॥अविभागेन दृष्टत्वात्॥ किमयं मुक्तः परंज्योतिरुपसम्पन्नः स्वात्मानं परमात्मनः पृथग्भूतमनुभवति, उत परमात्मप्रकारतया परमात्मनः अविभागेन अनुभवतीति विशये ‘सोश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता, परमं साम्यमुपैति, मम साधर्म्यमागता’ इत्यादिश्रुतिस्मृतिभ्यां मुक्तस्य परेण साम्यसाहित्यसाधर्म्यप्रतिपादनात् तेषां" भेदगर्भत्वात् पृथग्भावेनैवानुभवतीति पूर्वपक्षे प्राप्तउच्यते- अविभागेन दृष्टत्वात्। परब्रह्मणः स्वात्मानं अविभागेन अनुभवति। परब्रह्मोपसम्पत्त्या निवृत्ताविद्यस्य स्वात्मनः परमात्मापृथक्सिद्धविशेषणत्वेन साक्षात्कृतत्वात्। साम्यसाधर्म्यादिशब्दानां ब्रह्मापृथक्सिद्धविशेषणत्वेन साक्षात्कृतत्वात्। साम्यसाधर्म्यादिशब्दानां ब्रह्मापृथक्सिद्धविशेषणस्य प्रत्यगात्मनः देवादिप्राकृतरूपप्रहाणेन ब्रह्मसमानशुद्धिप्रतिपादकत्वेनाविरोधात्॥ ॥इति अविभागेन दृष्टत्वाधिकरणम्॥