- मध्वधिकरणम्मध्वादिष्सम्भवादनधिकारञ्जैमिनिः (ब्र.सू.1.3.30)छान्दोग्ये तृतीयाध्यायारम्भे मधुविद्या प्रस्तूयते ॥ असौ वा आदित्यो देवमधु ॥ वस्वादीनां देवानामामोदहेतुत्वान्मधु । अत्र मधुत्वदृष्टिः कर्तव्येत्यर्थः । मधुत्वोपयोगिनीं दृष्टिं सम्पादयति ॥ तस्य द्यौरेव तिरश्चीनवँशः ॥ तस्यऽऽदित्याख्यमधुनो द्युलोक एवाधारभूतस्तिर्यक्प्रसारितो वंशः ॥ अन्तरिक्षमपूपः ॥ अन्तरिक्षं मध्वपूपः । मध्वाश्रयापूपो हि तिरश्चीनवंशलग्नः सन् लम्बते एवमन्तरिक्षमपि द्युलोकलग्नं लम्बत इव भातीत्यतोमध्वपूपत्वम् ॥ मरीचयः पुत्राः ॥ मरीचिशब्देन मरीचिस्थास्सवित्राकृष्टा भौम्य आप उच्यते । ता पुत्रा इव पुत्राः भ्रमरबीजभूता मध्वपूपच्छिद्रस्थाः सूक्ष्मकीटा इत्यर्थः ॥ तस्यादित्यस्य ये प्राञ्चो रश्मयः ॥ तस्य ये प्राञ्चो रश्मयः ॥ त एवास्य प्राच्यो मधुनाड्यः ॥ ता एव प्राग्दिगवच्छिन्नमधुनाड्यो मधुच्छिद्राणि ॥ ऋुच एव मधुकृतः ॥ ऋुङ्मन्त्रा एव भ्रमराः ॥ ऋुग्वेद एव पुष्पम् ॥ ऋुग्वेदविहितं कर्मपुष्पस्थानीयम् ॥ ता अमृता आपः ॥ ताः कर्मणि प्रयुक्ताः सोमाज्यपयोरूपा आपः । अग्नौ प्रक्षिप्ताः पाकादिभिर्निर्वृत्ता अमृताः अत्यन्तरसवत्यो भवन्ति ॥ ता वा एता ऋुच एतमृग्वेदमभ्यतपन् ॥ ता वा एता ऋुचः भ्रमरस्थानीयाः पुष्पेभ्यो रसमाददाना भ्रमरा इवैतदृग्वेद विहितं कर्मपुष्पस्थानीयमभ्यतपन् अभितापं कृतवत्य इव ॥ तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ यशस्तेज इन्द्रियवीर्यान्नाद्यलक्षणो रसोऽजायतेत्यर्थः । ऋुग्भिर्मत्रैः स्तोत्रशस्त्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं सोमाज्यादिरसं मुञ्चति पुष्पमिव भ्रमरैराचूष्यमाणम् । तेन च यशस्तेज इन्द्रियवीर्यादिलक्षणं फलमुत्पन्नं भवति ॥ तद्व्यक्षरत् ॥ तद्यश आदिलक्षणं फलं विशेषेणागमत् ॥ तदादित्यमभितोऽश्रयत् ॥ गत्वा चादित्यमभितः श्रितवदित्यर्थः ॥ तद्वा एतद्यदेतदादित्यस्य रोहितँ रूपम् ॥ आदित्ये प्रत्यक्षतः परिदृश्यमानं यद्रूपं तत्कर्म निर्वर्त्त्य यशस्तेज आदि लक्षण फलरूपमित्यर्थः । रोहिते रूपे तद्बुद्धिः कर्तव्येति यावत् ॥ अथ येऽस्य दक्षिणारश्मयस्ता एवास्य दक्षिणामधुनाड्यः । यजूंष्येव मधुकृतो यजुर्वेद एवपुष्पं ता अमृता आपः । तानि वा एतानि यजूंष्येतंयजुर्वेदमभ्यतपन् । तस्याभितप्तस्यय शस्तेज इन्द्रियं वीर्यमन्नाद्यं रसो जायत । तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य शुक्लँ रूपम् । अथ येऽस्य प्रत्यञ्चो रश्मयः ता एवास्य प्रतीच्यो मधुनाड्यःसामान्येव मधुकृतःसामवेद एव पुष्पं ता अमृता आपःतानि वा एतानि सामान्येतँ सामवेदमभ्यतपन् । तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसो जायत् । तद्यक्षरत्तदादित्य मभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्यकृष्णंरूपम् । अथ येऽस्योदञ्चोरश्मयः ताएवास्योदीच्यो मधुनाड्यः । अथर्वाङ्गिरसएवमधुकृतः ॥ अथर्वणाङ्गिरसा च दृष्टा अथर्वाङ्गिरसः ॥ इतिहासपुराणं पुष्पम् ॥ इतिहासपुराणविहितकर्मस्वथर्वाङ्गिरसां विनियोगादृग्वेदादिवत् पुष्पत्वोक्तिरिति द्रष्टव्यम् ॥ ता अमृता आपस्ते वा एतेऽथर्वाङ्गिरस एतदितिहासपुराणमभ्यतपन् । तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ रसोऽजायत । तद्व्यक्षरत्तदादित्य मभितोऽश्रयत् तद्वा एतद्यदेतदादित्यस्य परं (रः) कृष्णं रूपम् ॥ अतिशयितं कृष्णंरूपमित्यर्थः ॥ अथ येस्योर्ध्वारश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवदेशामधुकृतः ॥ ब्रह्मविषयकोपनिषद्रहस्योपदेशा इत्यर्थः ॥ ब्रह्मैव पुष्पं ता अमृता आपः । ते वा एते गुह्या आदेशाः एतद्ब्र्रह्माभ्यतपन् । तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ रसोऽजायत । तद्व्यक्षरत्तदा दित्यमभितोऽश्रयत्द्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ समाहितदृष्टिभिर्वीक्ष्यमाणं मध्ये चलतीव स्फुरतीत्यर्थः ॥ ते वा एते रसानाँ रसा वेदा हि रसा स्तेषामेते रसास्तानि वा एतान्यमृताना ममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ लोकसारभूतर्ग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यत्वात् रोहितादिरूपाणामतिरसत्वम् । तथा वेदेभ्योऽपीष्टतत्साध्य (धन) प्रतिपादकतया भोग्यभूततयाऽमृतेभ्यो रोहितादिरूपाणन्तत्प्रतिपाद्यकर्मनिष्पाद्यानामतिभोग्यत्वादमृतादप्यमृतत्वमित्यर्थः । अयमत्रनिर्गलितोऽर्थः । प्रागाद्यूर्ध्वदेशान्तःस्थितरश्मिनाडीतस्तत्तद्वेदोक्तकर्मकुसुमेभ्यस्तत्तद्वैदिकमन्त्रमधुकरैरादित्य मण्डलमानीतानि सोमाज्यपयःप्रभृतिद्रव्यनिष्पन्नानि यशस्तेजोवीर्यमिन्द्रियमित्येवमात्मकानि लोहितं शुक्लं कृष्णं परङ्कृष्णं मध्ये क्षोभत इवेत्युक्तानि रोहितादीनि पञ्चामृतानि आदित्यमध्वाश्रयाणीति । एषां पञ्चानाममृतानां वसुरुद्रादित्यमरुत्साध्यगण भोग्यत्वं तदुपासीनानां वसुत्वादिप्राप्तिपूर्वकब्रह्मप्राप्तिरिति प्रतिपादयति । तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन ॥ अग्निमुखेन वसवो रोहितरूपलक्षणममृतमुपजीवन्तीत्यर्थः । उपजीवनं भक्षणमिति शङ्कां प्रतिषेधति ॥ न वै देवा अश्रान्ति न पिबन्ति ॥ चन्द्रमिवेति भावः । पुनःकथमुपजीवनमित्यत्राह ॥ एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ यशस्तेजआदिलक्षणं रोहितं रूपं सर्वैः करणैरुपलभ्य तृप्यन्तीत्यर्थः । एतदेव रूपमभिसंविशन्ति ॥ एतदेव रूपमभिलक्ष्यानुभूयेति यावत् । संविशन्ति भोगानन्तरमुदासीना भवन्तीत्यर्थः ॥ एतस्माद्रूपादुद्यन्ति ॥ प्राप्ते भोगकाले इति शेषः । सर्वत्रैतस्माद्रूपादिति ल्यब्लोपे पञ्चमी । एतद्रूपानु भवमुद्दिश्योद्यन्ति सोत्साहा भवन्तीत्यर्थः॥ स य एतदेवममृतं वेद ॥ अनेन प्रकारेण वसुतृप्त्याधायकदर्शनगोचरत्वलक्षणवसूपजीव्यत्वादिना रोहितामृतं यो वेद ॥ स वसूनामेवैको भूत्वाग्निनैव मुखेन एतदेवामृतं दृष्ट्वा तृप्यति । स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ तत्क्रतुन्यायेन तदुपासीनेऽपि वसुत्वं प्राप्य तथैव भवतीत्यर्थः कियन्तं कालमित्यत्राह ॥ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ॥ आदित्यस्य प्राच्यां दिश्युदयः प्रतीच्यामस्तमयश्च यावन्तङ्कालमनुवर्तते तावन्तं कालं वसूनां यदाधिपत्यं यदप्रतिहतसङ्कल्पत्वलक्षणं स्वाराज्यं च तत्पर्येता परितोगन्ताऽनुभवतीत्यर्थः ॥ अथ यद्वितीयममृं ततद्रुद्रा उपजीवन्तीन्द्रेण मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्त्येतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति । स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वा इन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एत देवरूपमभिसंविशत्येतस्माद्रूपादुदेति । स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोस्तमेता रुद्राणामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ पुरस्तादुदयपश्चादस्तमयापेक्षयाद्विगुणं कालं दक्षिणत उदयमुत्तरतोऽस्तमयं च कल्पयित्वा श्रुतिर्ब्रवीति नात्र कथन्ता कार्या । शिष्टंस्पष्टम् ॥ अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेनमुखेन नावै देवाअश्नन्ति न पिबन्त्येितदेवामृतं दृष्ट्वा तृप्यन्ति त एतदेवरूपमभि संविशन्त्येतस्माद्रपू द्युद्यन्ति । स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एत देवरूपमभि संविशत्ये तस्माद्रूपादुदेति स यावदादिदित्योदक्षिणत उदेतोत्तरतस्तमेता आदित्याना मेव तावदाधिपत्यं स्वाराज्यं पर्येता । अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वैदेवा अश्नन्ति न पिबन्त्येतदेवाम-तं दृष्ट्वा तृप्यन्ति । त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्टवा तृप्यति सएतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव ता वदाधि पत्यँ स्वाराज्यं पर्येता । अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति । ब्रह्मणा मुखेन नवैदेवा अश्नन्ति न पिबन्त्येतदेवामृतन्दृष्ट्वातृप्यन्ति सएतदेव रूपमभि संविशन्त्येतस्माद्रूपादुद्यन्ति स य एतदेवाममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति । स यावदादित्य उत्तरत उदेता दक्षिणतोस्तमेता द्विस्तावढूर्ध्वउदेता अर्वागस्त मेता साध्यानामेवतावदाधिपत्यंस्वाराज्यम्पर्येता ॥ वसुरुद्रादित्यमरुत्साध्यगणभोग्यरोहितादिपञ्चरूपात्मकपञ्चामृताश्रयदेव मधुत्वरूपितज्योतिर्मण्डलाख्यरूपयुक्तस्योदयास्तमयादिकृत्यविशिष्टस्यादित्यनामकस्यादित्य शरीरककार्यावस्थब्रह्मण उपासनमुपदिश्य नामरूपकृत्यादिरहितकार्यावस्थारहितादित्य जीवशरीरकब्रह्मोपासनं दर्शयति ॥ अथ तत ऊर्ध्व उदेत्यनैवोदेता नास्तमेता ॥ अथ ब्रह्मदिवसरूपस्य कल्पस्य समाप्त्यनन्तरं ततऊर्ध्व उदेत्य उदयास्तमयकृत्यप्राणयनु ग्रहरहित इत्यर्थः । उदायास्त शून्यः ॥ नैवोदेता नास्तमेता एकल एव मध्ये स्थाता ॥ एकस्वभाव एवोदासीनतया वर्तत इत्यर्थः । अत्राह भाष्यकारःकारणावस्थब्रह्मोपासनं विधीयते । असौ वादित्यो देवमध्वित्यारभ्याथ तत ऊर्ध्व उदेत्येत्यतः प्रागादित्यवस्वादिकार्य विशेषावस्थब्रह्मोपासनमुपदिश्यते । अथ तत ऊर्ध्व उदेत्येत्यादिनाऽऽदित्यान्तरात्मतयावस्थितं कारणावस्थमेव ब्रह्मोपदिश्यत इत्युक्तम् । तत्राथ तत ऊर्ध्व उदेत्येत्यस्य मुक्तावस्थादित्यान्तर्यामि ब्रह्मोपासनपरत्वेऽथ शब्दादिस्वारस्यात्कारणा वस्थमिति भाष्यस्याकार्यावस्थं मुक्तावस्थमित्यर्थ एवोचितः । नत्वादित्यभावप्राप्तिपूर्वावस्थम् । व्यासार्यैस्तु भाष्यस्वारस्यमवलम्ब्यादित्यनामरूपभाक्त्वास्थापूर्वभाव्यवस्थैव अथ तत ऊर्ध्व उदेत्येत्यादि सन्दर्भेण प्रतिपाद्यत इति वर्णितम् । तेषामयमाशयः । अथशब्दो न निर्दिष्टानन्तर्यार्थः । अपित्वर्थान्तरप्रस्तावार्थः । अथ तत ऊर्ध्व उदेत्यनैवोदेता नास्तमेता एकल एव मध्येस्थातेत्यस्याप्युदयास्तमयतत्कार्यशून्यत्वमर्थः । तच्चादित्यभावपूर्वावस्थायां कल्पादौ सम्भवतीति ॥ तदेषः श्लोकः ॥ तस्मिन्विषये देवान्प्रति केनचिद्योगिना गीतःश्लोकः ॥ न वै तत्र ननिम्लोचनोदियाय कदाचन । देवास्तेनाहं सत्येन मा विराधिषि ब्रह्मणेति ॥ हे देवास्तस्मिन्नादित्यभावमुक्तिकाले स मुक्तादित्यान्तर्यामिपरमात्मा नास्तमितोनोदितश्चेतनसत्येन ब्रह्मणाऽहं मा विराधिषि विरोधं न गच्च्छामि । अप्राप्तिं न गच्छामीति यावत् ॥ न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा है वास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ य एतां मधुविद्यारूपां ब्रह्मोपनिषदं ब्रह्मविद्यां वेदानुतिष्ठत्यस्मै ब्रह्मविदे आदित्यो नोदेति नास्तमेति । आदित्योदयास्तमयाभ्यां न किञ्चित्तस्य प्रयोजनमित्यर्थः । सकृद्दिवा है वास्मै भवति । अस्मै ब्रह्मविदे सकृद्दिवैव भवति सकृदुदितमहरेवभवति ॥ सदैवाहर्भवतीत्यर्थः । सन्ततं सर्वविषयकसाक्षात्कारोऽस्य भवतीत्यर्थः । मधुविद्यासम्प्रदायमाह ॥ तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः ॥ तद्धैतन्मधुविज्ञानमित्यर्थः ॥ तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ तद्धैतद्ब्रह्म उद्दालकाय पिता प्रोक्तवान् ॥ इदं वा व तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्याय वान्तेवासिने ॥ तस्माद्वेतोः इदं ब्रह्मविज्ञानं ज्येष्ठाय पुत्राय वा ब्रूयात् योग्याय शिष्याय वा प्रब्रूयात् । नान्यस्मै । प्रणाय्योऽसम्मताविति निष्कामार्थे प्रणाय्यशब्दस्य निपातितत्वात् ॥ यद्यप्यस्माइमामद्भिः परिगृहीतां धनस्यपूर्णान्दद्यादेतदेवततो भूयइत्येतदेवततो भूय इति ॥ समुद्रावृतां भोगोपकरणैः पूर्णामिमां पृथिवीं यद्यप्यस्मै आचार्याय दद्यात् । तदपेक्षयाप्येतद्विज्ञानमेवाधिकम् । नैतस्यानुरूपो निष्क्रयोऽस्तीत्यर्थः । द्विरुक्तिर्विद्यासमाप्त्यर्था ॥