23 अपशूद्राधिकरणम्

22.अपशूद्राधिकरणंशुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि (ब्र.सू.1.3.33)छान्दोग्ये चतुर्थाध्यायारम्भे ॥ जानश्रुतिर्हि पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस ॥ जनश्रुतस्या (तेर) पत्यं जानश्रुतिः । ह शब्दः प्रसिद्धौ । पुत्रसञ्ज्ञस्य पुत्रःपौत्रः । तस्यापत्यं पौत्रायणः । श्रद्धापुरःसरं देयमस्य सः श्रद्धादेयः । अर्थिभ्यो बहुदातुं शीलमस्य स बहुदायी । बह्वस्य गेहेऽन्नं पक्तव्य स बहुपाक्यः आस॥ स ह सर्वत आवसथान्मापयाञ्चक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ स ह जानश्रुतिः सर्वत एत्यातिथयो ममान्नं भोक्ष्यन्त इत्यभिप्रायेण सर्वासु दिक्षु ग्रामनगरमार्गारण्यादिषु पान्थानामनाथानां शीतवातवर्षातपनिवारकान्नोदकशयनाच्छादनादि पूर्णाः शालाः कारितवानित्यर्थः ॥ अथ ह हँसा निशायामतिपेतुः ॥ एवं सति कस्यां चिद्रात्रौ केचन महात्मानोऽन्नदानादिगुणैस्तोषिताः हंसस्वरूपाः सन्तो राज्ञो दर्शनगोचरे आगताः ॥ तद्धैवं हँसो हँसमभ्युवाद ॥ तत्तस्मिन्काले तेषां हंसानां मध्ये एकः पृष्ठतो गछन्हंसः अग्नेगामिनं कञ्चनहंसमुवाच ॥ भो भो हि भल्लाक्ष भल्लाक्ष । जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिरा ततं तन्माप्रसाङ्क्षीस्तत्त्वा मा प्रधाक्षीदिति ॥ भो भो इति सम्बोध्य भल्लाक्ष भल्लाक्षेत्यनेन विपरीतलक्षणायां मन्दलोचनेति सम्भ्रमेण द्विवारं सम्बोधनम् । समं दिवा स्वर्गेण समं दिवसेन समं वा । एतस्य तेजः प्रसृतम् । तस्मिंस्तेजसि मा सक्तो भूः । तत्तेजस्त्वां मा दहेत् ॥ तमु ह परः प्रत्युवाच ॥ एतज्जानश्रुतेः प्रशंसारूपं वाक्यमुपश्रुत्य तदसहमानः परो हंसःप्रत्युवाच ॥ कम्वर एनमेतत्सन्तँ सयुग्वानमिव रैक्वमात्थेति ॥ उ इत्यनर्थको निपातः । कं सन्तं केन माहात्म्येन युक्तमेनं जानश्रुतिं सशकटं रैक्वमिवैतत्प्रशंसावचनं ब्रवीषि । रैक्व एव ब्रह्मज्ञो महाप्रभावः । अब्रह्मज्ञस्यास्य किं तेजः किं वा मां दहेदिति भावः । एवमुक्तः पश्चात्पतन् हंसः पृछति ॥ यो नु कथं सयुग्वा रैक्व इति ॥ य उक्तः स किम्प्रकारक इत्यर्थः । इतर आह ॥ यथा कृताय विजिताय अधरेऽयास्संयन्त्येवमेनँ सर्वं तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति ॥ यथा लोके कृतनामा अयःद्यूतसमयप्रसिद्धश्चतुरङ्कायः । तत्र विजितं जयो यस्य सः कृताय विजितः पुरुषः अथवा विजितं विजयः तस्मा इत्यर्थः । तदर्थमितरे त्रिद्व्योकाङ्काः अधरे न्यूनाः अयाः संयन्ति सङ्गच्छन्ते अन्तर्भवन्ति । चतुरङ्के कृताये एकाकं द्यङ्कं त्र्यङ्कानां शतं सहस्रे सम्भवतीति न्यायेन विद्यमानत्वात् तत्रान्तर्भवति । कृताङ्कविजयिनः एकाङ्कादि जयोप्यस्तीति भावः । एवमेव हि लोके प्रजायच्छोभनं कर्मानुतिष्ठन्तितत्सर्वमेनङ्कृतायस्थानीयरैक्वमभिसमेतिसङ्गच्छते । तत्कर्मणिसकलंशोभनकर्मान्तर्गतमितियावत्। यस्तद्वेद यत्स वेद ॥ स रैक्वः यद्वेद तदेवान्योऽपि । यःकश्चिद्वेद तज्ज्ञातमेवान्ये जानन्ति । तज्ज्ञाने सर्वज्ञानमन्तर्गतमित्यर्थः ॥ स मयैतदुक्तः ॥ स तादृशो रैक्वो मयैतेन सयुग्वानमिव रैक्वमात्थेत्यनेनोक्त इत्यर्थः । वेदान्ताचार्यैस्तत्त्वटीकायामस्यार्थस्य प्रतिपादितत्वात् । उक्तं च भगवता भाष्यकृता लोके यत्किञ्चित्साध्वनुष्ठितं कर्म यच्च सर्वचेतनगतं विज्ञानं तदुभयं यदीयज्ञानकर्मान्तर्गतं स रैक्वइत्याहेति । यद्यपि व्यासार्यैर्लघुसिद्धान्ते “आवृत्तिरसकृदुपदेशात्’’ (ब्र.सू.4.1.1) इत्यत्र च यस्तद्वेद यो वदिता यत्स वेद यद्वेद्यं स मयैतदुक्तः । स वेदिता रैक्वस्तद्वेद्यं ब्रह्म चोभयं मयोक्तमित्यर्थ इत्युक्तम् । तदप्येतत्परमेव द्रष्टव्यम् । न तु प्रतीयमानार्थपरम् । यस्तद्वेद यत्स वेदेति वाक्यात्प्राचीने यथाकृताय विजितायाथरेयाःसंयन्ति एवमेनं सर्वं तदभिसमेति यत्किञ्च प्रजाः साधुकुर्वन्तीति वाक्ये ब्रह्मप्रसक्तेरेवाभावेन वेदिता वेद्यं च तवोपदिष्टमित्यर्थस्यासम्भवेन यस्तद्वेद यत्सवेदेति वाक्येन प्रतिपादनासम्भवाद्भाष्यविरोधाच्चेति द्रष्टव्यम् ॥ तदु हजानश्रुतिः पौत्रायण उपशुश्राव ॥ तद्ब्रह्मज्ञानरहिततयाऽऽत्मनिन्दागर्भं तद्वत्तया च रैक्वप्रशंसारूपं वाक्यं शुश्राव ॥ स ह सञ्जिहान एव क्षत्तारमुवाच ॥ स ह कथमपि निशामतिवाह्य तल्पं त्यजन्नेव क्षत्तारमुक्तवान् । “वैश्याद्ब्राह्मणकन्यायां क्षत्तानाम प्रजायते । जीविकावृत्तिरेतस्य राजान्तःपुररक्षणम्’’ इत्युक्तरीत्या राजान्तः पुररक्षकः प्रतिलोमजातिविशेषःक्षत्ता ॥ अङ्गारे ह सयुग्वानमिव रैक्वमात्थेति ॥ योऽनु कथं स युग्वा रैक्व इति यथाकृताय विजितायाधरेयाःसंयन्ति । एवमेनँ सर्वं तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैदुक्त इति ॥ अङ्ग वत्सेति क्षत्तारं राजा सम्बोध्य रात्रावेवं हंसयोः सल्लापः समजनि इति रैक्वस्य चिह्नमुक्तवानित्यर्थः ॥ स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय ॥ सचक्षत्ताशकटलक्षणरैक्वचिह्नंस्मरन्ग्रामनगरादिकमन्विष्यनाज्ञासिषमितिप्रत्यागतवान् ॥ तँ होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमृच्छेति ॥ ब्राह्मणस्य ब्रह्मविदो यत्र विविक्तेषु नदीपुलिनारामादिषु मार्गणं युक्तं तत्र गत्वा मार्गणं कुर्वित्युवाचेत्यर्थः ॥ सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश ॥ विजने कस्मिंश्चिद्देशे शकटस्याधस्तात्पामानं कण्डूयमानं रैक्वमेत्य दृष्ट्वा समीपे गत्वा विनयेनोपविष्टवान् ॥ तँ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यहं ह्यरा 3 इति ह प्रतिजज्ञे स ह क्षत्ताऽविदमिति प्रत्येयाथ ॥ हे भगवस्त्वं वा रैक्व इति पृष्टो रैक्वोऽहमेवेति प्रत्युवाच । तच्छ्रुत्वाऽऽज्ञासिषमिति प्रत्यागतः ॥ तदु ह जानश्रुतिः पौत्रायणः षट्छतानि गवां निष्कमश्चतरीरथं तदादाय प्रतिचक्रमे ॥ ततो जानश्रुतिः गवां षट्छतानि निष्कं कण्ठाभरणम् । अश्वतरीयुक्तं रथन्तदादाय गृहीत्वा रैक्वं प्रतिगतवान् ॥ तँ हाभ्युवाद रैक्वेमानि षट्छतानि गवामयं निष्कोयमश्वतरीरथोऽनु म एतां भगवो देवताँ शाधि यां देवतामुपास्से इति ॥ हे रैक्व एतत्सर्वमानीतं तद्बृहण । त्वं यां देवतामुपास्से तां देवतां मे अनुशाधि विविच्य ज्ञापयेति प्रार्थयामास ॥ तमुह परः प्रत्युवाचाह हारे त्वा शूद्र तवैव सह गोभिरस्त्विति ॥ अह इत्याश्चर्ये । स्वयोगमहिमविदितलोकत्रयो जानश्रुतेर्ब्रह्मज्ञान विधुरता निमित्तानादर गर्भहंसवाक्यश्रवणेन शोकाविष्टतां तदनन्तरमेव ब्रह्मजिज्ञासयोद्योगं च विदित्वाऽस्य ब्रह्मविद्यायोग्यतामभिज्ञायसत्यामपि योग्यतायां चिरकालसेवां विनाऽर्थप्रदानेन शुश्रूष माणस्यास्य यावच्छक्ति प्रदानेन ब्रह्मविद्याप्रतिष्ठिताभवतीति मत्वा तमनुगृह्णन्तस्य शोकाविष्टतामुपदेशयोग्यताख्यापिवां ब्रह्मजिज्ञासादार्ढ्यसिद्ध्यर्थं स्वयोगमहिम साक्षात्कृत सकलवृत्तान्तत्वलक्षण स्वमहिमानं च शोचितृत्वप्रवृत्तिनिमित्तशूद्रशब्दमन्त्रणेन ख्यापयन् हारसहितरथः तवैव गोभिः सहास्तु । कलत्रहीनस्य ग्रामगृहादिशून्यस्य ममगोरथादिरक्षणेका शक्तिः, मत्प्रयोजनापर्यवसाय्यल्पधनदानेन कथं तव ब्रह्मविद्या प्रतिष्ठिता भवेदित्युवाचेत्यर्थः । स्फायितं चि0। 2। 170॥ इत्यादिना रक्प्रकरणपठितेन “शुचेर्दश्च ’’ (उण.2.176) इत्युणादि सूत्रेण रक्प्रत्यये कृते शुचेश्चकारस्यदकारे अमितम्योर्दीघश्चेति पूर्वसूत्रानुवृत्तेन धातोरुकारस्य दीर्घादेशेन च शूद्रशब्दो निष्पन्नो भवति ॥ तदुह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे तँ हाभ्युवाद रैक्वेदं सहस ्रङ्गवामयं निष्कोऽयमश्वतरीरथ इयं च जाया अयं ग्रामोऽयस्मिन्नास्से अन्वेव मा भगवः शाधीति ॥ तदभिप्रायं जानन् रैक्वस्य परिणयार्थं स्वकन्यामावासार्थं तत्रत्यं ग्रामं चोपहृत्य प्रार्थयामासेत्यर्थः ॥ तस्या ह मुखमुपोद्गृह्णन्नुवाच ॥ तस्य मुखमुपायनरूपोपायमङ्गीकुर्वन्नुक्तवानित्यर्थः ॥ आजहारेमाःशूद्रानेनैव मुखेनालापयिष्यथा इति ॥ इमा दक्षिणा आजहर्थ । अनेनैवोपायेन मां ब्रह्मोपदेशरूपं वाक्यमालापयिष्यसे ब्रह्मविद्योपदेष्टारं करिष्यसीत्यर्थः । “थासःसे इत्येतदभावश्छान्दसः । पुनरपि’’ शूद्रेति सम्बोधनस्य पूर्ववत्प्रयोजनम् । अत्र शूद्रशब्दस्य न रूढ्या वर्णविशेषोर्थः । चतुर्थवर्णस्य ब्रह्मविद्यायामनधिकारादिति द्रष्टव्यम् ॥ ते हैते रैक्वपर्णानाम महावृक्षेषु यत्रास्मा उवास ॥ यत्रग्रामेषु रैक्व उवास तेषु महावृक्षाख्यदेशेषु रैक्वपर्णा इति प्रसिद्धास्तान् ग्रामांश्चास्मै ददावित्यर्थः ॥ स तस्मै होवाच ॥ तत्सर्वं दत्तवते जानश्रुतये रैक्वः स्वोपास्यान्देवतामुपदिदेशेत्यर्थः ॥ वायुर्वाव संवर्गः ॥ संवर्जनं सम्यग्ग्रहणम् । एकीकृत्यग्रहणमित्यर्थः । संवर्गत्वगुणको वायुर्ध्येय इति यावत् । संवर्गत्वमेवोपपादयति ॥ यदा वा अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति यदा आप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान्सर्वान् संवृङ्क्ते इत्यधिदैवतम् ॥ प्रक्रमे हि एनं सर्वं तदभिसमेतीत्यादिब्रह्मविद्याप्रशंसावगमात् वक्ष्यमाणलिङ्गानुपपत्तेश्च वायुशब्देन वायुशरीरकः परमात्मोच्यते । संवंृक्ते एकीकृत्य गृह्णातीत्यर्थः । इत्यधिदैवतम् । एवं देवेषु संवर्गोऽयमित्यर्थः । अध्यात्मं प्राणः संवर्ग इत्याह ॥ अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति ॥ स पुरुषो यस्मिन्काले स्वपितीत्यर्थः ॥ प्राणमेव वागप्येति प्राणं चक्षुः प्राणँ श्रोत्रं प्राणं मनः प्राणो ह्येवै तान्सर्वान्संवृङ्क्ते इति ॥ अत्रापि प्राणशब्दस्तच्छरीरकपरमात्मपरो द्रष्टव्यः । उक्तमर्थमुपसंहरति ॥ तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ स्पष्टोऽर्थः ॥ संवर्गविद्यास्तुत्यर्थमाख्यायिकेयमारभ्यते ॥ अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे ॥ कपिगोत्रं शुनकसुतं कक्षसेनसुतमभिप्रतारिनामानञ्चतौद्वौसूपकारैः परिविष्यमाणौ भोजनायोपविष्टौ कश्चित्संवर्गोपासको ब्रह्मचारी भिक्षितवान् ॥ तस्मा उ ह न ददतुः ॥ अयं ब्रह्मचारी संवर्गविद्यानिष्ठो दुरभिमानी यद्वक्ष्यति तच्छ्रोष्याव इति बुद्ध्या भिक्षां न दत्तवन्तौ ॥ स होवाच ॥ स ब्रह्मचार्युवाच ॥ महात्मनश्चतुरो देव एकः कःसो जगार भुवनस्य गोपाः । तं कापेय नाभिपश्यन्ति मर्त्याः अभिप्रतारिन्बहुधा वसन्तम् ॥ अधिदैवतम् महात्मनः अग्न्यादित्यचन्द्रजलरूपान् अध्यात्मम् वाक्चक्षुश्श्रोत्र मनो रूपान् चतुस्सङ्ख्याकान्देवान्सर्वलोकस्य गोप्ता सः एक एव वायुः प्राणरूपी कःप्रजापतिः जगार संहृतवान् । हे कापेयाभिप्रतारिणौ एवं भूतं प्रजापतिं बहुरूपतया वसन्तं मर्त्या मरणधर्माणः अविद्यामोहिताः सन्तो न जानन्तीत्यर्थः । गोपाः गुपू रक्षणे असुन्प्रत्ययान्तः ॥ यस्मै वा एतदन्नं तस्मा एतन्नदत्तमिति ॥ जगत्सर्वं यस्य संवर्गस्य प्रजापतेरन्नं तस्मै भिक्षमाणाय मह्यमन्नं न दत्तम् । अतः केऽपि न जानन्तीत्युक्तोपासदार्ढ्यायोक्तोपास्यैक्यबुद्ध्या भिक्षमाणाय स्वस्मै अं प्रदानमेव स्वोपास्य देवताया अप्रदानं मत्वा तस्मै एतन्नदत्त मिति तौ निन्दितवानित्यर्थः ॥ तदुह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय ॥ कापेयः शौनकः तत्प्रतिमन्वानः मनसाऽऽलोचयन् तत्समीपं प्रत्यागत्योवाच ॥ आत्मा देवानां जनिता प्रजानाँ हिरण्यदंष्ट्रो बभसोऽनसूरिः । महान्तमस्यमहिमानमाहुरनद्यमानोयदनन्नमत्तीतिवैवयम्ब्रह्मचारिन्नेदमुपास्महेदत्तास्मैभिक्षामिति ॥ देवानां नियन्ता प्रजानामुत्पादकः । कमनीयदंष्ट्रायुक्तः हिरण्यविदारकदंष्ट्रायुक्त इति वा । वभसो भक्षणशीलः । असुरसंहारक इति यावत् । अनसूरिरविपश्चिन्न भवतीत्यनसूरिः । विपश्चिदिति यावत् । अस्य च “श्रीनृसिंहस्य’‘परमात्मनः महिमानं महान्तमाहुः । यत्स्वय मन्यैरनाश्यमानः अनन्नं वागादिकमत्ति नाशयति एवं भूतः परमात्मैव संवर्गः न त्वदुक्तः प्रजापतिरित्यर्थः । अतो वयं न त्वदुक्तप्रजापतिरूपं संवर्गमुपास्महे । अपि तु परमात्मानमेव । अतस्त्वं संवर्गं नयथावज्जानासीत्युक्त्वा तस्मै भिक्षां प्रयच्छतेति परिचारकानाहतुरित्यर्थः । अनेन संवर्गविद्यायाः वायुप्राणशरीरकपरमात्मपरत्वमाविष्कृतं भवतीति ॥ तस्मा उ ह ददुः ॥ तस्मै ब्रह्मचारिणे परिचारका भिक्षां ददुरित्यर्थः । संवर्गविद्यास्तुतये तत्सम्बन्धिपदार्थान् कृतायत्वेन विराट्त्वेनान्नत्वेनान्नादित्वेन च स्तौति ॥ ते वा एते पञ्चान्ये पञ्चान्ये दशसन्तस्तत्कृतम् ॥ अधिदैवतमग्न्यादित्यचन्द्रजलरूपाः पदार्थाः अपियन्त श्चत्वारः । अपीयमानो वायुरेक इति पञ्च । अध्यात्मं वागाद्या अपीयन्त श्चत्वारः । अपीयमानः प्राण एक इति पञ्च । आहत्य दशत्वसङ्ख्यां प्राप्ताः सन्तः कृतायतां भजन्ते । कृतसञ्ज्ञके तस्मिन्नये चतुरङ्काय त्र्यङ्कायद्यङ्कायैकां कायानामनुप्रविष्टतया दशाङ्कत्वमेकस्य द्वयोस्त्रयाणां चतुर्णां च समावेशे दशत्वसङ्ख्या सम्भवादितिभावः ॥ तस्मात्सर्वासु दिक्ष्वन्नमेव दशकृतम् ॥ तस्माद्धेतोः संवर्गविद्योपास्यं दशत्वसङ्ख्यायुक्ततया कृताय रूपं सद् दशसु दिक्षु विद्यमानमन्नमेव भवति । दशाक्षराविराडन्नं विराडिति श्रुतेः ॥ सैषा विराडन्नादी ॥ दशत्वसङ्ख्याश्रयत्वाद्दशाक्षरा विराडिति विराट्छन्दो भवति । अन्नमत्तीत्यन्नादी । कृतसञ्ज्ञिके अये दशसङ्ख्याया भक्ष्यवदन्तर्भूतत्वाद्दशत्वसङ्ख्याया श्चविराट्त्वाद्वि राजश्चान्नत्वाद्द शत्वसङ्ख्यागर्भकृतायस्थानीयसंवर्गविद्योपास्यान्नादित्वमप्यस्तीत्यर्थः ॥ तयेदँ सर्वं दृष्टम् ॥ तया विराजा उपासितया इदं सर्वं दशदिग्वर्तिम्पदार्थजातं दशत्वसङ्ख्यासाम्याद्दृष्टं भवति । उपासितं भवतीत्यर्थः । तदुपासनस्य फलमाह ॥ सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेदय एवं वेद ॥ एतदुपासकस्य सार्वज्ञं ब्रह्मलक्षणान्नानुभवश्च भवतीत्यर्थः । विद्यासमाप्तिद्योतकं द्विर्वचनम् । व्यासार्यैस्तु “छन्दोभिधानान्नेति’’(ब्र.सू.1.1.25) इति सूत्रे अन्नादिति पाठमाश्रित्यान्नं च तदत्ति चेत्यन्नादिति भोक्तृत्वभोग्यत्वाश्रय परमात्मापरतया व्याख्यातम् ॥