15.वैश्ववानराधिकरणंवैश्वानरः साधारणशब्दविशेषात् (ब्र.सू.1। 2। 27)छान्दोग्ये पञ्चमप्रपाठके एकादशखण्डे वैश्वानरविद्या प्रस्तूयते ॥ प्राचीनशाल आैपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्करार्क्ष्यो वुडिल आश्वतराश्विस्ते है ते महाशाला महाश्रोत्रियाः समेत्य मीमाँसां चक्रुः कोऽनु आत्मा किं ब्रह्मेति ॥ उपमन्युसुतः प्राचीनशालनामा पुलषसुतः -सत्ययज्ञनामा भाल्लविसुतः -इन्द्रद्युम्नामा शार्कराक्षिसुतो जननामा अश्वतराश्वसुतः-बुडिलनामा एते पञ्चापि महागृहस्थारत्त्तया विस्तीर्णशालाः सम्पन्नाः प्रसिद्धा इति यावत् । अतीव श्रुताध्ययनसम्पन्ना एकत्र सम्भूयास्माकमं तर्यामितयात्मभूतं ब्रह्म किमिति विचारं कृतवन्त इत्यर्थः । ते ह सम्पादयां चक्रुः ॥ त एव मीमांसित्वा निश्चयमलभमानाः आत्मभूतब्रह्मोपदेष्टारं कञ्चित्सम्पादितवन्तः निश्चितवन्त इत्यर्थः । किमिति तत्राह । उद्दालको हवै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम इति ॥ हे भगवन्त उद्दालकनामा इदानीं वैश्वानरमात्मानमध्येति । इक् स्मरणे -उपास्त इत्यर्थः । यद्वा । इण्गतौ गत्यर्था ज्ञानार्था इत्यवगच्छतीत्यर्थः । तमभ्यागच्छामेति ॥ तं हाभ्याजग्मुः ॥ तमागतवन्तः । स ह सम्पादयाञ्चकार । प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति ॥ स होद्दालक एते महाशाला महाश्रोत्रिया मां वैश्वानरमात्मानं प्रक्ष्यन्ति नाहं तत्सर्वं प्रतिपत्तुं शकोन्मि । अन्यं तदभिज्ञं कञ्चिदुपादिशानीत्येवं सम्पादितवान्निश्चितवानित्यर्यः । तान् होवाचाश्वपतिर्वैभगवन्तोऽयं कैकेयः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम इति तं हाभ्याजग्मुः ॥ केकयस्यापत्यं कैकयः अश्वपतिमुद्दालकषष्ठास्तेऽभ्यागतवन्त इत्यर्थः । शिष्टं स्पष्टम् ॥ तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार ॥ प्राप्तेभ्यस्तेभ्यो महर्षिभ्यः पृथक् पूजां भृत्यैः पुरोहितादिभिश्च कारितवान् । स ह प्रातः सञ्जिहान उवाच ॥ अन्येद्युः प्रातःकाले स्वभवनं सञ्जिहानस्त्यजन् स्वभवनान्निर्गत्य तत्समीपमागत्येति यावत् । तान् महर्षीनुवाचेत्यर्थः । किमिति तत्राह । न मे स्तेनो जनपदे न कदर्यो न मद्यपः । नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतः । यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋुत्विजे धनं दास्यामि तावद्भगवद्भ्योे दास्यामि वसन्तु भगवन्त इति ॥ हे भगवन्तः पूजार्हा मदधिष्ठिते जनपदे चोरो वा दानशून्यो वा मद्यपायी वा सत्यां योग्यतायामनाहिताग्निर्वा वेदाध्ययनादिशून्यस्त्रैवर्णिको वा परदारगन्ता वा न सन्ति स्वैरिणी पुंश्चली तु कुतः स्यादित्यर्थः । एवमाद्या दुष्टा न सन्ति न तैर्दत्तं धनमुपजीवामि । अतो मम प्रतिग्रहयोग्यतास्त्यचिरेणैव कालेन यागं करिष्याम्येकैकस्मा ऋत्विजे यावद्धनं दास्यामितावद्भगवद्भ्यः प्रत्येकं दास्यामि तावत्कालमत्रैव वसन्तु यागं च पश्यन्त्विति प्रार्थितवानित्यर्थः । भगवता भाष्यकृता न मे स्तेन इत्यादिना यक्ष्यमाणोऽहंवैभगवन्तोऽहमस्मीत्यन्तेनात्मनो वृत्तस्थतया प्रतिग्रहयोग्यतां ज्ञापयन्नेव ब्रह्मविद्भिरपि प्रतिषिद्धस्य परिहरणीयतां विहितस्य कर्त्तव्यतां च प्रज्ञाप्य यावदेकैकस्मा ऋत्विजे धनं दास्यामि वसन्तु भगवन्त इत्यवोचदिति भाषितम् । ते होचुर्येन है वार्थेन पुरुषश्चरेत्तं है व वदेदात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहीति ॥ येनार्थेन प्रयोजनेन यत्प्रयोजनमुद्दिश्य पुरुष आगच्छति तमेव पुरुषार्थं तस्य कुर्यात्समीहितं हि कर्त्तव्यं भवत्यस्माकं चवैश्वानरात्मा जिज्ञासितः त्वं च तमात्मानमधुनोपास्से न च ते तज्ज्ञानमपह्नवार्हम् । तमेव न उपदिश न प्रयोजनान्तरमित्यर्थः। विश्वान्नरान्नयतीति विश्वे यनं नराः नयन्तीति वा विश्वनरः विश्वनर एव वैश्वानरः रक्ष एव राक्षसः वय एव वायस इतिवत् । तान् होवाच प्रातर्वः प्रतिवक्तास्मीति ॥ तेषामभिमानं परिशोध्य श्वः प्रतिवचनं दास्यामीति मत्वा प्रातः प्रश्नस्य प्रतिवचनं वक्तास्मीत्युवाचेत्यर्थः । ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे ॥ ते च राज्ञोऽभिप्रायज्ञाः समिद्भारहस्ताः अपरेद्युः पूर्वाह्णे राजानं शिष्यभावमेत्योप गतवन्तः । तान्हानुपनीयैवैतदुवाच ॥ राजा तु समित्पाणीनुपयामेति वदन्तस्त्यक्तस्वजात्यभिमानानुद्वीक्ष्य तेषामुपदेशयोग्यतां ज्ञात्वाऽब्राह्मणेन न ब्राह्मण उपनेतव्य इति शास्त्रार्थं ज्ञात्वा समर्पितं समिदाद्युपायनं स्वीकृत्यैव मैत्र्यैवैतद्वक्षमाणमुवाचेत्यर्थः । यत एव महाशाला महाश्रोत्रिया ब्राह्मणा महाशालत्वाद्यभिमानं हित्वा समिद्भारहस्ता जातितो हीनं राजानं विद्यार्थितयोपजग्मुः । तथान्यैरपि विद्यो पादित्सुभिर्भवितव्यमित्याख्यापिकया सूच्यते । कैकयस्तेभ्यो वैश्वानरात्मानमुपदिदिक्षुर्विशेष प्रश्नान्यथानुपपत्त्या वैश्वानरात्मन्येतैः किञ्चिज्ज्ञातं किञ्चिदज्ञातमिति विज्ञाय ज्ञाताज्ञातांश बुभुत्सया तानेकैकशः प्रष्टुमुपक्रमते । आैपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाच ॥ हे भगवः द्युलोकशरीरकं वैश्वानरमुपास इत्युवाचेत्यर्थः । कैकेय आह ॥ एष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मान मुपास्से ॥ यं द्युलोकावच्छिन्नं वैश्वानरमात्मानमुपास्स एष वैश्वानर आत्मा सुतेजाः शोभनं तेजो यस्य स सुतेजा द्युलोको हि सूर्य्यचन्द्रादितेजसा युक्ततया सुतेजा भवति ततश्च द्युलोकावच्छिन्नो वैश्वानरात्मा तयोपास्यमानः सुतेजस्त्वगुणयोगेन सुतेजानाम वैश्वानरः ॥ तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ अत्र सुतप्रसुतासुतशब्दा एकाहाहीनसत्रकर्मगताभिषवणपराः सुतशब्दवत्त्वसाम्यात्सु तेजस्त्वोपासनायाः सुतादिफलकत्वोपपत्तिः ॥ अत्स्यन्नं पश्यसि प्रियम् । तदुपासनवैभवेन लौकिकं भोग्यमनुभवसि प्रियं पुत्रादिकं च पश्यसीत्यर्थः । एवमन्योऽपि यः कश्चित्त्वमिव त्वदुपास्यं वैश्वानरमुपास्ते । सोऽपि त्वमिवान्नदनप्रियदर्शनब्रह्मवर्चसशाली सन्तानवांश्च भवतीत्याह । अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले यऽएतमेवमात्मानं वैश्वानरमुपास्ते । उक्तोऽर्थः उक्तमर्थमङ्गीकुर्वन्नेकुर्वन्नेवफलदर्शनेन तदभिमुखीकृत्य तत्र वक्तव्य मुपदिशति । मूर्द्धा त्वेष आत्मन इति होवाच मूर्द्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ॥ त्वया वैश्वानरबुद्ध्योपास्यमान एष द्युलोकपरिच्छिन्न आत्मा वैश्वानरस्यात्मनो मूर्द्धारूपावयवभूतः । न तु स एव वैश्वानर आत्मा एतदर्थनिर्णयार्थं मत्समीपानागमने वैश्वानर मूर्द्धावयवभूते कृत्स्नवैश्वानरबुद्धिं कुर्वतस्तव विपरीतविद्यावशादनर्थः स्यादतः साध्वकार्षीस्त्वं यतो मामागतोऽसीत्यभिप्रायः । अथ होवाच सत्ययज्ञं पौलषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इति (प्राचीनयोग्येति सत्ययज्ञस्य नामान्तर) आदित्यमेव भगवो राजन्निति होवाच एष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से । तस्मात्तव विश्वरूपं कुले दृश्यते प्रवृत्तोऽश्वतरीरथो दासी निष्कोऽत्स्यन्न म्पश्यसि प्रियम् । अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुस्त्वेतदात्मन इति होवाच । अन्धोऽभविष्यो यन्मां नागमिष्य इति ॥ रूप्यत इति रूपं प्रकाश्यं यस्य स विश्वरूपः आदित्यस्य विश्वप्रकाशकत्वात् विश्वरूपत्वम् । तव कुले विश्वरूपं विश्वप्रकाशकं पुत्ररत्नादिकं कुले दृश्यते अश्वतरीभिर्युक्तो रथः त्वामनुगतः दासीभिर्युक्तो हारः दासी निष्कः त्वामनुगतः शिष्टं पूर्ववत् ॥ अथ होवाच इन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाच एष वै पृथग्वर्त्मात्मा वैश्वानरो यं त्वमात्मान मुपास्से तस्मात्त्वां पृथग्वलय आयन्ति ॥ पृथग्रथश्रेणयोऽनुयन्ति ॥ अत्स्यन्नं पश्यसि प्रियम् । अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद्यन्मा नागमिष्य इति । अथ होवाच जनं शार्कराक्ष्यं कं त्वमात्मान मुपास्स इति आकाशमेव भगवो राजन्निति होवाच एष वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च अत्स्यन्नं पश्यसि प्रियम् । अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते सन्देहस्तेषव्यशीर्यद्यन्मां नागमिष्य इति ॥ भूतान्तरेभ्य आकाशस्य महत्वात् बहुलत्वम् । सन्देहोमध्यकायो मध्ये कायो हिउत्तराधरकाययोश्चानुप्रविष्ट इति सन्दिह्यमानत्वात् सन्देह इत्युच्यते । व्यशीर्यत विशीर्णोऽभविष्यत् । शिष्टं स्पष्टम् ॥ अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्यकं त्वमात्मानमुपास्स इति अप एव भगवो राजन्निति होवाच एष वै रयिरात्मा वैश्वानरोऽयं त्वमात्मान मुपास्से तस्मात्त्वं रैमान् पुष्टिमानत्स्यन्नं पश्यसि प्रियम् अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते बस्तिस्त्वेष आत्मान इति होवाच बस्तिस्ते विभेत्स्यद्यन्मां नागमिष्य इति ॥ अपां वेगवत्वात् रयित्वं विसर्गश्छान्दसः धनप्राप्तिहेतुत्वाद्वा रयित्वं रैमान् धनवानित्यर्थः। बस्तिनाम मूत्रस्थानम् । अथ होवाच उद्दालकमारुणिं गौतम कं त्वमात्मान मुपास्स इति पृथिवीमेव भगवो राजन्निति होवाच एष वै प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया पशुभिश्च अत्स्यन्नं पशयसि प्रियं अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति ॥ प्राण्याधारत्वात् पृथिव्याः प्रतिष्ठात्वं व्यम्लास्येतां म्लानौ श्लथावभविष्यताम् । शिष्टं स्पष्टम् । तान ्होवाच ॥ तानृषीनुवाचेत्यर्थः ॥ एते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसो अन्नमत्थ ॥ एततादृशा यूयमिमं वैश्वानरमात्मानं पृथगिव विद्वांसो भिन्नभिन्नतया उपासीना तदनुरूप्येण लौकिकं भोगमनुभवथ । पूर्वत्रात्स्यन्नमिति प्रतिपुरुषमेकवचनेनोक्तस्य अत्र बहुवचनेन निर्देशः । अत्रन्नमत्थेत्येतत् प्रियं पश्यथेत्यस्याप्युपलक्षकम् ॥ यस्त्वेतमेवं प्रादेशमात्रमभि प्रादेशमात्र मभिविमानमात्मानं वैश्वानर मुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्तिअभिविमानं सर्वात्राभिव्याप्ततया विगतपरिमाणं विश्वेषां नराणां नेतारमेतमात्मानं प्रादेशमात्रं द्युलोकादिप्रदेशसम्बन्धिनी प्रादेशी प्रादेशीमात्रा यस्य तं प्रादेशमात्रम् । द्युप्रभृतिप्रदेशपरिच्छिन्नं य उपास्ते स सर्वलोकसर्वभूतसर्वात्मवर्तिब्रह्मरूपमन्नमत्ति अनुभवतीत्यर्थः । अनेन वैश्वानरोपासनस्य ब्रह्मप्राप्तिफलकत्वमुक्तं भवति । भगवता हि भाष्यकृता सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु वर्तमानं यदन्नं भोग्यं तदत्ति सर्वत्र वर्तमानं स्वत एवानवधिकातिशयानन्दं ब्रह्मानुभवति । यत्तु सर्वैः कर्मवश्यैरात्मभिः प्रत्येकमनन्य साधारणमन्नं भुज्यते तन्मुमुक्षुभिस्त्याज्यत्वादिह न गृह्यते इति भाषितम् । अत्र प्रादेशमात्रमिवह वै देवाः सुविदिता अभिसम्पन्ना तथात्वे तान् वक्ष्यामि यथा प्रादेशमात्रमभिसम्पादयिष्यामीति । स होवाच मूर्द्धानमुपदिशन्नेष वा प्रतिष्ठा वैश्वानर इति चक्षुषी उपादिशन्नुवाच । एष वै सुतेजा वैश्वानर इति नासिके उपदिशन्नुवाचैषवै पृथग्वर्त्मा वैश्वानर इति मुख्यमाकाशमुपदिशन्नुवाच । एष वै बहुलो वैश्वानर इति मुख्याश्रय उपदिशन्नुवाच एष वै रयिर्वैश्वानर इति चिबुकमुपदिशन्नुवाच एष वै प्रतिष्ठा वैश्वानर इति वाजसनेयकोक्तमूर्द्धचिबुकान्तराल प्रतिष्ठितत्वलभ्यप्रादेशमात्रत्वं नोपजीव्यम् । द्युप्रभृतिप्रदेशसम्बन्धमात्रस्य यौगिकार्थस्य प्रकरणतः प्रतीतेः । उक्तं च व्यासाचार्यैः सर्ववेदान्तप्रत्ययाधिकरणे (ब्र.सू.3.3.1) यस्त्वेतमिति न वाजसनेयकोक्तानुवादः स्वशाखावाक्य एव पूर्वप्रतिपादितस्यानुवादेन फलसमर्पकोक्तानुवादः स्वशाखावाक्य एव पूर्वप्रतिपादितस्यानुवादेन फलसमर्पकत्वोपपत्तेरिति । न चापरिच्छिन्नस्य परस्य ब्रह्मणो द्युप्रभृतिपृथिव्यन्तप्रदेशसम्बन्धिन्या मात्रया कथं परिच्छिन्नत्वमिति चोदनीयम् । परिच्छिन्नत्वे बुद्धिसौकर्यलक्षणाभिव्यक्तेस्सम्भवात् । सूत्रितं च “अभिव्यक्तेरित्यास्मरथ्य ’’ (ब्र.सू.1.2.32.) इति बुद्धिसौकर्य्यलक्षणाभिव्यक्तेर्हेतोरभिविमानस्यापि ब्रह्मणः प्रादेश मात्रत्वमुपदिश्यत इति आश्मरथ्यआचार्यो मन्यत इति सूत्रार्थः । अभिव्यक्तार्थम्परिच्छिन्नत्वोप देशेति मूर्द्धप्रभृत्यवयवविशेषैः पुरुषविधत्वं परस्य ब्रह्मणःकिमर्थमिति न चोदनीयम् तथोपासनार्थत्वात् । सूत्रितं चा “अनुस्मृतेर्बादरिः’’ (ब्र.सू.1.2.33.) इति अनुस्मृति रुपासनम् । अनुस्मृतेर्हेतोः पुरुषविधत्वरूपणमिति बादीरराचार्योमन्यत इति सूत्रार्थः । प्राणाहुत्याधारत्वत्रिविधाग्नित्वपरिकल्पितजाठराग्निशरीरकद्युमूर्द्धत्वादिविशिष्टात्मत्वभावि तेश्वरशरीरे क्रियमाणप्राणाद्याहुतिभिः वैश्वानरविद्यानिष्ठेन परमात्मा समाराधनीय इति प्रतिपादयति ॥ तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्द्धैव सुतेजा चक्षुर्विश्वरूपः प्राणं पृथग्वर्त्मा सन्देहो बहुलो बस्तिरेव रयिः पृथिवी पादा उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ एतस्योपासकस्यात्मनः मूर्द्धैव तस्य वैश्वानरस्य मूर्धात्वेष आत्मन इति वैश्वानरं मूर्द्धत्वेन निर्दिष्टस्सुतेजा इत्यर्थः । न चात्र तस्य हवा एतस्येति पदयोःसामानाधिकरण्यमेवास्तु । नत्वेतस्येति शब्दस्योपासकपरत्वमिति शङ्क्यम् उर एव वेदिरित्यादावुपासकपरामर्शस्यावश्यं भावात् । मूर्द्धैवेत्यत्राप्युपासकस्य मूर्द्धैव परामृश्यते । तस्मादेतस्येति शब्दस्योपासकपरत्वमेव सिद्धम् । इह भगवता भाष्य कृता “आत्मनन्ति च’’ (ब्र.सू.1.2.35) इति सूत्रव्याख्याने । एनं पुरुष द्युमूर्द्धत्वादिविशिष्टं वैश्वानरमस्मिन्नुपासकशरीरे प्राणाहुत्याधारत्वाय आमनन्ति तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्द्धैव सुतेजा इत्यादिना । अयमर्थः यस्त्वेतमेवं प्रादेशमात्रमभि विमानमात्मानं वैश्वानरमुपास्त इति त्रैलोक्यशरीरस्यैव परमात्मनो वैश्वानरस्योपासनं विधाय सर्वेषु लोकेषु इत्यादिना ब्रह्मप्राप्तिलक्षणं फलमुपदिश्यास्यैवोपासनस्याङ्गभूतं प्राणाग्निहोत्रं तस्य ह वा एतस्येत्यादिनोपदिशति । यः पूर्वमुपास्यतयोपदिष्टो वैश्वानरः तस्यावयवभूतान् दुव््यादित्यादीन् सुतेजो विश्वरूपादिनामधेयानुपासकशरीरे मूर्द्धादिपादान्तेषु सम्पादयति । मूर्द्धैव सुतेजा उपासकस्य मूर्द्धैव परमात्ममूर्द्धभूतं द्यौरित्यर्थः । चक्षुर्विश्वरूप आदित्य इत्यर्थः । प्राणःपृथग्वर्त्मा वायुरित्यर्थः । सन्देहो बहुलःउपासकस्य मध्यकाय एव परमात्ममध्यकायभूत आकाश इत्यर्थः । पृथिव्येव पादौ अस्य पादावेव तत्पादभूता पृथिवीत्यर्थः । एवमुपासकः स्वशरीरे परमात्मानं त्रैलोक्यशरीरं वैश्वानरं सन्निहितमनुसन्धाय स्वकीयान्युरोलोम हृदयमनआस्यानि प्राणहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदिर्बर्हिर्गार्हपत्यान्वाहार्यप चनाहवनीयानग्निहोत्रोपकरणभूतान् परिकल्प्य प्राणाहुतेश्चाग्निहोत्रत्वं परिकल्प्य एवं विधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरमाराधयेदिति उर एववेदिर्लोमानि बर्हिर्हृदयं गार्हपत्य इत्यादिनोपदिश्यते इति भाषितम् । उरःप्रभृतीनां वेद्यादित्वोपदेशश्च प्राणाहुतेरग्निहोत्रत्वसम्पत्त्यर्थ इति “सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति’’ (ब्र.सू.1.2.34) इति सूत्रितम् । स यइदं विद्वानग्निहोत्रं जुहोतीतिदर्शिताग्निहोत्रसम्पत्तेर्हेतोर्वेद्यादित्वोपदेश इति जैमिनिर्मन्यते इति सूत्रार्थः । हृदयं गार्हपत्यः हृदयकमलावच्छिन्नजाठराग्निर्गार्हपत्यः । मन इन्द्रियावच्छिन्न जाठराग्निर्दक्षणाग्निः आस्यमाहवनीयः आस्यावच्छिन्नजाठराग्निराहवनीय इत्यर्थः । गार्हपत्यादिपरिकल्पनस्य सजातीयजाठर एवोचितत्वात् । वैश्वानरस्य हृदयादिस्थ स्याग्निहोत्रत्रय कल्पनं क्रियत इति भाषितत्वाच्च । अत्र च हृदयादिशब्दास्तत्तदवच्छिन्नजाठराग्नि शरीरकपरमात्मपर्यन्ता इति द्रष्टव्यमत उक्त एवार्थः । तद्यद्भक्तं प्रथममागच्छेतद्धोमीयम् ॥ होमसाधनं तेन होतव्यमित्यर्थः । स यां प्रथमामाहुतिं जुहुयात् तां जुहुयात् प्राणाय स्वाहेति प्राणस्तृप्यति । प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यति आदित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्चिद्यौश्चादित्यश्चाधितिष्ठतः तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ प्राणाय स्वाहेति प्रथमायामाहुतौ हुतायां प्राणश्चक्षुरादित्यो द्यौश्च तृप्यति दव््यादित्याभ्या मधिष्ठितं वस्तुजातं च तृप्यतीत्यर्थः । तस्मिन्सर्वस्मिन् तृप्ते तत्तृप्तिमनु प्रजापश्वादिभिर्होतापितृप्यतीत्यर्थः । अत्र प्राणचक्षुरादिशब्दाः तदभिमानि देवतापराः । अचेतनानां तृप्तेरसम्भवादिति । एवमुत्तरत्रापि द्रष्टव्यम् । अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहा ॥ इत्यादिखण्डचतुष्टयम् ॥ स य इदमविद्वानग्निहोत्रं जुहोति ॥ उरः प्रभृतीनामग्निहोत्रोपकरणवेद्यादिनामजानन् यःप्राणाग्निहोत्रमनुतिष्ठतीत्यर्थः ॥ यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृग् तत्स्यात् ॥ भस्माहुतिसमानं स्यादित्यर्थः । निष्फलमिति यावत् ॥ अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ सर्वात्मकभगवादाराधनेन सर्वमाराधितं भवतीति हुतप्रकर्षोक्तिः ॥ तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ यथैषीकायाभुजान्तर्वर्तित्ततृणविशेषस्य तुलमग्नौ प्रक्षिप्तं सद्यो दह्यत एवं सर्वाणि पापानि एतादृशविद्यापूर्वकप्राणाग्निहोत्रानुष्ठानेन दग्धानि भवन्तीत्यर्थः । ब्रह्मोपासनफलस्य सर्वपापप्रदाहस्य प्राणाग्निहोत्रे कीर्तनमभिफलेनाङ्गस्य स्तुत्यर्थम् । ततश्चानेनापि प्राणाग्नि होत्रस्य वैश्वानरविद्याङ्गत्वं ज्ञापितं भवति । वैश्वानरविद्यां स्तौति ॥ तस्मादुहैवं विद्यद्यपि चण्डालायोच्छिष्टम्प्रयच्छेत् । आत्मनि हैवास्य तद्वैश्वानरे हुतं स्यादिति ॥ उच्छिष्टप्रदानायोग्यचाण्डाल्य उच्छिष्टप्रदानमपि वैश्वानरे सर्वभूतात्मनि अन्नं जुहोमीति बुद्ध्यानुष्ठितत्वान्नाधर्माय भवतीत्यर्थः । तदेष श्लोकः । यथेह क्षुधिता बाला मातरं पर्य्युपासते । एवं सर्वाणि भूतान्यग्निहोत्रमुपासते इति । अग्निहोत्रमुपासत इति ॥ यथा बुभुक्षिता बालाः कदा मातान्नं प्रयच्छतीति मातरं परितः उपासते । एवं सर्वाणि भूतानि एवंविधप्राणाग्निहोत्रमुपासते । इति विदुषः प्राणाग्निहोत्रस्तुत्यर्थः श्लोक इत्यर्थः । द्विरुक्तिरध्याय परिसमाप्त्यर्था ॥ इति विषयवाक्यदीपिकायां ब्रह्मसूत्रेषु द्वितीयः पादः ॥ 2॥