12.अन्तराधिकरणम्अन्तर उपपत्तेः (ब्र.सू.1। 2। 13)छान्दोग्ये चतुर्थाध्याये दशमखण्डोपक्रमे ॥ उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास ॥ कमलसुत उपकोसलनामा पूर्वोक्तजाबाले सत्यकामे विद्यार्थं ब्रह्मचर्यमवात्सीत् ॥ तस्य ह द्वादशवर्षाण्यग्नीन्परिचचार ॥ तदग्निशुश्रूषां द्वादशवर्षाणि कृतवान् ॥ स ह स्माऽन्यानन्तेवासिनः समावर्तयंस्तं ह स्मैव न समावर्तयति ॥ स्वाध्यायार्थिन इतरान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयन् । तं ब्रह्मविद्यार्थिनं ज्ञात्वा चिरसेवामन्तरेण ब्रह्मविद्यानोपदेष्टव्येति मत्वा तमेव न समावर्तयति स्म ॥ तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्पर्यचारीन्मात्वाग्नयः परिप्रावोचं प्रब्रूहास्मा इति ॥ तपसा तप्तः ब्रह्मचारी सम्यगग्निशुश्रूषां कृतवान् एतस्य विद्यानुपदेशे तत्परिचरणप्रीता अग्न्य एव तदनुग्रहं कुर्युरिति तस्मा उपकोसलाय विद्यामुपदिशेति तस्य भार्योक्तवतीत्यर्थः ॥ तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे ॥ तस्य विद्यामनुपदिश्यैव देशान्तरं प्रोषितः । स ह व्याधिना अनशितुं दघ्रे ॥ स मानसेन दुःखेन पीडितः सन् अनशनाय मतिं चक्रे । धृङ्अवस्थाने इति धातुः ॥ तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्रासीति ॥ स्पष्टोऽर्थः ॥ स होवाच बहव इमेऽस्मिन्पुरुषेकामाः नानात्यया व्याधिभिः परि पूर्णोऽस्मि नाशिष्यामीति ॥ अस्मिन् जीवे ब्रह्मप्राप्तिव्यतिरिक्ताः काम्यमाना विषया नानाविधगर्भजन्मजरामरणादिलक्षणफलजनकाः मनसि परिवर्तमानाःसन्ति । अतस्तद्विषयभयरूपव्याधिभिः पूर्णोऽस्मि अतोनभुञ्जेइति । अथ हाग्नयः समूदिरे ॥ एतद्वाक्यं श्रुत्वा परिचरणप्रीता गार्हपत्यादयोऽग्नयो दयमानमानसाः सम्भूयोक्तवन्तः । तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्ताऽस्मै प्रब्रवामेति ॥ स्पष्टोऽर्थः । तस्मैहोचुः ॥ प्राणो ब्रह्म ॥ कं ब्रह्म खं ब्रह्मेति ॥ स होवाच विजानाम्यहं यत्प्राणो ब्रह्म ॥ कञ्च खं च तु न विजानामीति ॥ अस्यायमभिप्रायः । नतावत्प्राणादिप्रतीकोपासनमग्निरभिभिधीयते । जन्मजरामरणादि भवभयभीतस्य मुमुक्षोर्मम मोक्षोपदेशायप्रवृत्तत्वात् । अतो ब्रह्म वोपास्यमुपदिष्टम् । तत्र प्राणादिभिः समानाधिकरणं ब्रह्म निर्दिष्टं तत्र सकलजगत्प्राणयितृत्वयोगेनप्राणशब्दितत्वस्य ब्रह्मण्युपपन्नत्वात्प्राणो ब्रह्मेत्युक्तम् । तज्जानामि कं ब्रह्म खं ब्रह्मेत्युक्तं च न विजानामि । यद्यपि कं शब्दस्य सुखमर्थः खमित्यस्य चाकाशोऽर्थः ततश्च वैषयिकसुखशरीरकमाकाशशरीरकं च ब्रह्मेत्यभिप्रायः । उत कमित्यनेन सुखमभिधीयते खमित्यनेनाकाशवाचिनाऽपरिच्छिन्नत्वमभिधीयते । तयोरन्योन्यविशेष्यविशेषणभावेनापरिच्छिन्नसुखं ब्रह्मेत्यर्थो लभ्यते । ततश्चानयोर्मध्ये क्वार्थे तात्पर्यमिति न जाने इत्यर्थः । ते होचुः यद्वाव कं तदेव खं यदेव खं तदेव कमिति ॥ ते तदभिप्रायज्ञा आग्नयो कङ्खमित्यनयोरन्योन्यविशेषणविशेष्यभाव एवाभिमत इत्यूचुः इत्यर्थः । ननु पुनरुक्तिर्व्यर्थेति चेत् । एतद्दार्ढ्यार्थं वाऽपरिच्छिन्नसुखत्वेन सुखरूपा परि च्छिन्नत्वेन चोपासनासिद्ध्यर्थं वा परस्परविशेषणविशेष्यभावोपदेशसार्थक्या ॥ तत्प्राणं च हास्मै तदाकाशं चोचुः ॥ अतो जगत्प्राणयितृत्वेन प्राणत्वविशिष्टं यद्ब्रह्म तदेवापरिच्छिन्नसुखरूपं चेत्यग्न्य उक्तवन्त इत्यर्थः । अथ हैनं गार्हपत्योऽनुशशास ॥ जगत्प्राणयितृत्वेनापरिच्छिन्नसुखरूपं च ब्रह्मेत्युपदिश्यमुपदिष्ट ब्रह्मविद्यएवमेनमुपकोसलं गार्हपत्योऽग्निः स्वविद्यां वक्ष्यमाणामुपदिदेशेत्यर्थः । अथशब्दश्च प्रकृतविषयत्वद्योतनार्थः । अत्र चाथ हैनमिति शब्दाभ्यां वक्ष्यमाणाग्निविद्यायाः प्रकृतब्रह्मविद्याङ्गत्वमुपदिश्यते । अनुशासनप्रकारमेवाह ॥ पृथिव्यग्निरन्नमादित्य इति ॥ गार्हपत्याग्नेर्मे एताश्चतस्र स्तनव इत्यर्थः । य एष आदिये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ पृथिव्यग्न्यन्नादित्यलक्षणानां चतुर्णां रूपाणां मध्येऽग्न्यादित्यरूपयोर्वक्तृत्वप्रकाशकत्व रूपधर्मसम्बन्धादैक्यमग्नेरादित्यनेन यादृशमैक्यं न तादृशं पृथिव्यन्नाभ्याम् । तस्मादादित्य एवाहमस्मीत्यग्निरुवाचेत्यर्थः । य एतमेवं विद्वानुपास्ते अपहते पापकृत्याम् ॥ ब्रह्मप्राप्तिविरोधि पापं कर्मापहन्ति ॥ लोकीभवति ॥ तद्विरोधिनिपापे निरस्ते ब्रह्मलोकं प्राप्नोतीत्यर्थः । यद्यपि ब्रह्म प्राप्तिविरोधिपापनिवृत्तेर्ब्रह्मप्राप्तेश्च प्रधानभूतब्रह्मविद्याफलत्वमेव तथाप्यङ्गिफलेनागं स्तूयते इति द्रष्टव्यम् । यद्वा पापशब्दो ब्रह्मविद्योत्पत्तिप्रतिबन्धकपापपरः । लोकशब्दश्च ब्रह्मलोक प्राप्तिमार्गभूताग्निलोकपरो द्रष्टव्यः ॥ सर्वमायुरेति ॥ ब्रह्मोपासनप्राप्त्यै यावदायुरपेक्षितं तत्सर्वमेति । ज्योग्जीवति ॥ व्याध्यादिभिरनुपहतो यावद्ब्रह्मप्राप्तिरुज्जवलो जीवति ॥ नास्यावरपुरुषाः क्षीयन्ते ॥ अस्य शिष्यप्रशिष्यादयः पुत्रपौत्रादयोऽपि ब्रह्मविद एव भवन्ति । सन्ततौ ब्रह्मविद्यानुवर्तते नास्याब्रह्मवित्कुले भवतीति श्रुत्यन्तरे ब्रह्मविद्याफलत्वेन श्रवणात् ॥ उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च ॥ य एतमेवं विद्वानुपास्तेऽस्मिंश्च लोकेऽमुष्मिंश्च वयमग्नय उपभुञ्जामो यावद्ब्रह्म प्राप्तिविघ्नेभ्यः परिपालयामः एवमुत्तरत्रापि द्रष्टव्यम् ॥ अथ हैनमन्वाहार्यपचनोऽनुशशास ॥ अन्वाहार्यपचनो दक्षिणाग्निः ॥ आपो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते । सोऽहमस्मि स एवाहमस्मीति । स य एतमेवं विद्वानुपास्ते । अपहते पापकृत्यां लोकीभवति सर्वमायुरेतिज्योग्जीवतिनास्यावरपुरुषाःक्षीयन्तउपवयन्तम्भुञ्जामोऽस्मिंश्चलोकेऽमुष्मिंश्चयएतमेवंविद्वानुपास्ते ॥ चन्द्रमसश्चाग्नेश्च प्रकाशकत्वसाम्यादिति भावः । अथ हैनमाहवनीयोऽनुशशास प्राण आकाशोद्यौर्विद्युदिति य एतद्विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति स य एतमेवं विद्वानुपास्तेऽपहतेः पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्ते उपवय न्तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च य एवं विद्वानुपास्ते ॥ विद्युत्पुरुषस्यापि प्रकाशकत्वादाहवनीयैक्यं द्रष्टव्यम् । ते होचुः उपकोसलैषा सोम्यास्मद्विद्या आत्मविद्या चेति ॥ प्रत्येकमनुशासनानन्तरं सम्मिलित्वा तेऽब्रुवन्नस्मद्विद्याग्निविद्या आत्मविद्यापरमात्मविद्येत्यर्थः । चशब्दोऽङ्गाङ्गिविद्ययोरुपदेशक्रियायां समुच्चयद्योतनार्थः । न तु समसमुच्चयार्थः । अग्निविद्याचात्मविद्याचोपदिष्टेत्यर्थः । आचार्यस्तु ते गतिं वक्तेति ॥ एवं वदतामग्नीनामयमभिप्रायः हे उपकोसल ब्रह्मविद्यामनुपदिश्य प्रोषिते गुरौ तदलाभादनाश्वासं त्वामुपजीवयितुं ब्रह्मस्वरूपमात्रं तदङ्गभूतामग्निविद्याञ्चोपादिक्षाम आचार्यादेव विद्याया विदितायाः साधिष्ठत्वादाचार्य एव संयद्वामत्वादिगुणकं ब्रह्माक्षिरूपं च तदुपासनस्थानमर्चिरादिकां गतिमुपदिशत्विति । ततश्च गतिं वक्तेत्यस्यावशिष्टं वक्तेत्यर्थः । नतु गतिमात्रमिति द्रष्टव्यम् । आजगामहास्याचार्य्यः तमाचार्योऽभ्युवादोपकोसल 3 इति -भगव -इति -ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वानुशशासेति ॥ स्पष्टोऽर्थः । एवमुक्त आह । को नु मानुशिष्याद्भो इति ॥ हे भगवान् त्वयि प्रोषित इह मां कोऽनुशिष्यादिति ॥ अपेव निह्नुते ॥ अपनिह्नुत इवेत्यर्थः । नापह्नुते न च यथावदग्निभिरुक्तमित्यप्यब्रवीदित्यभिप्रायः । कञ्चित्कालमपह्नुत्याग्नीन्निर्दिश्येम एव नूनमुपदिष्टवन्त इत्युक्तवानित्याह ॥ इमे नूनमीदृशा अन्यादृशा इति हाग्नीनभ्यूचे ॥ इदानीमीदृशा ज्वलनाकारतया परिदृश्यमाना एवाग्नयः पूर्वमन्याकाराः सन्तो ममोपदिष्टवन्त इत्युक्तवानित्यर्थः । आचार्य आह ॥ किं नु सोम्य किल तेऽवोचन्निति ॥ इतर आह । इदमिति ह प्रतिजज्ञे ॥ एता तावदुपदिष्टमिति प्रतिज्ञातवान् । इतर आह । लोकान्वाव किल सोम्य ते ऽवोचन् अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाशे आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते इति ॥ हे सोम्य ते अग्नयः पृथिव्यादीन् लोकानेव तवोक्तवन्तः । न तु ज्ञातव्यं ब्रह्म कार्त्स्न्येन । अहं तु ते पद्मपत्रजलाश्लेषतुल्यसर्वपापाश्लेषापादकविद्याविषयभूतं ब्रह्म वक्ष्यामि यदि शुश्रूषसे इत्यर्थः । पापाश्लेषो नाम पापहेतुभूतकर्माचरणेऽपि पापोत्पत्तिप्रतिबन्धकशक्तिमत्त्वम् । इदं चप्रामादिकपापविषयम् । पापशब्दश्च सुकृतदुष्कृतसाधारणः । एतच्च तत्र तत्रोक्तं तत्रैवानुसन्धेयम् । इतर आह ॥ ब्रवीतु मे भगवानिति । तस्मै होवाच ॥ तस्मै एवमुपपन्नायोपकोसलायाचार्यो वक्ष्यमाणमुवाचेत्यर्थः । य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेतिहोवाच एतदमृतमभयमेतद्ब्रह्मेति ॥ योगिभिर्यौऽक्ष्यन्तर्वर्तिपुरुषो दृश्यते अयमेवात्मा नियन्तेत्यर्थः । अमृतत्वं निरतिशयभोग्यत्वमभयत्वं दुःखासम्भिन्नत्वं ब्रह्मत्वं निरतिशयबृहत्त्वम् ॥ तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्म एव गच्छति ॥ तस्मान्निर्लेपस्थानप्रभावादक्षिणि यद्यपि सर्पिर्वोदकंवा कश्चित्सिञ्चेत् तत्पार्श्वद्वयङ्गच्छति न तत्रलिप्यते ॥ एतं संयद्वाम इत्याचक्षते एतं हि सर्वाणि वामान्यभिसंयन्ति य एवं वेद ॥ संयन्ति सङ्गतानि वामानि वरणीयानि प्रार्थनीयानि यस्मिन्स संयद्वामः सर्वकल्याणगुणा श्रयत्वं सत्यसङ्कल्पत्वं वा संयद्वामत्वं तदुपासकस्यापि तत्क्रतुन्यायात्तद्भवतीत्यर्थः ॥ एष उ एव वामनीरेष हि सर्वाणि वामानि नयति य एवं वेद ॥ वामनीत्वं स्वाश्रितेषु शोभनप्रापकत्वं तत्क्रतुन्यायेन तद्गुणोपासकस्यापि तद्भवतीत्यर्थः ॥ एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति य एवं वेद ॥ भामनीत्वं सर्वलोकव्याप्तदीप्तिमद्विग्रहयुक्तत्वम् । उपासकस्यापि तद्भवत्यपेक्षायां सत्यामित्यर्थः । अत्र संयद्वामत्ववामनीत्वभामनीत्वेषु फलत्वकथनं फलरूपतात्पर्यालिङ्गोपन्या सेन तेषु गुणेषु तात्पर्यप्रदर्शनार्थम् । नतु सर्पिर्वोदकं वा सिञ्चतीत्यत्रैवार्थवादमात्रतया स्तुति रूपत्वमिति प्रदर्शनार्थम् । सर्पिर्वेतिवाक्यस्य स्तुतिपरत्वं व्यासार्यैरुक्तम् ॥ अथ यदु चैवास्मिन् शव्यं कुर्वन्ति यदु च नार्चिषमेवाभिसम्भवन्ति ॥ अथ शब्दः प्रकृतविषयत्वद्योतनार्थः अस्मिन् ब्रह्मविदि सामान्याप्रायित्वात्तदेक वचनस्योत्तरत्राभिसम्भवन्तीति बहुवचनेन न विरोधः । यद्यदि शव्यं शवदहनादिकर्म पुत्रादयः कुर्वन्ति यदि वा न तेऽर्चिषमभिसम्भवन्ति । अर्चिरादिशब्दाश्च “आतिवाहिकास्तल्लिङ्गात्’’ (ब्र.सू.4.3.41) इतिन्यायेन तदमिभानिदेवतापरा इत्यन्यत्र स्थितम् । अत्र केचित् । उपसोसलविद्याङ्गभूताग्निविद्यावैभवेन शवदहनादि वैगुण्येप्युपकोसलविद्यानिष्ठस्य न क्षतिः । विद्यान्तरनिष्ठस्य दहनादिवैगुण्ये किञ्चिद्वैगुण्यमस्तीति वदन्ति । तत्र नकर्मणा लिप्यते नोकनीयानित्यादिश्रुतिसिद्धार्थानुवादित्वादस्यवाक्यस्य तादृशार्थप्रत्यायकत्वाभावात् । अतोऽथ यदुचैवास्मिन्नित्येतत्सर्वब्रह्मवित्साधारणमेव । अर्चिषोऽहरन्ह आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान् मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयत्येष देवयथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते ॥ यान् षण्मासान् उदङ्ङादित्य एति तान्मासानित्यर्थः । देवपथः देवैरातिवाहकैर्नीयमानः पन्था देवपथः ब्रह्मप्रापकः पन्थाः ब्रह्मपथः । एतेन मार्गेण प्रतिपद्यमाना इमं घोरं घटीयन्त्रवज्जनन मरणाद्व्यावर्तकं मनुष्यादिशरीरोपलक्षितं संसारं पुनर्न प्रतिपद्यन्ते ॥