- दहराधिकरणम्दहर उत्तरेभ्यः (ब्र.सू. 1.3.13)आकाशोऽर्थान्तरत्वादिव्यपदेशात् (ब्र.सू.1.3.42)न च कार्ये प्रत्यभिसन्धिः (ब्र.सू.4.3.13)कृत्स्नभावात्तु गृहिणोपसंहारः (ब्र.सू.3.4.47)इत्यादिविषयवाक्यार्थज्ञानाय प्रायशश्छान्न्दोग्याष्टमप्रपाठको व्याख्यायते । अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म ॥ विद्यान्तरारम्भदर्शनार्थोऽयमथशब्दः । उपास्यतया सन्निहितस्य परब्रह्मणः स्थानतया नवद्वारवत्त्वादिना च पुरशब्दिते उपासकशरीरे पुण्डरीकाकारमल्पं हृदयाख्यं परस्य ब्रह्मणो वेश्म । दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्य मिति । अस्मिन्वेश्मनि दहरः सूक्ष्मः आकाशः य इति पुल्लिङ्ग यच्छब्दोऽध्याहर्तव्यः । अस्मिन् यो दहराकाशः तस्मिन्यदन्तरित्यत्रान्तः-शब्दोऽन्तरवर्तिपरः । च शब्दश्चाध्याहर्तव्यः । ततश्चायमर्थः अस्मिन् दहरपुण्डरीके यो दहराकाशः तदन्तर्वर्ति च यत् तदुभयं श्रवणमननाभ्याम वगन्तव्यन्ध्यातव्यञ्चेत्यर्थः । तदन्वेष्टव्यमित्यत्रतदितिनपुंसकलिङ्गनिर्देशोलिङ्गसामान्यविवक्षयाद्रष्टव्यः । यद्वा दहरोऽस्मिन्नन्तराकाश इत्यत्र न पुल्लिङ्गो यच्छब्दोऽध्याहर्तव्यः । योऽस्मिन्दहराकाशः तदन्तर्वर्ति च यदिति यच्छब्देनैव “नपुंसकमनपुसङ्केनैकवच्चास्यान्यतरस्याम् (अष्टा.1.2.69) इति कृत नपुंसकैकशेषवद्भावेनैकेनैव नपुंसकलिङ्गयच्छब्देन द्वयोरपि परामर्शसम्भवात् । तदन्वेष्टव्यमिति वाक्ये तच्छब्देऽपि नपुंसकैकशेषसम्भवादेकेनैव तच्छब्देन द्वयोरपि परामर्शः। ततश्चानेन वाक्येन दहराकाशस्तदन्तरवर्तिचान्वेष्टव्यमित्युक्तं भवति । उक्तं च भगवता भाष्यकृता यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्मेत्यनूद्य तस्मिन् दहर पुण्डरीकवेश्मनि यो दहराकाशः यच्च तदन्तर्वर्ति तदुभयमन्वेष्टव्यमिति विधीयत इति । अत्र चाकाशशब्दःआसमन्तात्काशते प्रकाशते इति व्युत्पत्त्या परमात्मपरः । तत्र हेतुरुत्तरत्र वक्ष्यते । न च तदन्तरवर्तिन एवान्वेष्टव्यत्वे प्रतीयमाने दहराकाशस्यान्वेष्टव्यतासिद्ध्यर्थमेतावान् क्लेशः किमर्थमाश्रीयते । किं च “विश्वजित्सर्वपृष्ठोऽतिरात्रो भवती’‘त्यत्रपृष्ठगतसर्वताविध्याक्षिप्तपृष्ठविधिवद्दहराकाशान्तर वर्तित्वेन गुणजातोपासनस्य दहराकाशोपासनमन्तरेणासम्भवेनाक्षेपादेव दहराकाशोपासनस्यापि सिद्धतया यत्तच्छब्दयोर्नपुंसकैकशेषैकवद्भावचशब्दाध्याहारक्लेशानुभवो व्यर्थ इति वाच्यम् । “अथ य इह आत्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्’’ इत्यौपसंहारिकोभयोपासनवचनानु सारेणास्य क्लेशस्यानुभोक्तव्यत्वात् । न च तदेव वाक्यं दहराकाशतदन्तर्वर्ति लक्षणोभयोपासन विधिपरमस्त्विति वाच्यम् । उपक्रमस्थं विस्पष्टतव्य प्रत्यययुक्तं वाक्यं विहायौपसंहारिकस्य विस्पष्टविधिप्रत्ययशून्यस्य यच्छब्दयुक्तस्य विधित्वकल्पनानौचित्यात् । तस्य विधित्व कल्पनायामप्यनुवादरूपस्याप्यस्य वाक्यस्य तदनुसारेणार्थद्वयोपासनपरत्वस्या श्रयणीयतया नपुंसकैकशेषादिक्लेशस्याश्रयणीयत्वात् । इति शब्दो वाक्यसमाप्तौ । अथ वा इतीत्यस्यानन्तर माचार्यो ब्रूयादित्यध्याहारः ॥ तं चेदब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते य दन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति । एवमुक्तवन्तमाचार्यं स्वल्पहृदयमध्यवर्तितयातिस्वल्प आकाशे किं वा वर्तितुमर्हति यदन्वेष्टव्यं स्यादिति दहराकाशशब्दितस्य ब्रह्मत्वं तदन्तर्वर्तितया निर्दिष्टस्य तद्गुणजातत्वं चा जानाना अन्तेवासिनो यदि ब्रूयुरित्यर्थः । किं तदत्र विद्यत इति वाक्यं सर्वान्तरस्य परमात्मनः अन्तर्वर्त्यन्तरासम्भवलक्षणानुपपत्तिगर्भान्तर्वर्तिविशेषप्रश्नपरमिति व्यासार्याणामभिप्राय इति यद्यपि प्रतीयते तथापीदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दह्रोऽस्न्निन्तराकाश इत्येतावन्मात्रं श्रुतवतां शिष्याणां परमात्मत्वविरोधिन्याकाशशब्दे जागरूके दहरत्वान्वेष्टव्यान्तराधारत्वादिविरोधिलिङ्गे च जाग्रति ब्रह्मलिङ्गेषु चानुपन्यस्तेषुपरमात्मनिश्चयस्य तदुपजीव्याक्षेपप्रवृत्तेर्वा सम्भवात् । किं च सर्वान्तरस्य परमात्मनोऽन्तर्वर्त्यसम्भवलक्षणानुपपत्तेरेव शिष्याणां हृदि विपरिवर्तमानत्वे प्रश्नवाक्ये दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश इति दहरपुण्डरीकान्तरवर्तित्वेनाकाशस्य दहरत्वोपन्यासस्य वा प्रतिवचने यावान्वायमाकाश इति वैपुल्योपन्यासस्य वा असङ्गत्यापातात् । व्यासार्याणामप्युक्त एवार्थोऽभिप्रेतः । केचित्तु शरीरस्य ब्रह्मपुरत्वेनोपक्रमादेव तदन्तर्वर्ति आकाशशब्दनिर्दिष्टं म्ब्रह्मेत्यवगत्यैव तदन्तर्वर्तिवस्त्वन्तरासम्भव लक्षणानुपपत्तिमभि प्रयन्त एव अन्तर्वर्तिविशेषं पप्रच्छुरित्यपि सम्भवान्नानुपपत्तिरिति वदन्ति । स ब्रूयाद्यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभेऽस्मिन्द्यावा पृथिवी अन्तरे व समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि ॥ एवमुक्तः स आचार्यः प्रतिब्रूयाद्धृदयपुण्डरीकमध्यवर्त्याकाश शब्दनिर्दिष्टः भूताकाशवद्वि पुलः द्यावापृथिव्यादिशब्दोपलक्षितं भोग्यभोगस्थानभोगोपकरणम् । अग्निसूर्यादिशब्दोपलक्षितो भोक्तृवर्गश्च समाश्रित इत्यर्थः । यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितमिति अस्योपासकस्येह लोके यद्भोग्यजातमस्ति यच्च मनोरथमात्रगोचरमिह नास्ति सर्वं तद्भोग्यजातमस्मिन्दहराकाशे समाहितमित्यर्थः । दहराकाशो निरतिशयभोग्य इति यावत् । भगवता भाष्यकृता यावान् वायमाकाशस्तावानेषोऽन्तर्हृदय आकाश इति दहराकाशस्यातिमहत्तामभिधाय “उभेऽस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ । विद्युन्नक्षत्राणीति प्रकृतमेव दहराकाशमस्मिन्निति निर्दिश्य तस्न्त्सिर्वजगदाधारत्वमभिधाय यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्त्समाहितमिति । पुनरप्यस्मिन्निति तमेव दहराकाशं परामृश्य तस्मिन्नस्योपासकस्येह लोके यद्भोग्यजातमस्ति यच्च मनोरथमात्रगोचरमिह नास्ति सर्वं तद्भोग्यजातमस्मिन्दहराकाशे समाहितमिति निरतिशयभोग्यत्वं दहराकाशस्याभिधेयः’’ इति भाषितम् । न च यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमित्यनेनोपासकभोग्यवस्त्वाधारत्वमात्रं प्रतीयते । न तु दहराकाशस्य निरतिशयभोग्यत्वम् । ततश्च यच्चास्येहास्तीति वाक्येन दहराकाशस्य निरतिशय भोग्यत्वम भिधायेति भाष्यं कथमुपपद्यतामिति वाच्यम् । उपासकस्य ब्रह्मप्राप्त्यैकफलकस्य स्वर्गपश्वादीनां भोग्यत्वाभावात् । “यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहित’‘मित्यनेन दहराकाशस्यनिरतिशयभोग्यत्यमेव प्रतिपाद्यत इति व्यासार्य्यैरुक्तत्वात् । नास्याशङ्काया अवकाश इति द्रष्टव्यम् । केचित्तु “स यदि पितृलोककामो भवतीत्यादिना प्राचीनानेकजन्मसम्बन्धि पित्रादिवर्गदिदृक्षया सङ्कल्पमात्रेण तत्स्रष्ट्टृत्वस्य च प्रतिपादयिष्यमाणत्वात् । सूत्रकृतापि"सङ्कल्पादेवतच्छ्रुतेः’’ (ब्र.सू.4.4.8) इति सूत्रेण तद्वाक्यस्य विवक्षितार्थत्वाविष्करणात् । “यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते । अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्नलभते सर्वं तत्र गत्वा विन्दत’’ इत्यनेन नष्टानां पित्रादीनां मुक्तकामनाविषयत्वप्रतिपादनात् । “प्रत्यक्षोपदेशान्नेति चेन्नाधिकारिकमण्डलस्थोक्तेः ’’ (ब्र.सू.4.4.18) इति सूत्रोक्त न्यायेन ब्रह्मविभूतितया नष्टपित्राद्युनुभवस्य कामनाविषयत्वसम्भवाच्च । अन्यथा “अस्मिन्कामाः समाहिताः एतांश्चसत्यान्कामा’‘नित्यादावपि कामशब्दस्य निरतिशय भोग्यार्थकत्वं को वारयेत् । तथा जक्षन्क्रीडन्नित्यादावपि भोग्यार्थकत्वमेवस्यादिति परोऽपि विजयेत । अतो यथाश्रुतार्थत्वेऽपि न दोषः । भाष्यमपि भोग्याधारत्वफलितभोग्यत्वपरमेवास्त्विति वदन्ति । अत्र भूताकाशतुल्यवैपुल्यप्रतिपादनेन द्यावापृथिव्यादिजगदाश्रयत्वप्रतिपादनेनोपासकं प्रति निरतिशयभोग्यताप्रतिपादनेन च दहराकाशस्य प्रसिद्धाकाशवैलक्षण्य प्रतिपादनात्स्वल्पे दहराकाशे किमपि मातुं न शक्रोतीत्याक्षेपबीजं परिहृतं भवति । तं चेद्ब्रूयुरस्मिंश्चेदिदं ब्रह्मपुरे सर्वं वा समाहितम् । सर्वाणि च भूतानि सर्वे च कामाः । यदेतज्जरावाप्नोति प्रध्वगं्सते वा किं ततोऽतिशिष्यत इति ॥ अल्पत्वरूपमाक्षेपबीजं परिहृत्य किं तत्र विद्यते इति प्रश्नं प्रतिविवक्षत्येव । आचार्ये उक्तेऽर्थे अनुपपत्तिं पश्यन्तः शिष्या यद्याचार्यं ब्रूयुः किमिति ब्रह्मपुरशब्दितं शरीरं द्यावापृथिव्यादिशब्दनिर्दिष्टभोग्यभोगोपकरणभोगस्थानमग्निवाद्यादिशब्दनिर्दिष्टो भोक्तृवर्गश्च यद्याश्रयेयुः । तदा शरीरस्य जरानाशादौ सति द्यावापृथिव्यादिकं किमपि नावशिष्येत तदपि नश्येदित्यर्थः । सर्वे च कामा इत्यस्य “यच्चास्येहास्ती’‘तिवाक्यनिर्दिष्टनिरतिशय भोग्यत्वानु वादित्वात्सर्वे च कामा इत्यस्य निरतिशयभोग्यत्वमर्थ इति व्यासार्यैरुक्तम् । ननु दहराकाशाश्रितत्वस्यैवोक्ततया ब्रह्मपुरशब्दितशरीराश्रितत्वस्यानुक्ततया तज्जरानाशानुविधायिजरानाशवत्त्वस्य दहराकाशाश्रिते द्यावापृथिव्यादौ कथं प्रसक्तिरिति चेदुच्यते । यथा घटाद्यन्तराकाशे निहितस्य दध्यादेर्वस्तुतो घटादिरेव धारकः । आकाशःपरमवकाशात्मनोपकरोत्येवं देहान्तर्वर्तिनि दहराकाशे विद्यमानस्य द्यावापृथिव्यादेः देह एव धारकःदहराकाशस्त्ववकाशात्मनोपकरोति । अस्तु वा दहराकाशस्य घटाकाश वैलक्षण्येन स्वतो धारकत्वम् । तथापि तस्य देहजराप्रध्वंसानुपदभाविजराप्रध्वंसवत्त्वाद्यावद्देहस्य भारधारणानुकूलं बलं तावत्पर्यन्तमेव दहराकाशस्य तद्धारकत्वमिति फलतो देह एव तस्य सर्वस्य धारकः पर्यवस्तीत्याक्षेप्तृणां शिष्याणामभिप्रायः । तत्प्रतिवक्ति ॥ नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरम् ॥ भोग्यभोगस्थानभोगोपकरणभोक्तृवर्गादिशालितया पुरमिव वर्तमानमेतद्दहराख्यं ब्रह्म । न तुघटाकाशादिवत्केवलमवकाशात्मनोपकारकम् । यथा पुरं भोग्यभोगस्थानादीनां स्वत एवाधारभूतं न तु दध्यादीनां घटादिवदाकाशात्मनोपकारकं तथेत्यर्थः । ननु स्वतो धारकत्वेऽपि देहान्तर्वर्तितया तदन्तर्गतहृदयवत्तज्जरानाशानुविधायित्वं स्यादिति शङ्काबीजं परिहरति ॥ एतत्सत्यमिति ॥ सत्यं निर्विकारमित्यर्थः । अत एव देहजरामरणानुविधायि न भवतीत्यर्थः । यद्वा “अथ यत्तत्सत्तदमृत’‘मित्यस्मिन्प्रकरणे वक्ष्यमाणसत्यशब्दनिर्वचनरीत्या चेतनाचेतननियामकत्वं सत्यत्वम् । यथाकथञ्चिद्घटादिविलक्षणधारक इत्यर्थः । केचित्त्व"स्मिंश्चेदिदं ब्रह्मपुर’’ इत्यत्र ब्रह्मपुरशब्देन ब्रह्मरूपपुरत्वाद्दहराकाश एवोच्यते । “यदेतज्जरावाप्नोती’‘त्येव पाठः । तत्र चैतस्य शरीरस्य जरा एतज्जरा यदा दहराकाशं प्राप्नोति तद्धंसेन ध्वंसते वा तदा द्यावापृथिव्यादिकं नावशिष्येत इत्येवार्थः । न तु ब्रह्मपुरशब्देन शरीरपरामर्शमभिप्रेत्य तदनुगुणो दृशाभिप्रायपरिकल्पनाक्लेशोऽनुसर्तव्य इति वदन्ति । एवं मध्ये प्रसक्तमाक्षेपं परिहृत्य किं तदत्र विद्यत इत्यन्तर्वर्तिविशेषजिज्ञासां शमयति ॥ अस्मिन्कामास्समाहिताः ॥ काम्यन्त इति कामाः कल्याणगुणाः ॥ को दहराकाशः स च कैः कामैर्विशिष्ट इत्याकाङ्क्षायामाह ॥ एष आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको(ऽ) विजिघत्सोऽपि पासस्सत्य कामस्सत्यसङ्कल्पः ॥ उक्तं च भगवता भाष्यकृता दहराकाशस्य काम्यभूतकल्याणगुणविशिष्टत्वं तस्यात्मत्वं च । “एष आत्मा अपहतपाप्मेत्यादिना सत्यसङ्कल्पः’’ इत्यन्तेन स्फुटीकृत्येति । पापजरा मरणशोकबुभुक्षापिपासावर्जितः सत्यकामस्सत्यसङ्कल्पश्चेत्यर्थः । परमात्मप्रकरणेषु पाप्मशब्दः सुकृतदुष्कृतसाधारणः । “न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते’’ इति सुकृतेऽपि पापशब्दप्रयोगात् । “एते वै निरयास्तातस्थानस्य परमात्मनः’’ इति स्वर्गादीनामपि मुमुक्षोरनिष्टत्वेन स्वर्गादिसाधनकर्मणां मुमुक्षून्प्रत्यनिष्टसाधनत्वेना"लौकिकत्वेसत्यनिष्टसाधनत्व’‘लक्षणपापशब्दप्रवृत्तिनिमित्तस्य क्रोडीकृतत्वेन पापशब्दवाच्यत्वावश्यम्भावात् । अपहतपाप्मत्वं च न ध्वस्तपाप्मत्वम् । “नैनं सेतुमहोरात्रे तरतो न सुकृतं दुष्कृत’‘मिति सुकृतदुष्कृतप्राप्त्यभावश्रवणात् । तरतेः प्राप्ति वचनत्वात् । तस्मादपहतपाप्मत्वमश्लिष्टपाप्मत्वमित्यर्थः । अतकर्माश्लेषस्य सर्वसाधारणत्वात्कृतेऽपिकर्मणि तत्फलाश्लेष उच्यते । अत ईश्वरेण कृतानि पुण्यपापजातीयानि कर्माणि न शुभाशुभफलजननशक्तानीत्यर्थः । कृतेऽपि पापे तत्फलजननशक्तिप्रतिभटत्वलक्षणः कश्चिदीश्वरस्य स्वभावविशेषोऽपहतपाप्मत्वम् । परिशुद्धात्मविषयस्यापहतपाप्मत्वस्यायमेवार्थः । स तु तस्य तिरोधानार्हः प्रतिबन्धक निवृत्तावाविर्भवति । ईश्वरस्यतु तिरोधानानर्हो नित्याविर्भूत इति विशेष इति व्यासार्यैः “अन्तस्तद्धर्मोपदेशात्’’ (ब्र.सू.1.1.21) इत्यधिकरणे वर्णितः । अत्र सत्यकामशब्दो न कामनायाः सत्यत्वपरः । अमोधाशयत्वस्य सत्यसङ्कल्पशब्देन सिद्धत्वात् । नापि काम्यन्त इति व्युत्पत्त्या गुणमात्रपरः । कतिपयगुणान्तराणां पृथगुक्तेः । अतो भोग्यभोगोपकरण भोगस्थानरूपा नित्याः कामा अस्य सन्तीत्युच्यते ॥ “तदक्षरे परमे व्योमन्नि’‘त्युक्तरीत्या नित्यविभूतिविशिष्टत्वं सत्यकामशब्दार्थ इति व्यासार्यैरुक्तम् । वेदार्थसङ्ग्रहे भाष्यकृताप्युक्तं “सत्यसङ्कल्पःअप्रतितसङ्कल्पः’’ इति । यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनम् । यं यमन्तमभिकामा भवन्ति । यं यमन्तं यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ इह लोके प्रजा यथानुशासनं राजशासनाननुल्लङ्घनेन राजानमन्वाविशन्ति अनुसरन्तीत्यर्थः ॥ अनुसृत्य किं कुर्वन्तीत्यत्राह । यं यमन्तमभिकामा भवन्ति । कर्मणः फलापवर्गि कत्वात्फलमेव कर्मणोऽन्तः । यं यमन्तं यद्यत्फलमभिकामा अभ्यर्थिनो भवन्ति जनपदं क्षेत्रादिकं तत्तत्फलं यथानुशासनमेवोपजीवन्ति । राजशासनानुरोधेनैवेह लोकेयथोपजीवन्ति तथा परलोकेऽपि परतन्त्रा भवन्तीति भावः । यद्वा यं यमन्तमभिकामा भवन्ति तमिह लोके यथा प्रजा अन्वाविशन्ति राजानमनुसृत्य लभन्ते तथा परलोकेऽप्युपजीवन्तीत्यर्थः । अयमेवाऽर्थो व्यासार्यैर्वर्णितः । एवं कर्मसाध्ये परलोके पारतन्त्र्यमुक्त्वा क्षयिष्णुत्वमप्याह ॥ तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्रपुण्य चितो लोकः क्षीयते ॥ राजसेवादिकर्मणार्जितो लोको यथा क्षीयते एवमेवामुत्र परलोके पुण्यसम्पादितो लोकः क्षीयते । तद्य इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेष्व कामचारो भवति । अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ यस्मात्सुकृतसाध्येषु परलोकेषु पारतन्त्र्यक्षयिष्णुत्वादिकं तस्माद्य उक्तमात्मान मेतानपहतपाप्मत्वादीनेतांश्च सत्यान्नित्यान्काम्यमानान्कल्याण गुणांश्चाननुविद्यानुपास्य परलोकं व्रजन्ति तेषां सर्वेषु लोकेषु अकामचारो भवति । पारतन्त्र्यमिति यावत् । ये त्वात्मानमपहतपाप्मत्वादींश्च कल्याणगुणानुपास्य परलोकं व्रजन्ति ते ब्रह्मविभूति भूतान्विकारिलोकाननुभूय यथाकामं तृप्ता न पारतन्त्र्यमनुभवन्तीत्यर्थः । नन्वपहतपाप्मेत्यादिवाक्येषु अपहतपाप्मत्वादिधर्माणां स्वातन्त्र्येणानुपस्थितानां कथमेतानित्यनेन परामर्शः । न च गत्यभावात्तेषामेव परामर्श इति वाच्यम् । “यच्चास्येहास्ती’‘ति वाक्यनिर्दिष्टस्य सर्वाणि भूतानि सर्वे च कामा इति बहुवचनान्तकामशब्देनानूदितस्य निरतिशयभोग्यत्वस्यैवास्न्किमारः समाहिताः एतांश्च सत्यान्कामानित्यत्रापि निर्देशोऽस्त्विति चेन्न । तथासत्यपहतपाप्मा विजर इत्याद्युपन्यासवैयर्थ्यप्रसङ्गात्कामानित्यस्य भोग्यत्वपरत्वे बहुवचनासङ्गतेश्चापहतपाप्मत्वादय एव एतांश्च सत्यान्कामानिति कामशब्देन निर्देश्याः । भोग्यत्वहेतुपितृलोकादिविषयपरत्वे सत्यानिति काम्यमानानां नित्यत्वकथनस्यासम्भवादिति सिद्धम् । ततश्च दहरोऽस्मिन्नन्तर आकाश इत्याकाशशब्दनिर्दिष्टः परमात्मा न भूताकाशः तस्मिन्यदन्तरिति निर्दिष्टमपहतपाप्मत्वादिगुण जातमितीयता सन्दर्भेणोपदिष्टं भवति । स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति । तेन पितृलोकेन सम्पन्नो महीयते । स मुक्तः सन्यदि प्राचीनानेकजन्मसम्बन्धिपितृवर्गं दिदृक्षेत तदा स पितृवर्ग एतस्य सङ्कल्पमात्रसमुत्थितो भवति । तेन सहितः पूज्यते । त इमे सत्याः कामा अनृतापिधानाः तेषां सत्यानां सतामनृतमपिधानम् ॥ परमात्मनिष्ठा इमे सत्याः अपहतपाप्मत्वादयः कामाः अनृतमपिधानं येषां ते अनृतापिधाना अनृताच्छादिताः । ऋुतेतरविषयो ह्यनृतशब्दः । ऋतमिति कर्मवाची “ऋतं पिबन्ता’‘विति वचनात् । ऋुतं कर्मफलाभिसन्धिरहितं परमपुरुषाराधनवेषं तत्प्राप्तिफलम् । अत्र तद्व्यतिरिक्तफलं सांसारिकफलं कर्म अनृतं ब्रह्मप्राप्तिविरोधीति महासिद्धान्ते भाषितम् । तेषां सत्यानां सतां विद्यमानानामेव कर्माच्छादकम् । ततश्च स्वात्मभूतपरमात्मगतापहतपाप्मत्वादयो धर्माः कर्मरूपाविद्यातिरोहितत्वान्न प्रकाशन्ते इत्यर्थः ॥ यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते । अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिछ्न्न लभते सर्वं तदत्र गत्वा विन्दते । अस्योपासकस्य यो बन्धुवर्गः इतः प्रैति न स इह दृष्टुं शक्यः । अन्येतु ये जीवन्तः नष्टाश्च बन्धवः अलभ्याश्च मनोरथाः तत्सर्वं दहराकाशं परमात्मानं प्राप्य लभते । अत्र यच्चेहास्ति यच्च नास्तीति वाक्यसमानार्थत्वादस्य वाक्यस्य मुक्तस्य सर्वतो विरक्तस्य प्राप्यान्तरा सम्भवान्निरतिशयभोग्यत्वमेवार्थः ॥ अत्र ह्यस्यैते सत्याः कामाः ॥ यत् उपासकस्य काम्यमाना भोग्यभूतापहतपाप्मत्वादयः एतन्निष्ठा अतो निरतिशयभोग्यत्वमित्यर्थः । हि शब्दो हेतुत्वपरः ॥ तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विदेयुरेवमेवेमाः सर्वाः प्रजाः अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ यथाऽधस्तान्निक्षिप्तं हिरण्यनिधिं निधिमत्क्षेत्रस्वभावविज्ञानहीना निधेरुपर्युपरि सञ्चरन्तोऽपि न लभन्ते एवमेवेमाः सर्वाः प्रजाः सुषुप्तिकाले अहरहर्गच्छन्त्यः सुषुप्तौ “सति सम्पद्य न विदु’‘रित्युक्तरीत्याऽविभागं गच्छन्त्यः एतं दहराकाशाख्यं ब्रह्मरूपं लोकं न विन्दन्ति न लभन्ते न जानन्तीत्यर्थः । ब्रह्मलोकशब्दो निषादस्थपत्यधिकरणन्यायेन समानाधिकरणौ । तत्र हेतुमाहअनृतेनहि प्रत्यूढाः । प्रतीपं नीताः स्वभावान्तरं नीताः प्राप्ताः आच्छादिता इति यावत् । यद्वाऽहरहर्गच्छन्त्य इति न सुषुप्तिकालीनं गमनमुच्यते । अपि त्वन्तरात्मत्वेन सर्वदा वर्तमानस्य दहराकाशस्य हिरण्यनिधिवत्परमपुरुषार्थभूतस्योपर्युपर्यहरहर्गच्छन्त्यः सर्वस्मिन्काले वर्तमानास्तमजानन्त्यस्तं न विदन्ति न लभन्त इत्यर्थः । अर्थद्वयमपि भाष्यकृता वर्णितम् । अत्र व्यासार्यैरन्तर्यामिविषयतया व्याख्यायनेऽन्तर्यामिण्यहरहर्गमनस्य दहराकाशस्य परब्रह्मत्वसाधकत्वमयुक्तम् । उपासकानुग्रहायावस्थितो हि दहराकाशः अन्तरात्मतयावस्थितो ह्याधारः । तयोःरूपभेदादित्याशङ्क्य धर्म्यैक्याभिप्रायेणैक्यमुक्तमिति परिहृतम् । पूर्वोक्तस्य हृदयान्तर्वर्तित्वं स्मारयति ॥ स वा एष आत्मा हृदि ॥ हृदयनामनिर्वचनादप्यात्मनो हृद्गतत्वं सिद्ध्यतीत्याह ॥ तस्यैतदेव निरुक्तं हृदयमिति । तस्माद्धृदयमिति ॥ तस्यैतस्य हृदयस्य । हृदि अयमात्मा वर्तत इति हृदयशब्दनिरुक्तिरिति भावः ॥ अहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ अहरहः प्रत्यहमाप्रयाणम् । एवंविदे तादृशदहरोपासननिष्ठः सुखरूपं लोक्यमानं ब्रह्म प्राप्नोतीत्यर्थः । ब्रह्मोपासननिष्ठस्य तत्क्रतुन्यायेन ब्रह्मप्राप्तेरेव वक्तव्यतया प्रसिद्धस्वर्गलोक प्राप्त्यसम्भवादिति द्रष्टव्यम् । कथं ब्रह्मप्राप्तिः प्राप्तस्य वा ततःकिं भवतीत्यत आह ॥ अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेनरूपेणाभिनिष्पद्यते ॥ अथशब्दः प्रकृतार्थत्वद्योतकः । सम्प्रसादशब्दः सुषुप्तिस्थानवचनस्सन् तत्सम्बन्धाज्जीवं लक्षयति । अहरहर्वा एवंविदिति पूर्ववाक्यनिदिष्ट उपासको जीवो अस्माद्धेयतया परिदृश्य मानाच्छरीरादुत्क्रम्य देशविशेषनिष्ठं परमात्मानं प्राप्य स्वेन रूपेणाभिनिष्पद्यते । अस्य वाक्यस्यार्थः प्रजापतिविद्यायां विशिष्य वक्ष्यते । एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्मेति । एष आत्मा एतदमृतमित्यत्र एतच्छब्दौ पूर्ववाक्ये परञ्ज्योतिरूपसम्पद्येति प्राप्यतया निर्दिष्टपरञ्ज्योतिश्शब्दितब्रह्मपरौ । प्राप्यतया प्राधान्यादव्यवहितत्वाच्च । अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय । उक्तलक्षण आत्मा सेतुरिव धारकः । किमर्थं स सेतुर्विधृतिरित्यत्राह एषां लोकानाम सम्भेदाय असम्भेदोऽसङ्करः । यद्ययं परमात्मा स्वशासनेन जगन्नधारयेत् सर्वधर्माणां साङ्कर्यमेव स्यात् । पृथिव्या गन्धवत्त्वं जलस्य शैत्यं तेजस आैष्ण्यमित्यादयो धर्माः परमात्माज्ञया व्यवस्थिता भवन्ति । सिनोति बध्नाति स्वस्मिंश्चिचिद्वस्तुजातमसङ्कीर्णमिति सेतुरुच्यते इति “सामान्यात्तु’’ (ब्र.सू.3.2.31) इति सूत्रे भाषितम् । नैनं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम् । तरतिः प्राप्तिवचनः । वेदान्तं तरतीतिवदिति तत्रैव भाषितत्वात् । एनं परमात्मानं सेतुमहोरात्रे परिच्छेदकत्वेन न प्राप्नुतः । जरादिकमपि न प्राप्नोति । उक्तमर्थं निगमयति ॥ सर्वे पाप्मानोऽतो निवर्तन्ते । शोकादिषु पाप्मशब्दस्यामुख्यत्वेऽपि सुकृतदुष्कृतयोरलौकिकमुमुक्ष्वनिष्ट साधनत्व लक्षणपापशब्दप्रवृत्तिनिमित्तसद्भावात्पाप्मशब्दो मुख्य इति व्यासार्यैर्लघुसिद्धान्ते उक्तम् । तत्र हेतुमाह ॥ अपहतपाप्मा ह्येष ब्रह्मलोकः॥ इति॥ ब्रह्मरूपो लोकः एष अपहतपाप्मा हि । हिर्हेतौ । यस्मादपहतपाप्मा तस्मात्सर्वेपाप्मानोऽतोनिवर्तन्त इत्यर्थः । पापहेतुकर्माचरणेऽपि तदुत्पत्तिप्रतिबन्न्धक शक्तियोगित्वमेव ह्यपहतपाप्मत्वम् । तस्मान्नपापशब्दमुख्यार्थसुकृतदुष्कृतयोस्तत्फल भूतजरारोगादीनां प्रसक्तिरित्यर्थः ॥ तस्माद्वा एतं सेतुं तीर्त्वा अन्धस्सन्ननन्धो भवति । विद्धस्सन्नविद्धो भवति । उपतापी सन्ननुपतापी भवति । एतं परमात्मलक्षणं सेतुं प्राप्य पूर्वमान्ध्यायुधवेधज्वरादियुक्तदेहोऽपिसन्दद्दोषरहित दिव्यदेहयुक्तो भवतीत्यर्थः । तस्माद्वा एतं सेतुं तीर्त्वा अपिनक्तमहरेवाभिनिष्पद्यते । सकृद्विभातो ह्येष ब्रह्मलोकः । परमात्मानं प्राप्तस्य तमिस्रारात्रिरपि दिवैव । तस्याऽज्ञानप्रसक्तेरभावात् । अहस्सदृशी सा रात्रिः । अहोरात्रयोर्न विशेषः । अत्र हेतुः सकृद्विभातः । सर्वदा ब्रह्मस्वरूपप्रकाशस्या संवृततया भासमानत्वादित्यर्थः । तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति । तेषामेवैषः ब्रह्मलोकः तेषाँ सर्वेषु लोकेषु कामचारो भवति । तत्तत्र । एवं सति एतमेव परमात्मानं स्त्रीविषयतृष्णात्यागपूर्वकशास्त्राचार्योपदेशादिना जानन्ति तेषामेवेदृशब्रह्मप्राप्तिः सर्वलोकानुभवश्च । न ब्रह्मचर्यहीनानामित्यर्थः ॥ ह वै ण्यश्चार्णवौ ब्रह्मलोके ॥ ण्यसञ्ज्ञकश्च द्वौ समुद्रौ ब्रह्मलोक इत्यर्थः । प्रसिद्धं चतुर्मुखलोकं व्यावर्तयति । तृतीयस्यामितो दिवि ॥ प्रथमो द्युलोकःस्वर्गलोकः। द्वितीयस्तु चतुर्मुखलोकः। तृतीयस्तु वैकुण्ठलोक इति भावः । तदैरम्मदीयं सरः तदश्वत्थः सोमसवनः । तत्तत्रैरम्मदीयनामकं सरः । इरयाऽमृतेन माद्यन्ते यस्मिन्तदैरम्मदीयममृतमयं सर इत्यर्थः । सोमसवननामाश्वत्थः चन्द्रवदाह्लादकत्वात्सोमसवनत्वम् । तदपराजिता पूर्ब्रह्मणः ॥ तत्तत्र अब्रह्मविद्भिः प्राप्तुमशक्यत्वेनापराजितानाम पुरी ॥ प्रभुविमितग्ँ हिरण्यमयम् ॥ मण्डपमिति शेषः । प्रभुणा भगवता परमपुरुषेण विशेषेण मितं स्वभोग्यभूमित्वेन विशेषतः परिगृहीतमित्यर्थः । भगवतो व्याप्तत्वेऽपि नित्यविग्रहविशिष्टतया सन्निधानाद्विमितत्वम् । अतश्च तद्देश विशिष्टब्रह्मप्राप्तिरेव ब्रह्मप्राप्तिरितिभावः ॥ तद्य एवैतावरं चाण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः तेषां सर्वेषु लोकेषु कामचारो भवति । ब्रह्मप्राप्तिसाधनीभूतारण्यशब्दितार्णवद्वयप्राप्तेः ब्रह्मचर्याधीनत्वाद्ब्रह्मचर्यमेव सर्वसाधनोत्कृष्टमिति भावः ॥ उक्तब्रह्मलोकप्राप्तिसाधनतया मूर्धन्यनाडीगमनं प्रस्तौति ॥ अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्य अणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येति ॥ हृदयसम्बन्धिन्यो नाड्यो नानारूपसूक्ष्मान्नरसपूर्णास्तिष्ठन्तीत्यर्थः। असौ वा आदित्यः पिङ्गलः एष शुक्ल एष नील एष पीत एष लोहितः । आदित्यस्य नानारूपत्वं च मधुविद्यायं प्रसिद्धं प्रत्यक्षसिद्धं च । ततश्चैतद्रश्मि सम्बन्धादेवान्नरसस्य नानारूपत्वं चेति भावः ॥ तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं च एवमेवैता आदित्यस्य रश्मयः उभौ लोकौ गछन्तीमं चामुं च ॥ यथा विस्तीर्णो महापथो ग्रामद्वयप्रतिष्ठितो भवति तथादित्यस्य रश्मयो लोकद्वयानुप्रविष्टा इत्यर्थः । लोकद्वयानुप्रवेशक्रममाह । अमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः प्रतायन्ते सन्ततास्सृप्ताः । प्रतायन्तेसन्तताः सृप्ताः प्रविष्टाः । रश्मीनामुभयलिङ्गत्वादेता इतिच निर्देशः । शिष्टंस्पष्टम् । तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नस्स्वप्नं न विजानाति आसु तदा नाडीषु सृप्तो भवति । तत् तस्मात् यत्र यदा समस्त उपसंहृतकरणमण्डलः अत एवं सम्प्रसन्नःबाह्यविषयसम्पर्कजनितकालुष्यशून्यः स्वप्नं न पश्यतीति । एतत्स्वप्नादर्शनं सुषुप्तिरिति यावत् । तदा आसु नाडीषु प्रविष्टो भवति पुरीतद्गतब्रह्मगमनाय नाडीषु प्रविष्टो भवति । नाड्यो वा द्विसप्ततितहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । “आभिः प्रत्यवसृप्य पुरीतति शेत’’ इतिश्रुत्यन्तरात् नाडीपुरीतद्ब्रह्मणां समुच्चयेन सुषुप्तिस्थानत्वस्य “तदभावोनाडीषु तच्छुतेरात्मनिच’’ (ब्र.सू.3.2.7) इत्यत्र स्थितत्वात्तासामपि सुषुप्तिस्थानत्वं द्रष्टव्यम् । तन्न कश्चन पाप्मा स्पृशति ॥ सुषुप्तौ सतोऽपि कर्मणः फलजननसामर्थ्यं नास्तीत्यर्थः । तन्न कश्चन पाप्मा स्पृशतीत्यस्मिन्वाक्येऽनुष्ठानाशक्तिर्विवक्षितेति व्यासार्यवचनस्याप्ययमेवार्थः । तत्र हेतुमाह । तेजसा हि तदा सम्पन्नो भवति । “सता सोम्य तदा सम्पन्नो भवती’‘ति श्रुतेः । तेजश्शब्दः प्रकाशगुणयोगाद्ब्रह्मपरः । ब्रह्मणि सम्पत्तिर्नामदेहेन्द्रियाधिष्ठातृत्वराहित्येन ब्रह्मण्यवस्थानम् । सम्पत्त्यधिकरणस्य करणत्वविवक्षया तृतीया निर्देशः । अथ यत्रैतदबलिमानं नीतो भवति ॥ अथ शब्दोऽर्थान्तरप्रस्तावार्थः । अबलस्य भावः अबलिमाऽबलत्वम् । विरोधिकृतदौर्बल्यं नीतो भवतीत्येतद्यत्र यदेत्यर्थः । तदा दौर्बल्यं प्राप्तवानित्यर्थः । तमभित आसीना आहुर्जानासि मां जानासि मामिति ॥ तादृश दृशा विशिष्टं परितो वर्तमाना बान्धवाः मां जानासि मां जानासि किमित्याहुः । यदा एतासु नाडीषु स्थित इत्यर्थः । स यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति । अथ यत्रैतच्छरीरादु त्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते ॥ स्पष्टोऽर्थः । (तद्यथ महापथा आतत उभौ ग्रामौ गच्छतीमं चामुं च एवमेवैता आदित्यस्य रश्मयः उभौ लोकौ गच्छन्तीमं चामुं च अमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते अमुष्मिन्नादित्ये सृप्ता इतीति) । स आेमिति वा होद्वामीयते ॥ स विद्वान् “ऊँ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’‘तस्योदितिनामेति च प्रमाणप्रसिद्धं परमात्मनम आह कीर्तयति । कीर्तयन्नेव मीयते प्रमीयते च । मरणकाले तस्यभगवतो नामस्मरणं सम्भवति । यद्वा एतैरश्मिभिरुन्मीयते उन्नीयते । एको वा शब्दोऽवधारणार्थः ॥ स यावत् क्षिपेन्मनस्तावदादित्यं गच्छति ॥ मनोवेगेनैव गच्छतीत्यर्थः । न च यावत् क्षिपेन्मनस्तावदादित्यं गच्छतीति त्वरावचनेन रश्म्यनुसारिणः मार्गस्य मार्गान्तरवैलक्षण्य प्रतीतेर्मार्गभेदः शङ्क्यः । “अर्चिरादिना तत्प्रथितेः’’ (ब्र.सू.4.3.1) इत्यधिकरणे नानाशाखासु तस्यैव मार्गस्य प्रथितेः प्रत्यभि ज्ञानादर्चिरादिरेक एव मार्गः । अतोऽर्चिरादिनैष मार्गेण विद्वान् गच्छतीति समर्थितत्वात् । स यावत् क्षिपेदिति त्वरावचनस्य काश्मीरापेक्षया मगधान् क्षिप्रं गच्छन्तीतिवत् गन्तव्यस्वर्गाद्यपेक्षयादित्यगमनस्य शैघ्र्येणाप्युपपत्तेर्न दोषः ॥ एतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ विदुषां ब्रह्मलोकस्य प्रपदनं द्वारम् । प्रपद्यतेऽनेनेति प्रपदनं प्राप्तिसाधनम् । य आदित्यः अविदुषां च निरोधकः । अविद्वांसो हि सूर्यमण्डलभेदासामर्थ्यान्नगन्तुं शक्नुवन्तीत्यर्थः ॥ तदेष श्लोकः ॥ तस्मिन्विषयेएषवक्ष्यमाणश्लोकः प्रवर्ततेइत्यर्थः ॥ शतं चैका च हृदयस्य नाड्यः तासां मूर्द्धानमभिनिस्सृतैका । तयोर्ध्व मायन्नमृतत्वमेति विष्वङ्ङन्या उक्रमणे भवन्ति ॥ मूर्धन्यनाड्या गच्छन्मुक्तिं प्राप्नोति । विष्वग्गतय इतरनाड्यस्तूत्क्रमणमात्रे भवन्ति, नत्वमृतसाधनीभूतोर्ध्वगतावित्यर्थः । यद्वा विष्वगुत्क्रमणे अन्या उपयुज्यन्त इत्यर्थः । एवं दहरविद्यां समाप्य तदङ्गभूतां प्रत्यगात्मविद्यां प्रस्तौति ॥ य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको(ऽ)विजिघथसोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः । स सर्वांश्च लोकानाप्नोति सर्वांश्चकामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच । अनुविद्येति वाक्यार्थज्ञानमुच्यते । विजानातीति ध्यानमिति लघुसिद्धान्ते भाषितम् ॥ तद्धोभये देवा असुरा अनुबुबुधिरे ॥ प्रजापतिवचनमैतिह्यरूपेण देवा असुरा उभयेऽपि श्रुतवन्त इत्यर्थः ॥ ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्चकामानिति । तमन्विच्छामः श्रवणमननाभ्यामवगच्छाम इत्यर्थः ॥ इन्द्रो ह वै देवानमभिप्रवव्राज विरोचनोऽसुराणाम् । देवानां मध्ये इन्द्रश्चासुराणां मध्ये विरोचनश्च प्रजापतिसमीपं गन्तुं प्रस्थितौ । तौ हासंविदानावेव समित्पाणी प्रजापतिसमीप (सकाश) माजग्मतुः ॥ असंविदानौपरस्परासूयया परस्परसम्मन्त्रणमकुर्वन्तावित्यर्थः । शिष्टंस्पष्टम् । तौ ह द्वात्रिंशतँ वर्षाणि ब्रह्मचर्यमूषतुः ॥ द्वात्रिंशतं वर्षाणि शुश्रूषापरौ भूत्वा ब्रह्मचर्यं चेरतुः । तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति ॥ किं प्रयोजनमुद्दिश्योषितवन्तावित्यर्थः ॥ तौ होचतुः य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको(ऽ)विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सो न्वेष्टव्यः सविजिज्ञासितव्यः । स सर्वांश्चलोकानाप्नोति सर्वांश्चकामान्यस्तमात्मानमनुविद्य विजानातीतिह भगवतो वचो वेदयन्तेतदिच्छन्ताववास्तमिति ॥ य आत्मेत्यादि । भगवतः पूज्यस्य तववचनमैतिह्यरूपेण वेदयन्ते जनाः तमिच्छन्ताऽवास्तां । तद्ज्ञानमिच्छन्तावावामुषितवन्तावित्यर्थः । अवास्तमिति पुरुषव्यत्ययश्छान्दसः ॥ तौ ह प्रजापतिरुवाच । य एषोऽक्षिणि पुरुषो दृश्यतेएष आत्मेति होवाच । एतदमृतमभयमेतद्ब्रह्मेति ॥ अत्र एषोऽक्षिणिपुरुषो दृश्यत इति नेहाक्षिपुरुषः परमात्मा । “एतं त्वेव तेभूयोऽनुव्याख्यास्यामीत्युपक्रम्य स्वप्नाद्यवस्थाविधानात् । नचेह जीवस्याक्षिणि स्थिति रुपदिश्यते । अपित्वक्षिविकाराज्जीवस्य स्थितिगती निश्चीयेते । अतोऽक्ष्णोर्जीवस्थितिगति सूचकत्वादक्षिणि दृश्यत इत्युक्तं । कर्मणः सामर्थ्यसूचकत्वाभिप्रायेणास्यास्मिन्कर्मणि सामर्थ्यं दृष्टमितिवत् । ततश्च गृहे स्थित्वा निर्गच्छन्पुरुषः यथा गृहादन्यः एवं शरीरे स्थितिगतिमानात्मा शरीरादन्य इत्युक्तं भवति । अमृतमिति निरतिशयसुखरूपत्वम् अभयमिति दुःखासम्भिन्नत्वं ब्रह्मेत्यसङ्कुचित ज्ञानतया ब्रह्मत्वं चोक्तमिति व्यासार्यैरुक्तम् ॥ अथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इति ॥ एवं प्रत्यगात्मनि प्रजापतिनोपदिष्टे छायापुरुष आत्मेत्युपदिष्ट इति भ्रान्त्या स्वग्रहीत छाया पुरुषात्मत्वदृढीकरणाया जलादर्शादिप्रतिबिम्बोप्यथि प्रतिबिम्बाभिन्नात्मैव उत तद्भिन्नो नात्मेत्यभिप्रायेण पप्रच्छतुरित्यर्थंः एवं ताभ्यां पृष्ठः तर्योभ्रान्तिमनिराकुर्वन्तेवाह । एष उ एवैषु सर्वेष्वन्तेषुपरिख्यायत इति होवाच ॥ यश्चक्षुषि दृश्यत्वेन मयोक्तः स आत्मा सर्वान्तरो जलादिष्वपि न भिद्यत इत्युत्तरं ददावित्यर्थः । शिष्यभ्रान्तिमनिराकृत्य तद्भ्रान्तिदृढीकरणायेत्थमुत्तरं ददत आचार्यस्यायमभिप्रायः । सुरा सुरेन्द्राविन्द्रविरोचनौ स्वात्मन्यध्यारोपितपाण्डित्यमहत्वातिशयौ । “तथैव जगति प्रसिद्धौ’‘च तद्यदि युवां भ्रान्ताविति ब्रूयां तदा चित्तावसादात्पुनः प्रश्नग्रहणधारणेषु भग्नोत्साहौ स्याताम् । अतो यथाश्रुतप्रश्नमात्रस्योत्तरमिदानीं वक्तव्यम् । अनेन चोत्तरेण पूर्वोत्पन्न प्रतिबिम्बात्मभ्रमो दृढीभवति चेद्भवतु । दृढीभूतोऽपिभ्रमः उदशराव निरीक्षण नियोजनोपायेनापनेष्यत इति । अत एव तद्भ्रमापनयनार्थमेवोदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे ब्रूतमिति उदशरावापेक्षणे तौ नियुयोज । अत्र व्यासार्यैरेतादृशाभिप्रायपरिकल्पनस्यातिक्लिष्टत्वाद्योऽयं भगवोऽप्सुपरिख्यायते यश्चायमादर्शे कतम एष इति एष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इत्येतावानपि प्रश्न एव । प्रश्नमध्यगत इति शब्दः प्रश्नान्ते निवेशयितव्यः । इति होवाचेत्येतदुत्तरस्यास्यो दशराववाक्यस्य शेषभूतम् । उदशरावे आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे ब्रूतमिति होवाचेत्युत्तरेणान्वयः । तत्र एक इतिशब्दःसमाप्तिद्योतकः अन्यस्तुप्रकारवचनः । अथवा कतम एष इतीत्यत्र इति शब्दोवक्ष्यमाणवचनः । अन्यस्तु प्रकारवचनः इत्येवं नेतिशब्दद्वयवैयर्थ्यमभि प्रेत्य प्रजापति हृदयानभिज्ञानाच्छाया पुरुष उपदिष्ट इति मत्वा पुनःपप्रच्छतुः । योऽयम्भगवोऽप्सुपरिख्यायत इत्यादिना सर्वेष्वन्तेषु नेत्रादिस्थानेषु परिख्यायते कतम एष इत्यर्थ इत्युक्तम् । चक्षुरादिप्रतिबिम्ब एवात्मेति दार्ढ्यार्थं पुनरपि पप्रच्छतुरिति भावः । जलादिस्थानेषु दृश्यते स नेत्रे दृश्यमान एष एव किमुतान्यः कतम एष इति व्यासार्याणामभिप्रायः ॥ उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथः तन्मे प्रब्रूतमिति ॥ उदकपूर्णे शरावे आत्मानं दृष्ट्वा आत्मसम्बन्धिनमनुपपन्नतया भासमानं सम्यगनवगतमंशं युवां वदतमित्युक्तवान् ॥ तौ होदशरावे अवेक्षाञ्चक्राते । तौह प्रतिबिम्बमवलोकितवन्तौ । अवलोक्यापि दोषास्फुरणात्तूष्णीमुषितवन्तौ । तयोरनुपपत्तिस्फूर्तिं ज्ञात्वा किम्पश्यथइतिस्वयमेवप्रजापतिरुवाचेत्याह । तौ ह प्रजापतिरुवाच किम्पश्यथेइति । तौ होचतुः । सर्वमेवेदमावां भगव आत्मानं पश्याव आलोमभ्य आनखेभ्यःप्रतिरूपमिति ॥ इदं प्रतिरूपमात्मानं पश्याव इति प्रतिबिम्बात्मभ्रममेवोद्धाटितवन्तौ ॥ तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वा उदशरावेऽवेक्षेथामिति । तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावे अवेक्षां चक्राते । तौ ह प्रजापतिरुवाच । किं पश्यथे इति । तौ हो चतुः । यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृताविति ॥ आवां साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्वः भवाव इतीदं यथैव तथैव इमावपि प्रतिबिम्बौ साध्वलङ्कारादियुक्ताविति प्रत्यूचतुरित्यर्थः । अत्रोदशरावावेक्षणालङ्कृत देहप्रतिबिम्ब निरीक्षणयोर्नियुञ्जानस्य प्रजापतेरययमभिसन्धिः । आगमापायशाला द्वात्रिंशद्वर्षब्रह्मचर्यदीर्घी भूतकेशनखवस्त्रा लङ्कारादिलक्षणदोषगुणयुक्त व्यवस्थितदेहानुकारिदोषगुणवत्त्वाद्देह वत्तत्प्रतिबिम्बोप्यनात्मा निरतिशय सुखत्वदुःखासाम्भिन्नत्वलक्षणामृतत्वाभयत्वशून्य इति जानीयातामिति । एवं द्विविधनियोजनेऽप्यप्रक्षीणकल्मषतया दोषादर्शनेन प्रतिबिम्बात्म भ्रमोऽनापनीतः । ततःप्रजापतिर्भ्रान्तिनिवारणार्थं मया कृतस्य द्विविधप्रतिबिम्बदर्शनस्याभि प्रायमिमावप्रक्षीणकल्मषत्वान्नावगच्छतः । प्रत्यक्षं च युवां भ्रान्ताविति वक्तुमप्यनर्हौ । तदिदानीमेतदीय हृदयानुरोधेन प्रतिबिम्बमेव निर्दिश्य सर्वान्तरं परमात्मानं मनसि निधाय एषआत्मेत्युपदेशेन तयोराकाङ्क्षां निवर्तयिष्यामि । कालेन कल्मषे प्रक्षीणे मद्वचनसन्दर्भस्यसर्वस्याप्यभिप्रायं स्वयमेवावगमिष्यतः । विचिकित्समानौ वा मत्समीपमागमिष्यत इति मत्वा । एष आत्मेति होवाच । एतदमृतमभयमेतद्ब्रह्मेति ॥ स्पष्टोऽर्थः ॥ तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ शान्तहृदयौ निवृत्ताकाङ्क्षावित्यर्थः । तौ हान्वीक्ष्य प्रजापतिरुवाच ॥ एवं प्रतिनिवृत्तयोः प्रजापतिर्भ्रान्तिगृहीतार्थश्रद्धयेमौ विनष्टौ मा भूतामिदमपि मद्वचनं य आत्मेति पूर्ववचनवत्कर्णाकर्णिकया गिरा श्रृणुतामित्यभिप्रेत्योवाचेत्यर्थः ॥ अनुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वा असुरा वा ते परा भविष्यन्तीति ॥ एताविन्द्रविरोचनावात्मस्वरूपं श्रवणमननाभ्यामज्ञात्वा गच्छतः यतरे ये देवा वा असुरा वा एतदुपनिषदो भविष्यन्ति । उपनिषच्छब्द उपदेशपरः । अनयोरुपदेशाद्भ्रान्तिगृहीतार्थ विषयकनिश्चयायेहि भविष्यन्ति ते पराभविष्यन्ति । नित्य संसारिणो भविष्यन्तीत्यर्थः ॥ स ह शान्तहृदय एव विरोचनोऽसुरानाः (न्) जगाम तेभ्यो हैतामुपनिषदं प्रोवाच ॥ विरोचनस्तुप्राजापत्यस्य द्विविधदेहच्छायादर्शन नियोगस्य देहानुकारित्वाच्छायाया देह एवात्मेति सूचने तात्पर्यम् । अलङ्कृतदेहच्छायां निर्दिश्यैष आत्मेत्युपदेशस्य नीलानीलयोरादर्शे दृश्यमानयोर्वाससोर्यन्नीलं तन्महार्घमिति वचनस्य च्छायानिमित्ते वाससीवालङ्कृत देहेतात्पर्यमिति मन्वानो देह एवात्मालङ्कारादिभिः परिचरणीय इति निश्चित्य राज्यं प्राप्यासुरेभ्यस्तथैवोपादिशदित्यर्थः । आत्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुञ्चेति ॥ आत्मैव देह एव महय्यः पूज्य इत्यर्थः । उभौ लोकाविति सर्वलोकसुखानुभवोऽपि शरीरगत एवेति भावः । स सम्प्रदायोऽद्याप्यनुवर्तत इत्याह ॥ तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुः आसुरो बतेति असुराणाँ ह्येषोपनिषत् ॥ यस्मादसुरेभ्य इयमुपनिषत् प्रवृत्ता तस्माद्यागदानश्रद्धावैघुर्य हेतुभूतनास्तिक्य बुद्धिरसुराणामेव हि । अत एतादृशं पुरुषं जना असुरमाहुः ॥ प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेणेति संस्कुर्वन्ति एतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ यत एव देहस्यैवात्मतया परिचरणीयत्वम् अत एव प्रेतस्य मृतस्य शरीरं भिक्षित्वा वस्त्रालङ्कारादिभिः पूजयन्ति । कुणपसंस्कारेणैव परलोकजयं मन्यमाना इत्यर्थः । ततः प्रतिबिम्बस्य बिम्बदोषानुविधायित्वदोष दर्शनेन प्रत्यागताय पुनरपि द्वात्रिंशद्वर्षाण्युषितवते मघवते । य एष स्वप्ने महीयमानश्चरति एष आत्मेति होवाचेति ॥ स्वप्नावस्थस्य जीवस्योपदेशः । अनन्तरम् । घ्नन्तित्वेवैनं विच्छादयन्तीवा प्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीति ॥ हन्यमानत्वद्राव्यमाणत्व बन्धुमरणाद्यप्रियद्रष्टृत्वादिदोषदर्शनेन प्रतिनिवृत्ताय द्वात्रिंशर्द्वाण्युषितवते ॥ तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाच इति ॥ सुषुप्त्यवस्थजीवस्योपदेशः ॥ नाहखल्वयमेवँ सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ सुषुप्तौ स्वपरज्ञानशून्यतया मरणतुल्यतादोषं दृष्ट्वा प्रतिनिवृत्ता य पञ्चवर्षाण्युषितवते उपदेशयोग्याय जाग्रत्स्वप्नसुषुप्त्यवस्थात्रयातीतं मुक्तात्मस्वरूपमाह ॥ मघवन्मर्त्यं वा इदँ शरीरमात्तं मृत्युना तदस्यामृतस्या शरीर स्यात्मनोऽधिष्ठानम् ॥ हे मघवन् इदं शरीरमेव हि मरणधर्मि न केवलं मरणधर्मित्वमात्रम् । अपि तु तद्व््याप्तं च । सततविनाशशीलमितियावत् । इदं च शरीरे हेयत्वानुसन्धानार्थमुक्तम् । एवं भूतं तदिदं शरीरङ्कर्मकृतशरीरं कर्मकृतशरीरराहित्यलक्षणामृतत्वस्वरूपस्यात्मनो भोगाधिष्ठानम् । कर्मवशेन जीवेन भोगार्थं परिगृहीतमित्यर्थः । ततश्चाशरीरत्वमेव स्वरूपम् । सैवामृतत्वलक्षणामुक्तिः । सशरीरत्वमेव तदभाव इत्युक्तं भवति ॥ ननु पुरुषार्थस्य हि मुक्तिरूपत्वं वक्तव्यम् । नह्यशरीरत्वं पुरुषार्थः अपि तु दुःखाभावः । ततश्च तस्यैवामृतत्वरूपत्वमुचितं नत्वशरीरत्वस्येत्यत्राह । न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति ॥ कर्मारब्धशरीरयोगिनः तदनुगुण सुखदुःखयोगस्यावश्यम्भावित्वात्कर्मारब्ध देहसम्बन्धाभावस्य पुरुषार्थतया मुक्तिरूपत्वमुपपद्यत इति भावः । व्यतिरेकं दर्शयति ॥ अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः ॥ वावशब्दः प्रसिद्धाववधारणे वा । ततश्चावस्थात्रयराहित्यलक्षणस्वरूपमेव मुक्तिरित्यर्थः । शिष्टंस्पष्टम् ॥ अशरीरो वायुः ॥ शिरः पाण्यादिलक्षणशरीरशून्यो वायुरित्यर्थः ॥ अभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि ॥ अभ्रादीनि चाशरीराणीत्यर्थः । अब्भ्रं भूत्वा मेघो भवतीत्यादिवत् । अब्भ्रस्तनयित्न्वोरवस्थाभेदेन भेदो द्रष्टव्यः । अशरीराणां च प्रियाप्रियानन्वयो दृष्ट इति भावः ॥ तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यन्ते । एवमेवैषसम्प्रसादोऽस्माच्छरीरात्समुत्थाय परञ्ज्योतिरुप सम्पद्य स्वेनरूपेणाभिनिष्पद्यते ॥ अत्र व्यासार्यैस्तु वाय्वादीनामाकाशात्समुत्थानं नाम स्वकार्यकरणायोर्ध्वदेशे अभिवृद्धिः । परशब्दो वाय्वादीनां कारणावस्थावाची । ज्योतिश्शब्दःः स्वकारणानां कार्योत्पादनद्वारेण तदभिव्यक्तिहेतुतया प्रयुक्तः । वाय्वादीमनिच कारणद्रव्यमुपगत्य कार्यावस्थां हित्वा कारणसदृशेन रूपेण विशिष्टानि भवन्ति । वायुर्हि आवहप्रवहादिरूपेण सप्तविधत्वं हित्वा वायुत्व मात्रेणावतिष्ठते । विद्युच्च विद्युत्त्वं हित्वा तेजस्त्वेन अभ्रस्तनयित्नू चाभ्रत्वादिप्रहाणेनस्वकारणरूपेण । एवं जीवोऽपि मार्गविशेषेण देशविशेषविशिष्टं परं ब्रह्म प्राप्य संसार्यवस्थाप्रहाणेन परमात्मतुल्यरूपेणाविर्भवतीत्यर्थः । एवं सत्येव दृष्टान्ते दार्ष्टान्तिकवाक्यसामञ्जस्यं भवतीति वर्णितम् । स उत्तमः पुरुषः स तत्र पर्येति ॥ स उपसम्पदनीय उत्तमः पुरुष इत्यर्थः । उत्तमः पुरुषस्त्वन्य इति भगवत एवोत्तम पुरुषत्वेनोपसम्पदनकर्त्तर्युत्तमपुरुषत्वस्य बाधितत्वात् । स तत्र पर्येतीत्युत्तरवाक्यस्वारस्य भङ्गप्रसङ्गाच्च । स उपसम्पत्ता परमात्मनि पर्येति तं परितोनुभवति । यद्वानुसञ्चरति “कामरूप्यनुसञ्चरन् यत्र यत्र धाता गच्छति’’ इति श्रुत्यन्तरात् ॥ जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा ॥ यथेष्टं भोगानवाप्नोतीत्यर्थः ॥ नोपजनं स्मरन्निदँ शरीरम् ॥ स्त्रीपुंसयोरन्योन्योपगमेन जातमित्युपजनत्वं शरीरस्य । तेन चापुरुषार्थत्वमुच्यते । अथवोपजनं जनानां बन्धुजनानां समीपे शयितं कुणपमित्यर्थः । यद्यपि मुक्तस्स सर्वज्ञत्वात् त्यक्तमपि शरीरमनुभवत्येव । तथाप्यब्रह्मात्मकतया दुःखस्वरूपत्वेनानुभूतं शरीरं तत्र मुक्तदशायां तथा नानुभवतीत्यर्थः । आत्मनोऽशरीरस्वभावत्वे प्राक्छरीरसम्बन्धः किन्निबन्धन इत्यत्राह ॥ स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिच्छरीरे प्राणो युक्तः ॥ यथा आचरणे शकटे प्रयोग्यो युग्यः अश्वो बलीवर्दो वा पाशेन युक्तो भवति एवमेवायं प्राणसहचारी प्रत्यगात्मा संसारदशायां कर्मपाशवशेन युक्तो भवति । अनेन युग्यशकटदृष्टान्तेन देहात्मनोर्व्यतिरेको दृढीकृतो भवति ॥ अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुः ॥ आकाशं प्रकाशमानालोकादि अथवा प्रकाश्यमानत्वाद्वा आकाशंरूपम् । ततश्चायमर्थः । यत्र यस्मिन्नुपकरणत्वेनानुविषण्णं निबद्धं चक्षुः आकाशमालोकं रूपं वा प्रकाशयतीति शेषः । यद्वा आकाशं रूपादिप्रकाशकं चक्षुरित्यर्थः । स चाक्षुषः चक्षुरुपकरणकः पुरुष आत्मेत्यर्थः । चक्षुरुपकरणकमुद्दिश्य पुरुषशब्देनात्मत्वं विधीयते । चक्षुस्तुदर्शनकरणमात्रम् । ततश्चक्षुरादीनां रूपादीनामात्मनश्च करणत्वज्ञेयत्वज्ञातृत्वप्रदर्शनमुखेन शरीरें द्रियेभ्यो व्यतिरेक उपपादितो भवति ॥ अथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् ॥ गन्धग्रहणकरणं घ्राणम् । ज्ञातात्वात्मेत्यर्थः । अनेन घ्राणेन्द्रियव्यतिरेकयुक्तो भवति ॥ अथ योवेदेदमभिव्याहराणीति स आत्मा । अभिव्याहाराय वाक् । अथ यो वेदेदं श्रृणवानीति स आत्मा । श्रवणाय श्रोत्रम् । अथ यो वेदेदं मन्वानीति स आत्मा । मनोऽस्य दिव्यञ्चक्षुः । स वा एष एतेन दिव्येन चक्षुषा मनसैतान्कामान्पश्यन् रमते य एते ब्रह्मलोके ॥ विधूतकर्मनिमित्तशरीरेन्द्रियः पुरुषः मनश्शब्दाभिहितेन दिव्येन स्वाभाविकेन ज्ञानेन सर्वान्कामाननुभवन्मोदत इत्यर्थः । शिष्टं स्पष्टम् ॥ तं वा एतं देवा आत्मानमुपासते तेषां सर्वे च लोका आत्ताः सर्वे च कामाः ॥ एतादृशात्मस्वरूपस्य मघवते उपदिष्टत्वाद्देवाः सर्वे मघवत एतमात्मानमुपश्रुत्य तमेवोपासते । अतस्तेषां सर्वलोकसर्वकामावाप्त्युपलक्षितब्रह्मानुभवो भवति । असुराणां तु न तथेति भावः । अद्यत्वेऽपि तमुपासीनानां तत्प्राप्तिर्भवतीत्याह ॥ सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति ॥ अद्यत्वेऽपि मनुष्याणामपि तमात्मानमुपासीनानां सर्वलोकसर्वकामावाप्तिर्भवतीत्यर्थः । अत्र किं प्रमाणमित्यत्राह ॥ इति ह प्रजापतिरुवाचेति ॥ द्विरुक्तिर्विद्यासमाप्त्यर्था । अत्र प्रत्यगात्मविद्याया ब्रह्मविद्याङ्गत्वेनाङ्गीभूतब्रह्मविद्या फलमेव तदङ्गप्रत्यगात्मविद्यायास्तुत्यर्थं निर्दिश्यत इति द्रष्टव्यम् । उक्तं च भगवताभाष्यकृता प्रजापतिवाक्ये मुक्तात्मस्वरूपयाथात्म्यविज्ञानंहरविद्योप योगितयोक्तं ब्रह्मप्रेप्सोर्हि जीवात्मनः स्वस्वरूपं च ज्ञातव्यमेव स्वयमपि कल्याण गुण एव सन्ननवधिकातिशया सङ्ख्येयकल्याण गुणगणं परम्ब्रह्मानुभविष्यतीति ब्रह्मोपासनफलान्तर्गतत्वात् । सर्वांश्लोकानाप्नोति सर्वांश्च कामानिति प्रजापति वाक्ये कीर्त्यमानं फलं दहरविद्याफलमेवेति । ननु प्रजापतिविद्याया दहर विद्याङ्गत्वे दहरब्रह्मविद्याधिकृतायैवोपदेष्टव्यास्यात् । उपकोसलविद्याङ्गभूताग्निविद्यावत्-प्रकृते च ब्रह्मविद्याविधुरायेन्द्रायोपदिश्यमानायाः प्रत्यगात्म विषयकप्रजापतिविद्यायाः कथं विद्यान्तरशेषत्वमिति चेन्न । प्रजापतिवाक्यस्यैष सम्प्रसाद इति दहरविद्यावाक्यान्तर्गत सम्प्रसादशब्दार्थशोधनार्थं प्रवृत्ततया तदेकवाक्यत्वेन तादर्थ्ये सिद्धेइन्द्रस्यापि पश्चाद्दहर विद्योपदिष्टेत्येवावगन्तव्यत्वेनादोषात् ॥ ननु प्रजापतिविद्यायाः प्रकरणाद्दहरविद्याशेषत्वे सर्व ब्रह्मविद्याशेषत्वं न स्यात् । विद्यान्तरशेषत्वे प्रमाणाभावात् । नचेष्टापत्तिः । “आत्मेतितूपा गच्छन्ति ग्राहयन्ति च’’ (ब्र.सू.4.1.3.)प्रजापतिवाक्योदितापहत पाप्मत्वादिलक्षणःसांसारिकरूपव्यतिरेक एवानुसन्धेयः । तथोपासने सत्येव तत्क्रतुन्यायेन तादृशात्मस्वरूपरूपफलप्राप्तेर्भावादित्यादिना “व्यतिरेकस्तद्भाव भावित्वान्नतूपलब्धिवत्’’ (ब्र.सू.3.3.54) इतिसूत्रेण सिद्धान्तितत्वा दिति चेन्न ॥ यथाविद्या विशेषप्रकरणश्रुतानांसत्यत्वज्ञानत्वादिस्वरूपनिरूपकधर्माणाम्"आनन्दादयःप्रधानस्य’’ (ब्र.सू.3.3.19) इत्यधिकरणोक्तन्यायेन सर्वब्रह्मविद्यापेक्षित ब्रह्मस्वरूपप्रतीत्युपयोगितया सामर्थ्यरूपाल्लिङ्गात्प्रकरणभङ्गेन दहरविद्याङ्गत्वेऽपि सर्वब्रह्मविद्यासाधारण्यमाश्रीयते । यथा वा “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’’ इति विद्याविशेषप्रकरणश्रुतानां वेदानुवचनादीनां सर्वविद्यापेक्षितचित्तनैर्मल्योपयोगित्व लक्षणसामर्थ्यरूपलिङ्गवशेन सर्वविद्यासाधारण्यमवमिहापि ब्रह्मप्राप्तिपूर्वकापहतपाप्मत्वादि गुणाष्टकविशिष्टस्वात्माविर्भालक्षणमोक्षरूपफलस्य तत्क्रतुन्यायेन तादृशस्वात्मोपासनसाध्यत्वेन प्रजापतिवाक्योदितप्रत्यगात्मविद्यायाः सर्वविद्यापेक्षितत्वात् ॥ प्रजापतेः सभांवेश्मप्रपद्ये ॥ प्रजापतेः परमात्मनः सभास्थानं वेश्म प्रपद्ये । प्रभुविमितं हिरण्मयमिति दहरविद्यायां न्निर्दिष्टं वेश्म प्रपद्य इत्यर्थः । न चात्र प्रजापतिशब्दः कार्यभूतहिरण्यगर्भविषयः । “नच कार्ये प्रत्यभिसन्धिः’’ (ब्र.सू.4.3.14) इति सूत्रकृतैव निरस्तत्वात् । भाष्यकृता च नच कार्ये प्रत्यभिसन्धिः कार्ये हिरण्यगर्भे । अपि तु परस्मिन्नेब ब्रह्मणि यशोऽहं भवामि ब्राह्ममानामिति तस्याभिसन्धातुः सर्वाविद्याविमोकपूर्वकसर्वात्मभावाभिसन्धानात् । अश्व इव रोमाणि विधूय पापं चन्द्र इवराहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्माब्रह्मलोकमभि सम्भवामीत्यभिसम्भाव्य ब्रह्मलोकस्याकृतत्वश्रवणात् । सर्वबन्धविनिर्मोकस्य च साक्षाच्छ्रवणा दिति भाषितम् ॥ यशोऽहम्भवामि ब्राह्मणानाम् । यशो राज्ञाम् । यशो विशाम् ॥ अत्र यशश्शब्देन तत्साधनमात्मोच्यते । ब्राह्मामादीनामात्मास्मीत्यर्थः । अत्राहमिति शब्दः स्वान्तर्यामिपरमात्मपरः ॥ तद्धैतद्ब्रह्मा प्रजापतय उवाच॥ इत्यादिएतद्ब्रह्मज्ञानम् । ब्रह्मा हिरण्यगर्भः । प्रजापतये काश्यपाय । शिष्टं स्वष्टम् । विद्याङ्ग भूततया कर्मानुष्ठातव्यमित्येतत्प्रस्तौति ॥ आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेण ॥ यथाविधानं विधिमनतिक्रम्य गुरोः कर्मातिशेषेण कर्माविशिष्टकालेन गुरुशुश्रूषानवरुद्धेन कालेनाधीत्येति योजना । “व्यासार्यैस्तु पुरुषार्थाधिकरणे’’ (ब्र.सू.3.4.1) अतिशेषेण निःशेषमित्यर्थ इति व्याख्यातम् । तेषामयमाशयः । ब्रह्मचारीवेदमधीत्योपायनान्याहृत्यगुर्वनु ज्ञातो दारान्कुर्वीत । विद्यान्ते गुरुरर्थे निमन्त्र्यस्ततः कृतानुज्ञानस्य वा स्नानमित्यादिस्मृत्यनु सारादाचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीरित्यादिश्रुत्यनुसाराच्च गुरोर्यथा विधानमाचार्यस्य नियमनमनतिलङ्घ्य कर्तव्यं कर्मातिशेषेण । अतिमर्यादमित्यादावतेर्मर्यादा भावे वृत्तेर्दर्शनादतिरर्थाभावे वर्तते । ततश्चातिशेषेणाभिसमावृत्त्य निर्वर्त्येत्येवान्वयः । नत्वतिशेषेणेत्यस्याधीत्येति पूर्वेणान्वयः । तस्य व्यवहितत्वान्निराकाङ्क्षत्वाच्च । न च गुरोः कर्मशेषेण जपेदिति गौतमस्मृत्यैकरूप्यात् कर्मातिशेषशब्दस्यापि कर्मातिशिष्टकालपरत्वं वक्तव्यमिति वाच्यम् । शेषातिशेषशब्दयोर्भिन्नार्थत्वेन तत्प्रत्यभिज्ञाभावादिति ॥ अभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः । अभिसमावृत्त्य समावर्तनं कृत्वा गुरुकुलान्निवृत्येत्यर्थः । न्यायतो दारानाहृत्य कुटुम्बे स्थित्वा गार्हस्थ्यविहिते कर्मणि निष्ठित इत्यर्थः । शुचौ देशे स्वाध्यायमधीयानः । स्वाध्यायमिति नित्यकर्मणामप्युपलक्षणम् ॥ धार्मिकान्विदधत् ॥ पुत्रशिष्यादीन्धर्मे नियुञ्जानः ॥ आत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्याहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः ॥ अनात्मविषयेभ्यः इन्द्रियाणि निगृह्य शास्त्रीयहिंसाव्यतिरिक्तां हिंसामकुर्वाण इत्यर्थः ॥ स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते । न च पुनरावर्तते न च पुनरावर्तते ॥ स्पष्टोऽर्थः ॥