॥आतिवाहिकासतल्लिंगात्॥ लोके ग्रामादिगन्तॄणामिमं वृक्षं गत्वा इमां नदीं गत्वा स ग्रामो गन्तव्य इति तत्तद्देशिकोपदेशसरूपत्वादस्यापि वाक्यस्यार्चिरादयो मार्गचिह्नभूताः। अथवा ‘अग्निलोकमागच्छति स वायुलोक’मिति लोकशब्दश्रवणादर्चिराद्या भोगभूमय इत्येवं पूर्वपक्षे प्राप्ते उच्यते- आतिवाहिकास्तल्लिंगात्। विदुषामतिवाहे परमपुरुषेण नियुक्ताः देवताविशेषाः आतिवाहिकाः। गन्तॄणां" गमयितारइतियावत्। तल्लिंगात्। ‘तत्पुरुषोऽमानवस्सएनान् ब्रह्मगमयती’ति वैद्युतपुरुषस्य गमयितृत्वसिद्धवत्कारेण ब्रह्मगमयितृत्वमात्रविशेषप्रतिपादनपरेण वाक्येनेतरेऽपि गमयितारइति प्रतीतेः, अर्चिरादिशब्दानां" च ‘अभिमानिव्यपदेशस्तु विशेषानुगतिभ्या’मिति सूत्रेण तदभिमानिदेवतापरत्वसम्भवात्॥ननु वैद्युतपुरुणस्यैव ब्रह्मगमयितृत्वे ऊर्ध्वं कौषीतकिवाक्यानुसारेण निवेशितानां वरुणेन्द्रप्रजापतीनां कथं सम्बन्धः। तत्राह- ॥वैद्युतेनैव ततस्तच्छ्रूतेः॥ ततः व्द्युत उपरि वैद्युतेनैव ब्रह्मप्राप्त्यतिवाहनं ‘स एनान्ब्रह्म गमयती’ति श्रुतेः। वरुणादयोऽपि तदनुग्राहका भवन्तीति द्रष्टव्यम्॥ ॥इति आतिवाहिकाधिकरणम्॥