- ईक्षतिकर्माधिकरणंईक्षतिकर्म व्यपदेशात् सः (ब्र.सू.1.3.12)प्रश्नोपनिषदि पञ्चमप्रश्ने । अथ हैनं शैष्यं सत्यकामः प्रपच्छ ॥ स्पष्टोऽर्थः ॥ स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वा व स तेन लोकं जयति ॥ ह वा इति प्रसिद्ध्यर्थः । तदित्यव्ययं स य इत्येतदधिकारिसामान्यपरम् । अयमर्थः हे भगवन्पूजार्ह । योऽधिकारी मनुष्याणां मध्ये मरणान्तम् एतदोङ्कारमभिध्यायति सः कतमं लोकं तेनोङ्कारेण प्राप्नोतीत्यर्थः । वा व शब्दोऽवधारणे प्रसिद्धौ वा ॥ तस्मै स होवाच ॥ स्पष्टोऽर्थः ॥ एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायनेनै कतरमन्वेति ॥ हे सत्यकाम एतदेव परं चापरं ब्रह्मोभयवाचकमित्यर्थः । वाच्यवाचकभावनिबन्धनं सामानाधिकरण्यम् । तथैव व्यासार्यैः “इक्षतिकर्माधिकरणे’’ (ब्र.सू.1.3.12) व्याख्या तत्वात् । किं तदित्यत्राह यदोङ्कारस्तदुपासक एतेनैवोङ्काररूपेणैकतरं परमपरं वा ब्रह्मान्वेत्युपास्त इत्यर्थः ॥ स यद्येकमात्रमभिद्ध्ययीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते ॥ स उपासकः यद्येकमात्रं ह्रस्वं प्रणवमपरब्रह्मवाचकमभिध्यायीतापरब्रह्मवाचकेन ह्रस्वेन प्रणवेन योऽपरं ब्रह्मोपास्ते स तेनैवैकमात्रोङ्कारकरणकाय परब्रह्मध्यानेनैव संवेदितो लब्ध सत्ताको जगत्यां भुव्यभिसम्पद्यते ॥ तमृचो मनुष्यलोकमुपनयन्ते ॥ तमृङ्मन्त्रा मनुष्यलोकं प्रापयन्ति ॥ स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥ स मनुष्यलोकं नीतस्तपसानशनादिना ब्रह्मचर्येण मैथुनवर्जनेन श्रद्धयास्तिक्यबुद्ध्या यदि सम्पन्नो भवति । तदा महिमानं श्रेयस्साधनकं ब्रह्मोपासनमनुतिष्ठतीत्यर्थः। नचैचोह्रस्वत्वाभावात्कथमोङ्कारस्यह्रस्वत्वमितिशङ्कनीयम् । न्यूङ्खेह्रस्वस्योङ्कारस्यदर्शनात् ॥ अथ यदि द्विमात्रेण मनसि सम्पद्यते ॥ द्विमात्रेणापरब्रह्मवाचकेन प्रणवेन यस्य मनस्यपरब्रह्मध्यानं सम्पद्यते ॥ सोऽन्तरिक्षं यजुर्भिरुन्नीयते स सोमलोकम् ॥ अन्तरिक्षम्-अन्तरिक्षाश्रिते सोमलोकं द्विमात्रोपासकः पुमान्यजुर्मन्त्रैरुन्नीयते अत्रान्तरिक्षसोमलोकः उर्ध्वलोकमात्रोपलक्षकः आमुष्मिकमात्रपरः । अत एव “ईक्षति कर्माधिकरणभाष्ये’’ (ब्र.सू. 1.3.12) यदपरं कार्यमपरब्रह्मनिर्दिष्टं तदैहिकामुष्मिकत्वेन द्वेधा विभज्यैकमात्रं प्रणवमुपासीनानामैहिकं मनुष्यलोकावाप्तिं फलमभिधाय द्विमात्रमुपासीना नामामुष्मिकमन्तरिक्षशब्दोपलक्षितं फलं चाभिधायेत्युक्तम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥ आमुष्मिकैश्वर्यमनुभूय तत्पुण्यावसाने पुनरावर्तते । यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीत ॥ एकमात्रत्वद्विमात्रत्वदशायामर्वाचीनफलसाधनेनैवाक्षरेण त्रिमात्रेण परमात्मान मभिध्यायीत आभिमुख्येन ध्यायतीत्यर्थः ॥ स तेजसि सूर्ये सम्पन्नः यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम् ॥ स उपासकस्तेजोमण्डले सूर्ये सङ्गतः सन्नुदरमेव पादा यस्य स पादोदरःसर्प इति यावत् । यथा सर्पो जीर्णत्वचा विनिर्मुक्तो भवत्येवं पाप्मना विनिर्मुक्तःसन् ब्रह्मलोकं वैकुण्ठम्ं सामभिर्गीतप्रधानैर्मन्त्रैरुन्नीयते । अत्र व्यासार्यैः स पाप्मना विनिर्मुक्त इति तच्छब्दान्तर श्रवणात्स सामभिरित्यैकपद्यमाश्रित्य सामगानसहितैरिति वा सान्त्ववचनसहितैः पुरुषैरिति वार्थः इति वर्णितम् ॥ स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षते ॥ “ईक्षति कर्माधिकरणे’’ (ब्र.सू. 1.3.12) यस्य हि कर्मनिमित्तं देहित्वं स जीवघन इत्युच्यते । चतुर्मुखस्यापि तच्छ्रूयते “यो ब्राह्मणं विदधाति पूर्वमि’‘त्यादिभाष्योक्तेर्जीवघन शब्देन संसारिमण्डलमुच्यते । “मूर्तौ धन’’ इति काठिन्यशब्दितमूर्तौ धनशब्दस्य निपाति तत्वाद्देहद्वारत्वादात्मकाठिन्यस्य धनशब्दो देहिपर एव । तस्मात्परः परिशुद्धात्मा । तस्मादपि परभूतं पुरिशयं पूःप्राणिनः सर्वगुहाशयस्येति सर्वेषु प्राणिष्वन्तरात्मतया शयानम् । “भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने’’ इति निरुपाधिक पुरुषशब्दवाच्यं भगवन्तं परवासुदेवमीक्षते इत्यर्थः । अत एव सामभिरुन्नीयते ब्रह्मलोकमित्यत्र ब्रह्मलोकशब्दस्यचतुर्मुखलोकपरत्वशङ्काव्युदस्ता । चतुर्मुखलोकगतानां परवासुदेवेक्षणासम्भवादिति द्रष्टव्यम् ॥ तदेतौ श्लोकौ भवतः ॥ तदोङ्कारध्यानमधिकृत्य वक्ष्यमाणौ श्लोकौ प्रवृत्तावित्यर्थः ॥ तिस्रो मात्रा मृत्युमत्यःप्रयुक्ता अन्योऽन्यसक्ता अनविप्रयुक्ताः । अविप्रयुक्ता न भवन्तीत्यनविप्रयुक्ताः विप्रयुक्ता इति यावत् । अत्यन्तद्रुतोच्चारणेन अन्योऽन्यसक्ततया अतिविप्रकृष्टकालतया अत्यन्तविप्रयुक्ततया वा प्रयुक्ता स्तिस्रो मात्रा मृत्युमत्यः मृत्युप्रदाः अनर्थावहा इति यावत् । क्रियासु बाह्यान्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः । यज्ञाद्या बाह्यक्रियाः आन्तरा मानसक्रियाः मध्यमाः वाचकजपरूपादिक्रिया । आसु क्रियासु तिसृषु मात्रा सम्यगत्यं तसंयोगविप्रयोगमन्तरेण प्रयुक्तासु सतीषु ज्ञः तत्प्रयोगाभिज्ञः पुमान्न कम्पते फलान्न च्यवत इत्यर्थः ॥ ऋुग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते । तमोङ्कारेणैवायनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ऋभिरेतम्मनुष्यलोकमित्यर्थः । यजुर्भिरन्तरिक्षम्-आमुष्मिकमित्यर्थः । यत्तत्कवयोवेदयन्तेकवयः क्रान्तदर्शिन इत्यर्थः । “तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः’’ इत्युक्तरीत्या सूरयःयंलोकम्पश्यन्तितमोङ्कारेणैवमार्गेणान्वेति गत्वाच शान्तमूर्मिषट्करहितञ्जरामरणशून्यमकुतोभयम् । सर्वकारणत्वेन सर्वोत्कृष्टं ब्रह्म च प्राप्नोतीत्यर्थः ॥