27 कार्याधिकरणम्

॥कार्यं बादरिरस्य गत्युपपत्तेः॥ कार्यं हिरण्यगर्भमुपासीनानेव अर्चिरादिर्गणो नयतीति बादरिराचार्यो मन्यते। परिच्छिन्नप्राप्त्यर्थं हि गतिरुपपद्यते, नापरिच्छिन्नपरब्रह्मप्राप्तये। नह्याकाशं प्रेप्सता देशविशेषो गन्तव्यो भवति॥॥विशेषितत्वाच्च॥ ‘पुरषोऽमानव एत्य ब्रह्मलोकान्गमयती’ति गन्तव्यस्य बहुवचनान्तलोकशब्देन विशेषितत्वात्, परब्रह्मण एकत्वेन बहुत्वासम्भवात्, लोकशब्दस्य देशविशेष एव मुख्यत्वाच्च, न परब्रह्मणोऽर्चिरादिप्राप्यत्वम्॥ननु ‘स एनान् ब्रह्म गमयती’ति नपुंसकलिंगब्रह्मशब्देन चतुर्मुखस्य कथं निर्देश इत्यत्राह- ॥सामीप्यात्तु तद्व्यपदेशः॥ ‘यो ब्रह्माणं विददाति पूर्व’मिति हिरण्यगर्भस्य प्रथमजत्वेन ब्रह्मसामीष्यात् ब्रह्मशब्देनामुख्यया वृत्त्या चतुर्मुखस्य निर्देशउपपद्यत इतिभावः।ननु हिरण्यगर्भस्य द्विपरार्धावसाने नाशात् तं प्राप्तस्य पुनरावृत्तेरवर्जनीयत्वात् ‘एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्त’ इत्यनावृत्तिप्रतिपादकश्रुतिविरोधः। तत्राह- ॥कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्॥ ‘ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे’ इत्यभिधानात् कार्यस्य ब्रह्मलोकस्यात्यये तदध्यक्षेण ब्रह्मणासह अतः ब्रह्मलोकात् परंब्रह्मप्राप्नोति। अतश्चानावृत्तिश्रुतिरुपपद्यतइति भावः॥॥स्मृतेश्च॥ ‘ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परंपद’मिति स्मृत्या कार्योपासकस्यैव अर्चिरादिप्राप्तिप्रतिपादनात् तदनुसार्येव बादरेर्मतम्॥॥परं जैमिनिर्मुख्यत्वात्॥ नपुंसकलिंगब्रह्मशब्दस्य परस्मिन्ब्रह्मण्येव मुख्यत्वात् परमेव ब्रह्मार्चिरादिः प्रापयतीति जैमिनिराचार्यो मन्यते। तस्य परिपूर्णत्वेऽपि ‘परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत’ इति श्रुत्यनुसारेण निश्शेषाविद्यानुवृत्तेर्देशविशेषविशिष्टब्रह्मप्राप्तिसापेक्षत्वात् देशविशेषविशिष्टब्रह्मप्राप्तये गतिरुपपद्यते। लोक्यतइति व्युत्पत्त्या लोकशब्दोऽप्रि ब्रह्मण्युपपन्नः। बहुवनचमप्येकस्मिन्नुपचारात् प्रयुज्यते॥॥दर्शनाच्च॥ दर्शयति च श्रुतेर्ब्रह्मप्राप्तेर्गतिसापेक्षत्वं ‘एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत’ इति॥ननु ‘प्रजापतेस्सभां वेश्म प्रपद्य’इति अर्चिरादिना गतस्य कार्यप्रजापतिविषयाभिसन्धिर्दृश्यते, तत्राह– ॥न च कार्ये प्रत्यभिसन्धिः॥ नायं प्रत्यभिसन्धिः कार्यहिरण्यगर्भविषयः, अपि तु परब्रह्मविषयः। तस्यैव प्रजापतिशब्दमुख्यवाच्यत्वात्, उत्तरत्र ‘यशोऽहं भवामि ब्राह्मणानां यशोराज्ञां यशोविशा’मिति सर्वाविद्याविमोकपूर्वकसर्वात्मभावाभिसन्धानात्, ‘अश्व इव रोमाणि विधूय पापं चन्द्रइव राहोर्मुखात् प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी’ति ब्रह्मलोकस्याकृतत्वेन विशेषितत्वाच्च, परमेव ब्रह्मार्चिरादिर्नयतीति जैमिनिराचार्यो मन्यते॥॥अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च॥ अब्रह्मभूतं नामादिकं ये ब्रह्मत्वेनोपासते ते प्रतीकालम्बनाः। तद्भिन्नान् प्रकृतिवियुक्तं प्रत्यगात्मानं" ब्रह्मात्मकत्वेन ये पञ्चाग्निविद उपासते, ये च केवलं परंब्रह्मोपासते, उभयविदानपि तान्नयतीति बादरायण आचार्योमन्यते।