13.अन्तर्याम्यधिकरणंअन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् (ब्र.सू.1.2.19)बृहदारण्यके पञ्चमाध्याये सप्तमब्राह्मणे ॥ अथ हैनमुद्दालकः आरुणिः पप्रच्छ ॥ नाम्नोद्दालकः । अरुणस्यापत्यमारुणिः ॥ याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्जलस्य काप्यस्य गृहेषु यज्ञमधी यानाः ॥ मद्रेषु देशेषु गोत्रतः काप्यस्य नाम्ना पन्तजलस्य गृहेषु “गृहाः पुंसिचभूम्न्येव’’ इत्येकस्मिन्बहुवचनम् । कल्पसूत्रमधीयाना उषितवन्तः ॥ तस्यासीद्भार्या गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽब्रवीत्कबन्ध आथर्वण इति ॥ नाम्ना कबन्धः अथर्वपुत्रश्च इतरत्स्पष्टम् ॥ सोऽब्रवीत्पतञ्जलं काप्यो याज्ञिकांश्च ॥ स गन्धर्वः याज्ञिकान् यज्ञाध्येतृन् अस्मांश्चाध्यापकं काप्यं चाब्रवीदित्यर्थः । तदेवाह ॥ वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि भूतानि सन्दृब्धानि भवन्तीति ॥ सूत्रेण पुष्पाणीव ग्रन्थनेन विष्टब्धानीत्यर्थः । एतादृशं सूत्रं त्वं वेत्थ किमिति प्रश्नः । सोऽब्रवीत्पतञ्जलः काप्यः नाहं तत्सूत्रं भगवन् वेदेति ॥ एवं सूत्रं पृष्ट्वा अन्तर्यामिणं पप्रच्छेत्याह ॥ सोऽब्रवीत्पतञ्जलं याज्ञिकांश्च वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरोयमयतीति । सोऽब्रवीत्पतञ्जलः काप्यः नाहं भगवन् वेदेति । सोऽब्रवीत्पतञ्जलं काप्यं याज्ञिकांश्च यो वै तत्काप्य सूत्रं विद्यात्तञ्चान्तर्यामिणमिति ॥ इति शब्दः प्रकारवचनः । हे काप्य तत्सूत्रं तं चान्तर्यामिणमस्मदवगतप्रकारेण यो विद्यादित्यर्थः । शिष्टं सप्ष्टम् । स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स भूतवित्स आत्मवित्स सर्वविदिति तेभ्योऽब्रवीत् ॥ स परब्रह्मवित्तन्नियाम्यलोकदेवभूतवित्स परमात्मवित्स सर्वविदिति एवं तेभ्यः काप्ययाज्ञिकेभ्यः गन्धर्वोऽब्रवीदित्यर्थः ॥ तदहं वेद ॥ तत्सर्वमहं जानेइत्यर्थः । तच्चेत्वं याज्ञवल्क्य सूत्रमविद्वान् तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्द्धा ते विपतिष्यतीति ॥ ब्रह्मगवीब्रह्मविद्यापणबन्धभूता गाः । “गोरतद्धितलुकि’’ (अष्टा.5.4.92) इति टचि समासान्तेटिड्ढाणञ्(अष्टा.4.1.15)इत्यादिना ङीप्। उदजसे चेत्कलयसेचेत् तेमूर्धा व्यपतिष्यतीति शशापतम् ॥ वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति ॥ याज्ञवल्क्यस्य प्रतिवचनम् । हे गौतम तत्सूत्रं तं चातर्यामिणमहं वेद वेदैवेत्यर्थः । एवमुक्त उद्दालक उवाच ॥ यो वा इदं कश्चिद् ब्रूयाद्वेद वेदेति ॥ यःकश्चिद्वै सर्वज्ञडम्भः इदं वेद इदं वेदेति वाचा ब्रूयादित्यर्थः । यथा वेत्थ तथा ब्रूहीति ॥ यथा येन प्रकारेण वेत्थ तेन प्रकारेण ब्रूहि किं वचनेनेत्यर्थः ॥ स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गोतम सूत्रेणायं च लोकःपरश्च लोकः सर्वाणि भूतानि सन्दृब्धानि भवन्ति तस्माद्वै गौतम पुरुषं प्रेतमाहुःव्यर् स्रंसिषतास्याङ्गानीति वायुना हि गैतम सूत्रेण सन्दृब्धानि भवन्तीति ॥ यस्मात्सर्वाणि वायुना ग्रथितानि तस्मादेव हेतोरुत्क्रान्तप्राणस्य पुरुषस्याङ्गानिउत्सूत्रमाल्यानीव विस्रस्तानि भवन्ति । अतोवायुना सन्दृब्धानि । व्यस्रंसिषत लुङ्। अङ्गीकरोति ॥ एवमेवैतद्याज्ञवल्क्येति ॥ भवत्वेतदेवमितरद् ब्रूहीत्याह ॥ अन्तर्यामिणं ब्रूहीति । यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः ॥ पृथिव्यां स्थितस्तदन्तर्गतस्तदवेद्यः। तच्छरीरकः सन् योऽन्तःप्रविश्य प्रवृत्तिनिवृत्ति लक्षणनियमनं करोति । एषोऽन्तर्यामी तेऽमृतः आत्मा निरुपाधिकामृतत्वशाल्यात्मेत्यर्थः । तेऽमृतात्मेति व्यतिरेकनिर्देशादन्तर्यामिणे जीवव्यतिरेकः सिद्धः । अमृतत्वविशेषणाच्च सिध्यति । तद्विशेषणं जीवव्यावृत्त्यर्थम् । अन्तर्यामी ते आत्मेत्युक्ते आत्मशब्दस्य स्वरूपवचनत्वशङ्कया जीवव्यावृत्तिर्न प्राप्नोतीति ह्यमृत इत्युक्तम् । निरुपाधिकामृतत्वशाल्यात्मा परमात्मैवात्र प्रश्रानुसारेणेमं च लोकं परं च लोकं सर्वाणि भूतानि योन्तरो यमयति एष त आत्मान्तर्याम्यमृत इत्येकेनैव निर्देशेन सर्वान्तर्यामिणः उद्दालकं प्रति त आत्मेति आत्मप्रतिपादनसम्भवात् । यःपृथिव्यां तिष्ठन् योऽप्सुतिष्ठन्नित्यादिपर्यायोपदेशबाहुल्यं किमर्थमिति चेन्न । पृथिव्याद्यैकैकवस्तषु परिपूर्णत्वेन नियन्तृतया स्थितिज्ञापनार्थत्वेन सार्थक्यात् । परिपूर्णत्वं चाणुमात्रेऽपि स्थितस्य निरवधिकषाड्गुण्य विशिष्टतया स्वप्रतिपत्तियोग्यत्वमिति व्यासार्यैर्वाक्यान्वयाधिकरणे (ब्र.सू.1.4.19) वर्णितम् । ननु सर्वाणि भूतानि योऽन्तरो यमयति तं मे ब्रूहीति सर्वभूतस्याप्यन्तर्याम्येकोऽस्ति स वक्तव्य इति पृष्टवन्तं प्रति पृथिव्यन्तर्याम्येव तेऽन्तर्यामी जलान्तर्याम्येव तेऽन्तर्यामीति पृथिवीजलाद्यन्तर्यामिणश्चोद्दाल कान्तर्यामिणश्चा भेदबोधनमसङ्गतम् । अन्तर्याम्यैक्यस्य प्रागेव निश्चितत्वात् । अतस्त आत्मेत्यत्रात्मशब्दो नान्तर्यामिवचनोऽपि तु स्वरूपवचन इत्येव युक्तमिति चेत् न । आत्मशब्दस्य शेषित्वाधारत्वाद्यर्थकतयाप्युपपत्तेः । “पतिं विश्वस्ये’‘त्यादिवाक्यैर्विश्वशेषिणःकस्यचिदवगतत्वात्तेनवाक्येन प्रतिपन्नस्त आत्मा ते शेषी पृथिव्यादीनामन्तर्यामीति प्रघट्टकार्थः । एवम् । योऽप्सु तिष्ठन् योऽग्नौ तिष्ठन् योऽन्तीरक्षे तिष्ठन् यो वायौ तिष्ठन् य आदित्ये तिष्ठन् यो दिक्षु तिष्ठन् यश्चन्द्रतारके तिष्ठन् यआकाशे तिष्ठन् यस्तमसि तिष्ठन् एष त आत्मातंर्याम्यमृत इत्यधिदैवतम् ॥ उपदिष्टमन्तर्यामिस्वरूपमितिशेषः ॥ अथाधिभूतम् ॥ अन्तर्यामिस्वरूपमुपदिश्यत इति शेषः ॥ यः सर्वेषु भूतेषु तिष्ठन्नित्यधिभूतमथाध्यात्मम् । उच्यत इति पूर्ववच्छेषः ॥ यः प्राणे तिष्ठन् -यो वाचि तिष्ठन् यश्चक्षुषि तिष्ठन्-यः श्रोत्रे तिष्ठन् -यो मनसि तिष्ठन् यस्त्वचि तिष्ठन् -यो विज्ञाने तिष्ठन् यो रेतसि तिष्ठन्नेष त आत्मान्तर्याम्यमृतः ॥ अत्र विज्ञानशब्द आत्मपरः । समानप्रकरणे माध्यन्दिनिशाखायां विज्ञानशब्दस्थाने आत्मन्नित्यात्मशब्देन निर्देशदर्शनात् ॥ अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अविज्ञातो विज्ञाता ॥ अत्र द्रष्टृत्वं रूपसाक्षात्कारवत्वं न तु चक्षुर्जन्यज्ञानवत्वम् । तस्य परमात्मन्यसम्भवात् । श्रोतृत्वं शब्दसाक्षात्कारवत्वं मन्तृत्वं मन्तव्यविषयसाक्षात्कर्तृत्वं विज्ञातृत्वं विज्ञान शब्दितनिदिध्यासनविषय साक्षात्कर्तृत्वम् । द्रष्टृत्वादिकं जीवस्याप्यस्तीति अद्रष्टृत्वादिना द्रष्टृत्वादिकं विशेषितं तादृशं च न जीवस्यास्तीति भावः । अत्रैव द्रष्टृत्वादावुपाध्यनुक्ते र्निरुपाधिकद्रष्टृत्वमर्थसिद्धम् ॥ नान्योतोऽस्ति द्रष्टा नान्योतोऽस्ति श्रोता नान्योतोऽस्ति मन्ता नान्योतोऽस्ति विज्ञाता एष त आत्मान्तर्याम्यमृतः । अतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम ॥ अन्यश्शब्दादेः सर्वनाम्नः पूर्वनिर्दिष्टसमानान्यपरत्वस्य “समानेषु पूर्वत्वादि’’(जै.मी.स्) इति साप्तमिकाधिकरणे व्यवस्थितत्वात् । अत्राप्यन्यशब्देन पूर्वनिर्दिष्टाद्द्रष्ट्टत्वादि विशेषितनिपरुपाधिकरूपादि साक्षात्कारादिमतो निषेध उपपद्यते जीवस्य करणायत्तज्ञानत्वात्। अन्यस्तत्सदृशोऽदृष्टोद्रष्टानास्तीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । शिष्टंस्पष्टम् । सप्तमम्ब्राह्मणम् ॥