियोगकाले यत्नेन चित्ते विनिवेशयन्तीत्युक्तरीत्या योगिनामेव हि चरमं ज्ञानं यत्नसाध्यम् । एवं सविज्ञानमेव पुरुष म्प्राणवर्गोऽनुगच्छतीत्यर्थः ॥ तं विद्याकर्मणी समन्वारभेते पूर्वपज्ञा च ॥ तं तादृशं च पुरुषं संसरन्तं विद्याकर्म पूर्ववासना चानुवर्त्तते । नहि पूर्ववासनां विनाकश्चित्कर्त्तुं भोक्तुं वा प्रभवति । नह्यनभ्यस्ते विषये कौशलमिन्द्रियाणां भवति । पूर्वानुभववासनयाप्रवृत्तानामिद्रियाणामिहजन्मन्यभ्यासमन्तरेणैव कासुचित्क्रियासुचित्रकर्मादिलक्षणासु कौशलं दृश्यते । केषाञ्चिच्चात्यन्तसौकर्ययुक्तास्वपि क्रियास्वकौशलं दृश्यते । तदेतत्सर्वं पूर्ववासनोद्भवानुभवनिमित्तकम् । तस्माद्विद्या कर्मपूर्ववासना लक्षणमेतत्रियं शाकटिकसम्भारस्थानीयं परलोकपाथेयमित्यर्थः ॥ तद्यथा तृणजलूका तृणस्यान्तं गत्वान्यमाक्रममाक्रम्यात्मानमुप सँहरत्येव मेवायमात्मेदँ शरीरं निहत्या विद्यां गमयित्वान्यमाक्रममाक्रम्यात्मानमुप सँहरति ॥ यथा तृणजलूका तृणस्याग्रभागं गत्वान्यं तृणान्तरलक्षणम् । आक्रम्यते इत्याक्रमः आश्रय इति यावत् । तमाश्रित्यात्मनोऽपरावयवमुपसंहरति । एवमेवायं संसरन् जीवः प्राक्तनं शरीरं निहत्य । तस्यैव विवरणम् । अविद्यां गमयित्वा निःसम्बोधतामापाद्य । अन्यं शरीर लक्षणमा क्रममाक्रम्य स्वात्मानं पूर्वस्माच्छरीरादुपसंहरति । ननु देहान्तरारम्भे प्रागुपात्तमेवोपादानं स्वीकृत्य तदेवोपमृद्य स्वर्णकारवद्देहान्तरं करोति । आहोस्विदपूर्वमेवोपादानद्रव्यं स्वीकरोति तत्राह ॥ तद्यथा पेशस्कारी पेशसोमात्रामुपादायान्यन्नवतरं कल्याणतरँ रूपं कुरुते एवमेवायमात्मेदँ शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते-पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ पेशः सुवर्णं तत्करोतीति पेशस्कारी सुवर्णकारः पेशसः सुवर्णस्य मात्रामेकदेशमुपादाय यथान्यत्कल्याणतरं रूपं कुरुते । यद्वा पेशस्कारी कोशकारकृमिः स यथा पेशसः पट्टतन्तोः मात्रामंशमुपादाय नवतरं कल्याणतरं जालं कुरुते । एवमेवायमात्मा इदं शरीरं निहत्यान्यद्रूपं कुरुते पित्र्यं वा गान्धर्वं वा । पित्र्यं पितृभ्यो हितं पितृलोकोपभोगोपयोग्यमित्यर्थः । तथा गान्धर्वं दैवं प्राजापत्यं ब्राह्मम् । गन्धर्वादिलोकोपभोगयोग्यमित्यर्थः । अन्येषां वा भूतानां सम्बन्धिशरीरं करोतीत्यर्थः । कर्तृत्वं चास्य कर्मद्वारकं द्रष्टव्यम् ॥ प्राप्यान्तं कर्म्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे ॥ इति तु कामयमानः ॥ इह लोके फलमुद्दिश्य यत्किञ्चित्कर्मकरोति तस्य कर्मणोन्तं भोगेनावसानं प्राप्य कृत्स्नफलं भुक्त्वेति यावत् । तस्माल्लोकादस्मै लोकाय पुनरेति-किमर्थमित्यत्राह । कर्मण इति । कर्मकर्तु मित्यर्थः । इति तु कामयमानः । एवं कामयमानः संसरतीत्यर्थः । एवमविद्वद्विषयं संसारं सप्रपञ्चमुपवर्ण्य विदुषस्तद्वैलक्षण्यं दर्शयति ॥ अथाकामयमानः योऽकामो निष्काम आप्तकाम आत्मकामः न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति ॥ अथ शब्द अर्थान्तरपरिग्रहे । अकामयमानः -वीतराग अत्र उच्यत इति शेषः । यः अकामः कामशून्यः । कथं कामशून्यतेत्यत्राह । निष्काम इति । निर्गताः कामाः यस्मात्स तथोक्तः। पूर्वस्थितानां कामानां निर्गतत्वादकामत्वमुपपद्यत इति भावः । उत्तरकामानां सत्त्वेनिवृत्तपूर्वकामस्यापि कथमकामत्वमित्यत्राह - आप्तकाम इति । आप्तः कामो येनसः तथोक्तः । कथमाप्तकामत्वमित्यत्राह - आत्मकाम इति । आत्मैव कामो यस्य सःतथोक्तः । आत्मव्यति रिक्तस्य काम्यस्य वस्तुनः अभावात् आत्मरूपकाम्यस्य नित्यसिद्धत्वादाप्तकामत्वम् । अत एवाकामत्वं चेत्यर्थः । एतादृशस्तु ब्रह्मैव सन् ब्रह्माप्येतीति योजना । ब्रह्मैव सन् आविर्भूत गुणाष्टकरूपब्राह्मस्वरूपः सन् परब्रह्मणि लीनो भवति । अपि पूर्वस्य एतेर्लयार्थकत्वात् । लयो नाम तद्विविक्ततया दर्शनाभावः । अपहतपाप्मत्वादिब्राह्मरूपसाधर्म्येण परब्रह्म विविक्ततया दर्शनायोग्यो भवतीत्यर्थः । नन्वेतन्न सम्भवति । ब्राह्मरूपाविर्भावो हि परब्रह्मो पासीनस्यैव भवति । परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति श्रवणात् । देशविशेष विशिष्टब्रह्मप्राप्तिश्चदेशविशेषेऽर्चिरादिमार्गगतिमन्तरेण न सम्भवति । तद्गतिश्च भूतसूक्ष्मयुक्त प्राणादियुक्तस्यैव भवति । तद्योगश्च कर्माधीनः । विधूतकर्मणश्चोत्क्रान्तप्राणतया देहेन्द्रियप्राण योगासम्भवेन देशविशेषविशिष्टब्रह्मप्राप्त्यसम्भवात् । ब्राह्म रूपाविर्भावाभावेन ब्रह्मैव सन् ब्रह्माप्येतीति नोपपद्यत इत्याशङ्क्याह ॥ न तस्य प्राणा उत्क्रामन्ति ॥ तस्मादकामत्वाद्युक्तगुणाज्जीवात्प्राणा नोत्क्रामन्तीत्यर्थः । नटस्य श्रृणोतीतिवदपादानलक्षणसम्बन्धे षष्ठी । अत एव समानप्रकरणे माध्यन्दिनशाखायां न तस्मात्प्राणा उत्क्रामन्तीति स्पष्टं पञ्चमी श्रूयते । तदेष श्लोको भवति ॥ तत्तत्र ब्रह्मविदि विषये एष श्लोकः प्रवृत्तो भवतीत्यर्थः । यदा सर्वे प्रमुच्यन्ते कामायेस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ॥ कामा दुर्विषयगोचरमनोरथाः। हृद्गता यदा शान्ता भवन्ति तदनन्तरमेवोपासको मर्त्योऽमृतो भवति । विनष्टाश्लिष्टपूर्वोत्तराधो भवति । अत्र ब्रह्म समश्नुते । अत्रैवोपासनवेलायां ब्रह्मानुभवतीत्यर्थः ॥ आत्मानं चेद्विजानीयादयमस्मीति पुरुषः । किमिच्छन्कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ यद्ययं पुरुषः स्वात्मानमेतादृशोऽहमस्मि देहेन्द्रियमनःप्राणधीविलक्षणः ब्रह्मात्मकोऽहमस्मीति विजानीयात्तदा देहेन्द्रियोपभोग्येषु लोकादिषु स्पृहाया अभावात् स्वबन्धुभूतभार्यापुत्रादेरप्यभावाच्च स्वस्य किं वा फलमिच्छन् वा स्वानुबन्धिनः कस्याभीष्टायवा शरीरमनुसञ्ज्वरेत् शरीरानुबन्धिफलमनुसृत्य कुतस्तप्येतेत्यर्थः । अतोऽसौ कृतकृत्य एवेत्यर्थः । पुनरपि स्तौति । यस्यानुवित्तः प्रतिबुद्ध आत्मा अस्मिन्सदेहे गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकस्स उ लोक एव ॥ गहने विषये अनर्थसङ्कटे अस्मिन्देहे सम्प्रविष्टो मननाभ्यासेनावगतः-प्रतिबुद्धःध्यातश्चेत्यर्थः । स विश्वकृत्स एव लोककर्ता ईश्वरवद्वन्द्य इति यावत् । तत्र हेतुमाह । स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव । लोक आश्रयभूतः सर्वस्य कर्ता य ईश्वरस्तस्यापि स ब्रह्मविल्लोक एव आधार एव । “ज्ञानीत्वात्मैमत’‘मिति भगवतैव गीतत्वाद्भगवतो ज्ञानिनं विना आत्मसत्ताया अभावादिति भावः । उशब्दः प्रसिद्धौ ॥ इहैव सन्तोऽथ विद्मस्तद्वयं नचेदवेदिर्महती विनष्टिः ॥ इहैव वर्तमाना वयं तद्ब्रह्म विद्मःजानीमः । नचेज्जानीमस्तर्ह्यवेदिः । वेदनं वेदिः । “इन्सर्वधा तुभ्य’’ इति इन्प्रत्ययः । नःस्वरार्थः । अवेदिरज्ञानम् । तदेव महती विनष्टिःमहाहानिरित्यर्थः । ज्ञानाज्ञानयोरेव महालाभहानित्वं दर्शयति ॥ य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ स्पष्टोऽर्थः । तज्ज्ञानस्य महाफलत्वमेवाह ॥ यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ यदा भूतभव्येशितारं द्योतमानं सर्वभूतात्मानं पश्यति तदा सर्वस्याप्येकात्मकत्वज्ञानात् सर्ववस्तुषु निन्दा न प्रवर्तत इत्यर्थः ॥ यस्मादर्वाक् संवत्सरो अहोभिः परिवर्तते ॥ यस्माद्भूतभव्येशानात्परमात्मनः अर्वाक् तदन्यविषय एवेति यावत् । कालात्मा संवत्सरः स्वावयवैरहोभिः परिवर्ततो परिच्छेदकत्वेन वर्तते । य आत्मा संवत्सरमासादि लक्षणकालपरिच्छेदातीत इत्यर्थः ॥ तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ ज्योतिषां ज्योतिः प्रकाशकानां प्रकाशकम् । अमृतं कालापरिच्छिन्नम् । आयुःसर्वप्राणिप्राणनहेतुभूतम् । तं ह देवा उपासते । देवोपास्यत्वं तु तस्यैवेत्यर्थः । उक्तं च व्यासार्यैः । “ज्योतिषि भावाच्च’’(ब्र.सू.1.3.32) इति सूत्रे देवा एव ज्योतिरुपासते देवा ज्योतिरेवोपासत इति वावाक्यभङ्गी स्यात् । तत्र न प्रथमः कल्पो युज्यते । मनुष्याणामनधिकार प्रसङ्गात् । तस्माज्ज्योतिरेवोपास्यमित्यर्थः ॥ यस्मिन् पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः । पञ्चजनसञ्ज्ञाः पञ्च आकाशश्च यत्र प्रतिष्ठित इत्यर्थः । अत्राकाशशब्दो भूतान्तरस्याप्युपलक्षकः । पूर्वस्मिन्मन्त्रे ज्योतिषां ज्योतिरितिषष्ठ्यन्तज्योतिः शब्दस्यार्थनिर्णायकसापेक्षत्वात् । पञ्चजनशब्दस्याप्यर्थनिर्णायकान्तरसापेक्षत्वात्पञ्चत्व सङ्ख्यान्वययोग्यानि ज्योतींषीन्द्रियाण्ये वेत्यवसीयन्ते । उक्तं च व्यासार्यैः । श्रुत्यैव पञ्च सङ्ख्ययाविशेषितत्वात् । पञ्चसङ्ख्यज्योतिरन्तर प्रसिद्ध्यभावाच्च परिशेषेणोन्द्रियत्वावगम इति ॥ तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ॥ तादृशमात्मानममृतं ब्रह्मेत्येवं विद्वानन्योप्यमृतो भवतीत्यर्थः । पञ्चजनशब्दनिर्दिष्टानि ज्योतींषि कानीत्यपेक्षायामाह ॥ प्राणस्य प्राणमुत चक्षुषश्चक्षुः उत श्रोत्रस्य श्रोत्रम् । मनसो ये मनो विदुस्ते निश्चिक्युः ब्रह्मपुराणमग्रयम् ॥ प्राणशब्देन स्पर्शनेन्द्रियं गृह्यते । वाय्वाप्यायितत्वात् स्पर्शनेन्द्रियस्य । मुख्यप्राणस्य ज्योतिःशब्देन प्रदर्शनायोगात् । चक्षुषइति चक्षुरिन्न्द्रियं गृह्यते । श्रोत्रस्येति श्रोत्रेन्द्रियम् । मनस इति मनो गृह्यते । समानप्रकरणे माध्यन्दिनशाखायां अन्नस्यान्नमिति पाठादनुक्तमन्यतो ग्राह्यमिति न्यायेन तदपि गृह्यते । सूत्रितं च “ज्योतिषैकेषामसत्यन्ने’’ (ब्र.सू.1.4.13) इति । अन्नशब्देन चान्नसम्बन्धिनोर्घ्राणरसनयोर्ग्रहणम् । अन्नेन घ्राणस्याप्यायितत्वलक्षणः सम्बन्धः । रसनस्यान्नभक्षकतया सम्बन्ध इति द्वयोरपि ग्रहणम् । एतत्सर्वं भाष्यश्रुतप्रकाशिकयोःस्पष्टम् । एतादृशं ये जानन्ति ते पुराणमग्न्यम्परं ब्रह्म निश्चिक्युः । निश्चितवन्त इत्यर्थः । तज्ज्ञाने साधनमाह ॥ मनसैवानुद्रष्टव्यम् ॥ अनुपश्चात् श्रवणमननानन्तरं शुद्धेन मनसैव दर्शनसमानाकारस्मृतिसन्ततिरूपं ध्यानं सम्पाद्यमित्यर्थः । एकस्यात्मनः पञ्चजनाकाशाद्याधारत्वं सम्भवतीति मन्यमानं प्रत्याह ॥ नेह नानास्ति किञ्च न ॥ इह द्रष्टव्ये ब्रह्मणि । नानाशब्दो भावप्रधानः । नानात्वमित्यर्थः । इह यस्मिन्पञ्चपञ्चजना इति पूर्वमन्त्रनिर्दिष्ट आत्मनि किञ्चदिपि नानात्वं नास्ति भेदलेशोऽपि नास्तीत्यर्थः ॥ मृत्योः समृत्युमाप्नोति य इह नानेव पश्यति ॥ इव शब्दोऽल्पार्थः। इहात्मनि निखिलप्रपञ्चाधारत्वासम्भवबुद्ध्याऽल्पमपि ना नात्वं यः पश्यति स संसारात्संसारमाप्नोति । अत्यन्तं संसारमाप्नोतीत्यर्थः ॥ एकधैवानुद्रष्टव्यम् एतदप्रमेयं ध्रुवम् ॥ अप्रमेयमपरिच्छेद्यं सर्वभूतात्मभूतं ब्रह्म एकत्वेनैव द्रष्टव्यमित्यर्थः । व्यासार्यैस्तु । एकधैवानुद्रष्टव्यम् । केषाञ्चित्स्वनिष्ठत्वं ब्रह्मान्यपरतन्त्रत्वं वा न मन्तव्यम् । अपि तु परमात्मपरतन्त्रतयैकरूपमेव द्रष्टव्यमित्यर्थ इत्युक्तम् । नेह नानास्ति किञ्च नेत्यत्रापि अब्रह्मात्मकनानात्वं निषिद्ध्यत इत्यप्युक्तम् । तदप्यविरुद्धमेव । एकार्थपर्यव सायित्वाद्द्वयोरपीति द्रष्टव्यम् ॥ विरजः पर आकाशादज आत्मा महान्ध्रुवः । तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ॥ विरजः रागादिदोषरहितः । आकाशादपि परः कारणभूतः । ध्रुवः स्थिरः । अनाशीत्यर्थः । अजःउत्पत्तिरहितः । एवं भूतो महानात्मा । तादृशमात्मानं धीरः प्रज्ञाशाली विज्ञायश्रवणमननाभ्यां ज्ञात्वा प्रज्ञां निदिध्यासनं कुर्वीतेत्यर्थः । अत्र ब्राह्मणग्रहणं द्विजातेरुपलक्षणम् । यद्वा ब्रह्माधीत इति ब्राह्मणः । अधीतवेद इत्यर्थः ॥ नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तदिति । बहूञ्छब्दान्ब्रह्मगुणानुवर्णनरहितान्नानुध्यायात् न चिन्तयेदित्यर्थः । तत्र प्रयोजनं ब्रह्मविदो नास्तीत्यत्र हेतुमाह तदिति । तत् अब्रह्मगुणवर्णनशब्दानुध्यानादिकं वाचो विग्लापन ङ्ग्लानिसाधनं श्रमजनकमित्यर्थः । इतिर्मन्त्रसमाप्तौ ॥ स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोन्तर्हृदय आकाशस्तस्मिञ्छेते ॥ प्राङ्निर्द्दिष्टः अज आत्मा महान्ध्रुव इति योऽयं निर्दिष्ट आत्मा योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिरिति निर्दिष्टे जीवात्मनि शेते तदन्तरात्मतया वर्तत इत्यर्थः । अत एवोत्तरत्रात्मन्येवात्मानं पश्यतीति वक्ष्यति । अत्र हृद्यन्तरित्यस्य व्याख्यानं य एषोऽन्तर्हृदय इति । ज्योतिरित्यस्य व्याख्यानमाकाश इति । ज्योतिराकाशशब्दयोः प्रकाशकत्वार्थकत्वात् । अतश्चात्राकाशशब्दो जीव पर एव । ननु “कामादीतरत्र तत्र चायतनादिभ्यः’’ (ब्र.सू.3.3.38) इत्यधिकरणे वाजसनेयके तु आकाशे शयानस्य वशित्वादिश्रवणात् परमात्मत्वे सति तदा धाराभिधायिन आकाशशब्दस्य तस्यान्ते सुषिरँ सूक्ष्म मिति हृदयान्तर्गतस्य सुषिरशब्द वाच्याकाशस्याभिधायकत्वमवगम्यत इति भाष्ये श्रुतप्रकाशिकायाञ्चाकाशशब्दस्य भूताकाशपरत्वं समर्थितमिव प्रतीयते । अतस्तद्विरुद्धमिदमिति चेत् मैवम् । दहरोऽस्मिन्नन्तराकाश इति च्छान्दोग्यगताकाशशब्दस्येवपरमात्मपरत्त्वं नास्तीत्यत्र तात्पर्यम् । केचित्तु भाष्यानुरोधादन्तर्हृदये यो भूताकाशस्तत्र विज्ञानमयः महानात्मा शेत इत्येवार्थः । अस्मिन्प्रकरणे प्राज्ञेनात्मना सम्परिष्वक्तः प्राज्ञेनात्मनान्वारूढ इति सुषुप्त्युत्क्रान्त्योर्जीव परमात्मभेद प्रतिपादनेन विज्ञानमयशब्दनिर्दिष्टस्य महतश्च परमात्मनः अभेदासम्भवात् । विज्ञानमयशब्देन तच्छरीरकः परमात्मैवाभिधीयते । महद्भूतमनन्तमपारं विज्ञानघन एवैभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यतीति मैत्रेयी ब्राह्मणोक्तरीत्या विज्ञानमयशब्दस्य"अवस्थितेरिति काशकृत्स्नः’’(ब्र.सू.1.4.22) इति सूत्रोक्तन्यायेनान्तर्यामिपरत्वमित्याहुः । केचित्तु योऽयंविज्ञानमय इत्यत्र कतम आत्मा योऽयं विज्ञानमय इति पूर्वनिर्दिष्टजीवस्य प्रत्यभिज्ञावशेन ग्रहणं न सम्भवति । तस्यमहानज इति महत्त्वाद्यसम्भवात् । अपि तु विज्ञानमय इति साक्षादेव परमात्मनो निर्देश इत्याहुः ॥ तमेव मुमुक्षूपास्यं विशिनष्टि ॥ सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः ॥ सर्वस्य ब्रह्मरुद्रादेर्वशी सर्वो यस्य वशे वर्तते । उक्तं च एतस्य वा अक्षरस्य प्रशासन इति । अतश्च प्रशासनेन धारकत्वलक्षणमात्मत्वमुक्तं भवति । सर्वस्येशान इत्यनेन नियन्तृत्वलक्षणमात्मत्वम् । सर्वस्याधिपतिरिति शेषित्वलक्षणमात्मत्वमुक्तमिति द्रष्टव्यम् । इदं च च्छान्दोग्यदहरविद्यावाक्यप्रतिपन्नसत्यकामत्वादीनामप्युपलक्षणम् । उक्तं च भाष्ये वशित्वादयश्च वाजसनेयके श्रुताः छान्दोग्यश्रुतस्य गुणाष्टकान्यतमभूतस्य सत्यसङ्कल्पत्वस्य विशेषा एवेति सत्यसङ्कल्पत्वसहचारिणां सत्यकामत्वादीनामपहतपाप्मत्वपर्यन्तानां सद्भावमवगमयन्तीति ॥ स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् ॥ साध्वसाधुकर्मकृतोत्कर्षापकर्षशून्यइत्यर्थः ॥ एष सर्वेश्वर एष भूताधिपतिरेषभूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय ॥ सर्वेश्वरःनियन्ता अधिपतिःशेषी भूतपालःरक्षकः एषां सर्वेषां लोकानामसाङ्कर्यायधारकः । सेतुरप्ययमेव । अनेन हीश्वरेण सेतुना अविधृता हि लोकाः निर्मर्यादा भवेयुरिति भावः । अत्र प्रकरणोपक्रमे आत्मैवेदमग्रआसीत्पुरुषविध इति देवताविशेषस्य नारायणस्यैव प्रस्तुतत्वात्तस्यैव सर्वेश्वरत्वादिकथनाद्देवतान्तराणां नात्रावकाश इति द्रष्टव्यम् ॥ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन ॥ ईदृशं परमात्मानं वेदाध्ययनेन यज्ञेन दानेननशनलक्षणेन तपसा च ज्ञातुमिच्छन्ति । आशः अशनं भावे घञ् । अनाशःअनशनं स्वार्थे कः । तच्चानशनं कामानशनात्मकं न तु सर्वात्मनानशनं देहपातप्रसङ्गात् । यद्वा न विद्यते आशा यस्य तदनाशम् । स्वार्थे क प्रत्ययः फलाभिसन्धिविरहितेनेति यावत् । अश्वेन जिगमिषत्यसिना जिघांसतीत्यादावश्वादेः सन्प्रत्ययप्रकृत्यर्थ भूतगमनादिसाधनत्वप्रतिपादनदर्शनात् । इहापि वेदनसाधनत्वमेव प्रतिपाद्यते । नतु विविदिषासाधनत्वम् । यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमित्युत्सर्गः। तथाप्यश्वेन जिगमिषतीत्यादौ सन्नन्त प्रयोगस्थाने प्रकृत्यर्थप्राधान्यस्यैव व्युत्पत्तिसिद्धत्वादत्रापि प्रकृत्यर्थीभूतवेदनासाधनत्वमेव वेदानु वचनादीनां तृतीयया प्रतिपाद्यत इति द्रष्टव्यम् ॥ एतमेव विदित्वा मुनिर्भवति ॥ एतमेवात्मानं विदित्वा मुनिर्मननशीलःयोगी भवति । नान्यमित्यर्थः ॥ एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति ॥ लोक्यत इति लोकः । एतमेव लोकं परमात्मानमिच्छन्तः सन्न्यासिनस्सन्न्यस्यन्तीत्यर्थः । एतमेवेत्यवधारणाल्लोकान्तरेप्सूनां पारिव्राज्ये नाधिकार इति गम्यते । नहि गङ्गाद्वारं प्रतिपित्सुः काशीवासी पूर्वाभिमुखो याति ॥ एतद्धस्मवै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मा ॥ हस्म वै प्रसिद्धौ । एतादृशब्रह्मविदः पूर्वे प्रजां न कामयन्ते किं प्रजया करिष्यामः । प्रजासाध्योऽयंलोकोऽप्यस्माकं परमात्मैव । एतल्लोकसाध्यस्य सुखानुभवस्य परमात्मानु भवाम्बुधिलवकणिकायमानत्वात् । तादृशे परमात्मनि लब्धे एतल्लोकरूपक्षुद्रफलसाधनभूतया प्रजया किङ्करिष्याम इति पूर्वे नाकामयन्तेत्यर्थः ॥ ते हस्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षां चरन्ति या ह्येव पुत्रेषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणा उभे ह्येते एषणे एव भवतः ॥ इदं च कहोलब्राह्मणे व्याख्यातम् । स एष नेतिनेतीत्यात्मा अगृह्यो न हि गृह्यते अशीर्यो हि न शीर्यते असङ्गो न हि सज्जते असितो न व्यथते न रिष्यति ॥ एतदपि प्राग्वयाकृतम् ॥ एतमुहै वैतेन तरत इत्यतः पापमकरवम् । इत्यतः कल्याणमकरवमिति ॥ अतो देहयात्रादिलक्षणाद्धेतोः पापमकार्षं पुण्यमकार्षमिति द्वेचिन्ते एतं ब्रह्मविदं न तरतः न प्राप्तुत इत्यर्थः । तत्र हेतुमाह ॥ इहै व एते तरति नैनं कृताकृते तपतः ॥ यस्माद्वेतोः अस्मिन्नेव लोके वसन्पुण्यपापाञ्चतीर्णवान् । तत्र हेतुः नैनं कृताकृते तपतः । एनं हि ब्रह्मविदं कृताकृते सुकृतदुष्कृते फलसम्बन्धिनं कर्तुं न प्रभवतः । एवंविदि पापङ्कर्म नश्लिष्यत इत्यश्लेषश्रवणादिति भावः ॥ तदेतदृचाभ्युक्तम् ॥ तदेतत्पुण्यपापसन्तरणमभिमुखीकृत्य ऋुचोक्तमित्यर्थः । तामेवर्चं पठति ॥ एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् । तस्यै व स्यात् पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति ॥ ब्रह्मविदः एष महिमा स नित्यः । ब्रह्मज्ञानानन्तरं यावदात्मभावितयानुवर्तत इत्यर्थः । कोऽसौ महिमेत्यत्राह । न वर्द्धते कर्मणा नो कनीयान् । तस्यैव स्यात्पदविदिति । तस्य ब्रह्मणः पदवित् । पद्यत इति पदं स्वरूपम् । ब्रह्मस्वरूपविदिति यावत् । सःपुण्यपापकृतलक्षणकर्म कृतोत्कर्षापकर्षशून्यो भवति । एष महिमा ब्रह्मविद इत्यर्थः । महिमज्ञानस्य फलमाह ॥ तं विदित्वा न लिप्यते कर्मणा पापकेन ॥ तं ब्रह्मविन्महिमानं विदित्वा पापकेन कर्मणा न लिप्यते इत्यर्थः ॥ तस्मादेवं विच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आत्मन्येवात्मानं पश्यति ॥ सर्वात्मानं पश्यति य एवं वित् शास्त्रजन्यज्ञानवान् । शमःअतरिन्द्रियनियमनरूपः । दमः बहिरिन्द्रियनियमनरूपः । उपरतिःनिषिद्धकाम्यादिषु कर्मसूपरतिः । तितिक्षा क्षमा । समाहितः समाहितचित्त इत्यर्थः । एवंरूपः सन्नात्मनि जीवात्मनि परमात्मानं तदन्तर्यामिणं पश्येदित्यर्थः । भाष्यादिषु कोशेष्वात्मन्येवात्मानं पश्येदिति पाठो दृश्यते । अतः पाठद्वैविध्यमत्र द्रष्टव्यम् ॥ किञ्च-सर्वमात्मानं पश्यति ॥ आत्मानं परमात्मानं सर्वशरीरकं च पश्येदित्यर्थः ॥