19 अक्षराधिकरणम्

18.अक्षराधिकरणंअक्षरमम्बरान्तधृतेः (ब्र.सू. 1.3.9)बृहदारण्यके पञ्चमाध्यायेऽष्टमे गार्गीब्राह्मणे ॥ सा होवाच अहं वै वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वा उग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ शरौ सपत्नातिव्याधिनौ हस्ते धृत्वोपोत्तिष्ठे देवमेव त्वां द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूहीति ॥ काशीदेशभवो विदेहदेशभवो हि शूरवंश्यः उत्सृष्टज्यं धनुः पुनरधिज्यं कृत्वा द्वौ बाणवन्तौ बाणशब्देन शराग्रे यःसोऽभिधीयते सपत्नातिव्याधिनौ सपत्नात्यन्तव्यथनशीलौ शरौ हस्ते गृहीत्वा सपत्नसमीपं गच्छति । एवमेवाहन्द्वाभ्यां प्रश्नाभ्यामुपस्थितास्मि । उपोदस्थाम् लुङि “गातिस्थाधुपाभूभ्यः (अष्टा.2.4.77)’’ इति सिचो लुक् । तौ मे ब्रूहीत्येवमुक्त आह याज्ञवल्क्यः ॥ पृच्छ गार्गीति सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदर्वाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ दिवो यदूर्ध्वं लोकजातं पृथिव्याश्चाधस्तनं यद्वस्तुजातं द्यावापृथिव्यन्तरालवर्तिकालत्रय परिच्छिन्नं यद्वस्तुजातमेतत्सर्वं कुत्र वा दीर्घतन्तुवदोतं तिर्यक्तन्तुवत्प्रोतं चेति । यदर्वाक् पृथिव्या इति पाठेऽप्ययमेवार्थः ॥ स होवाच यदूर्ध्वं गार्गि दिवो यदर्वाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ॥ आकाशशब्देन न वायुमदम्बरं गृह्यते तस्य सर्वविकाराश्रयत्वाभावात् । किन्तु अव्या कृताकाशः। एतच्च “अक्षरमम्बरान्तधृतेः(ब्र.सू. 1.3.9)’’ इत्यत्र स्थितम् ॥ सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचः । अपरस्मै धारय स्वेति ॥ यस्त्वं म एते प्रश्नं व्यवोच उक्तवानसि तस्मै ते नमोऽस्तु अपरस्मै द्वितीयप्रश्नायावधानं कुरु स होवाच । पृच्छ गार्गीति । सा होवाच यदूर्द्धं याज्ञवल्क्य दिवो यदर्वाक् पृथिव्य यदन्तरा द्यावा पृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते आकाश एव तदोतं च प्रोतं चेति ॥ य आकाश उक्त इति शेषः । कस्मिन्नु खल्वाकाश आेतश्च प्रोतश्चेति ॥ सोऽव्याकृताकाशः किमाश्रित इत्यर्थः ॥ स होवाचैतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनष्व ह्रस्वमदीर्घम लोहितमस्नेहमच्छायम तमोवायुरनाकाशमसङ्गमरसमचक्षुष्कमश्रोत्रमवागमन अतेजस्कम प्राणममुखममात्रमनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नातिकश्चन ॥ हे गार्गि तदेतत्सर्वासूपनिषत्सु प्रसिद्धम् । अश्नुत इति वा नक्षरतीति वा अक्षरं ब्रह्मब्राह्मणा ब्रह्मविदःअभिवदन्ति । अत्र ब्राह्मणाभिवदनकथनेन नाहं किञ्चिद्विप्रतिपन्नं वक्ष्यामीति हृदयम् । अस्थूलंस्थूलभिन्नम् । तर्हिकिमण्वितितत्राह अनण्विति। तर्हिकिंह्रस्वमित्यतआह अह्रस्वमिति । तर्हि किमदीर्घमित्यत्राह -अदीर्घमिति । एवमुत्तरत्रापि द्रष्टव्यम् । अमात्रम् । मात्रा इन्द्रियाणि यद्वा मात्रा परिच्छेदस्तद्रहितमित्यर्थः । अनन्तरमवाह्यं स्वाव्याप्तदेशशून्यमित्यर्थः । नतदश्नातिकिञ्चन तदक्षरङ्कर्तृकिञ्चिदपिनाश्नाति । अवाप्तसमस्तकामतयाभक्ष्यनिरपेक्षमित्यर्थः । स्वयं कस्यापि न भक्ष्यमित्याह न तदश्नाति कश्चनेति तद्ब्रह्मन अशनकर्म ॥ एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः ॥ वै शब्दोऽवधारणे प्रशासने आज्ञाचक्रेसूर्याचन्द्रमसौ देवताद्वन्द्वेच (अष्टा.6.3.25) इति पूर्वपदस्यानङ् । विधृतौ विशेषेण धृतौ तिष्ठतः प्रकृष्टं शासनं प्रशासनम् । क्वचिदप्यप्रतिहतत्व मेव शासनस्य प्रकर्षः । ततश्च सर्वविषयकं शासनमिति फलति “प्रशासितारं सर्वेषा’‘मिति प्रमाणानुसारात् । ततश्च सर्वविषयकशासनाधीनद्यावापृथिव्यादिधारणत्वमर्थ इति पर्यवस्यति । अत्र प्रधानस्य जगद्धारकत्वेऽपि प्रशासनाधीनधारकत्वाभावात् । जीवस्य प्रशासनाधीन यत्किञ्चिद्धारकत्वपि प्रशासनशब्दितसर्वविषयकशासनाधीन सर्वधारकत्वासम्भवाच्च नात्र जीवो वा प्रधानं वा प्रतिपाद्यते । इदञ्च “सा च प्रशासनात् (ब्र.सू.1.3.10) इति सूत्रे स्पष्टम् ॥ एतस्यावाक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्द्धमासा मासाऋुतवः संवत्सरा इति विधृतास्तिष्ठं तीति ॥ इतिशब्दः प्रकारपरः संवत्सरा इत्येवं जातीयकाः कालविशेषा इत्यर्थः ॥ एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्यो नद्यःस्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्याः यां यां च दिशमनु । प्रशासन इति निमित्ते सति सप्तमी । प्राच्यः-प्राक्प्रवाहाः प्रसिद्धा गङ्गा द्यानद्यः श्वेतेभ्यो हिमवदादिभ्यः पर्वतेभ्यो लोकोपकाराय स्यन्दन्ते । तत्प्रशासनाभावे ताः स्यन्दनाय न प्रभवन्तीति भावः । प्रतीच्यःप्रत्यङ्मुखाः । अन्या उदीच्यश्च नद्यः यां या दिशमनु म्प्रस्थितास्ताः सर्वा एतस्य प्रशासने सति स्यन्दन्ते ॥ एतस्यवा अक्षरस्यप्रशासनेगार्गिददतोमनुष्याः प्रशंसन्तियजमानन्देवादर्वीपितरोऽन्वायत्ताः ॥ एतस्य वा अक्षरस्य प्रशासने निमित्ते ददतस्तदाज्ञया दानं कुर्वतः आज्ञाकैङ्कर्यबुद्ध्या दानं कुर्वतो जनान् अन्वायत्ता अनुवशास्सन्तो मनुष्याः प्रशंसन्ति प्रशासन इत्येतद्यजमानं देवा दर्वी पितर इत्यत्रापि सम्बध्यते । अन्वायत्ता इति पदं देवमनुष्यपितृसाधारणम् । द्वितीयान्तपदानां प्रशंसन्तीत्यनेनान्वयः । परमात्माज्ञया यागं कुर्वतामन्वायत्ताः सन्तो देवाः प्रशंसन्ति । परमात्माज्ञया यागं कुर्वतामन्वायत्ताः सन्तो देवाः प्रशंसन्ति । परमात्माज्ञया प्रवृत्तां दर्वीहोममन्वायत्तास्सन्तः पितरः प्रशंसन्ति । एवमेव व्याख्यातं व्यासार्यैः ॥ यो ह वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्ष सहस्राण्यन्तवदेवास्य तद्भवति । यो वा एतदक्षरं गार्ग्यविदित्वास्माल्ँलोकात् प्रैति स कृपणः ॥ ब्रह्मज्ञानमन्तरेण क्रियमाणं होमयज्ञतपादिकं बहुकालमपि साध्यं सर्वं नश्वरफलसाधनम्भवति । तद्ज्ञानमन्तरेण लोकान्तर्गतस्यापि शोच्यताभवति । तदज्ञानात्संसारोभवतीतियावत् ॥ यो वा एतदक्षरं गार्गि विदित्वास्माल्ँलोकात्प्रैति स ब्राह्मणः ॥ ब्रह्मज्ञानवान् म्रियते स ब्रह्मवित् ब्रह्मानुभविता मुक्त इति यावत् । उक्तं च भगवता भाष्यकृता यो वा एतदक्षरं गार्गीत्येतद्व्याकुर्वता यदज्ञानात्संसारप्राप्तिः यज्ज्ञानाच्चामृतत्व प्राप्तिस्तदक्षरं परं ब्रह्मेति ॥ तद्वा एतदक्षरं गार्ग्यदृष्ट्रं दृष्टश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ ॥ अयोगिभिरदृष्टं सत् द्रष्ट्टरूपादिसाक्षात्कर्तृ श्रोतृशब्दसाक्षात्कारकर्तृ । मन्तृमन्तव्य साक्षात्कर्तृ विज्ञातृ अध्यवसायसाक्षात्कर्तृ ॥ नान्यदतोऽस्ति द्रष्ट्ट नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञातृ ॥ अन्तर्यामि ब्राह्मणोक्तरीत्यात्राप्यन्यपदस्य तत्सदृशपरत्वमेव । यथा चोल एव भूपतिर्नान्य इत्युक्तेस्तत्सदृशभूपतिनिषेधपरत्वमेवमिहाप्यद्रष्ट्टुत्वादिविशेषितनिरुपाधिकद्रष्ट्टुत्वाश्रयस्य परमात्मनः सदृशं किमपि नास्तीत्येवार्थः । यद्वैतदक्षरमन्यैरदृष्टं सत् स्वव्यतिरिक्तसमस्त साक्षिभूतम् । एवमनेनाक्षरेणादृष्टमेतस्याक्षरस्याधारभूतमेतस्य द्रष्ट्ट नास्तीत्यर्थः। पूर्वव्याख्याने समनिषेधः अस्मिंश्च व्याख्यानेऽधिकनिषेधश्च फलति । न च “नेह नानास्ती’‘तिवन्नान्य दतोऽस्ति द्रष्ट्रितिवाक्यस्याप्यब्रह्मात्मकवस्तुनिषेधपरत्वोपपत्तौ समाभ्यधिकनिषेधतया व्याख्यानं किमर्थमिति वाच्यम् । तद्वदत्रैक्यविधिशेषत्वाभावेन समाभ्यधिकनिषेधपरत्वस्यैव युक्तत्वात् । उपसंहरति । एतस्मिन्नु खल्वक्षरे गार्गि आकाश आेतश्च प्रोतश्चेति सा होवाच ब्राह्मणा भगवन्तस्तदेव बहुमन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वम् ॥ हे भगवन्तो ब्राह्मणा यूयं तदेव बहुमन्येध्वं यदस्माद्याज्ञवल्क्यान्नमस्कारं कृत्वा मुच्येध्वमिति यन्मुक्ता भवतेति यदस्तीत्यर्थः । न कदाचिदस्य पराभवः शङ्कनीयः नमस्कारं कृत्वा मुक्ताभवतेत्यर्थः । मन्येध्वमिति लिङ्मध्यमबहुवचनम् ॥ न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ॥ युष्माकं मध्य इमं याज्ञवल्क्यं कश्चिदपि ब्रह्मवादं प्रति जेता नास्तीत्यर्थः । ततो ह वाचक्नव्युपरराम ॥ वचक्नोरपत्यं वाचक्रवी गार्ग्युपररामेत्यर्थः ॥