11 सर्वत्रप्रसिद्ध्यधिकरणम्

  1. सर्वत्र प्रसिद्ध्यधिकरणम् 1.सर्वत्र प्रसिद्धोपदेशात् (ब्र.सू.1.2.1)छान्दोग्ये तृतीयाध्याये चतुर्दशखण्डोपक्रमे शाण्डिल्यविद्या प्रस्तूयते । सर्वङ्खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ॥ जायते इति जम् । लीयते इति लम् ॥ जलशब्दौ डप्रत्ययान्तौ । अनितीति अन् । अनिति जीवतीत्यर्थः । क्विबन्तो विजन्तोवा यंशब्दः । तस्यजलान् तज्जलान् इतिशब्दोहेत्वर्थः । सर्वशब्दः सर्वशरीरकपरः । इदमित्येतत् ब्रह्मणः सर्वस्य वा विशेषणम् । अतश्च तज्जत्वात्तल्लत्वात्तदन्तवात्सर्वात्मकं ब्रह्मेति शान्तः सन्नुपासीतेत्यर्थः । अत्र तज्जत्वतल्लत्वे स्थूलचिदचिच्छरीरकब्रह्मगते । उपादानोपादेयभावस्याभिन्ननिष्ठत्वात् । तदनत्वरूपं नियाम्यत्वन्न ब्रह्मगतम् । ब्रह्मणस्तदसम्भवात् । अपितु चिदचिन्मात्रगतमितिद्रष्टव्यम्। भगवता भाष्यकृता “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतेति सर्वोत्पत्तिस्थितिप्रलयकारणत्वेन सर्वस्यात्मतयाऽनुप्रवेशकृतजीवयितृत्वेन च सर्वात्मकं ब्रह्मोपासीतेत्युपासनं विधाय’’ इति भाषितम् । व्यासार्यैश्च “ब्रह्मात्मकत्वं सर्वस्यशास्त्रादवगम्य-सर्वभूतात्मके तात जगन्नाथे जगन्मये परमात्मनि। गोविन्दे मित्रामित्रकथाकुतः । इत्युक्तरीत्या रागद्वेषादिरहितः सन् वक्ष्यमाणगुणकं ब्रह्मोपासीतेत्यर्थ इति’’ उक्तम् । वक्ष्यमाणगुणकं ब्रह्मेति वदतां व्यासाचार्याणामयमाशयः । सर्वं खल्विति वाक्योक्तं सार्वात्म्यं तु नोपास्यगुणतया विवक्षितम् । उत्पत्तिशिष्टसार्वात्म्य गुणावरुद्धे मनोमयत्वादि वक्ष्यमाणगुणविधानानुपपत्तिप्रसङ्गात् । नचोपासनोत्पत्तिवाक्य श्रुतस्य सार्वात्म्यस्याविवक्षा कथमभ्युपगन्तव्येति वाच्यम् । सर्वं खल्विदं ब्रह्म तज्जलानित्यन्तस्यवाक्यस्य खलु शब्दकृतेन प्रसिद्धवन्निर्देशेन शान्त उपासीतेत्यनेनैकवाक्यत्वस्य निवारितत्वात् । नह्युपासीत खल्विति वचनव्यक्तिर्घटते । अतः सार्वात्म्यस्योपासनोत्पत्तिवाक्यश्रुतत्वाभावेन शान्तउपासीतेति वाक्ये उपास्याकाङ्क्षायां पूर्ववाक्यप्रतिपन्नस्य ब्रह्मरूपधर्मिमात्रस्यैवोपास्यतयान्वयः । नतु सार्वात्म्यविशिष्टस्य । ततश्चोत्पत्तिशिष्टसार्वात्म्यानवरोधात् न वक्ष्यमाणमनोमयत्वादि गुणानन्वयशङ्का । सर्वात्मकं ब्रह्मोपासीतेति तदर्थनिर्देशकभाष्येऽपि सर्वात्मकत्वं नोपास्यतया निर्दिष्टम् अपि तूपास्यस्य ब्रह्मणः स्वरूपकथनमात्रपरमित्येतत्सर्वं तैः कण्ठत एव वर्णितं च । ननु ब्रह्मात्मकत्वं सर्वस्य शास्त्रादेवावगत्य रागद्वेषादिरहितः सन्वक्ष्यमाणगुणकं ब्रह्मोपासीतेति व्यासाचार्यैरेवोक्तत्वात्तदेकवाक्यत्वसम्भवे तज्जलानित्यस्य पृथग्वाक्यत्वकल्पनाऽयोगात्, सार्वात्म्यगुणाविरोधिनामन्वयेदोषाभावाच्च सार्वात्म्यस्योत्पत्तिवाक्यविहितत्वेऽपिमनोमयत्वादीनामुत्पत्तिशिष्ट वाक्यभेदकल्पनं वा शाण्डिल्यविद्यायां सार्वात्म्यस्यानुपास्यत्व कल्पनं वा व्यर्थमिति चेन्न । उपासीतेत्यनेन वाक्यैकवाक्यत्वाभ्युपगमेऽपि पदैकवाक्यत्वनिरा करणे दोषाभावात् । शान्तिहेतुतयान्वितस्य सार्वात्म्यस्योपास्यगुणत्वे प्रमाणाभावादिति व्यासाचार्याभिप्रायात् । ननु ब्रह्मणः सर्वात्मकत्वाद्यत्र क्वचित् क्रियमाणस्यापि द्वेषादेरात्मद्वेषपर्यवसन्नत्वेनायुक्तत्वाच्छान्तः सन्नुपासीतेत्युक्ते ब्रह्मोपासीतेति कथमवगम्यते सर्वं खल्विदं ब्रह्मेत्यस्य शमविध्यर्थवादभूतस्योपास्यसमर्पकत्वाभावादिति चेत्सत्यम् । शमविध्यर्थतया निर्दिष्टस्यापि ब्रह्मणः उपास्याकाङ्क्षापूरकत्वस्यापि सम्भवात् । अन्यार्थतयापि स्ववाक्यनिर्दिष्टं ब्रह्म विहायोपास्यान्तरकल्पनस्यानुचितत्वात् । “मूलतः शाखां परिवास्योपवेषं करोती’‘त्यत्रमूलतः इत्यस्य शाखापरिवासने अपादानतयान्वितस्याप्याकाक्षावशेनोपवेशङ्करोतीत्यनेनाप्यन्वयाभ्युपगमादिति द्रष्टव्यम् ॥ विहितमुपासनं स्तौति ॥ अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिल्लोङ्के पुरुषो भवति तथेतः प्रेत्य भवति ॥ तं यथायथोपासते तथैव भवतीति श्रुत्यन्तरादिह लोके पुरुषो यथोपासनस्तथैवेतः प्रेत्यामुष्मिल्लोङ्के भवति । ततोऽयम्पुरुषः क्रतुमयः क्रतुप्रधानः उपासनप्रधान इत्यर्थः । तत श्चोपासनस्यैव हिततमत्वात्तत्सर्वदानुष्ठेयमित्यर्थः ॥ एवं विहितं ब्रह्मोपासनं मनोमयत्वादिगुणान्तरविधानायानुवदति ॥ स क्रतुं कुर्वीत ॥ स पुरुषः क्रतुं ब्रह्मोपासनं कुर्वीतेत्यर्थः ॥ 1॥ मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्पः आकाशात्मा ॥ मनोमयः परिशुद्धमनोमात्रग्राह्यः विवेकादिसाधनसप्तकानुगृहीत परमात्मोपासन निर्मलीकृतमनोमात्रग्राह्यइत्यर्थः । प्राणशरीरः -जगति सर्वेषां प्राणानां धारकः प्राणो यस्य शरीरम् आधेयं विधेयं शेषभूतं च स प्राणशरीरः । आधेयत्वविधेयत्वशेषत्वानामेव शरीरशब्दप्रवृत्तिनिमित्तत्वात् । भारूपः भास्वररूपः । “आदित्यवर्णन्तमसः परस्तात्’’ (पुरुष सूक्तं तै.आ.3)“पश्यते रुक्मवर्णम्’’(मुण्ड 3.3) इत्यादिवाक्यप्रतिपन्नाप्राकृतस्वा साधारण निरतिशयकल्याणगुणगण निरतिशयदीप्तियुक्त विग्रहशालीत्यर्थः । सत्यसङ्कल्पोऽप्रतिहत सङ्कल्पः । आकाशात्मा -आकाशवत्सूक्ष्मरूपः । सकलेतरकारणभूतस्याव्याकृताकाशस्यात्मभूत इति वाऽकाशात्मा । स्वयं च प्रकाशते अन्यान्प्रकाशयतीति वा आकाशात्मा । सर्वकर्मा ॥ क्रियते इति कर्म । सर्वं जगद्यस्य कर्मासौ सर्वकर्मा । सर्वा वा क्रिया यस्यासौ सर्वकर्मा । सर्वकामः ॥ काम्यन्त इति कामाः भोग्यभोगोपकरणभोगस्थानादयः । ते परिशुद्धास्तस्य सन्तीत्यर्थः ॥ सर्वगन्धः सर्वरसः ॥ अशब्दमस्पर्शमित्यादिना प्राकृतगन्धादिनिषेधात् । अप्राकृताः स्वासाधारणाः निरवद्या निरतिशयाः कल्याणाः स्वभोग्यभूताःः सर्वविधा गन्धरसास्तस्य सन्तीत्यर्थः । सर्वमिदमभ्यात्तः ॥ उक्तं सर्वमिदं कल्याणगुणजातमभ्यात्तः स्वीकृतवान् । “भुक्ता ब्राह्मणा’’ इतिवत्कर्तरि क्तः । अर्शाद्यजन्तो वा ॥ अवाकी ॥ वाक उक्तिः । सोऽस्य नास्तीत्यवाकी । कुत इत्यत्राह ॥ अनादरः ॥ अवाप्तसमस्तकामत्वेनादर्तव्याभावादादररहितः । अत एव अवाकी परिपूर्णैश्वर्यत्वाद् ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगत्तृणीकृत्य जोषमासीन इत्यर्थः ॥ 2॥ एष म आत्मान्तर्हृदये अणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा ॥ मदीये हृदये व्रीह्याद्यपेक्षयाणुत्वेनात्मत्वेन परमात्मोपासनार्थमवस्थित इत्यर्थः । तथानुसन्धानं कर्तव्यमिति भावः ॥ अन्तर्हृदयेऽवस्थितस्योपास्यमानस्य प्राप्याकारमनुसन्धेयं निर्दिशति ॥ एष म आत्मान्तर्हृदयेज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्याया नेभ्यो लोकेभ्यः सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ॥ उक्तोऽर्थः । एवं भूतं परब्रह्मपरमकारुण्येनास्मदुज्जिजीविषयास्मद्धृदये सन्निहितमित्यनु सन्धातव्यमित्याह । एष म आत्मान्तर्हृतये एतद्ब्रह्म ॥ यथोपासनमीदृशं परमात्मानम् “अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसपद्य स्वेन रूपेणाभि निष्पद्यते’’ (छा.8.3.4) इत्युक्तरीत्या देशविशेषविशिष्टं प्राप्तास्मीति निश्चयरूप मनुसन्धानं कर्तव्यमित्याह । एतमितः प्रेत्याभिसम्भवितास्मीति ॥ अत्रेतीत्यस्य स क्रतुं कुर्वीतेत्यनेनान्वयः । मनोमयः प्राणशरीरइत्यारभ्यैतमितः प्रेत्याभिसम्भवितास्मीत्येतत्पर्यन्तोऽनुसन्धानप्रकारः । अत्र चेतिशब्दनिर्दिष्टो मनोमयत्वादिगुणगतः क्रमविशेष एक एव विधीयते । मनोमयत्वाद्युपास्यगुणानां त्वाक्षेपतो विधानं पृष्ठगतसर्वता विधानादिवत्पृष्ठानाम् । ततश्च प्राप्तानुवादेन मनोमयत्वाद्यनेकगुणविधाने वाक्यभेद इति शङ्का प्रत्युक्ता । यद्वा विधेयानां बहुत्वेऽपि क्रमरूपविधेयतावच्छेदकैक्यान्न वाक्यभेदः । यदग्नयेच प्रजापतये चेति वाक्ये देवतात्वरूपविधेयतावच्छेदकैक्येन वाक्यभेदस्य तान्त्रिकैः परिहृतत्वात् । केचित्तु प्राप्तोपासनानुवादेनाभ्युदयेष्टिवाक्यवत्प्रयोगाविधित्वसभवान्नवाक्यभेद इति वदन्ति । एवं विध प्राप्यप्राप्तिनिश्चयोपेतस्योपासकस्य प्राप्तौ न संशयोऽस्तीत्युपसंहरति ॥ यस्य स्यादद्धा न विचिकित्सास्ति ॥ अत्रेतिशब्दोऽध्याहर्तव्यः । अभिसम्भवितास्मीति शब्दस्य क्रमवाचकस्यैव “काकाक्षि गोलक’‘न्यायेन वाऽन्वयः । उक्तप्रकारेण यस्योपासकस्य अद्धा निश्चयोऽस्ति तस्य प्राप्तौ वि चिकित्सा संशयो नास्ति । उक्तार्थस्य श्रद्धेयत्वसिद्ध्यै वक्तुराप्तिं दर्शयति ॥ इति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ इति चतुर्दशः खण्डः ॥