12 अत्त्रधिकरणम्

11.अत्त्रधिकरणम् 2अत्ता चराचरग्रहणात् ॥ (ब्र.सू.1.2.9)प्रकरणाच्च ॥ (ब्र.सू.1.2.10.)गुहां प्रविष्टावात्मानौ हि तर्द्दर्शनात् ॥ (ब्र.सू.1.2.11)विशेषणाच्च ॥ (ब्र.सू.1.2.12)शब्दादेव प्रमितः ॥ (ब्र.सू.1.3.33)कम्पनात् ॥ (ब्र.सू. 1.3.40)ज्योतिर्दर्शनात् ॥ (ब्र.सू.1.3.41)आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ (ब्र.सू.1.4.1)वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ (ब्र.सू.1.4.5)त्रयाणामेव चैवमुपन्यासः प्रश्नश्च । (ब्र.सू.1.4.6)इत्येवमादिसूत्रविषयवाक्यार्थप्रदर्शनाय कठवल्ली प्रायेण व्याख्यायते ॥ उशन् हवै वाजश्रवसः सर्ववेदसं ददौ ॥ उशन् कामयमानः । वशकान्तावित्यस्माच्छतरि “ग्रहिज्या (अष्टा.6.1.16) इत्यादिना सम्प्रसारणम् । ह वै इति वृत्तार्थस्मरणार्थौ निपातौ । फलमिति शेषः । वाजश्रवसः । वाजेनान्नेन दानादिकर्मभूतेन श्रवःकीर्तिर्यस्य स वाजश्रवाः । तस्यापत्यं वाजश्रवसः । रूढिर्वा वाजश्रवस इति । स किल ऋषिः विश्वजिता सर्वस्वदक्षिणेन यजमानः तस्मिन् क्रतौ सर्ववेदसं सर्वस्वं ददौदत्तवानित्यर्थः । उशन्नित्यनेन कर्मणः काम्यत्वावगमाद्दक्षिणासाद्गुण्यमावश्यकमिति सूच्यते । तस्य ह नचिकेता नाम पुत्र आस ॥ आस बभूव “छन्दस्युभयथा ॥ (अष्टा.3.4.117) इति लिटः सार्वधातुकत्वात् स्वस्तये तार्क्ष्य मितिवदस्तेर्भूभावाभावः ॥ तँ ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश ॥ कुमारं सन्तं बालमेव सन्तमृत्विग्म्यो दक्षिणासु नीयमानासु श्रद्धा आस्तिक्यबुद्धिः पितृहितकामप्रयुक्ता आविवेश आविष्टवती । श्रद्धाप्रकारमेव दर्शयति ॥ पीतादेका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ॥ पीतमुदकं याभिस्ताः पीतोदकाः । जग्धं भक्षितं तृणं याभिस्ता जग्धतृणाः । दुग्धो दोहा याभिस्ता दुग्धदोहाः । निरिन्द्रियाः अप्रजननसमर्थाः । जीर्णा निष्फला इति यावत् ॥ अनन्दा नाम ये लोकास्तान्स गच्छति ता ददत् । या एवम्भूता गावस्ता ऋुत्विग्म्यो दक्षिणाबुद्ध्या ददत् -प्रयच्छन् अनन्दा -असुखा ये शास्त्रप्रसिद्धा लोकाः सन्ति नाम खलुतान् स यजमानो गच्छति एवममन्यतेत्यर्थः ॥ स होवाच पितरं तत कस्मै मां दास्यसीति द्वितीयं तृतीयम् ॥ दीयमानदक्षिणावैगुण्यं मन्यमानो नचिकेताः स्वात्मदानेनापि पितुः क्रतुसाद्गुण्यमिच्छन् आस्तिकाग्रेसरः पितरमुपागम्योवाच तात कस्मै ऋुत्विजे दक्षिणार्थं मां दास्यसीति । एवमुक्तेनापि पित्रो पेक्ष्यमाणोऽपि प्रथमं द्वितीयं तृतीयमपि पर्यायं कस्मै मां दास्यसीत्युवाच ॥ तँ होवाच मृत्यवे त्वां ददामीति ॥ एवं निर्बध्यमानः पिता कुपितस्तं पुत्रं मृत्यवे त्वां ददामीत्युक्तवान् । एवमुक्तोऽपि विगतसाध्वसशोकः पितरमुवाच ॥ बहूनामेमि प्रथमो बहूनामेमि मध्यमः ॥ सर्वेषां मृत्युसदनं गन्तघृणां पुरतो मध्ये वा गच्छामि न तु मन्थरः । पश्चान्मृत्युसदनगमने न कोऽपि मम विचार इति भावः ॥ किं तर्हि तत्राह ॥ किँ स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥ तत्तादृशं यमस्य कर्तव्यं किं वा पूर्णकामस्य मृत्योः मादृशेन बालिशेन किं प्रयोजनं स्याद्येन ऋत्विग्भ्य इव तस्मै मदर्पणं सफलं स्यात् । अत एतदेवानुशोचामीति भावः । साध्वसरोषावेशहीनमीदृशं पुत्रवाक्यं श्रुत्वा क्रोधावेशान्मया मृत्यवे ददामीत्युक्तं नेदृशं पुत्रं मृत्यवे दातुमुत्सह इति पश्चात् तप्तहृदयं पितरमालोक्योवाच ॥ अनुपश्य यथापूर्वे प्रतिपश्य यथापरे ॥ पूर्वे पितामहादयो यथा मृषावादं विनैव स्थिता यथा च परे साधवोऽद्यातिष्ठन्ति तान्वीक्ष्य तथा वर्तितव्यमिति भावः ॥ सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ मर्त्यः सस्यमिवाल्पेनापि कालेन जीर्यति । जीर्णः सन् मृत्वा सस्यमिव पुनराजायते । एवमनित्ये जीवलोके किं मृषाकरणेन । पालय सत्यं । प्रेषय मां मृत्युव इति भावः । एवमुक्त्वा प्रेषितः प्रोषितस्य मृत्योर्द्वारि तिस्रोरात्रीरनश्रन्नुवास । ततः प्रोष्याऽऽगतं यमं द्वार्स्था वृद्धा ऊचुः ॥ वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् । तस्यैताँ शान्तिं कुर्वन्ति । हर वैवस्वतोदकम् ॥ साक्षादग्निरेवातिथिर्ब्राह्मणः सन् गृहान् प्रविशति । तस्याग्नेरेतां पाद्यासनादिलक्षणां शान्तिं कुर्वन्ति सन्तः तदपचारेण दग्धा मा भूमेति । अतो हे वैवस्वत नचिकेतसे पाद्यार्थमुदकं हर आहर ॥ अकरणे प्रत्यवायं च दर्शयन्तिस्म ॥ आशाप्रतीक्षे सङ्गतँ सूनृतां चेष्टापूर्ते पुत्रपशूँश्च सर्वान् । एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्रन्वसति ब्राह्मणो गृहे ॥ यस्याल्पमेधसः अल्पप्रज्ञस्य पुरुषस्य गृहे अनश्रन्नभुञ्जानः अतिथिर्वसतितस्याऽऽशाप्रतीक्षे अनुत्पन्नवस्तुविषयेच्छा आशा उत्पन्नवस्तुप्राप्तीच्छा प्रतीक्षा । सङ्गतं सत्सङ्गतम् । सूनृतां सत्यप्रियवाचम् । इष्टापूर्ते इष्टं यागादि आपूर्तं खातादि । पुत्रान्पशूंश्च एतत् अनशनरूपं पापं वृङ्क्ते वर्जयति नाशयतीत्यर्थः । “वृजी वर्जने’’ रुधादित्वाच्छ्नम् । “वृजि वर्जन’’ इत्यस्मादि दितोनुमदादित्वाद्वा शपो लुक्च । एवं वृद्धैरुक्तो मृत्युर्नचिकेतसमुवाच ॥ तिस्रो रात्रीर्यदवात्सीर्गृहे मे अनश्रन् ब्रह्मन्नतिथिर्नमस्यः ॥ मे गृहे यस्माद्वेतोर्हेब्रह्मन् नमस्कारार्होऽतिथिस्त्वं तिस्रोरात्रीरभुञ्जान एवावात्सीरित्यर्थः ॥ नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु ॥ स्पष्टोऽर्थः ॥ तस्मात्तान् प्रति त्रीन् वरान् वृणीष्व ॥ तस्माद्धेतोर्मह्यं स्वस्ति यथास्यादित्येवमर्थं वरान् प्रत्युद्दिश्य वृणीष्व प्रार्थयस्व । तव लिप्सा भावे मदनुग्रहार्थमनश्रन्रात्रिसमसङ्ख्याकान् त्रीन्वरान्वृणीष्वेति भावः ॥ एवं प्रार्थितो नचिकेतास्त्वाह ॥ शान्तसङ्कल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभिमृत्यो ॥ हे मृत्यो मत्पुत्रो यमं प्राप्य किं करिष्यतीति मद्विषयचिन्तारहितः प्रसन्नमना मामभि मां प्रति मम पिता गौतमो वीतरोषश्च यथास्यादित्यर्थः । किञ्च-त्वत्प्रसृष्टं माभिवदेत्प्रतीतः ॥ त्वया गृहाय प्रेषितं मामभिमाम्प्रति प्रतीतः यथापूर्वं प्रीतः सन् वदेत् । यद्वा अभिवदेत् आशिषं प्रायुङ्काम् । अभिवदति नाभिवादयत इति स्मृतिषु अभिवदनस्याशीर्वादे प्रयोगात् ॥ तत् त्रयाणां प्रथमं वरं वृणे ॥ स्पष्टोऽर्थः ॥ एवमुक्तो मृत्युः प्रत्युवाच ॥ यथा पुरस्ताद्भविता प्रतीतः ॥ यथा पूर्वं त्वयि दृष्टो भविता ॥ आैद्दालकिरारुणिर्मत्प्रसृष्टः ॥ उद्दालक एवौद्दालकिः । अरुणस्यापत्यमारुणिः । व्द्यमुष्यायणे वा उद्दालकस्यापत्यम् अरुणस्य गोत्रापत्यमिति वार्थः । मत्प्रसृष्टः मदनुज्ञातःमदनुगृहीतः सन् । मदनुग्रहादित्यर्थः ॥ सुखँ रात्रीः शयिता वीतमन्युः ॥ वीतक्रोधः सन् उत्तरा अपि रात्रीः सुखंशयिता । “लुट्’’ । सुखं निद्रां प्राप्स्यतीति यावत् । त्वां बुदृशिवान् मृत्युमुखात्प्रमुक्तम् ॥ दृशिवान् दृष्टवान् सन्नित्त्यर्थः । “क्वस्वन्तो’‘ऽयं शब्दः । दृशे श्चेति वक्तव्यमिति क्वसोरिट् । छान्दसोद्विर्वचनाभावः । मत्प्रसृष्टमिति द्वितीयां तं वा । मत्प्रेषितं त्त्वामिति योजना । नचिकेता वरं द्वितीयं प्रार्थयते स्वर्गे लोके इत्यादिना मन्त्रद्वयेन ॥ स्वर्गे लोके न भयं किञ्चनास्ति ॥ अत्र स्वर्गशब्दो मोक्षस्थानपरः ॥ न तत्र त्वं न जरया बिभेति ॥ हे मृत्यो त्वं तत्र न प्रभवसि । जरया युक्तः सन् न विभेति । जरातो न विभेति तत्र । वर्तमानः पुरुषः इति शेषः ॥ उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोकेअशनाया बुभुक्षा । अत्रापि स्वर्गशब्दो मोक्षस्थानपरःप्रसिद्धस्य स्वर्गस्य क्षयफलविरक्तनचिकेतः प्रार्थ्यमानत्वानुपपत्तेरिति द्रष्टव्यम् । अत्र वक्तव्यमुपनिषद्भाष्ये उक्तं तत्र द्रष्टव्यम् ॥ स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो ॥ पुराणादिप्रसिद्धसार्वज्ञस्त्वं स्वर्गप्रयोजनकमग्निं जानासि । “स्वर्गादिभ्योयद्वक्तव्यः’’ इति प्रयोजनमित्यर्थे यत् । स्थण्डिलरूपाग्नेः स्वर्गप्रयोजनकत्वं चोपासनाद्वारेत्युत्तरत्र स्फुटम् ॥ प्रब्रूहि तँ श्रद्दधानाय मह्यम् ॥ श्रद्दधानाय मोक्षश्रद्धावते । स्वर्गलोकेन तव किं सिध्यतीत्यत्राह ॥ स्वर्गलोका अमृतत्वं भजन्ते एतद्धितीयेन वृणे वरेण ॥ स्वर्गो लोको येषां ते परमपदं प्राप्ता इत्यर्थः । परञ्ज्योतिरुपसम्पद्य स्वेनरूपेणाभिनिष्पद्यतइतिदेशविशेष विशिष्टब्रह्मप्राप्तिपूर्वकत्वात्स्वरूपाविर्भावलक्षणमोक्षशब्दितामृतत्वस्येतिभावः । एवमुक्तो मृत्युराह ॥ प्रते ब्रवीमि तदु मे निबोध ॥ ते प्रब्रवीमि “व्यवहिताश्च’’ अष्टा.1.4.82) इति व्यवहितप्रयोगः। मे उपदेशाज्जानी हीत्यर्थः । ज्ञानस्य फलं दर्शयति ॥ स्वर्ग्यमग्निं नचिकेतः प्रजानन्ननन्तलोकाप्तिमथो प्रतिष्ठाम् ॥ अनन्तस्य विष्णोर्लोकः तत्प्राप्तिं “तद्विष्णोः परमम्पदम्’’ (सुबा.6) इत्युत्तरत्र वक्ष्य माणत्वात् । अथो तत्प्राप्त्यनन्तरं प्रतिष्ठामपुनरावृत्तिं च लभत इति शेषः ॥ तज्ज्ञानस्य चेदृशसामर्थ्यं कथं सम्भवतीति मन्यमानं प्रत्याह ॥ विद्धि त्वमेतँ निहितँ गुहायाम् ॥ ब्रह्मोपासनाङ्गतयैतज्ज्ञानस्य मोक्षहेतुत्वलक्षणमेतत्स्वरूपं गुहायां निहतमन्ये न जानन्ति । त्व ञ्जानीहीति भावः। यद्वा ज्ञानार्थकस्य विदेर्लाभार्थकत्वसम्भवादग्निं प्रजानंस्त्मनन्तलोकाप्ति म्प्रतिष्ठां लभस्वेत्युक्तेर्हेतुहेतुमद्भावः सिद्धो भवति । प्रजानन् “लक्षणहेत्वोः’’ (अष्टा) इति शतृप्रत्ययः । अनन्तरं श्रुतिवाक्यम् ॥ लोकादिमग्निं तमुवाच तस्मै ॥ लोकस्यादिं हेतुम् । स्वर्ग्यमिति यावत् । तमग्निमुवाच ॥ या इष्टका यावतीर्वा यथा वा ॥ यल्लक्षणा इष्टकाश्चेतव्या यत्सङ्ख्याका येन प्रकारेण चेतव्या स्तत्सर्वमुक्तवानित्यर्थः । यावतीरिति पूर्वसवर्णदीर्घश्छान्दसः ॥ स चापि तत्प्रत्यवदद्यथोक्तम् ॥ तच्छ्रुतं सर्वं तथैवानूदितवानित्यर्थः ॥ अथास्य मृत्युः पुनराह तुष्टः ॥ शिष्यस्य ग्रहणसामर्थ्यदर्श नेन सन्तुष्टः सन् पुनरप्युक्तवान् ॥ तमब्रवीत् प्रीयमाणो महात्मा ॥ सन्तुष्टो महामना नचिकेतसमब्रवीत् ॥ वरं तवेहाद्य ददानि भूयः ॥ पुनश्चतुर्थंवरं प्रयच्छामि । किं तत् । तत्राह । तवैव नाम्ना भवितायमग्निः ॥ मयोच्यमानोऽग्निस्तवैव नाम्ना नाचिकेत इति प्रसिद्धो भविता । किञ्च-सृङ्कां चेमामनेकरूपां गृहाण ॥ सृङ्कां शब्दवतीं रत्नमालां स्वीकुरु इत्यर्थः । पुनरपि कर्मस्तौति ॥ त्रिणाचिकेतस्त्रिभिरेत्यसन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू ॥ त्रिणाचिकेतः “अयं वाव यः पर्वते’’ (तै.ब्रा.अष्ट) इत्यादि अनुवाकत्रयाध्यायी । त्रिकर्म कृद्यजनाध्ययनदानकृत् पाकयज्ञहविर्यज्ञसोमयज्ञकृद्वा त्रिभिरग्निभिरनुष्ठितैरग्निभिः सन्धिं परमात्मोपासनेन सम्बन्धमेत्य प्राप्य जन्ममृत्यू तरतीत्यर्थः । “करोति तद्येन पुनर्न जायते’’ इत्यनेनैकार्थ्यात् । एवमेव ह्ययं मन्त्रः “त्रयाणामेव चैवम्’’ (ब्र.सू.1.4.5) इति सूत्रे व्यासाचार्यैर्विवृतः ॥ त्रिभिरेत्य सन्धिमिति निर्दिष्टमङ्गिभूतं परमात्मोपासनमाह ॥ ब्रह्मजज्ञं देवमीड्यं विदित्वा ॥ अयं मन्त्रो “विशेषणाच्च’’ (ब्र.सू.1.2.12) इति सूत्रे भाष्ये ब्रह्मजज्ञोजीवः । ब्रह्मणोजातत्वाज्ज्ञत्वाच्च तं देवमीड्यं विदित्वा जीवात्मानमुपासकं ब्रह्मात्मकत्वेनाव गत्येत्यर्थः’’ इति विवृतः । देवशब्दस्य परमात्मवाचितया जीवपरयोश्चैक्यासम्भवादत्रत्य देवशब्दस्य परमात्मकत्वपर्यन्तोऽर्थ इति भाष्याभिप्रायः ॥ निचाय्येमाँ शान्तिमत्यन्तमेति ॥ निचाय्य - ब्रह्मात्मकं स्वात्मानं साक्षात्कृत्य । इमां त्रिकर्मकृत्तरतीति पूर्वमन्त्रनिर्दिष्टां संसाररूपानर्थशान्तिमेतीत्यर्थः ॥ त्रिणाचिकेतस्त्रयमेतद्विदित्वा ॥ त्रिणाचिकेत उक्तोऽर्थः । त्रयमेतद्विदित्वा “ब्रह्मजज्ञं देवमीड्यम्’’ इति मन्त्रनिर्दिष्टं ब्रह्मस्वरूपं तदात्मकस्वात्मरूप न्त्रिभिरेत्य सन्धिमिति निर्दिष्टाग्निस्वरूपं च विदित्वा गुरूपदेशेन शास्त्रतो वा ज्ञात्वा ॥ य एवं विद्वाँश्चिनुते नाचिकेतम् । एतादृशार्थत्रयानुसन्धानपूर्वकं नाचिकेतमग्निं यश्चिनुते ॥ स मृत्युपाशान्पुरुतः प्रणोद्य ॥ मृत्युपाशान् रागद्वेषादिलक्षणान् पुरुतः शरीरपातात्पूर्वमेव प्रणोद्य तिरस्कृत्य जीवद्दशायामेव रागादिरहितः सन्नित्यर्थः ॥ शोकातिगो मोदते स्वर्गलोके ॥ पूर्वमेव व्याख्यातम् ॥ यो वा प्येतां ब्रह्मजज्ञात्मभूतां चितिं विदित्वा चिनुते नाचिकेतम् । स एव भूत्वा ब्रह्मजज्ञात्मभूतः करोति तद्येन पुनर्न जायते ॥ एवं चितिं ब्रह्मजज्ञात्मभूतां विदित्वा ब्रह्मात्मककस्वात्मानुसन्धानशीलस्सन्न पुनर्भवहेतुभूतं यद्भगवदुपासनं तदनुतिष्ठति । ततश्चाग्नौ भगवदात्मकस्वात्मानुसन्धान पूर्वकमेव चयनं “त्रिभिरेत्य सन्धि न्त्रिकर्मकृत्तरति जन्ममृत्यू’’ इति पूर्वमन्त्रेभगवदुपासनद्वारा मोक्षसाधनतया निर्दिष्टं नान्यदिति भावः ॥ एष तेऽग्निर्नाचिकेतः स्वर्ग्यः ॥ उपदिष्ट इति शेषः ॥ यमवृणीथा द्वितीयेन वरेण ॥ स्पष्टोऽर्थः । किञ्च-एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥ एतदग्निं तवैव नाम्ना प्रवक्ष्यन्तीत्यर्थः। शिष्टं स्पष्टम् । नचिकेता आह ॥ येऽयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः ॥ अत्ताचराचर “(ब्र.सू.1.2.8) इत्यधिकरणे इमं मन्त्रं प्रस्तुत्य इत्थं हि भाष्यकृता “अत्र परमपुरुषार्थरूपब्रह्मप्राप्तिलक्षणमोक्षयाथात्म्यविज्ञानाय तदुपायभूतपरमात्मोपासन परावरात्मतत्त्वजिज्ञासयाप्रश्नः क्रियते - येऽयम्प्रेत’’ इति । न शरीरवियोगमात्राभिप्रायम् । अपि तु सर्वबन्धविनिर्मोक्षाभिप्रायम् । यथा न प्रेत्य सञ्ज्ञास्तीति । अयमर्थः मोक्षाधिकृते मनुष्ये प्रेते सर्वबन्धविनिर्मुक्ते तत्स्वरूपविषयवादिविप्रतिपत्तिनिमित्ता अस्तिनास्त्यात्मिका एवं विचिकित्सा तदपनोदनाय तत्स्वरूपयाथात्म्यं त्वयानुशिष्टोऽहंविद्यां जानीयामिति । तथा हि-बहुधा विप्रतिपद्यन्तेकेचिद्वित्तिमात्रस्यात्मनः स्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते । अन्येतु वित्तिमात्रस्यैव सतोऽविद्यास्तमयम् । अपरे पाषाणकल्पस्यात्मनो ज्ञानाद्यशेषविशेगुणोच्छेद लक्षणं कैवल्यरूपम् । अपरे अपहतपाप्मानं परमात्मानमभ्युपगच्छन्तस्तस्यैवोपाधि संसर्गनिमित्तजीवभावस्योपाध्यपगमे तद्भाभलक्षणं मोक्षमातिष्ठन्ते । त्रय्यन्तनिष्णातास्तु निखिलजगदेककारणस्याशेषहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपस्यस्वाभाविकान वधिकातिशया सङ्ख्येय कल्याणगुणाकरस्य सकलेतरविलक्षणस्य सर्वात्मभूतस्य परस्य ब्रह्मणः शरीरतया प्रकारभूतस्यानुकूलापरिच्छिन्नज्ञानस्वरूपस्य परमात्मानुभवैकरसस्य जीवस्यानादिकर्मरूपाविद्यातिरोहितस्याऽविद्योच्छेदपूर्वकस्वाभाविकपरमात्मानुभवं मोक्षमाचक्षते । तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादाद्विद्यामिति नचिकेतसा पृष्टो मृत्युः’’ इति भाषितम् । तथा “त्रयाणामेवचैवम्’’ (ब्र.सू.1.4.5) इतिसूत्रे “तृतीयेन वरेण मोक्षस्वरूपप्रश्नद्वारेणोपेयस्वरूपमुपेतृस्वरूपमुपायभूतकर्मानुगृहीतेपासनस्वरूपं च पृष्टम्’’ इति भाषितम् । श्रुतप्रकाशिकायां च “येऽयम्प्रेतइत्यादिप्रश्नवाक्ये मोक्षस्वरूपप्रश्नः कण्ठोक्तः । प्रतिवचनप्रकारेणोपासनादिप्रश्नश्चार्थसिद्धः । निर्विशेषताऽऽपत्तिर्मोक्षश्चेद्वाक्यार्थ ज्ञानस्योपायता न स्यात् । उभयलिङ्गं प्राप्यं चेत्तथात्वेनोपासनमुपायः स्यात् । अतो मोक्षस्वरूपज्ञानं तदनुबन्धिज्ञानापेक्षम्’’ इति च वर्णितम् । अतो “येऽयं प्रेत’’ इत्यस्य मुक्तस्वरूपपरत्वमेव । न देहातिरिक्तपारलौकिककर्मानुष्ठानोपयोगिकर्तृभोक्तात्मक जीवस्वरूपमात्रपरत्वम् । अन्यथा तस्यार्थस्य दुरधिगमत्वप्रदर्शनविविधभोगवितरणप्रलोभन परीक्षाया असम्भवादिति द्रष्टव्यम् । नचिकेतसो ह्ययमभिप्रायः । हितैषिवचननादात्मा परित्यक्तचरमदेहाविर्भूतापहतपाप्मत्वादिगुणाष्टको भवतीत्युपश्रुत्य “स्वर्गे लोके न भयं किञ्च नास्ति’’ इत्यादिनामन्त्रद्वयेन मोक्षसाधनभूताग्निमप्राक्षम् । अधुना तु वादिविप्रतिपत्त्या तद्विषयसन्देहो जायते । अयं “स्वर्गे लोके न भयङ्किञ्चनास्ति’’ इत्यादिना मयोपन्यस्तापहतपाप्मत्वादिविशिष्टरूप आत्मा अस्तीत्येके। नास्तीत्यपरे त्वयोपदिष्ठ एतज्जानीयामिति । अत एव प्रतिवचने “एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः । प्रगृह्य धर्म्यमणुमेतमाप्य स मोदते मोदनीयँ हि लब्ध्वा’’ इति एतत्प्रश्नानुगुणमेव दृश्यते । अतो यथोक्त एवार्थः । एवं मुक्तस्वरूपं पृष्टोमृत्युरुपदिश्यमानार्थस्यातिगहनतया पारं प्राप्तुं प्रभवते मध्ये पतयालवे नोपदेष्टव्यमिति मत्वाह । देवैरत्रापि विचिकित्सितं पुरा ॥ बहुदर्शिभिरपि देवैरस्मिन् मुक्तात्त्मस्वरूपे विचिकित्सितंसंशयितम् । नहि सुविज्ञेऽयमणुरेष धर्मः ॥ आत्मतत्त्वं न सुज्ञानमतिसूक्ष्मो धर्मः । सामान्यतो धर्म एव दुर्ज्ञानः । तत्राप्ययं दुर्ज्ञान इति भावः । अन्यं वरं नचिकेतो वृणीष्व ॥ स्पष्टोऽर्थः ॥ मामोपरोत्सीरति मा सृजैनम् ॥ मामा इतिनिषेधे । वीप्सायां द्विर्वचनम् । उपरोधं माकार्षीः। एनम्मामतिसृज मुञ्च ॥ एव मुक्तो नचिकेता आह ॥ देवैरत्रापि विचिकित्सितं किल ॥ स्पष्टोऽर्थः ॥ त्वं च मृत्यो यन्न सुज्ञेयमात्थ ॥ न सुज्ञेयमिति च यदात्मस्वरूपमुक्तवान् ॥ वक्ता चास्य त्वादृगन्यो न लभ्यः ॥ त्वादृक् भावदृश इत्यर्थः ॥ नान्यो वरस्तुल्य एतस्य कश्चित् ॥ एवं नचिकेतसोक्तो मृत्युर्विषयस्य दुरधिगमतया मध्ये नत्यक्ष्यतीति निश्चित्य सत्यपि ग्रहणसामर्थ्ये विषयान्तरासक्तचेतसे एतादृशमुक्तात्मतत्त्वं नोपदेशार्हमिति मुमुक्षास्थैर्यानुवृत्त्युर्थं प्रलोभपन्नुवाच ॥ शतायुषः पुत्रपौत्रान् वृणीष्व । बहून् पशून् हस्तिहिरण्मश्वान् ॥ स्पष्टोऽर्थः । भूमेमर्हदायतनं वृणीष्व ॥ पृथिव्या विस्तीर्णमायतनं मण्डलं राज्यं वृणीष्व । अथवा भूमेः सम्बन्धि महदायतनंविचित्रशालाप्रासादादियुक्तं गृहं वृणीष्व ॥ स्वयं च जीव शरदो यावदिच्छसि ॥ यावद्वर्षाणि जीवितुमिच्छसि तावज्जीवेत्यर्थः ॥ एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ॥ उक्तेन वरेण सदृशमन्यमपि वरं मन्यसे चेत्तदपि वृणीष्व प्रभूतं हिरण्यरत्नादिकं चिरजीवनं चेत्यर्थः ॥ महाभूमौ नचिकेतस्त्वमेधि ॥ भव राजेति शेषः । अस्तेर्लेण्मध्यमपुरुषैकवचनम् । कामाना न्त्वा कामभाजं करोमि ॥ कामानां काम्यमानानामप्सरः प्रभृतिविषयाणाम् । कामभाजं कामः कामना तां विषयतया भजतीति कामभाक् तम् । काम्यमानाप्सरः प्रभृतीनामपि कामनाविषयं करोमीत्यर्थः ॥ ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामान्छन्दतः प्रार्थयस्व ॥ छन्दतो यथेष्टमित्यर्थः ॥ इमा रामाः सरथाः सतूर्या नहीदृशा लम्भनीया मनुष्यैः ॥ रथवादित्रादिसहिता मया दीयमानाः स्त्रियो मनुष्याणां दुर्लभा इत्यर्थः ॥ आभिर्मत्प्रत्ताभिः परिचारयस्व ॥ मया दत्ताभिः परिचारिकाभिः पादसंवाहनादिशुश्रूषां कारयस्वेत्यर्थः ॥ नचिकेतो मरणं माऽनुप्राक्षीः ॥ मरणमनु मरणान्मुक्तेः पश्चात् । मुक्तात्मस्वरूपमिति यावत् । मरण शब्दस्य देहवियोगसामान्यवाचिनोपि प्रकरणवशेन विशेषवाचित्वं न दोषायेति द्रष्टव्यम् । एवं प्रलोभ्यमानोऽपि नचिकेता अक्षुभितहृदय आह ॥ श्वोऽभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः ॥ हे अन्तक त्वदुपन्यस्ता ये मर्त्यस्य कामास्ते श्वोऽभावाः श्व अभावो येषां ते तथोक्ताः । दिनद्वयस्थायिनो न भवन्तीत्यर्थः । सर्वेन्द्रियाणां यदेतत्तेजः तत् क्षपयन्ति । अप्सरः प्रभृतयो हि भोगाः सर्वेन्द्रियदौर्बल्यावहा इति भावः ॥ अपि सर्वं जीवितमल्पमेव ॥ ब्रह्मणोऽपि जीवितं स्वल्पम् । किमुतास्मदादिजीवितम् । अतश्चिरजीवितापि न वरणार्हेति भावः ॥ तवैव वाहास्तवनृत्य (त्त) गीते ॥ वाहा रथादयः । तिष्ठन्त्विति शेषः ॥ न हि वित्तेन तर्पणीयो मनुष्यः ॥ नहि वित्तेन लभ्ये (ब्धे) न कस्यचित्तृप्तिर्दृष्टचरी “न जातु कामः कामानामुपभोगेन शाम्यति’’ इति न्यायादिति भावः ॥ किञ्च-लप्स्यामहे वित्तमद्राक्षमचेत्त्वाम् ॥ वयं दृष्टवन्तश्चेत्त्वां वित्तं प्राप्स्यामहे । त्वदृर्शनमस्ति चेद्वित्तलाभे को भार इति भावः ॥ तर्हि चिरजीविता प्रार्थनीयेत्यत्राह ॥ जीविष्यामो यावदीशिष्यसि त्वम् ॥ यावत्कालं याम्ये पदे त्वमीश्वरतया वर्तसे । व्यत्ययने परस्मैपदम् । तावत्पर्यन्तमस्माकमपि जीवनं सिद्धमेव । नहि त्वदाज्ञालङ्घनेनास्मज्जीवितान्तकरः कश्चिदस्ति । वरलाभालाभयोरपि तावदेव जीवनमिति भावः ॥ वरस्तु मे वरणीयः स एव ॥ ये यं प्रेत इति प्राक्प्रस्तुतो वर एव वरणीय इति भावः ॥ अजीर्यताममृतानामुपेत्य ॥ जरामरणशून्यानां मुक्तानां स्वरूपं ज्ञात्वा ॥ जीर्यन्मर्त्यः क्वतदास्थः प्रजानन् ॥ विवेकी जरामरणोपप्लुतोऽयं जनः तदास्थः जरामरणाद्युपप्लुताप्सरःप्रभृतिविषयकास्थावान् क्व कथं भवेदित्यर्थः । क्वाधस्थ इति पाठे अधोदेशभूतभूमिष्ठ इत्यर्थः ॥ अभिध्यायन्वर्णरतिप्रमोदान् ॥ तत्रत्यान्वर्णाआदित्यवर्णत्वादिरूपविशेषाः, रतिप्रमोदाः सम्भोगादिजनिता आनन्दविशेषाः, तान्सर्वानभिध्यायन् निपुणतया निरूपयन् ॥ अनतिदीर्घे जीविते को रमेत ॥ अत्यल्पे ऐहिकेऽचिरजीविते कःप्रीतिमान्त्स्यादित्यर्थः ॥ यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत् ॥ महति पारलौकिके यस्मिन्मुक्तात्मस्वरूपे संशेरते तदेव मे ब्रूहि ॥ योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ गूढमात्मतत्त्वमनुप्रविष्टो योऽयंवरः तस्मादन्यं न नचिकेता बृणीत इति श्रुतेर्वचनम् ॥ इति प्रथमावल्ली ॥ एवं शिष्यं परीक्ष्य तस्य मुमुक्षास्थैर्यं निश्चित्य तस्योपदेशयोग्यतां मन्वानः मुमुक्षां स्तौति ॥ अन्यच्छ्रेयोऽन्यदुतैव प्रेयः ॥ अतिप्रशस्तं मोक्षवर्त्माप्यन्यत् । प्रियत्वास्पदं भोगवर्त्माप्यन्यत् ॥ ते उभे नानार्थे पुरुषँ सिनीतः ॥ ते श्रेयः प्रेयसी विलक्षणप्रयोजने पुरुषं स्ववशमापादयत इत्यर्थः ॥ तयोः श्रेय आददानस्य साधु ॥ तयोर्मध्ये श्रेय आददानस्य मोक्षाय प्रयतमानस्य साधु भद्रं भवति । हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ यस्तु प्रेयो वृणीते स पुरुषार्थाद्भ्रष्टो भवति । उ इत्यवधारणे ॥ श्रेयश्च प्रेयश्च मनुष्यमेतः ॥ मनुष्यं प्राप्नुतः ॥ तौ सम्परीत्य विविनक्ति धीरः ॥ तौ श्रेयःप्रेयः पदार्थौ सम्यगालोच्य नीरक्षीरे हंस इव पृथक्करोति ॥ श्रेयो हि धीरोऽभिप्रेयसो वृणीते ॥ धिया रमत इति धीरः । प्रज्ञाशाली प्रेयापेक्षयाभ्यर्हितं श्रेय एव वृणीते । प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ मन्दमतिर्योगक्षेमाद्धेतोः प्रेयो वृणीते । शरीरस्योपचयो योगः । क्षेमः परिपालनम् ॥ स त्वं प्रियान्प्रियरूपांश्च कामान् ॥ तादृशस्त्वं स्वतोरूपतश्चाप्रियाम्काम्यमानांस्त्र्यादीनित्यर्थः ॥ अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ॥ दुःखोदर्कत्वदुःखमिश्रत्वादिदोषमिश्रतया निरूपयंस्त्यक्तवानसीत्यर्थः ॥ नैताँ सृङ्कां वित्तमयीमवाप्तः ॥ वित्तमयीं धनमयीं सृङ्कां कुत्सितगतिं विमूढजनसेवितां नाऽवाप्तवानसि ॥ यस्यां मज्जन्ति बहवो मनुष्याः ॥ स्पष्टोऽर्थः ॥ दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ॥ या अविद्येति ज्ञाता कामकर्मात्मिका या च विद्येति ज्ञाता वैराग्यतत्त्वज्ञानमयी एते दूरमत्यन्तं विषूची विषूच्यौ भिन्नगती परस्परविरुद्धे च ॥ विद्याभीप्सिनं नचिकेतसं मन्ये ॥ विद्याभीप्सिनं विद्यार्थिनम् । विद्याभीप्सितमिति पाठे आहिताग्न्यादित्वान्निष्ठान्तस्य परनिपातः छान्दसत्वाद्वा ॥ न त्वां कमा बहवो लोलुपन्तः ॥ कामा बहवोऽपि त्वां नालोलुपन्त श्रेयोमार्गाद्विच्छेदं नकृतवन्तः । लुपसदेतियङन्त्ताल्लुङि छान्दसो यलोपः । यङ्लुगन्ताद्वा छान्दसमात्मनेपदम् अडभावश्च । “अविद्या या चविद्येति ज्ञाता’’ इत्युपात्तमार्गद्वये अविद्यामार्ग निन्दति ॥ अविद्यायामन्तरे वर्तमानाः ॥ काम्यकर्मादिलक्षणायामविद्यायां मध्ये घनीभूत इव तमसि वर्तमानाः ॥ स्वयं धीराः पण्डितम्मन्यमानाः ॥ स्वयमेव प्रज्ञाशालिनः शास्त्रकुशलश्चेति मन्यमानाः ॥ दन्द्रम्यामाणः परियन्ति मूढाः ॥ जरारोगादिदुःखपीडिता अविवेकिनः परिभ्रमन्ति ॥ अन्धेनैव नीयमाना यथान्धाः । न साम्परायः प्रतिभाति बालम् ॥ परलोकसाधनव्यापारोऽविवेकिनं प्रति न प्रकाशते ॥ प्रमाद्यन्तं वित्तमोहेन मूढम् ॥ अनवहितमनस्कं विषयाशावशीकृतमनोरथम् ॥ अयं लोको नास्ति पर इति मानी ॥ अयमेव लोकोऽस्ति परलोको नास्तीति मन्यमानः ॥ पुनःपुनर्वशमापद्यते मे । मत्कार्यमाणयातनाविषयो भवतीत्यर्थः । व्यासाचार्यैः “संयमनेत्वनुभूय’’ (ब्र.सू.3.1.13) इति सूत्रे “अयं लोको (श्री.भ.गी.7-3) नास्ति नपर उत मानीति पाठानुसारेण अयं च लोकः परश्च लोको नास्तीत्ययमर्थो वर्णितः । तत्र पक्षे तस्येति शेषः । पूरणीयश्च शब्दश्चाध्याहार्य्यः । मानीत्यस्य दुर्मानीत्यर्थः । तस्यायं लोकः परश्च लोको नास्तीत्यर्थः । शिष्टपरिग्रहाभावादयं च लोको नास्तीत्यस्योपपत्तिर्द्रष्टव्या ॥ स दुर्मानी पुनःपुनर्वशमापद्यते इत्युत्तरत्र सम्बध्यते ॥ श्रवणायापि बहुभिर्यो न लभ्यः ॥ यःप्रसिद्धःपरमात्मा सोऽनेकैः पुरुषैः श्रोतुमपि न लभ्य इत्यर्थः । श्रवणलाभोऽपि महासुकृतफलमिति भावः ॥ श्रृण्वन्तोऽपि बहवो यं न विद्युः ॥ श्रवणेऽपि न सर्वेषां परमात्मप्रतिपत्तिः सुलभेति भावः ॥ आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धा ॥ अस्य कुशलोवक्ता कुशलः प्राप्ता च दुर्लभ इत्यर्थः ॥ आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ कुशलेनाचार्येणानुशिष्टो ज्ञाताप्याश्चर्यः “मनुष्यमाणां सहस्रेषु कश्चिद्यतति सिद्धये ॥ यततामपि सिद्धानां कश्चिन्मां वेन्ति तत्त्वतः’’ (श्री.भ.गी.7-3) इत्युक्तेरिति भावः ॥ न नरेणावरेण प्रोक्त एष सविज्ञेयो बहुधा चिन्त्यमानः । अवरेणाश्रेष्ठेन प्राकृतेन पाण्डित्यमात्रप्रयोजनवेदान्तश्रवणेन न देहात्माभिमानिना एष आत्मा विज्ञेयो न भवति बहुधा चिन्त्यमानः वादिभिरिति शेषः ॥ अनन्यप्रोक्ते गतिरत्र नास्ति ॥ अनन्येनोच्यमानादात्मानन्येन तदेकान्तिना ब्रह्मात्मसाक्षात्कारिणा प्रोक्ते आत्मनि यादृशी अवगतिः सा आत्मावगतिरत्रावरेण प्रोक्ते नास्तीत्यर्थः । यद्वा । अत्र संसारे गतिः चङ्क्रमणं नास्तीत्यर्थः । यद्वा । अनन्यप्रोक्ते स्वयमवगते गतिरात्मावगतिर्नास्तीत्यर्थः । अन्यप्रोक्तइतिपाठान्तरेऽवरनरप्रोक्ते सति आत्मावगतिर्नास्तीत्यर्थः ॥ ननु येन केन चिदुपदिष्टेप्यूहापोहशालिनः स्यादेवेत्यत आह ॥ अणीयान्ह्यप्रतर्क्यमणुप्रमाणात् ॥ यतोऽणोरणीयानात्माऽतस्तत्स्वरूपं तर्कागोचरम् । तदेवाह ॥ नैषा तर्केण मतिरापनेया ॥ आत्मविषयिणी मतिस्तर्कप्रापणीया नेत्यर्थः ॥ अतस्तर्ककुशलेनापि स्वयं ज्ञातुं नशक्येत्यर्थः ॥ प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ॥ हे प्रेष्ठ प्रियतमस्वस्मादन्येनैव गुरुणोपदिष्टैव मतिर्मोक्षसाधनज्ञानाय भवति ॥ का पुनः सा मतिरित्यत्राह ॥ यां त्वमापः सत्यधृतिर्बतासि ॥ यां मतिं त्वमापः प्राप्तवानसि सिसाधयिषिततया निश्चितवानसीत्यर्थः ॥ सत्यधृतिः सत्याऽप्रकम्प्या धृतिर्यस्य तथोक्तः । बतेत्यनुकम्पायाम् ॥ त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ त्वादृशः शिष्योऽस्माकं भूयादित्यर्थः । पुनरपि तुष्ट आह ॥ जानाम्यहँ शेवधिरित्यनित्यम् ॥ शेवधिः कुबेराद्यैश्वर्यमेवञ्जातीयककर्मफललक्षणमनित्यमिति जानामि ॥ न ह्यध्रुवैः प्राप्यते ध्रुवं तत् .। तदात्मत्त्वम् । अध्रुवैरनित्यफलसाधनभूतैरनित्यद्रव्यसाध्यैर्वा कर्मभिरित्यर्थः ॥ ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ एवं ज्ञातवता मया ब्रह्मप्राप्तिसाधज्ञानोद्देशेनानित्यैरिष्टकादिद्रव्यैर्नाचिकेतोऽग्निश्चितः । तस्माद्धेतोर्नित्य फलसाधनं प्राप्तवानस्मीत्यर्थः । अतो ब्रह्मप्राप्तेर्ज्ञानैकसाध्यत्वस्य नविरोधः । त्वादृङ्नो भूयान्नचिकेतः प्रष्टेति पूर्वमन्त्रोक्तं नचिकेतसः श्रवणाधिकारं विवृणोति ॥ कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् । स्तोमं महदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या नचिकेतोऽत्यस्राक्षीः ॥ क्रतोः कर्मणः प्रतिष्ठां फलभूतां जगतः कामस्याप्तिं चतुर्मुखस्थानपर्यन्त सर्वलोकसम्बन्धिस्त्र््यादिविषयात्मककामप्राप्तिं च दृष्ट्वा मोक्षस्वरूपमाह । आनन्त्यमभयस्य पारमित्यादिना अविनाशित्वम् अत्यन्तनिर्भयत्वम् अपहतपाप्मत्वम् सत्यसङ्कल्पत्वादिमहागुणरूपस्तोमम् उरुकीर्तिं स्थैर्यञ्च मोक्षगतं दृष्ट्वा लौकिकान् कामान् प्रज्ञया त्यक्तवानित्यर्थः । यद्वा मोक्षस्वरूपपपरमात्मस्वरूप एव सर्वकामावाप्तिं तत्रैव सकलजगदाधारत्वं क्रतोरनन्त फलरूपतां चेत्येवं सर्वं परमात्मविषयतया योजनीयम् ॥ तृतीयं प्रश्नं प्रतिवक्ति ॥ तं दुर्दर्शमित्यादिना मन्त्रद्वयेन ॥ तं दुर्दर्शं गूढमनुप्रविष्टम् ॥ “श्रवणायापि बहुभिर्यो न लभ्यः’’ इत्युक्तरीत्या द्रष्टुमशक्यम् । गूढं तिरोधायि कर्मरूपाविद्यातिरोहितम् । सर्वभूतानुप्रविष्टम्॥ गुहाहितम् ॥ हृदयगुहावर्तिनम् ॥ गह्वरेष्ठम् ॥ आत्मान्तर्यामिणम् ॥ पुराणम् ॥ अनादिम् ॥ अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ विषयेभ्यः प्रतिसंहृत्यचेतसः आत्मनि समाधानमध्यात्मयोगः । “यच्छेद्वाङ्मनसी प्राज्ञः “यदा पञ्ञ्चावतिष्ठन्ते ज्ञानानि मनसा सह’’ इत्यादिना यो वक्ष्यमाणस्तेन योऽयमधिगमः जीवात्मज्ञानं तेन हेतुना देवं परमात्मानं मत्वा ध्यात्वेत्यर्थः । जीवात्मज्ञानस्य परमात्मज्ञानहेतुत्वादिति भावः । हर्षशोकौ विषयलाभालाभप्रयुक्तहर्षशोकौ जहातीत्यर्थः ॥ एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः ॥ एतदात्मतत्त्वं श्रुत्वा सम्परिगृह्य मननादिकं कृत्वेत्यर्थः ॥ प्रवृह्य धर्म्यम् ॥ कर्मसाध्यं शरीरादिप्रवृह्य पृथक्वृत्य परित्यज्येत्यर्थः ॥ अणुमेतमाप्य ॥ एतं स्वात्मभूतं सूक्ष्मतया चक्षुराद्यगोचरम् । अणीयान् ह्यप्रतर्क्यमिति निर्दिष्टं देशविशेषे प्राप्य ॥ स मोदते मोदनीयँ हि लब्ध्वा ॥ सविद्वान्मोदनीयं प्रीतिविषयमपहतपाप्मत्वादिगुणाष्टकविशिष्टस्वरूपं लब्ध्वा मोदते आनन्दी भवतीत्यर्थः । “एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परञ्ज्योतिरुपसम्पद्यस्वेनरूपेणाभिनिष्पद्यते । स तत्र पर्य्येति जक्षत् क्रीडन् रममाणः’’ इति श्रुत्यन्तरार्थोऽत्रानुसन्धेयः । एवं प्रश्नस्योत्तर मुक्त्वा नचिकेतसं मोक्षार्हत्वेन स्तौति ॥ विवृतँ सद्मनचिकेतसम्मन्ये ॥ नचिकेतसं प्रति ब्रह्मरूपं सद्म धाम विवृतद्वारं प्रवेशार्ह मन्ये इत्यर्थः । “तस्यैष आत्मा विशति ब्रह्मधाम’’ इतिश्रुतेः ॥ ननु ब्रह्मजज्ञं देवमीड्यं विदित्वेति श्रुत्यैकार्थ्यायाध्यात्म योगाधिगमेन देवं मत्वेत्यत्रापि परमात्मात्मकजीवः प्रतिपाद्यताम् । ततश्च तं दुर्द्दर्शमितिपूर्वमन्त्रखण्डोऽपि जीवविषय एवास्तु । ततश्च श्रवणायापि बहुभिर्यो न लभ्य इति पूर्वसन्दर्भोऽपिपरिशुद्धजीवस्वरूपपर एवास्तु। ततश्च “आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदतितथैवचान्यः । आश्चर्यवच्चैनमन्यः श्रृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्’’ इति परिशुद्धात्मविषयगीता वचनैकार्थ्यमुपपद्यत इति चेन्न । ब्रह्मजज्ञमिति मन्त्रब्रह्मजज्ञत्वरूपप्रक्रमश्रुतजीवलिङ्गबलेन चरमश्रुतदेवशब्दस्यदेवात्मकस्वरूपाश्रयणेपि तं दुर्दर्शमिति मन्त्रे तादृश जीवलिङ्गाभावेन देव मित्यस्य देवात्मकमित्यर्थाश्रयणायोगात् । एतदेवाभिप्रेत्य भगवता भाष्यकृता “गुहां प्रविष्टा वात्मानौ’’ (ब्र.सू. 1.2.11) इति सूत्रे परमात्मनस्तावत् तं दुर्दर्शं गूढमनुप्रविष्टमिति गुहाप्रवेशो दृश्यत इत्युक्तम् । तथैवायं मन्त्रः परमात्मपरतया व्यासाचार्यैर्विवृतः । गह्वरेष्ठमिति पदेन परमात्मनः गह्वरशब्दितदुर्ज्ञेयपरिशुद्धात्मस्वरूपशरीरकत्वमप्युक्तम् । इयांस्तुविशेषः ॥ ब्रह्मजज्ञमिति मन्त्रे परमात्मात्मकपरिशुद्धजीवस्वरूपं प्रतिपाद्यते । तं दुर्दर्शमिति मन्त्रे तु जीवशरीरकपरमात्मकस्वरूपं प्रतिपाद्यत इति न तयोरैकार्थ्यहानिः । “नह्यध्रुवैः प्राप्यते हि ध्रुवन्तत् । एतछ्रुत्वा सम्परिगृह्य मर्त्यः । प्रवृह्य धर्ममणुमेतमाप्य । स मोदते मोदनीयं हि लब्ध्वा । अध्यात्मयोगाधिगमेन देवं मत्वा हर्षशोकौ जहाति’’ इति प्रदेशेषु धर्मफलविलक्षणतया ज्ञानसाध्यतया प्राप्यतया च निर्दिष्टस्य प्राप्यस्य स्वरूपं चोक्तप्रदेशेषु धर्मविलक्षणतया मत्त्वेति प्रतिपन्नस्योपायस्य स्वरूपं च धीरो हर्षशोकौ जहातीत्यत्र धीर इति प्रतिपन्नस्य प्राप्तुश्च स्वरूपं शोधयितुं पृच्छति ॥ अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि (ति) तद्वद ॥ ननु भाष्ये देवं मत्वेत्युपासनविषयतया निर्दिष्टस्य प्राप्यभूतस्य देवस्याध्यात्मयोगाधि गमेनेति वेद्यतया निर्दिष्टस्य प्राप्तुःप्रत्यगात्मनश्च मत्त्वा धीरो हर्षशोकौ जहातीति निर्दिष्टस्य ब्रह्मोपासनस्य स्वरूपशोधनाय पुनः पप्रच्छ । अन्यत्रधर्मादित्युक्तेः कथं तद्विरुद्धतया धीर इति निर्दिष्टस्य प्राप्तुरित्युच्यतइतिचेत् मैवं वोचः । अध्यात्मयोगाधिगमेनेति वेदितव्यतया निर्द्दिष्ट मात्म शब्दवाच्यं प्रजापतिविद्याप्रतिपन्नमुपास्यं प्राप्यभूतं परिशुद्धस्वरूपमेव । अतस्तस्यापिप्राप्यनिर्देशकत्वमेव । वस्तुगत्या तस्य प्राप्तुरभिन्नत्वात्प्राप्तुः प्रत्यागात्मनश्चेति भाष्यं न विरोत्स्यते । अत एव प्रथमं तावत्प्राप्तुः प्रत्यगात्मनः स्वरूपमाह-न जायते म्रियते वा वि पश्चिदितीत्युत्तर भाष्यमपि न विरोत्स्यते । नहि न जायते म्रियते वा विपश्चिदिति मन्त्रप्रतिपाद्यस्यविपश्चिच्छब्दितपरिशुद्धस्वरूपस्य प्राप्तृरूपतोपपत्तिः “आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’’ इति मन्त्रप्रतिपाद्यस्यैव प्राप्तृरूपत्वात् । तथैव “विशेषणाच्च’’ (ब्र.सू.1.3.12.) इति सूत्रभाष्ये प्रतिपादितत्वात् । अत एव प्राप्तृप्राप्यैकाधिकरणे निर्देशपरे गुहामन्त्रे छायातपावित्यज्ञत्ववाचिनःछायाशब्देन निर्देशो दृष्टः । न त ुविपश्चिच्छब्देन । अतो यथोक्त एवार्थः । अयं मन्त्रो व्यासार्यैः “त्रयाणामेवचैव’’ (ब्र.सू.1.4.6) इति सूत्रे विवृतः ॥ धर्म उपायः धर्मादन्यत्र प्रसिद्धोपायविलक्षण इत्यर्थः । अधर्मो धर्मेतरः उपेयः अधर्मादन्यत्र प्रसिद्धसाध्यविलक्षण इत्यर्थः । अस्मादिति बुद्धिस्थस्तत्साधको विवक्षितः । स एवोपेतो स हि प्रसिद्धोपेतृविलक्षणः । साधकावस्थायामितरफलविरक्तत्वादेवं फलदशायामाविर्भूतगुणाष्टक विशिष्टस्वरूपत्वाच्च । कृताकृतादिति धर्मादीनां विशेषणम् । कृताकृताच्च धर्मादेर्विलक्षणं यद्भूताच्च भव्याच्च धर्मादेर्विलक्षणं यदित्यर्थः ॥ यद्वा धर्माधर्मादच्चान्यत्रेत्युपासनप्रश्नः । पुण्यपापरूपसाधनविलक्षणत्वात् । कृताकृताद्भूताद्भव्याच्चान्यत्रेति कालापरिच्छिन्नमुपेयं पृष्टम् । उपेतुरपि चेतनस्य नित्यत्वात् प्राप्यान्तर्भावाच्च । अत एव तस्यापि तन्त्रेण प्रश्नः । तदन्तर्गतत्वं प्राप्तुः स्वरूपमिति हि वक्ष्यते । अत्र यत्तच्छब्दौ तृतीयपराविति भाव इति नचिकेतसा पृष्ट आह ॥ सर्वे वेदा यत्पदमामनन्ति ॥ पद्यत इति पदं"सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’’ इत्युत्तरत्र वक्ष्यमाणं ब्रह्मस्वरूपं सर्वे वेदाः साक्षात्परम्परया वा प्रतिपादयन्तीत्यर्थः ॥ तपाँसि सर्वाणि च यद्वदन्ति ॥ तपांसि तपःप्रधानाः उपरितनभाग इति व्यासार्यैर्व्याख्यातम् ॥ यदिच्छन्तो ब्रह्मचर्यं चरन्ति ॥ ब्रह्मचर्यं गुरुकुलवासस्त्रीसङ्गरहित्यादिलक्षणं यदिच्छन्तोऽनुतिष्ठन्ति ॥ तत्ते पदं सङ्ग्रहेण ब्रवीमि ॥ तत्ते पदं सङ्ग्राहकेण शब्देन वक्ष्यामीत्यर्थः । प्राप्यवक्तव्यत्वप्रतिज्ञापरेऽस्मिन्मन्त्रेऽर्थात् प्रणवप्रशंसाया अपि लाभात्प्रणवं प्रशस्येति भाष्यस्य सर्वे वेदा इत्यादि पादत्रयोक्तब्रह्मप्रतिपादक तयाप्रशस्येत्यर्थ इतिश्रुतिप्रकाशिकावचनस्य चानुपपत्तिरिति द्रष्टव्यम् । सङ्क्षेपेण तत्प्रतिपादकं किमित्यत आह ॥ आेमित्येतत् । “आें तत्सदितिनिर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः’’ इति प्रणवस्यब्रह्मवाचकत्वात्प्रण वावयवयोरकारमकारयोः परजीववाचितयोपेयोपेत्रोरप्युपदिष्टत्वमस्तीति द्रष्टव्यम् ॥ अत एवोपाय स्वरूपमप्यत्रार्थमिति मन्तव्यम् ॥ एवं वाचकं प्रणवं द्वाभ्यां मन्त्राभ्यां स्तौति ॥ एतध्देवाक्षरं ब्रह्मआें मित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीतेति ब्रह्मप्राप्तिसाधनध्यानालम्बनत्वादिद मेवाक्षरं ब्रह्मप्राप्तिसाधनत्वाद्ब्र्रह्म ॥ एतद्ध्येवाक्षरं परम् ॥ जाप्येषु ध्येयेषु च श्रेष्ठमित्यर्थः ॥ एतध्देेवाक्षरं ज्ञात्वा यो यदिच्छति तस्यतत् ॥ एतदक्षरमुपास्यानेनोपासनेनन्दं फलं मे भूयादिति यत्कामयते तत्तस्य भतीत्यर्थः ॥ एतदालम्बनँ श्रेष्ठम् ॥ एतदोङ्काररूपमालम्बनं श्रेष्ठम् । ध्यानादेरिति शेषः ॥ अत एवएतदालम्बनं परम् ॥ एतदालम्बनं ध्यानादि सर्वोत्कृष्टमित्यर्थः ॥ एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ स्पष्टोऽर्थः ॥ प्रथमं तावत्प्रत्यगात्मस्वरूपमाह । न जायते म्रियते इत्यादिना मन्त्रद्वयेन । इदं च प्रस्तुत्य व्यासार्यैरित्थं ह्युक्तम् “इदं मन्त्रद्वयं तावदेकविषयम् । न हन्यते हन्यमाने शरीर इत्येतद्विवरणरूपत्वाद्दितीयमन्त्रस्य । हन्ता चेदिति मन्त्रश्च जीवविषय एव । लोकस्य परमात्मनि हन्तृहन्तव्यभावप्रतीत्यभावात् । परमात्मा हि प्रत्यक्षागोचरः । कथं तस्मिन्वध्यतादिप्रतिपत्तिः । अहमेनं हन्मि अयं मां हन्तुमिच्छतीति वध्यधातकभावाभिमानो हि देहिनां जीवविषय एव । ननु नास्य जरयैतज्जीर्य्यतीतिवत् परमात्मनोऽपि हननप्रतिषेध उपपद्यते । सत्यम् । तत्र दहराकाशस्य देहान्तः स्थित्या शङ्कित विकारनिषेध उपपद्यते । इह तु लोकप्रसिद्धाभ्रान्तिरनूद्यनिरस्यते । न हि परमात्मनि वध्यधातकभ्रान्तिः कस्याप्यस्ति । अतोऽनुवादनिषेधावनुपपन्नौ । न जायत इति मन्त्रश्चेतनैकार्थः । अतो मन्त्रद्वयमपि जीवविषयकमेवेति । अक्षरार्थस्तु । न जायते म्रियते वा विपश्चित् ॥ विपश्चित्तवार्होऽयमिदानीमपि जननमरणशून्य इत्यर्थः ॥ नायं कुतश्चित् ॥ उत्पादकशून्यः ॥ न बभूव कश्चित् ॥ पूर्वमपि मनुष्यादिरूपेण जनन शून्यः॥ न जायते इत्यत्र हेतुमाह ॥ “अजः’’ ॥ इति॥ न म्रियते इत्यत्र हेतुमाह ॥ “नित्यः’’ ॥ इति॥ न कुतश्चिदित्यत्र हेतुमाह ॥ “शाश्वतोऽयम्’’ ॥ इति॥ न बभूवेत्यत्र हेतुमाह ॥ “पुराणः’’ ॥ इति॥ ननु कथमस्य नित्यत्वं शरीरान्तर्वर्तिनः शरीरविनाशानुविनाशित्वावश्यम्भावादित्यत आह ॥ न हन्यते हन्यमाने शरीरे ॥ स्पष्टोऽर्थः । तदेवोपपादयति ॥ हन्ता चेन्मन्यते हन्तुम् ॥ अहमेनं हनिष्यामीति देहात्मदृष्ट्या मन्यते चेदित्यर्थः ॥ हतश्चेन्मन्यते हतम् ॥ छिन्नदेहावयवो देहात्मदृष्ट्यात्मानं हतोऽहमिति मन्यते चेदित्यर्थः ॥ उभौतौ नविजानि (नी) तः॥ आत्मस्वरूपमिति शेषः ॥ नायं हन्ति ॥ आत्मानमिति शेषः ॥ न हन्यते ॥ आत्मस्वरूपमिति शेषः। नच वेदान्तवेद्यपरिशुद्धात्मस्वरूपे कथं हननादिप्रसक्तितत्पूर्वक निषेधाविति वाच्यम् । तस्यैव क्षेत्रज्ञतया तत्प्रयुक्तस्यतत्सम्भवादितिद्रष्टव्यम् ॥ एवं मन्त्रद्वयेन प्रत्यगात्मस्वरूपं विशोध्य तदात्मभूतपरमात्मस्वरूपमाह ॥ अणोरणीयान् ॥ अणोः सर्वाचेतनापेक्षया सूक्ष्माच्चेतनादणुतरः । ततोऽपि सूक्ष्मस्तदन्तः प्रवेशयोग्यः ॥ महतो महीयान् ॥ आकाशादेरपि महीयान्महत्तरः । स्वाव्याप्तवस्तुरहित इत्यर्थः ॥ आत्मास्य जन्तोर्निहितो गुहायाम् ॥ अस्य जन्तोर्न जायते म्रियत इति मन्त्रद्वयप्रतिपाद्यस्य चेतनस्यात्मा अन्तः प्रविश्य नियन्ता । नचास्य जन्तोरित्यस्य हृदयकुहरवाचिगुहाशब्देनैवान्वयो नात्मशब्देनेति शङ्क्यम् ॥ मूलतः शाखां परिवास्योपवेशं करोतीत्यत्र मूलतः शाखां परिवास्य मूलतः उपवेशं करोतीत्यन्वयवत् साकाङ्क्षाभ्यामात्मगुहाशब्दाभ्यामन्वयसम्भवात् । अतश्च जन्तुशब्दितपूर्वमन्त्रद्वयनिर्दिष्टजीव स्वरूपापेक्षया एतन्मम्प्रतिपाद्यस्य भेदप्रतीतेः पूर्वमन्त्रद्वयप्रतिपाद्य एवाणोरणीयानिति मन्त्रप्रतिपाद्योऽस्त्विति शङ्का निरस्ता । ननु न जायत इत्युपन्यस्तस्यात्मनो जायमानवाचि जन्तुशब्देन परामर्शस्यानुपपन्नतयाऽस्यजन्तोरित्यस्य प्रत्यक्षादिसन्निधापितेतरदेहपरताया एव वक्तव्यत्वेन तद्गुहानिहित आत्मा प्रागुपन्यस्तो जीव एवास्तु । नच कर्तृत्वभोक्तृत्वविशिष्टतया सदाहमिति भासमाने जीवे “कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति । क इत्था वेद यत्र सः’’ इत्युत्तरसन्दर्भे प्रतिपाद्यमानदुर्विज्ञानत्वं कथमन्वेतीतिवाच्यम् । जीवस्यकर्तृत्वादिविशिष्टतया सर्वलोकविदितत्वेऽपि मुक्तप्राप्यब्रह्मरूपविशिष्टतया दुर्ज्ञानत्वसम्भवादिति चेन्न । “प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः’’ इति जन्तुशब्दस्य चेतनपर्यायतया पाठात् प्रकृतजीव वाचित्वसम्भवादस्येतिशब्दस्य पूर्वमन्त्रनिर्दिष्टजीवविषयत्वसम्भवे प्रत्यक्षोपस्थापित देहपरत्वाश्रयणायोगात् । “एष म आत्मान्तर्हृदयेऽणीयानेष मे आत्मान्तर्हृदये ज्यायान्’’ इत्यत्यन्ताणुत्वमहत्वयोः परमात्मधर्मत्वेन प्रसिद्धतया अणोरणीयानिति मन्त्रस्य तद्विषयत्वस्यैव युक्तत्वेन पूर्वमन्त्रनिर्दिष्टशुद्धात्मपरत्वासम्भवादणोरणीयानिति मन्त्रः परमात्मस्वरूपपर एव । तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥ तं तादृशं परमात्मानम् । अक्रतुः काम्यकर्मादिरहितः सन् धातुर्धारकस्य परमात्मनः प्रसादादात्मना ेमहिमानं महत्वसम्पादकं स्वसार्वज्ञादिगुणाविर्भावहेतुभूतं परमात्मानं यदा पश्यति तदा वीतशोको भवतीत्यर्थः। “द्युभ्वाद्यायतनं’’(ब्र.सू.1.3.1) इत्यधिकरणे जुष्टं यदा पश्यत्यन्यमीशम्’’ इति मन्त्रं प्रस्तुत्य यदा स्वस्मादन्यं स्वस्येशं प्रीयमाणस्येश्वरस्य महिमानं च निखिलजगन्नियमनरूपं यदा पश्यति तदा वीतशोको भवतीति भगवता भाष्यकृता व्याख्यातत्वात्तदनुसारेणेहापि यःपश्यति सवीतशोको भवतीत्यर्थः । धातुः प्रसादाद्वीतशोको भवतीति वान्वयः । “प्रसीदत्यच्युतस्तस्मिन्मप्रसन्ने क्लेशसङ्क्षयः’’ इति स्मृतेरिति द्रष्टव्यम् । धातोः प्रसादादिति पाठे ऽपि स एवार्थः । तमक्रतुमिति पाठे अक्रतुं कर्मकृतोत्कर्षापकर्षशून्यमिति परमात्मविशेषणम् । धातुः प्रसादशून्यस्य परमात्मतत्त्वं दुरधिगममिति दर्शयति ॥ आसीनो दूरं व्रजति शयानो याति सवतः ॥ परमात्मनः सर्वात्मकत्वादितरत्र विरुद्धतया भासमना अपि आसीनत्वदूरगन्तृत्वादिधर्मा जीवद्वारा तत्र सन्तीति भावः ॥ कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ हर्षाहर्षरूपविरुद्धधर्मा यं तं परमात्मप्रसादानुग्रहीतमादृशजनव्यतिरिक्तः को वा ज्ञातुमर्हतीत्यर्थः ॥ अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् ॥ अशरीरं कर्मकृतशरीररहितम् । अनवस्थेषु अस्थिरेषु शरीरेषु नित्यत्वेन तत्र स्थिरम् ॥ महान्तं विभुम् ॥ महावैभवशालिनम् ॥ आत्मानं मत्वा धीरो न शोचति इति ॥ स्पष्टोऽर्थः ॥ ईदृशात्मप्राप्त्युपायमाह ॥ नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ॥ अत्र प्रवचनशब्देन प्रवचनसाधनं मननं लक्ष्यते । उत्तरत्र न मेधया न बहुना श्रुतेनेति श्रवणनिदिध्यासनयोर्वक्ष्यमाणत्वात्तत्समभिव्याहारादध्ययनरूपप्रवचनस्य हेतुत्वप्रसक्तेः । तथैव व्यासार्यैरपि विवृतत्वाच्च ॥ यमेवैष वृणुते तेन लभ्यः ॥ एष परमात्मा यं साधकं प्रार्थयते तेन लभ्यः । प्रार्थनीयपुंसा लभ्य इत्यर्थः । तत्प्रार्थनीयत्वं च तत्प्रियतमस्य पुंसः । तत्प्रियतमत्वं च तत्प्रीतिमत एव । ततश्च भगवद्विषयिणी उपासकस्य प्रीतिर्भगवत उपासके प्रीतिमुत्पाद्य तत्प्राप्तिहेतुर्भवतीत्यर्थः ॥ तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ तस्योपासकस्यैष आत्मा परमात्मा स्वरूपं प्रकाशयति स्वात्मानुभवं प्रयच्छतीत्यर्थः । वृणुत इति पाठे स एवार्थः ॥ परमात्मोपासनाङ्गतया कांश्चिद्धर्मानुपदिशति ॥ नाविरतो दुश्चरितात् ॥ अत्यकरणाद्योऽनिवृत्तः ॥ नाशान्तो नासमाहितः ॥ अशान्तबाह्येन्द्रियः नानाविधव्यापारविक्षिप्तचित्ततयाऽनवहितमनाः ॥ नाशान्तमानसो वापि ॥ अनिगृहीतमानसश्च ॥ प्रज्ञानेनैनमाप्नुयात् ॥ अत्र पुरुषार्थस्यापि दुश्चरितविरत्यादेरुपासनाङ्गतया विधानं पुरुषार्थानृतवदननिषेधस्य दर्शपौर्णमास प्रकरणे नानृतं वदेदिति क्रत्वङ्गतया विधानवदुपपद्यते । यस्तु पुरुषार्थमपि दुश्चरितनिषेधमतिलङ्घ्य परमात्मोपासनमविगुणं चिकीर्षति तस्य दुश्चरितविरतिरूपाङ्गवैगुण्यादु पासनसाद्गुण्यं न सिध्यतीति भावः ॥ यस्य ब्रह्म च क्षत्रं च उभे भवत आेदनः । मृत्युर्यस्योपसेचनं क इत्था वेदय त्रसः ॥ ब्रह्मक्षत्राख्यवर्णद्वयोपलक्षितकृत्स्नचराचरात्मकमिदं जगद्यस्यौदनो भवति विनाश्यं भवतीत्यर्थः । यस्य मृत्युः स्वयमद्यमानत्वे सति अन्यस्यादनहेतुर्भवति सः निखिलचराचर संहर्ता परमात्मा यस्मिन्प्रकारे स्थितः यत्प्रकारविशिष्टःतत्प्रकारमित्थमितिकोवेदेत्यर्थः । ननु ब्रह्मक्षत्रशब्देन चराचरग्रहणे किं बीजमितिचेत् । उच्यते । ब्रह्म च क्षत्रं च आेदन इत्युक्ते ब्राह्मणक्षत्रियवर्णयोः किं (कं) चित्प्रत्योदनशब्दस्य मुख्यार्थत्वाभावादोदनशब्देन भोज्य (ग्य) त्वं विनाश्यत्वं वा लक्षणीयम् । न हि ब्रह्मक्षत्रमात्रभोक्ता तन्मात्रसंहर्ता वा कश्चिज्जीवः परमात्मा वास्ति । न चान्तरादित्यविद्यायां “ये चामुष्मात्पराञ्चो लोकाः तेषां चेष्ट’’ इति सर्वलोकेश्वरे परमात्मन्युपासनार्थं लोकविशेषेईशितृत्वश्रवणात्सर्वसंहर्तर्यपि परमात्मनि ब्रह्मक्षत्रसंहरणमुपासनार्थमुपदिश्यतामिति वाच्यम् । तद्वदस्योपासनाप्रकरणत्वाभावात् । अतो ब्रह्मक्षत्रग्रहणस्य चराचरमात्रोपलक्षणं युक्तम् । उक्तं चसूत्रकृता “अत्ताचराचरग्रहणात्’’ (ब्र.सू.1.2.9) इति । नन्वेवमप्योदनशब्देन किमिति विनाश्यत्वं लक्षणीयम् । गौणत्वमपि शब्दस्य साधारणगुणमपहायासाधारणगुणेनैव निर्वाह्यम् । नह्यग्निर्माणवक इत्यत्राग्निशब्देन पैङ्गल्यादेरिव द्रव्यत्वादेरुपस्थितिरस्ति । अत एवोद्गातृशब्देन सर्वर्त्विक्साधारणगुणं विहायोद्गातृ गुणमात्रलक्षण पूर्वतन्त्रे निर्णीता । तद्वदिहापि ब्रह्मक्षत्रयोरोदनशब्दमुख्यार्थत्वाऽसम्भवेऽपि भोज्यत्वभोग्यत्वरूपान्तरङ्गाकारलक्षकत्वमेव युक्तम् । नत्वत्यन्तबहिरङ्गविनाश्यत्वाकारस्य येन निखिल चराचरसंहर्ता परमात्मात्र वाक्ये प्रतीयत इति चेत् उच्यते । यद्यपि विनाशित्वं साधारणाकारः तथापि मृत्युर्यस्योपसेचनमिति वाक्यशेषानुरोधात् साधारणोऽपि गौण्यावृत्त्या लक्षयितुमुचितः । ननु उपसेचनशब्दापेक्षया आेदनशब्दस्य मुख्यत्वादोदनशब्दस्वारस्यानुरोधेनासाधारणाकाररूपभोग्यत्वे लक्षिते जघन्यमुपसेचनपदमबाधकत्वाभिप्रायेण कथञ्चिन्नीयताम् । अतश्च योऽत्र ब्रह्मक्षत्रभोक्ता यस्य च मृत्युरबाधकः सोऽस्मिन्मन्त्रे प्रतिपाद्यः । भोक्तृत्वं जीवस्येति स एवास्मिन्मन्त्रे प्रतिपाद्यतामिति चेत् उच्यते । उपसेचनत्वेन रूपितस्य मृत्योरोदनत्वरूपितेन ब्रह्मक्षत्रशब्दितेन दध्यन्नवत्प्रतीतस्य सम्बन्धस्य सर्वात्मना वाघप्रसङ्गात् । नहि यस्य ब्रह्मक्षत्रं भोग्यं यस्य च मृत्युरबाधक इत्युक्ते मृत्योर्ब्रह्मक्षत्रस्य च सम्बन्धः प्रतीयते । अतः उपसेचनशब्दस्योदनशब्दापेक्षया जघन्यत्वे बाधकत्वरूपसाधारणगुणं विहाय स्वयमद्यमानत्वे सत्यन्यादनहेतुत्वरूपासाधारणाकार एवग्राह्यः । ततश्चैकवाक्यान्तर्गतया चरम श्रुतोपसेचनपदानुसारेणौदनशब्देनापि विनास्यत्वमेव लक्षणीयम् । स्वबुद्ध्युपस्थापनीय विशेषाकार रूपगुणग्रहणादप्येक वाक्यतापन्नपदान्तरोप स्थापितगुणग्रहणस्यैव बुद्धिलाघवेनैकवाक्यता सामर्थ्यानुरोधेन च न्याय्यत्वादित्य स्यार्थस्यात्ताचराचरग्रहणादित्यधिकरणे निर्णीतत्वात् ॥ 24॥ परमात्मनश्च सूपासत्वं द्वाभ्यां मन्त्राभ्यां दर्शयति ॥ ॥ इति द्वितीयवल्लीदीपिका ॥ ऋुतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ सत्यवदवश्यं भाविकर्मफलमनुभवन्तौ सुकृतसाध्यलोकवर्तिनौ गुहां प्रविष्टौ हृदयगुहावर्तिनौ परार्धे उत्कृष्टे परमाकाशे वर्तमानौ अज्ञसर्वज्ञरूपतया छायातपशब्दनिर्दिष्टौ पञ्चाग्निपरिशुश्रूषापरिशुद्धान्तःकरणा त्रिणाचिकेता ब्रह्मविदश्च वदन्तीत्यर्थः । अज्ञवाचिछायाशब्देन जीवं निर्द्दिशतोऽयमभिप्रायः । उपास्योपासकयोरेकगुहावर्तित्वे तयोरेव प्राप्यप्राप्तृतया प्राप्यस्य च तत्प्राप्तिसाधनरथत्वेन निरूपिते शरीरेऽवस्थानमयुक्तम् । न हि रथेन प्राप्तव्यो रथस्थो भवतीति शङ्का न कार्या । प्राप्यस्य परमात्मनः तत्रावस्थित्वेऽपि जीवस्य “पराभिध्यानात्तु तिरोहितम्’’ (ब्र.सू.3.2.5) इत्युक्तरीत्या परमात्मसङ्कल्पमूलकर्मरूपा विद्यातिरोहिततया तदनुभवलक्षणतत्प्राप्तेरभावेन प्राप्तप्राप्ययोः रथत्वरूपित शरीरान्तर्वर्त्येक गुहावर्तित्वकथने नानुपपत्तिः ॥ यः सेतुरीजानानाम्यज्वनामाधारभूतः । कर्मफलप्रद इत्यर्थः । ईजानानामिति कानजन्तः शब्दः ॥ अक्षरं ब्रह्म यत्परम् ॥ निर्विकारं परं ब्रह्म ॥ अभयं तितीर्षतां पारम् । संसारसागरं तितीर्षतां निर्भयं दृढतरं तीरम् ॥ नाचिकेतँ शकेमसि ॥ नाचिकेताग्निप्राप्यमुपासितुं शक्तास्म इत्यर्थः । शकेर्व्यत्ययेन शपि इदन्तोमहि । नाचिकेतं शकेमहीत्यस्य मन्त्रखण्डस्य तथैव भाष्यकृता व्याख्यातत्वात् । अतोदुरुषासत्वबुद्ध्या न भेतव्यमिति भावः । आत्मानं स्थितं विध्दीत्यादिना सोऽध्वनं पारमाप्नीतितीत्यन्तेन संसाराध्वपार भूतवैष्णवपरमपद प्राप्तौ परिकरमुपदिशन् प्राप्तृस्वरूपमुपदिशति । आत्मानं रथिनं विद्धि । शरीरं रथमेव च ॥ स्पष्टोऽर्थः॥ बुद्धिं तु सारथिं विद्वि,बुद्धिलक्षणव्यवसायाधीनत्वाद्देहप्रवृत्तेस्तस्याः सारथित्वमिति भावः ॥ मनः प्रग्रहमेव च ॥ प्रग्रहोरशना ॥ इन्द्रियाणि हयानाहुः ॥ स्पष्टोऽर्थः ॥ विषयांस्तेषु गोचरान् ॥ तेषु इन्द्रियेषु हयत्वेन रूपितेषु । गोचरान्मार्गान् । शब्दादिविषयान्विद्धीत्यर्थः । रथ सारथिहयप्रग्रहत्वेन रूपितानां शरीरेन्द्रियमनोबुद्धीनामभावे रथित्वेन रूपितस्योदीसीन स्यात्मनो गमनरूपलौकिकवैदिकक्रियाकर्तृत्वमेव नास्तीत्येतत्सुप्रसिद्धत्वेन दर्शयति ॥ आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ आत्मशब्दो देहपरः । मनश्शब्दस्तत्कार्यबुद्धेरप्युपलक्षकः । पूर्वमन्त्रे बुद्धेरपि सारथित्वेन निर्दिष्टत्वात् । भोक्ता कर्तृत्वभोक्तृत्वादिमानित्यर्थः । नहि केवलस्यात्मनः कर्तृत्वं भोक्तृत्वं वास्तीति भावः ॥ शरीरादेरथत्वादित्यरूपणस्य प्रयोजनमाह ॥ यस्त्वविज्ञानवान् भवति अयुक्तेन मनसा सह । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ यस्तु विज्ञानवान्भवति युक्तेन मनसा सह । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ लोके हि समीचीनसारथिप्रग्रहवतः अश्वा वशीकृता भवन्ति एवं सारथिप्रग्रहत्वेन रूपितयोर्विज्ञानमनसोः सामीचीन्येअश्वत्वेन रूपितानीन्द्रियाणि वश्यानि भवन्ति नान्यथेत्यर्थः । हयत्वेन रूपितानामिन्द्रियाणां वशीकरणतदभावयोः प्रयोजनन्दर्शयति मन्त्रद्वयेन ॥ यस्त्वविज्ञानवान्भवति अमनस्कः सदाऽशुचिः । न तु तत्पदमाप्नोति संसारं चाधिगच्छति ॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ अमनस्कः- अनिगृरीतमनाः । अत एवाशुचिः । सर्वदा विपरीतचिन्ताप्रवणत्वादित्यर्थः । न केवलं जिगिमिषितप्राप्त्यभावमात्रं प्रत्युत गहनं संसारकान्तारमेव प्रापयतीत्यर्थः ॥ किं तत्पदमित्याकाङ्क्षायां तत्पदं दर्शयन्नुपसंहरति ॥ विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ समीचीनविज्ञानमनःशाली संसाराध्वपारभूतं परमात्मस्वरूपं प्राप्नोतीत्यर्थः । वशीकार्यत्वाय रथत्वादिनारूपितेषु शरीरादिषु यानि येभ्योवशीकार्यतायां प्रधानानि तान्युच्यन्ते ॥ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ अस्य मन्त्रद्वयस्यार्थोभगवता भाष्यकृता “आनुमानिकमप्येकेषाम्’’(ब्र.सू.1.4.1)इत्यधिकरणे उक्तः । इत्थं हि तत्र भाष्यकृता तेषु रथादिरूपीतशरीरादिषु यानि येभ्यो वशीकार्य तायां प्रधानानि तान्युच्यन्ते । इन्द्रियेभ्यः परा इत्यादिना । तत्र हयत्वेन रूपितेन्द्रियेभ्यो गोचरत्वेन रूपितविषया वशीकार्यत्वे पराः । वश्येन्द्रियस्यापि विषयसन्निधाविन्द्रियाणां दुर्निग्रहत्वात् । तेभ्योऽपि परं प्रग्रहरूपितं मनः । मनसि विषयप्रवणे विषयासन्निधानस्याप्य किञ्चित्करत्वात् । तस्मादपि सारथित्वरूपिता बुद्धिः परा । अध्यासादौ मनसोऽप्यकिं चित्करत्वात् । तस्या अपि रथित्वेन रूपित आत्मा कर्तृत्वेन प्राधान्यात्परः । सर्वस्यात्मेच्छा यत्तत्वात् । आत्मैव महानिति च विशिष्यते । तस्मादपि रथरूपितं शरीरं परम् । तदायत्तत्वाज्जीवस्य सकलपुरुषार्थ साधनप्रवृत्तीनाम् । तस्मादपि परः सर्वान्तरात्मभूतोऽन्तर्याम्यध्वनः पारभूतः परमपुरुषः । यथोक्तस्यात्मपर्यन्तस्य तत्सङ्कल्पायत्तप्रवृत्तित्वात् । स खल्वन्तर्यामितयोपासनस्यापि निर्वर्तकः । “परात्तुतच्छ्रुतेः’’ (ब्र.सू.2.3.40) इति हि जीवात्मनः कर्तृत्वं परमपुरुषायत्तमिति वक्ष्यते । वशीकार्योपासननिर्वृत्त्युपायकाष्ठाभूतः परमप्राप्यश्च स एव । तदिदमुच्यते ॥ “पुरुषान्नपरं किं चित्सा काष्ठा सा परागतिः’’ इति । तथाचान्तर्यामिब्राह्मणे “य आत्मनि तिष्ठन्’‘इत्यादिभिः सर्वं साक्षात्कुर्वन्सर्वं नियम यतीत्युक्त्वा “नान्योऽतोस्ति द्रष्टेति नियन्त्रन्तरं निषिध्यते ॥ भगवद्गीतासु च “अधिष्ठानं तथा कर्त्ता करणं च पृथग्विधम् । विविधा च पृथक् चेष्टा दैवं चैवात्र पञ्चमम्’’ (श्री.भ.गी.18.14) इति ॥ दैवमत्र पुरुषोत्तम एव । “सर्वस्यचाहंहृदिसन्निविष्टोमत्तः स्मृतिर्ज्ञानमपोहनञ्च’’ (श्री.भ.गी.17.15) इति वचनात् । तस्य च वशीकरणं तच्छरणागतिरेव । यथाह । “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन’‘तिष्ठति । भ्रामयन्सर्वभूतानियन्त्रा रूढानि मायया । तमेवशरणं गच्छ’’ (श्री.भ.गी.18.61) इति । तदेवमात्मानं रथिनं विद्धीत्यादिना रथयादिरूपकविन्यस्ता इन्द्रियादयः इन्द्रियेभ्यः पराह्यर्था इत्यत्र स्वस्वशब्दैरेव प्रत्यभिज्ञायन्ते । तेन रथरूपितं शरीरमिति परिशेषात्तदव्यक्तशब्देनोच्यत इति भाषितम् ॥ एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ॥ सर्वेषु भूतेष्वात्मतया वर्तमानोऽसौ गुणत्रयमायातिरोहितत्वेनाजितबाह्याभ्यन्तः करणानां न यथावत्प्रकाशते ॥ दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । अग्र्ययाऐकाग्र्ययुक्तया बाह्याभ्यन्तरव्यापाररहितया सूक्ष्मार्थविवेचनशक्तया सूक्ष्मदर्शनशीलैर्दृश्यते इत्यर्थः । बाह्याभ्यन्तरकरणव्यापारराहित्य प्रकारमध्यात्मयोगाधि गमेनेति निर्दिष्ट जीवस्वरूपज्ञानप्रकारं च दर्शयति ॥ “यच्छेद्वाङ्मनसी प्राज्ञः’’ ॥ इत्यादिना॥ इमं मन्त्रं प्रस्तुत्येत्थं हि भाष्यकृता “इत्यादिरूपितानामिन्द्रियादीनां वशीकरणप्रकारोऽ यमुच्यते । यच्छेद्वाङ्मनसी वाचम्मनसि नियच्छेत् । वाक्पूर्वकानि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च मनसि नियच्छेदित्यर्थः । वाक्शब्दे द्वितीयायाः “सुपांसुलुगित्या’‘दिना लुक् । मनसीति सप्तम्याश्छान्दसो दीर्घः । तद्यच्छेज्ज्ञान आत्मनि ॥ तन्मनो बुद्धौ नियच्छेत् । ज्ञानशब्देनात्र पूर्वोक्ता बुद्धिरभिधीयते । ज्ञान आत्मनीति व्यधिकरणे सप्तम्यौ । आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थः ॥ ज्ञानमात्मनि महति नियच्छेत् । (बुद्धिं कर्तरि महति आत्मनि नियच्छेत्) ॥ तद्यच्छेच्छान्त आत्मनि ॥ तं कर्तारं परस्मिन् ब्रह्मणि सर्वान्तर्यामिणि नियच्छेत् । व्यत्ययेन तदिति नपुंसकलिङ्गता । एवं भूतेन रथिना वैष्णवं पदं गन्तव्यमित्यर्थः’’ इति भाषितम् । विवृतं च श्रुतप्रकाशिकायाम् । वाचो मनसि नियमनं मनोननुगुणप्रवृत्तिवैमुख्यापादनम् । मनसो बुद्धौ नियमनं व्यवसायानु गुणप्रवृत्त्यापादनम्। बुद्धिश्चार्थेषु हेयताध्यवसायरूपा । तस्या बुद्धेरात्मनि नियमनं स एवो -पायतया साक्षात्कार्य इत्येतदर्थविषयत्वापादनम् । शान्ते-स्वत ऊर्मिषट्कप्रतिभटे । शान्त आत्मनि महत आत्मनो जीवस्य नियमनं नाम तच्छेषतया प्रतिपत्तिः । आत्मशब्दस्य पुल्लिङ्गत्वात् पुल्लिङ्गतच्छब्देन निर्देष्टव्ये छान्दसत्वाल्लिङ्गव्यत्ययः । ननु भाष्ये ज्ञान आत्मनीति व्यधिकरणे सप्तम्यौ आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थ इत्युक्तिरयुक्ता । अव्यावर्तकत्वादात्मनीति विशेषणस्य । आत्मन्यवर्तमानज्ञानस्यैवाभावात् । न च तद्यच्छेज्ज्ञान इत्येतावत्युक्ते तथा सति तस्या एव भ्रान्तेः सामानाधिकरण्ययोजनया दृढीकरणप्रसङ्गात् । नह्यात्मनीत्यनेनात्म भ्रान्तिर्व्युदस्यते । न चात्मनि वर्तमान इति भाष्यस्यात्मनि विषयविषयिभावलक्षणसम्बन्धेन वर्तमान इत्यर्थः । आत्मविषयकज्ञान इति यावत् । अतो नाव्यावर्तकत्वेन वैयर्थ्यदोष इति वाच्यम् । तथा सति ज्ञानमात्मनि महति नियच्छेदित्यस्य वैयर्थ्यापातात् । तदर्थस्यानेनैव सिद्धेरिति चेत् । उच्यते अयमभिप्रायो भाष्यकारस्य । तद्यच्छेज्ज्ञान आत्मनीत्यत्राऽऽत्मनीति विषयसप्तमी । तच्चात्मविषयं ज्ञानम् आत्मोपादेयः । तदतिरिक्ता अर्था हेया इत्येवंरूपम् । तच्चार्थेषु हेयताध्यवसायरूपा बुद्धिरिति श्रुतप्रकाशिकायां व्यक्तम् । तस्य चात्मानात्मविषयका हेयताहेयताध्यवसायरूपस्य ज्ञानस्य महत्यात्मनि नियमनं नाम स एवोपायतया साक्षात्कार्य इत्येतदर्थविषयत्वापादनमिति तत्रैवश्रुतप्रकाशिकायामुक्तात्वाद्वाक्यद्वयस्यापि सप्रयोजन तया त्वदुक्तवैयर्थ्यशङ्कानवकाश इति । एवं वशीकरणप्रकारमुपदिश्याधिकारिपुरुषानभिमुखी करोति ॥ उत्तिष्ठत जाग्रतआत्मज्ञानाभिमुखा भवत । अज्ञाननिद्राक्षयं कुरुत ॥ प्राप्यवरान्निबोधत ॥ वराञ्छ्रेष्ठानाचार्यानुपगम्यात्मतत्त्वं निबोधत । यद्वा उपासिताद्भगतो ब्रह्मविद्भयोवा । देवतापारमार्थ्यं च यथावद्वेत्स्यते भवानित्येवं रूपान् वरान् प्राप्य ज्ञेयमात्मतत्त्वं निबोधत । नोदासितव्यमिति भावः ॥ क्षुरस्य धारा निशितादुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ ज्ञानिनस्तदात्मतत्त्वं दुर्गमं पन्थानं वर्णयन्ति । तत्कस्य हेतोः । यत आत्मतत्त्वं क्षुरस्यायुधविशेषस्य धारा अग्रम्ं निशिता तीक्ष्णा दुरत्यया नातिक्रमणीया । तीक्ष्णे क्षुराग्ने सञ्चरतः पुंसो यथाकियत्यप्यनवधाने आत्मनाशो भवतिएवमात्मस्वरूपावगतिदशायांस्वल्पेप्यनवधानेऽपराधेआत्मनाशोभवतीतिभावः । उपसंहरति ॥ अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् ॥ अत्र नित्यमित्येतदशब्दमित्यादौ प्रत्येकमभिसम्बन्ध्यते । अशब्दत्वादिवशादेव कालवदव्ययम् अवयवापचयशूनयमित्यर्थः ॥ अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥ महत इत्यनेनात्मनि महति नियच्छेदिति पूर्वमन्त्रनिर्दिष्टो जीवो गृह्यते । ध्रुवं स्थिरन्निचाय्य दृष्ट्वा दर्शनसमानाकारोपासनेन वशीकृत्येत्यर्थः । मृत्युमुखादतिभीषणात्संसारादित्यर्थः ॥ उपसंहरति ॥ पराञ्चि खानि व्यतृणतस्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् ॥ परानञ्चन्तीति -पराञ्चि खानीन्द्रियाणि, परप्रकाशकान्येव नात्मप्रकाशकानि कुत इत्यत्राह । व्यतृणत्स्वयम्भूःपरमात्मा इमानीन्द्रियाणि हिंसितवान् । “उतृदिर्हिंसायाम्’’ इति हि धातुः । तस्मात्पराङ् पश्यति तस्मादेव हेतोः प्रत्यञ्चं द्रष्टुमसमर्थानिसन्ति पराङ् पराचः पदार्थान्पश्यं तीत्यर्थः ॥ ईदृशेऽपि लोकस्वभावे नद्याः प्रतिस्त्रोतः प्रवृत्त इव कश्चित्पुरुषधौरयः प्रत्यगात्मप्रवणोऽप्यस्तीत्याह ॥ कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥ चक्षुश्शब्दः इन्द्रियमात्रपरः । स्वस्वविषयव्यावृत्तेन्द्रियः कश्चिन्मुमुक्षुः धीशाली प्रत्यगात्मानं परिशुद्धेन मनसा साक्षात्करोतीत्यर्थः ॥ पराचः कामाननुयन्ति बालास्तेमृत्योर्यन्ति विततस्य पाशम् ॥ अज्ञास्त्वात्मव्यतिरिक्तशब्दादिविषयानवगच्छन्तः संसारपाशंविस्तृतं प्रतिपद्यन्त इत्यर्थः । या प्राणेन सम्भवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत ॥ कर्मफलान्यत्तीत्यदितिर्जीव उच्यते । प्राणेन सम्भवति प्राणेन सह वर्तते । देवतामयी इन्द्रियाधीनभोगा गुहां प्रविश्य तिष्ठन्ती हृदयपुण्डरीककुहरवर्तिनी भूतोभिः पृथिव्यादिभूतैः सह व्यजायत देवादिरूपेण विविधा सत्यजायतेत्यर्थः ॥ एतद्वै तत् ॥ एतन्मन्त्रप्रतिपाद्यजीवस्वरूपं तत् । तदात्मकं ब्रह्मात्मकमित्यर्थः । अत्रैव प्रकरणे ब्रह्मजज्ञं देवमीडयं विदित्वेत्यत्र देवमित्यस्य देवात्मकं परमात्मकमिति व्याख्यातत्वात् । “क्षेत्रज्ञं चापि मा ंविद्धी’‘त्येतदुपबृंहणे गीतावचनेऽपि मां मदात्मकमिति भाषितत्वाच्चैवमेवार्थः । ननु सर्वेषां ब्रह्मात्मकत्वं न सम्भवति । अहमित्यहन्ताश्रयतयानुसन्धीयमानो ह्यात्मा स चा हमिहैवास्मीति देशान्तरव्यावृत्ततयानुसन्धीयते । अतो ब्रह्मणः कथं सर्वदेशकालवर्तिपदार्थात्म भूतत्वमित्याशङ्क्याह ॥ यदेवेह तदमुत्र यदमुत्र तदन्विह ॥ यदेव परमात्मतत्त्वमत्र लोकेऽनुसन्धीयमानतयात्मभूतं तदेव लोकान्तवर्तिनामप्यात्म भूतमित्यर्थः । ततश्चात्मभेदो नास्तीत्यर्थः । अयमभिप्रायः । किम्परमात्मतत्त्वविदामहमिहैवेति प्रतीतिः सर्वदेशवर्तिपदार्थात्मत्वबाधकतयोपन्यस्यते उत तद्रहितानाम् । नाद्यः । तेषामहमि हेत्यादिप्रतीतेरेवाभावात् । प्रत्युताहं मनुरभवं सूर्यश्चेत्येव प्रतीतेः सत्त्वात् । न द्वितीयः । अतद्विदामहं प्रतीतेर्जीवमात्रविषयत्वेन तत्र परिच्छिन्नत्वप्रतीतेः परमात्मविभुत्वबाधकत्वा भावादिति ॥ मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ य इह परमात्मनि भेदमिव पश्यति संसारात्मसंसारान्तरं प्राप्नोतीत्यर्थः ॥ नन्वस्माकं परमात्मतत्त्वं कुतो नोपलभ्यत इत्यत्राह ॥ मनसैवेदमाप्तव्यंइदं परमात्मस्वरूपम् । परिशुद्धमनोग्राह्यमित्यर्थः । उक्तमेवार्थं दृढीकरणाय पुनरभ्यस्यति ॥ नेह नानास्ति किञ्चन ॥ मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ उक्तोऽर्थः ॥ अङ्गष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते ॥ कालत्रयवर्ति निखिलचेतनाचेतनेश्वरः पुरुष उपासकशरीरमध्ये अङ्गुष्ठपरिमाणः सन्नास्ते । ततस्तमादेव निखिलेश्वरत्वहेतोरेव वात्सल्यातिशयात् कष्टभूतदेहान्तरावस्थानान्नहि विजुगुप्सते । वात्सल्यवशेन भोग्यमेव पश्यतीत्यर्थः ॥ एतद्वै तत् ॥ एतन्मन्त्रप्रतिपाद्यमपि पूर्वोक्तपरमात्मस्वरूपमेवेत्यर्थः ॥ अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ॥ शुष्केन्धनानलवत्प्रकाशमान इत्यर्थः ॥ ईशानो भूतभव्यस्य स एवाद्य स उ श्वः ॥ अद्यतनपदार्थजातं श्वस्तनपदार्थजातं कालत्रयपदार्थजातं स एवेत्यर्थः ॥ यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ॥ यथापर्वतमूर्द्धनि वृष्टं प्रत्यन्तपर्वतेषु नानाभूततया पतित्वा पतित्वा धावति । एवं धर्मान्पृथक् पश्यन्तानेवानुविधावति ॥ एवं परमात्मगतदेवमनुष्यान्तर्यामित्वादिधर्मान्पृथगाधिकरणनिष्ठान्पश्यन्पर्वत निर्झरपातमनुकृत्य संसारकुहरे पततीत्यर्थः । अथ सर्वत्रैकात्म्यज्ञानस्य फलमाह ॥ यथोदकं शुद्धे शुद्धमासिकं तादृगेव भवति । एवं मुनोर्विजानत आत्मा भवति गौतम ॥ यथा शुद्धे शुभ्रं जलं प्रक्षिप्तं तत्सदृशमेव भवति न तु किञ्चिदपि वैसादृश्यमेवं मनननिदिध्यासनशीलस्यात्मापि परमात्मसदृश एवेत्यर्थः । गौतमेति सहर्षं सम्बोधनम् ॥ य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ॥ सर्वेषु जीवेषु निद्रां गतेषु कामङ्काममितिणमुलन्तम् । सङ्कल्प्यसङ्कल्प्येत्यर्थः । स्वच्छन्दानुरोधेन पुरुषो निर्माता योऽस्ति ॥ तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिल्लोँकाः श्रिताः सर्वे तदु नात्येति कश्चन ॥ शुक्रम्प्रकाशकम् । तदेव निरूपाधिकममृतमित्यर्थः । नित्युमुक्तानाममृतान्तराणां सत्त्वेऽपि निरूपाधिकामृतत्वाभावात्तदेवेत्यवधारणस्य नानुपपत्तिरिति ध्येयम् । एतेनामृतान्तर निषेधान्मुक्तपरमात्मनोरभेद इति शङ्का प्रत्युक्ता ॥ एको वशी सर्वभूतान्तरात्मा एकं बीजं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ तमः परे देवे एकीभवतीतिस्वात्मन्यविभक्ततमस्त्वावस्थामापन्नमव्यक्ताख्यं बीजमित्यर्थः । आत्मस्थम् -आत्मन्यन्तर्यामितयास्थितमित्यर्थः । शिष्टं स्पष्टम् ॥ नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ॥ एको नित्यश्चेतनः सन् बहूनां नित्यानां चेतनानां कामान्विदधातीत्यर्थः । नित्यानां मध्ये नित्यः चेतनानां मध्ये चेतन इति राजराजादिशब्दवदत्यन्तनित्यत्वचेतनत्वप्रतिपादनेऽपि नानुपपत्तिः । तमात्मस्थम् इत्यादि स्पष्टम् । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ॥ सर्वतेजसां छादकमित्यर्थः ॥ तमेव भान्तमनु भाति सर्वं ॥ अनुभानम्पश्चाद्भानम् । तेन कार्यकारणभावः सिद्धः । पौर्वापर्यनियमो हि कार्यकारण भावः । सर्वतेजसां कारणमित्युक्तं भवति । तस्य भासा सर्वमिदं विभाति ॥ चाक्षुषरश्म्यनुग्राहकचन्द्रातपादित्यवदुत्पन्नस्यापि तेजसः स्वसम्बन्धेन स्वकार्यकारण सामर्थ्यापादकत्वलक्षणानुग्राहकत्वशालीत्यर्थः । अत्र च वक्तव्यं कठवल्लीप्रकाशिकायामुक्तं ततोऽवगन्तव्यम् ॥ यदिदं किं च जगत्सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतं य एनं ति (तद्वि) दुरमृतास्ते भवन्ति ॥ अस्मिन्नङ्गुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थितानां सर्वेषां ततो निस्सृतानां तस्मात्सञ्जात महाभयनिमित्तमेजनं कम्पनं श्रूयते । तच्छासनातिवृत्ता ैकिं भविष्यतीति महतोभयाद्वज्रादिबोद्य तात्कृत्स्नं जगत्कम्पत इत्यर्थः । भयादस्याग्निस्तपतीत्यादिनै कार्थ्यान्महद्भयं वज्रमुद्यतमिति पञ्चम्यर्थे प्रथमेति भाषितम् । तच्च व्यासार्यैर्विवृतम् । प्राण इति सप्तम्यन्तपदसामर्थ्यात्स्थितानामित्यध्याहारः । कुतो निस्सृतानामित्यपेक्षायां प्रकृतस्यैवोपादानत्वमाह । तत इति । एजनङ्कम्पनम् । “एजृ कम्पने’’ इति हि धातुः । प्रत्यवायभयात्स्वस्वकार्यप्रवृत्तिः कम्पनम् । उद्यतवज्रादिव परमपुरुषात्सञ्जातेन भयेन कृत्स्नं जगत्कम्पत इत्यर्थः । अत्र महद्भयं वज्रमुद्यतमिति चत्वारिपदानि पञ्चम्यर्थे प्रथमान्तानि । तत्राद्यं पञ्चम्यर्थप्रथमान्तपदद्वयं भयवाचि, उत्तरं तु पदद्वयमुद्यद्वज्रसदृशब्रह्मपरमिति द्रष्टव्यम् । वशीकार्यपरम्पराविश्रान्तिभूमितया प्राङ्निर्दिष्टमेव परमात्मानं स्मारयति ॥ इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ॥ इन्न्द्रियो मनः परमित्यर्थः । इन्द्रियेभ्यःपराह्यर्था अर्थेभ्यश्च परं मन इत्यनेनैकार्थ्यात् । सत्त्वशब्दश्च तत्कार्यबुद्धिलक्षकः । मनसस्तु पराबुद्धिरित्यनेनैकार्थ्यात् ॥ सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ अव्यक्तात्तुपरः पुरुषो व्यापकोऽलिङ्ग एव च ॥ अलिङ्गः लिङ्गागम्यः । पुरुषो वशीकार्येषु परः । “तस्य च वशीकरणं तच्छरणा गतिरेवे’‘त्ययमर्थः पूर्वमुक्त एवानेन स्मारितो भवति । न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्च नैनम् ॥ अस्य स्वरूपं विग्रहो वा व्यापकत्वादेव सन्दर्शनविषये मूर्तत्वेनाभिमुखतया न तिष्ठतीत्यर्थः । अत एव चक्षुषा को पि द्रष्टुं नेष्टे । हृदा मनीषा मनसाभिक्लृप्तः ॥ अयं मन्त्रःखण्डः व्यासार्यैः “सर्वत्र प्रसिद्धोपदेशात्’’(ब्र.सू.1.2.3) इत्यधिकरणे हृदेति भक्तिरुच्यते । मनीषेति धृतिः । न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनमिति पूर्वार्द्धमेकरूपं पठित्वा “भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीहे’’ ति महाभारतोक्तेः। अभिक्लृप्तः -ग्राह्य इत्यर्थः’’ इति विवृतः । “धृत्या समाहितात्मा भक्त्या त्वननय्या शक्य इत्यनेनैकार्थ्यादिति वेदार्थसङ्ग्रहे प्रतिपादितम् । य एनं विदुरमृतास्ते भवन्ति ॥ स्पष्टोऽर्थः ॥ यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ॥ ज्ञायतेनेनेति व्युत्पत्त्या ज्ञानानीन्द्रियाणीत्यर्थः । “सप्तगतेर्विशेषितत्वाच्च’’ (ब्र.सू. 2.4.5) इत्यधिकरणे व्यासार्यैर्विवृतम् । बुद्धिश्च न विचेष्टेनअध्यवसायोपेतं मन एव बुद्धिशब्देनोच्यते । अत एव तत्र भाष्यम् । “अध्यवसायाभिमान चिन्तावृत्तिभेदान्मन एव बुद्ध्यहङ्कारचित्तशब्दैरुपदिश्यते’’ इति । तामाहुः परमां गतिम् ॥ शरीरान्तः सञ्चरणं विहाय मोक्षार्थगमनं परमागतिरिति तत्रैव स्पष्टम् । तां योग इति मन्यन्ते स्थिरामिन्द्रियधारणम् ॥ पूर्वमन्त्रनिर्दिष्टां बाह्यान्तःकरणधारणां परमां गतिं परमव्योमगतिं मन्यन्ते । उक्तं च व्यासार्यैः परमा गतिर्योग इति ॥ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतोभवत्यत्र ब्रह्म समश्नुते ॥ कामाः शब्दादिविषयमनोरथाः हृदि गता यदा शाम्यन्ते तदुत्तरक्षण एवायमुपासकः पुमानविश्लिष्टाश्लिष्टपूर्वोत्तरदुरितो भवति । अत्रोपासनवेलायामेव ब्रह्माश्नुते । ब्रह्म अविक्षिप्तेनमनसानुभवतीत्यर्थः । “इदञ्च समानाचासृत्युपक्रमात्’’ (ब्र.सू.4.2.7) इति भाष्ये स्पष्टम् ॥ उक्तमेवार्थमादरेणाभ्यसन्नुपदेष्टव्यांश एतावानेवेत्युप संहरति । यदा सर्वे प्रमुच्यन्ते हृदयस्यैव (स्येह) ग्रन्थयः । अथ मर्त्योऽमृतो भवत्येतावदनु शासनम् ॥ ग्रन्थय इव दुर्मोचा रागद्वेषादयो यदैव प्रमुच्यन्त इत्यर्थः । एतावदनुशासनमनुशासनीयम् । उपासकस्य कर्तव्यत्वेन समुपदेष्टव्यमेतावदेवेत्यर्थः ॥ विमुक्तश्च विमुच्यत इति पूर्वमुक्तां द्वितीयां परममुक्तिमाह ॥ शतं चैका च हृदयस्य नाड््यस्तासां मूर्द्धानमभिनिस्सृतैका ॥ हृदयस्य प्रधाननाड््यः शतं चैका च सन्ति । तासां मध्ये एका सुषुम्नाख्या ब्रह्मनाडी मूर्धानमभिनिस्सृता ॥ तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ तयोर्ध्वनाड्योर्ध्वं ब्रह्मलोकं गच्छन्देशविशेषविशिष्टब्रह्मप्राप्तिपूर्वक स्वरूपाविर्भावलक्षणं मुक्तिं प्राप्नोति । अन्यास्तु नाड्यो विष्वगुत्क्रमणे नानाविधसंसारमार्गोत्क्रमणायोपयुज्यन्ते । विष्वग् विवतानाड्यः अन्योत्क्रमण उपयुज्यन्त इति व्यासार्यैर्व्याख्यातम् ॥ अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः ॥ स्पष्टोऽर्थः ॥ तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ॥ सकलचेतनाचेतनान्तर्यामितया सन्तमात्मानं तच्छरीरिणं चेतना चेतनलक्षणाच्छरीरा (तच्छरीरभूताज्जनशब्दिताच्चेतना) त्प्रवृहेत्पृथक्कुर्यात्पृथगात्मानमित्युक्तरीत्या धारकत्वनियन्तृत्व शेषित्वधर्मैर्विलक्षणं धैर्येण प्रज्ञाकौशलेन जानीयात् ॥ तं विद्याच्छुक्रममृतंशुक्रं तेजिष्ठं स्वप्रकाशज्ञानरूपं ब्रह्म जानीयादित्यर्थः । देवदत्तः स्वाच्छरीराद्विलक्षण इत्यत्र स्वशब्दस्य देवदत्तसम्बन्धिपरत्ववदिहापि स्वाच्छरीरादिति स्वशब्दः परमात्मसम्बन्धिशरीरपरामर्शी । न वेदितृजनसम्बन्धिपरामर्शी । एतेन देहात्पृथक्करणस्य देहैक्यभ्रमविषये जीव एव सम्भवात्तस्यैव तं विद्याच्छुक्रममृतमिति ब्रह्मत्वोपदेशादिदं प्रकरणं जीवब्रह्माभेदपरमिति शङ्काया अनवकाशः ॥