18 भूमाधिकरणम्

17.भूमाधिकरणं (ब्र.सू.1.3.7)भूमा सम्प्रसादादध्युपदेशात् (ब्र.सू.1.3.7)छान्दोग्ये । सप्तमाध्यायोपक्रमे भूमविद्या व्याख्यायते ॥ अधीहि भगव इति होपससाद सनत्कुमारं नारदः ॥ सनत्कुमारं नारदो विधिवदुपसन्नः तं ॥ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति ॥ ज्ञातांशमुक्त्वा मत्समीप उपसीद तच्छ्रुत्वा अज्ञातांशं ते वदिष्यामीत्युक्तवानित्यर्थः ॥ स होवाच ऋुग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासं पुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्र विद्यां नक्षत्र विद्यां सर्पदेवजनविद्यामेतद्भगवोध्येमि सोऽहम्भगवो मन्त्रविदेवास्मि नात्मवित् ॥ मन्त्रवित् मन्त्रप्रधानङ्कर्मविदेवास्मि नात्मविदित्यर्थः ॥ श्रुतं ह्येव मे भगवदृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति ॥ भवादृशेभ्यः आत्मवित् शोकं तरतीति मया श्रुतमत आत्मानमुपदिश्य तं शोकं तारयत्वित्यर्थः ॥ तँ होवाच यद्वै किं चैतदध्यगीष्ठा नामैवैतन्नाम वा ऋुग्वेदो यजुर्वेद इत्यादिः ॥ अध्यगीष्ठा -अधीतवानसीत्यर्थः ॥ नामोपास्वेति स यो नामब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथा कामचारो भवति स यो नाम ब्रह्मेत्युपास्ते ॥ नामात्मकशब्दो यावति लोकेऽनुवर्तते तावत्पर्यन्तं नाम्नि निरतिशयलक्षणातिशय बृहल्लक्षण ब्रह्मत्वे आत्मत्वे च श्रद्धामलभमानः कामचारोभवतीत्यर्थः । सम्पृच्छति ॥ अस्ति भगवो नाम्नो भूय इति ॥ इतराह ॥ नाम्नो वा व भूयोऽस्तीति ॥ इतराह ॥ तन्मे भगवन् ब्रवीतीति ॥ इतराह ॥ वाग्वाव नाम्नो भूयसीति ॥ एवं प्रश्नप्रतिवचनरूपेण वाङ्मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नजलतेज आकाश स्मराशापर्यन्तमुपन्यस्याह ॥ प्राणो वाव आशाया भूयान् ॥ अत्र प्राणशब्देन प्राणसहचारी जीवो लक्ष्यते तस्य च हेतुरुत्तरत्र वक्ष्यते ॥ यथा वानाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम् ॥ यथा रथचक्रस्यारा नाभ्याश्रिताः एवं समस्त चेतनभूतजातमेतच्चेतनाश्रितमित्यर्थः । “भूतमात्रा प्रज्ञामात्रास्वर्पिता’’ इति श्रुत्यन्तरात् ॥ प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति ॥ गन्ता देवदत्तादिरपि जीव एव गमनकरणभूतो श्वादिरपि जीव एव दातापि जीव एव देयो गवादिरपि जीव एव सम्प्रदानभूतोब्राह्मणादिरपि जीव एवेत्यर्थः । प्राणो हि पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ॥ पित्रादिरपि जीव एवेत्यर्थः । ननु परिदृश्यमानमांसपिण्डविशेषा एव पित्रादिशब्दवाच्याः न जीव इति मन्यमानं प्रत्याह ॥ स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वा आचार्यं वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वैभातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ अथ पद्येनाक्रान्तप्राणान्शूलेन समासं व्यतिसन्दहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति प्राणो ह्येवैतानि सर्वाणि भवन्ति ॥ सजीवेषु पित्रादिशरीरेषु धिक्त्वामिति किञ्चिद्भृशमधिक्षिपति पुरुषे धिक्त्वामित्युक्त्वा पितृहेत्यादिशब्दान् प्रयुञ्जते तेष्वेव शरीरेषूत्क्रान्तजीवेषु शूलेन समांसमिति सम्पूर्वात्क्षेपार्थात् अस्यते र्णमुलन्तोऽयंशब्दः । शुलेन सम्यक्प्रक्षिप्य सम्यग्दाहके ऽपि पुरुषे पितृहेत्यादिशब्दा प्रयोगात् निर्जीवस्य शरीरस्य पित्रादित्वाभावस्य सिद्धत्वात् जीव एव पित्रादिर्भवतीत्यर्थः ॥ भगवताभाष्यकृता प्राणशब्दनिर्दिष्टःप्राणसहचारी प्रत्यगात्मैव न वायुविशेषमात्रं प्राणो ह पिता प्राणो ह मातेत्येवमादयः प्राणस्य चेतनतामवगमयन्ति पितृहा मातृहेत्यादिना सप्राणेषु पितृप्रभृतिषूपमर्दकारिणि हिंसकत्वादिनिमित्तोपक्रोशवचनात्तेष्वेव विगतप्राणेष्वत्यन्तोपमर्दकारिण्यप्युपक्रोशाभावाच्च हिंसायोग्यश्चेतन एव प्राणशब्दनिर्दिष्टः अप्राणेषु स्थावरेष्वपि चेतनेषूपमर्दभावाभावयोर्हिंसातदभावदर्शनात् हिंसायोग्यतयानिर्दिष्टःप्राणः प्रत्यगात्मैवेति निश्चीयते अत एव चप्राणशब्दनिर्दिष्टः पर इति न भ्रमितव्यं परस्य हिंसा प्रसङ्गाभावात् जीवादितरस्य भोग्यभोगोप करणस्य कृत्स्नस्याचिद्वस्तुनो जीवायत्तस्थितित्वेन प्रत्यगात्मन्ये वारनाभिदृष्टान्तोपपत्तेश्चेति भाषितम् यद्यपि “नायं हन्ति न हन्यते’’ इति निर्दिष्टस्य जीवस्य स्वतो हिंसायोग्यत्वाभावेन देहादिसाहित्य प्रयुक्तहिंस्यत्ववन्मुख्यप्राणस्यापि हिंस्यत्वं सुवचम् । स्थावरहिंसास्थलेऽपि “भेदश्रुतेर्वैलक्षण्याच्च ‘’(ब्र.सू.2.4.16.) इति सूत्रभाष्योक्तरीत्या स्थावरेषु प्राणस्य पञ्चधा वस्थाय शरीरधारणस्याभावोऽपिप्राणसद्भावोऽस्तीति “न तु दृष्टान्तभावात् (ब्र.सू.2.1.9)’’ इति सूत्रे भाषितत्त्वेन प्राणस्य सद्भावाद्धिंसावचनमुपपद्यत एव तथापि प्राणो ह पितेत्यादिवाक्य निर्दिष्टानां जीववाचितया लोके प्रसिद्धानां बहूनां पित्रादिशब्दानां गौणत्वकल्पनापेक्षया एकस्य प्राणशब्दस्यैव जीववाचित्वमाश्रयणीयमिति भाष्यकाराभिप्रायः। अत एव वृत्तिकृता भगवता बोधायनेनापि “भूमासम्प्रसादादध्युपदेशात्’’(ब्र.सू.1.3.7.) इति सूत्रव्याख्याने प्रत्यगात्मन ऊर्ध्वमुपदेशादित्येवोक्तं न तु मुख्यप्राणादूर्ध्वमिति । वेदनाजनकव्यापार लक्षणहिंसाया वेदनाशून्ये अचेतने असम्भवाच्च ॥ स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति ॥ पूर्वंवाक्ये प्राणशब्दनिर्दिष्टः स वा एष जीवः स्वात्मानमुक्तेन प्रकारेण मन्वानःअनेन प्रकारेण विजानन्नुपासीनः तेन प्रकारेण पश्यन् साक्षात्कुर्वन्नतिवादी भवति । अतिक्रान्तस्वोपास्यवस्तुवादी भवति स्वोपास्यवस्तुनः सर्वोत्कृष्टत्ववादी भवतीत्यर्थः । बृहस्पति समप्रत्यर्थिजनाप्रतिबाध्यस्वोपास्यदेवतायारम्यशीलत्वमतिवादित्वम् । तस्योपास्यदेवतातिशये पर्यवस्यति । “एवं पश्यन्नेवं मन्वानः’’ इत्यादौ “लक्षण हेतोःक्रियायाः’’ (अष्टा.3.2.126.) इति हेत्वर्थे शतृ प्रत्ययः। ततश्च स्वोपास्यदेवतासाक्षात्कारोऽतिवादित्वे हेतुरित्यर्थः । साक्षात्कारप्रीतस्वोपास्यदेवतानुग्रहादीदृशमतिवादित्वं भवतीति भावः । अत्र “स वा एष एवं पश्यन्नेवं मन्वानः’’ इति वाक्येन पूर्वसन्दर्भनिर्दिष्टप्राणस्य द्रष्ट्टत्वमन्तृत्वकथनादपि प्राणशब्दनिर्दिष्टो जीव इत्यवसीयते । प्राणशब्दनिर्दिष्टस्य जीवत्वज्ञापनायैव हि स वा एष पदयोः प्रवृत्तिः॥ तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापन्हुवीत ॥ प्राणशब्दितस्य जीवस्य पूर्वोक्तसर्वातिशायित्वादेवातिवादित्वं नापन्होतव्यमिति भावः । अत्र पूर्वपर्यायेष्वनुक्तस्यातिवादित्वस्य कथनात्प्रक्रान्त आत्मोपदेशः । प्राणशब्दिते प्रत्यगात्मनि पर्य्यवसन्न इति प्राणाद्वा व भूयोऽस्तीति पुनरपृच्छत्येव नारदे सनत्कुमारः स्वयमेव ततोऽप्यतिशयितं परमात्मानमुपक्षिपति । एष तु वातिवदति यः सत्येनातिवदति ॥ तु शब्दो विशेषप्रदर्शकः “तस्य हवा एतस्य ब्रह्मणो नाम सत्यमिति ’’ इति दहरविद्यायांवक्ष्यमाणत्वात् “सत्यं ज्ञानमनन्तं ब्रह्मेति’’ सत्यशब्दस्य ब्रह्मणि प्रसिद्धेः सत्यशब्दो ब्रह्मपरः । तस्य सततैकरूपत्वेन निर्विकारत्वात्सत्यत्वम् । तेन ब्रह्मणा निमित्तेन योऽतिवदत्येषोऽति वादी पूर्वस्मात्प्राणातिवादिनो विशिष्टइत्यर्थः । अत्र भाष्यकृता सत्येनेति “इत्थं भूतलक्षणे (अष्टा.2.3.21.)’’ तृतीया सत्येन परेण ब्रह्मणा उपास्येनोपलक्षितो योऽतिवदतीत्यर्थः इतीत्थम्भूतलक्षणे तृतीया कण्ठतःप्रतिपादिता । अतिवाद्यन्तरत्वनिमित्तसत्यशब्दाभिधेयं परं ब्रह्म प्रतीयत इति भाष्यवाक्यान्निमित्तत्वार्थकत्वमपि तृतीयायाःसूचितम् । ततश्च निमित्तस्य करणत्वविवक्षया कारकविभक्तित्वमपि भाष्यकृदभिमतमेवेति द्रष्टव्यम् । अत्र सत्यातिवादिनः प्राणातिवाद्यपेक्षयातिशयकथनात्सत्यशब्दनिर्दिष्टस्य ब्रह्मणः प्राणशब्दितजीवापेक्षया भूयस्त्वमुक्तं भवति । न च पूर्वप्रस्तुतप्राणातिवादिन एव “एष तु वा अग्निहोत्री यः सत्यं वदति’’ इत्यादाविव सत्यवदनमङ्गतया विधीयतामिति वाच्यम् । “एष तु वा अग्निहोत्री’’ इति वाक्ये द्रव्यदेवतान्तराभावेनाग्निहोत्रन्तराप्रतीतेस्तुशब्दस्वारस्य भङ्गः इह तु प्रकृतातिवादिनिमित्तप्राणव्यतिरिक्तस्यैव सत्यशब्दितस्य ब्रह्मणो निमित्तान्तरस्य प्रतीतेर्न तत्स्वारस्य भङ्गो युक्तः । किं च सत्यवदनस्याङ्गतया विधाने सत्यं वदतीति निर्देशस्य युक्ततया सत्येनेति तृतीयाया अतीत्युपसर्गस्य चायोगादिति द्रष्टव्यम् । सोऽहं भगवः सत्येनातिवदानीति ॥ ब्रह्मणातिवदानीति शिष्यः प्रार्थयामास इत्यर्थः । इतराह । सत्यं त्वेव विजिज्ञासितव्यमिति ॥ यदि सत्यशब्दितब्रह्मनिमित्तकातिवादितामभिलषसि तर्हि ब्रह्मोपास्यमित्यर्थः । ब्रह्मोपासनमतिवादित्वनिमित्तमिति यावत् । शिष्यस्तदभ्युपगच्छति ॥ सत्यं भगवो विजिज्ञास इति ॥ उपासनं करोमीत्यर्थः । ब्रह्मोपासनस्यातिवादित्वे हेतुत्वं ब्रह्मसाक्षात्कारद्वारेत्याह ॥ यदा वै विजानात्यथ सत्यं वदति ॥ अत्र विजानाति शब्दः साक्षात्कारपरः यदा वै साक्षात्करोति तदा सत्यं वदति सत्येनातिवदतीत्यर्थः । पूर्वत्र सत्येनातिवदानीति निर्दिष्टत्वात् । सत्यशब्दितस्य ब्रह्मणोऽतिवदनं प्रति निमित्तत्वेन करणत्वविवक्षया । तृतीयावद्वदनं प्रति कर्मतया द्वितीयाया अप्युपपत्तिः । “स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति’’ इति साक्षात्कारमननोपासनानामतिवादित्वनिमित्ततया पूर्वत्रोक्तत्वात् सत्यन्त्वेव विजिज्ञासि तव्यमित्युपासनस्योक्तत्वान्मतिस्त्वेव विजिज्ञासितव्येति मननस्य वक्ष्यमाणत्वादत्र विजानातीत्यनेन साक्षात्कार एवोच्यते । उक्तं च व्यासार्यैः । विजानातिशब्दः साक्षात्कारपरः न तु शास्त्रजन्यज्ञानपरः । “यदा वै मनुतेऽथविजानाति’’ इति विजानात्यर्थस्य मनन साध्यत्वावगमात् । सत्यं वदति -सत्यमतिवदतीत्यर्थः ॥ नाविजानन्सत्यं वदति विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति ॥ साक्षात्काराभावेनातिवादित्वमित्यतः साक्षात्काररूपं विज्ञानं विजिज्ञासितव्यं सम्पाद्यमित्यर्थः । पाकं पचतीतिवत् विज्ञानं विजिज्ञासितव्यमिति निर्देशः । उत्तरत्रापि विजिज्ञासितव्यपदस्य सम्पाद्यत्वमेवार्थः । उक्तं च व्यासार्यैः सत्यव्यतिरिक्तविषयाणि विजिज्ञासितव्यपदानि सम्पाद्यवाचीनीति । शिष्यस्तदभ्युपगच्छति ॥ विज्ञानं भगवो विजिज्ञास इति ॥ हे भगवन्नतिवादित्वनिमित्तं साक्षात्कारं सम्पादयामीत्यर्थः । पूर्वखण्डे सत्यं त्वेव विजिज्ञासितव्यमिति ब्रह्मोपासनस्यातिवादित्वहेतुत्वकथनादत्रच वाक्ये साक्षात्कारस्यातिवदनहेतुत्वकथनाद्ब्र्रह्मोपासनतत्साक्षात्कारयोर्द्वारद्वारिभावापन्नयोरेवाति वादित्वहेतुत्वं सिध्यति । एतत्सर्वमभिप्रेत्य भगवता भाष्यकृता ब्रह्मसाक्षात्कारनिमित्तातिवादित्वसिद्धयेपरब्रह्मसाक्षात्कारोपायभूतं ब्रह्मोपासनं सत्यं त्वेव विजिज्ञासितव्यमित्युपदिश्यत इति भाषितम् । केचित्तु “सत्यं त्वे व विजिज्ञासितव्य’’ मिति विहितस्य साक्षात्कारस्य उपासनात्मकं हेतुभूतं विज्ञानमेव “यदा वै विजानात्यथ सत्यं वदती’’ तिखण्डे नापि निर्दिश्यते नतुसाक्षात्कारः । एवं च सति कारणपरम्परोपदेशावैरूप्यं सिध्यतीति वदन्ति ॥ यदा वै मनुतेऽथविजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति ॥ ब्रह्मोपासनोपायभूतं मननं सम्पाद्यमित्यर्थः ॥ यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धात्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ॥ अत्र च भाष्यकृता श्रवणप्रतिष्ठार्थत्वान्मननस्य मननोपदेशेन श्रवणमप्यर्थसिद्धं मत्वा श्रवणोपायभूतां ब्रह्मणि श्रद्धां श्रद्धात्वेव विजिज्ञासितव्येतीत्युपदिश्यत इति भाषितम् । श्रवणोपायभूतां ब्रह्मणि श्रद्धामित्यनेन ब्रह्मश्रवणविषयिणी श्रद्धाविवक्षिता श्रद्धा त्वरेति व्यासार्यैर्व्याख्यातम् ॥ यदा वै निस्तिष्ठत्यथ श्रद्दधाति नानिस्तिष्ठन् श्रद्दधाति निस्तिष्टन्नेव श्रद्दधाति निष्ठात्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञास इति ॥ ब्रह्मैव श्रोतव्यं नान्यदिति हि व्यवसायरूपा निष्ठा श्रोतुस्तरालक्षणा श्रद्धोपायतया सम्पाद्येत्यर्थः ॥ यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति कृतिं भगवो विजिज्ञास इति ॥ उद्योगप्रयत्नापरपर्यायाश्रोतव्यान्तरेषुहेयत्वानुसन्धानेन मनसो नियमनरूपाकृतिः । ब्रह्मैव श्रोतव्यमिति व्यवसायलक्षणानिष्ठाहेतुत्वात्सम्पाद्येत्यर्थः ॥ यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ॥ उक्तलक्षणायाः कृतेर्ब्रह्मणि निरतिशयानुकूलत्वावगतिमन्तरेणासम्भवात् श्रोतव्यान्तरेषु हेयत्वानुसन्धानाहितमनोनियमनरूपकृतिहेतुतयात्यन्तानुकूलत्वलक्षणं सुखत्वं ब्रह्मणि ज्ञातव्यमित्यर्थः । अत्र चश्रवणमननश्रद्धादेः प्रागेव सुखप्राप्तेरसम्भवादत्र प्राप्त्यर्थस्यापि लभतेर्ज्ञानमेवार्थः । ज्ञानस्यापि प्राप्तिरूपत्वात् श्रोतव्येऽत्यन्तानुकूलत्वज्ञानाभावेश्रोतव्यान्तरेषु हेयत्वानुसन्धानाऽऽहितमनोनियमनरूपकृतेरसम्भवात्यन्तानुकूलत्वं श्रोतव्येब्रह्मणि ज्ञातव्यमिति भावः । अत्र विजिज्ञासितव्यशब्दस्य ज्ञातव्यत्वमर्थो नोपासितव्यत्वंसम्पादनीयत्वं वा । यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमात्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ॥ भूमशब्दो बहुत्ववाची बहुशब्दात्पृथ्वादित्वादिमनिचि “बहोर्लोपो भू चबहोः (अष्टा.6.4.158) इति प्रकृतिप्रत्यययोर्विकारे च सति तन्निष्पत्तेर्बहुत्वं चात्र वैपुल्यं न सङ्ख्याविशेषः बहुशब्दस्य “बहुषु बहुवचनम्’’(अष्टा.1.4.21.) इत्यादौ सङ्ख्यायामिव “अल्पं वा बहु वायस्यश्रुतस्योपकरोति यः’’ इत्यादावल्पत्वप्रतिप्रयोगिनि वैपुल्येऽपि प्रयोगदर्शनादिहापि नाल्पे सुखमस्तीत्यल्पत्वप्रतिद्वन्द्वितयैव भूमशब्दप्रयोगाच्च वैपुल्यमेवार्थः वैपुल्यं च गुणोत्कर्षरूपम् । उत्तरत्रोत्कर्षस्य प्रतिपादितत्वात् न तु परिमाणरूपम् अत उत्कर्षकृतवैपुल्यमेवेह भूमशब्देन विवक्षितम् । अत एव न वैपुल्यरूपधर्मपरो भूमशब्दःसुखस्य वैपुल्यरूपत्वासम्भवात् अल्पप्रतियोगितया निर्देशाच्च न ह्यत्र वोत्तरत्र बाल्यत्वं भूम प्रतियोगितया निर्दिश्यते अपितु अल्पमेव । अतोऽल्पशब्दप्रतियोगितया प्रतीयमानो भूमशब्दो वैपुल्याश्रयधर्मिपर एव ततश्चायमर्थः । यदुत्कृष्टतया विपुलं तदेव सुखमत्यन्तानु कूलत्वमित्यर्थः “अपशवो वा अन्ये गोअश्वेभ्य’’ इत्यत्र गवाश्वादिव्यतिरिक्ते पशुत्व निषेधस्य प्रशस्तपशुत्व निषेधपरत्ववत् अल्पे प्रत्यगात्मसुखे सुखत्वनिषेधस्य प्रशस्तसुखत्वनिषेधपरत्वात् एतत्सर्वम्भाष्येपिस्पष्टम् एतद्वाक्यप्रस्तुतयोर्भूमाल्पशब्दयोरर्थञ्जिज्ञासमानम्प्रत्याह ॥ यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्रान्यत्पश्यत्यन् यच्छृणोत्यन्यद्विजानाति तदल्पम् ॥ यत्रेत्यनन्तरमनुभूयमान इत्यध्याहारः यत्र यस्मिन् वस्तुन्यनुभूयमान ेततोऽन्यन्न दृश्यते न श्रूयते न विज्ञायते च स भूमेत्यर्थः यस्मिन्दृश्यमाने ततोऽन्यन्न दृश्यते यस्मिन्श्रूयमाणे ततोऽन्यन्न श्रूयते यस्मिन्विज्ञायमाने ततोऽन्यन्ना विज्ञायते सभूमेति वार्थः । यद्वा । सप्तम्या विषयत्वमर्थः पश्यन्नित्यध्याहारः यं पश्यन्नन्यं न पश्यतीत्यर्थः । अत्र तदितरदर्शनाद्यभावो विषयाभावकृतः ततश्च यतोऽन्यन्नास्ति स भूमेति पर्यवसितोऽर्थः । ननु चेतनाचेतनवर्गस्य तद्भिन्नत्वात्कथं भूम्नोऽन्यन्नास्तीत्युच्यते न च चिदचिद्विशिष्टस्यैव भूमशब्दार्थत्वात् चिदचितोरपि तत्रान्तर्भावात्तदन्यन्नेति निषेधः शक्यते कर्तुमिति वाच्यं विशेषण भूतयोश्चिदचितोर्भूमशब्दार्थभूताद्विशिष्टादन्यत्वेन ततोऽन्यन्नास्तीति निषेधस्यायुक्तत्वादत एव जगदैश्वर्यविशिष्टमनुभवन्न तदतिरिक्तम् पश्यतीत्यपि न युक्तम् । ऐश्वर्यविशिष्टादीशितव्यस्य भिन्नत्वात्सर्वज्ञत्वेन विशिष्टमनुभवन् तदतिरिक्तं न पश्यतीति तस्यापि भूमात्वप्रसङ्गात् । अथात आत्मादेश इति भूम्न एवात्मत्वस्योपदेक्ष्यमाणत्वात् । तरति शोकमात्मविदिति प्रस्तुतस्यात्मोपदेशस्य भूम्नि पर्यवसानाच्च भूम्न आत्मत्वमवर्जनीयम् । न हि चिदचिद्विशिष्टस्यात्मत्वमस्ति विशेष्यस्यैवान्तः प्रविश्य नियन्तृत्वेनात्मत्वादतश्च तस्यैव भूमात्वं वक्तव्यम् । न चैतल्लक्षणं सम्भवति तद्व्यतिरिक्तस्य वस्तुनः सत्वादिति चेत् उच्यते । ब्रह्मशब्दवद्भूमशब्दस्यापि वस्तुपरिच्छेदरहितत्वमेवार्थः । वस्त्वपरिच्छेदो नामेदमिदं नेति निर्देशार्हत्वराहित्यम् । तच्च स्वरूपाभेदाद्वा भवेत्तदपृथक्सिद्धत्वाद्वा भवेत् । जीवजडयो रीश्वराभेदाभावात्तदपृथक्सिद्धसत्ताकत्वमिति फलति । तच्च द्वेधा घटतेतत्सत्ताव्यतिरिक्त सत्ताशून्यत्वाद्वा “यदधीना यस्य सत्ता तत्तदित्येव भण्यते’’ इति स्मृत्यनुसारेण तदधीन सत्ताकत्वा द्वाभवेत्। तत्र तत्सत्ताव्यतिरिक्तसत्ताशून्यत्वमपि सत्तारूपविशेष्याभावेनमिथ्यात्वाद्वा भवेत् । तत्सत्ताऽभिन्नसत्ताकत्वेन सत्ताव्यतिरिक्तत्वरूपविशेषणाभावाद्वा भवेत् । तत्र सत्ताशून्यत्वं सकलप्रमाणविरुद्धत्वन्नाभ्युपगमार्हं तथैव तत्सत्ताभिन्न सत्ताकत्वमपि नाभ्युपगमार्हम् । अपि तु तत्सत्ताधीनसत्ताकत्वमेव । एवं विधापृथक्सिद्धत्वस्य सिद्धान्तेभ्यु पगतत्वात् । “अंशो नानाव्यपदेशा’’ (ब्र.सू.2.3.42.) दित्यत्र अपृथक्सिद्धत्व लक्षणांशत्वस्याभेदव्यपदेशनिर्वाहकत्वस्योक्तत्वादात्मभरणमिह सत्ताशब्दार्थः । उक्तं च हरिणा “आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते’’ इति चेतनाचेतनयोरात्मभरणलक्षणासत्ता परमात्मसत्ताधीनेत्यर्थः । ततश्च यत्र नान्यदित्यस्यापि यत्सत्तानधीनसत्ताकं नास्ति एतदनात्मकं नास्तीत्यर्थपर्यवसानान्नानुपपत्तिः । यद्वा “समानेषु र्पूवत्वा’’ दितिसाप्तमिकाधिकरणे अन्येतरादिसर्वनामशब्दानां पूर्वनिर्दिष्टसदृशवाचित्वस्य व्यवस्थापिततया नान्योऽतोस्ति द्रष्टेत्यादि वाक्योष्विव यत्र नान्यत्पश्यतीति वाक्येऽपि सामान्यनिषेधस्य विशेषनिषेधपरत्वाश्रयणान्नानुपपत्तिः । यो वै भूमा तदमृतम् । अथ यदल्पं तन्मर्त्यम् ॥ उक्तलक्षणो भूमैवामृतम् । जन्ममरणादिशून्यं नित्याविर्भूतानन्याधीनापहत पाप्मत्वादिगुणाष्टकमिति यावत् । इतस्त्वनीदृशम् । नित्यमुक्तादीनामप्यनन्याधीनतादृकत्वाभावान्नवाक्यानुपपत्तिरिति द्रष्टव्यम् ॥ सर्ववस्तूनामाधारसापेक्षत्वं दृष्ट्वा पृच्छति । स भगवः कस्मिन्प्रतिष्ठित ॥ इति॥ उत्तरमाह ॥ स्वे महिम्नि । इति ॥ स्वस्वरूपमहिमाधारकः । “स्वयन्दासास्तपस्विनः’’ इतिवत् । अनाधारइत्यभिप्रायः ॥ उक्ताभिप्रायेणाचार्य्यः स्वयमुक्त्वा स्वशब्दस्यात्मात्मीयवचनत्वादात्मीये नियाम्यतया महिमभूते गवाश्वहस्तिहिरण्यदासभार्यादिलक्षणे प्रतिष्ठत इत्यभिप्रायं शिष्यो गृह्णीयादथवा स्वशब्दस्यात्मपरतया । आत्माधार इत्यभिप्राय इति बुध्येत न च तदुभयमपि सम्भवति परमात्मन उभयविभूतिलक्षणात्मीय महिमसद्भावेप्यनाधारस्य परमात्मनस्तत्प्रतिष्ठितत्वासम्भवान्नह्यति शिक्षितोऽपि प नटःबटुः स्वस्कन्धमारुह्य नरीनर्तीति न्यायेन स्वस्वाश्रितत्वासम्भवाच्च न द्वयमपि युज्यते । अतः शिष्यस्य सा बुद्धिर्निवर्तनीयेति मत्वा पुनराह ॥ यदि वा न महिम्नीति ॥ यदि वा अन्यथा पश्यसि तदा न महिम्नीति ब्रूम इत्यर्थः । तद्विवृणोति ॥ गोऽश्वमिव महिमेत्याचक्षते हस्तिहिरण्यं दासभार्य्यं क्षेत्राण्यायतनानीति ॥ इति शब्दः प्रकारवचनः एवञ्जातीयकानीत्यर्थः ॥ नाहमेवं ब्रवीमीति होवाच ॥ तत्र प्रतिष्ठितत्वं न ब्रवीमीत्यर्थः । उक्तं च व्यासार्यैः । “अस्य महिमानमिति वीतशोकः’’ “च’’ एतां विभूतियोगं इत्यादिश्रुतिस्मृतिषु च परमात्मनो महिमवत्वावगमात् । यदि वा महिम्नीति न महिम निषेधः अपि तु विभूतिरूपमहिमप्रतिष्ठितत्वनिषेधोऽवगम्यत इति स्वस्वरूपप्रतिष्ठितत्वं । निषेधति ॥ अन्योह्यन्यस्मिन्प्रतिष्ठित इति ॥ ननु यत्र नान्यत्पश्यतीत्यनुपपन्नं नानादिग्वर्तिनां चेतनाचेतनपदार्थानामुपलं भादित्यत्राह ॥ स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदँ सर्वमिति ॥ सामानाधिकरण्यात्स इति निर्दिष्टस्य भूम्नःइदं सर्वमिति निर्दिष्टस्य चिदचिद्वर्गस्य च शरीरात्मभावः फलितो भवति शरीरात्म भावश्च व्याप्तिनिबन्धन इति स एवाधस्तादिति श्रुत्यभिप्रायः । ततश्च यत्र नान्यत्पश्यतीति तदनात्मकान्यनिषेधे नानुपपत्तिरिति भावः ॥ एवं सर्वात्मभूतस्य भूम्नः उपासकेन स्वशरीरकतयोपासनं कर्तव्यमित्युपदिशति ॥ अथातोऽहङ्कारादेशः ॥ क्रियत इति शेषः अथ शब्दः प्रकृतविषयत्वद्योतनार्थः । अहङ्कारोऽहम्बुद्धिः अहङ्ग्रहेण भूम्न उपासनप्रकारो तःपरमुपदिश्यत इत्यर्थः न तु जीवस्वरूपोपदेश इति मन्तव्यम् तथासत्यहमादेश इति निर्देशस्यैव युक्ततया कारपदवैयर्थ्यात् ॥ परमात्मनोऽहङ्ग्रहेणोपासनप्रकारमेव दर्शयति ॥ अहमेवाधस्तात् अहं उपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदँ सर्वमिति ॥ सर्वदिग्वर्तिसर्वात्माभूमाहमेवेति ज्ञातव्यमित्यर्थः । न तु जीवस्य सर्वात्मकत्वमुपदिश्यत इति भ्रमितव्यं । जीवस्यातथात्वात् तथात्वे कार शब्दवैयर्थ्यस्योक्तत्वाच्च । उक्तं च भगवताभाष्य कृता यत्त्वहमेवाधस्तादित्यादिना सर्वात्मत्वमुपदिष्टम् तद्भू्रमगुणविशिष्टस्य ब्रह्मणोऽहं ग्रहेणोपासनमुपदिश्यते । अथातोऽहङ्कारादेशइतिपरमात्मनःप्रत्यगात्मशरीरकत्वज्ञानप्रतिष्ठार्थमहङ्ग्रहेणोपासनङ्कर्तव्यमितिच ॥ नन्वहम्बुद्धिशब्दयोः जीवात्मविषययोः कथम्भूमपर्यन्तत्वम् । अतोऽनहमर्थे च परमात्मन्यहङ्ग्रहोपासनस्यायथार्थत्वमेव स्यादित्याशङ्क्य भूम्नः प्रत्यगात्मानं प्रत्यात्मत्वेन तद्विषयबुद्धिशब्दानां परमात्मपर्यन्तत्वमुपपद्यत इति दर्शयन्तरति शोकमात्मविदिति प्रक्रान्तमात्मोपदेशं भूम्नि समापयति ॥ अथात आत्मादेशः ॥ अत्रापि क्रियत इति शेषः । अथशब्दः प्रकृतविषयत्वद्योतनार्थः । आत्मादेशः आत्मत्वोपदेशः क्रियत इत्यर्थः । आत्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदँ सर्वमिति ॥ यद्यपि स एवेदं सर्वमिति सामानाधिकरण्येनात्मत्वं फलति तथापि कण्ठोक्त्यो ेपासकात्मत्वसिध्यर्थं विशिष्टकण्ठोक्त्योपदेशः । न चाथात्मादेश इत्युपासकं प्रत्यात्मत्वोपदेश इति विशेषे किन्नियामक मिति वाच्यम् । “एवं’’ विजानत आत्मतः प्राणा इति विद्वदात्मनः प्राणाद्यपादानत्वेन सार्वात्त्म्यस्योत्तरत्र प्रतिपादयिष्यमाणत्वात् । यत्त्वत्र परैः अहङ्कारस्यात्मैकत्वेन प्रत्यक्ष सिद्धस्याथातोऽहङ्कारादेशः अथातआत्मादेश इति पृथगुपदेशो भेदार्थः । भूमात्मनोर्भिन्नत्वेन प्रसिद्धयोः पृथगुपदेश ऐक्यार्थः । द्वयोः सार्वात्म्यायोगादिति तदसारमहमर्थादन्यस्यात्मनः भूमाख्यब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वात्तयोरुपदेशो भेदार्थः । अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात् तयोरुपदेश ऐक्यार्थ इति वैपरीत्यस्यापि सुवचत्वादित्यास्तां तावत् ॥ स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति ॥ रतिःस्रक्चन्दनादिजन्या प्रीतिः । क्रीडोद्यानादिजन्या स्त्रीसम्भवा प्रीतिः । मिथुनं विभूतिजन्याप्रीतिःआनन्दः आत्मन्येवरतिर्यस्य स तथोक्तः । सर्वविधसुखानुभवोद्ध्यात्म सुखानुभवान्तर्गतइत्यर्थः । स्वराट् स्वयमेव राजा अकर्मवश्यः विधिनिषेधकिङ्करो न भवतीति यावत् । च “अत एव अनन्याधिपतिः’’ (ब्र.सू.4.4.9.) इति सूत्रे अत एव सत्यसङ्कल्पत्वादेव अनन्याधिपतिः अन्याधिपतित्वं विधिनिषेधयोग्यत्वं विधिनिषेधयोग्यत्वे हि प्रतिहतसङ्कल्पत्वं भवेत् । अतः सत्यसङ्कल्पत्वश्रुत्यैवानन्याधिपतित्वं सिद्धम् । अत एव स स्वराड्भवतीत्युच्यत इति भाषितम् । “प्रत्यक्षोपदेशान्नेति’‘चेत् (ब्र.सू.4.4.18.) इतिसूत्रे अकर्मप्रतिहतज्ञानो मुक्तः विकारिलोकान् ब्रह्म विभूतिभूताननुभूय यथाकामं तृप्यतीत्यर्थः इति तस्य सर्वेषु लोकेषु कामचारो भवतीत्यस्य वाक्यस्यार्थ इति भाषितम् । अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषां सर्वेषु लोकेष्वकामचारो भवति ॥ ये उक्तप्रकारादन्येन प्रकारेणोपासते तेऽन्यराजानो भवन्ति विधिनिषेधकिङ्करा भवन्ति कर्मवश्या भवन्तीत्यर्थः । स्वराडित्यस्य प्रतिद्वन्द्वित्वात् क्षय्यलोकाश्च भवन्तीत्यर्थः । अत्र क्षय्यलोका भवन्तीत्यनेन यथोक्त प्रकारेण परमात्मोपासकानामक्षय्य भगवल्लोकत्वमस्तीत्युक्तं भवति । अथात आत्मादेश इत्यनेनोक्तोपासकान्तर्यामिणः चेतनाचेतनसकलप्रपञ्चोेपादानत्वलक्षणं सर्वात्मत्वं स्पष्टयति ॥ तस्य ह वा एतस्यैवं पश्य एवं मन्वानस्यैवं विजानत आत्मतःप्राण आत्मत आशात्मतःस्मर आत्मत आकाश आत्मतस्तेजः आत्मतः आपः आत्मतः आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यान मात्मतश्चित्तमात्मतःसङ्कल्पआत्मतोमनआत्मतोवागात्मतोनामात्मतोमन्त्राआत्मतः कर्माणिआत्मतएवेदँसर्वमिति ॥ ततश्च विहितोऽहङ्ग्रहस्तात्विकविषय एवेति भावः ॥ तदेषश्लोकः ॥ तस्मिन्विषये एष वक्ष्यमाणः श्लोकः प्रवर्तते इत्यर्थः ॥ न पश्यो मृत्युं पश्यति न रोगं नोत दुःखतां । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति ॥ पश्यः -ब्रह्मदर्शि मृत्युं -मरणं रोगं -दुःखसाधनम् जगति प्रतिकूलतां च न पश्यति सर्वसाक्षात्कर्ता सन्सङ्कल्पमात्रेण सङ्कल्पितानर्थान्सर्वस्मिन्काले प्राप्नोतीत्यर्थः । अपहत पाप्मत्वादिगुणाष्टकाविर्भावो भवतीति पर्यवसितोऽर्थः । अत्र जगति दुःखता न्न पश्यतीत्युक्त्या जगतो मुक्तं प्रति प्रतिकूलत्वं नास्ति पित्तोपहतस्य पयसः प्रतिकूलत्ववत् जगतः प्रतिकूलत्वं कर्मनिबन्धनमित्युक्तं भवति ॥ स एकधा भवति त्रिधाभवति पञ्चधा भवति सप्तधा नवधा चैव पुनश्चैकादशस्मृतः । शतं च दशचैकं च सहस्राणि च विँशतिः ॥ आत्मनो निरवयवस्य त्रिधा पञ्चधा विभागायोगात् सङ्कल्पपरिगृहीतानेकविध शरीरो भवतीत्यर्थः ॥ एवं मोक्षसाधनभूतोपासनप्रकारमुपदिश्य तादृशोपासननिष्पत्तावन्तः करणस्योपास नोत्पत्तिप्रतिबन्धकपापराहित्यमपेक्षितम्। तच्च राजसतामसाहारसेविनां न भवत्यपि तु तद्विविक्तसात्विकाहारसेविनां भवेदित्युपदिशति ॥ आहारशुद्धौ सत्वशुद्धिः सत्वशुद्धौ ध्रुवास्मृतिःस्मृतिलम्भे सर्वग्रन्थीनां वि प्रमोक्षः ॥ इतिध्रुवस्मृतिलम्भे दुर्मोचतयाग्रन्थिशब्दवाच्यानांअविद्यारागादीनां मोक्षो भवतीत्यर्थः । अत्र स्मृतिलम्भ एव सर्वग्रन्थीनां प्रमोक्ष इत्युक्त्या स्मृत्यनन्तरभाविना स्मृतिविलक्षणेन दर्शनेन न मोक्षः अपि तु दर्शनसमानाकारस्मृतिसन्तानेनैव ततः स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नित्यत्र पश्यन्नित्यादिशब्दा दर्शनसमानाकारोपासनपराः प्रकरणान्तरस्थाः “आत्मा वारे द्रष्टव्यःश्रोतव्यः’’ इत्यादिशब्दाश्चदर्शनसमानाकारपरा इति सूचितं भवति ॥ शास्त्रार्थमशेषमुक्त्वा आख्यायिकामुपसंहरति श्रुतिः ॥ तस्मै मृदितकषायाय तमसः पारन्दर्शयति भगवान्सनत्कुमारः ॥ एवं शुद्धान्तः करणाय नारदाय भगवान्सनत्कुमारः संसारसन्तमसचण्डभानूपासनगोचरं परमात्मानं स्पष्टमुपादिशदित्यर्थः । अत्र नामादिषु ब्रह्मत्वेनोपदिष्टेष्वपि तत्र ब्रह्मत्वस्यानभ्युप गमात्तस्य मृदितकषायत्वं शिष्यस्य परिशुद्धान्तः करणतयोपदेशयोग्यां परीक्षयैवोपदिष्टवा नित्यर्थः ॥ तं स्कन्द इत्याचक्षते स्कन्द इत्याचक्षते ॥ तं सनत्कुमारं स्कन्द इत्यपि वदन्तीत्यर्थः । द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥