25 वरुणाधिकरणम्

॥तटितोऽधिवरुणस्सम्बन्धात्॥ ‘स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं’। सः ब्रह्मवित् देहवियोगकालएव सुकृतदुष्कृते विधूय देवयानमार्गं आपद्य अवलम्ब्य अग्निलोकमागच्छति। ‘तेऽर्चिषमभिसम्भवन्ती’ति अर्चिश्शब्दितस्याग्नेः देवयानमार्गप्रथमपर्वत्वश्रवणात् प्रथमतः अग्निलोकप्राप्तिरुपपन्ना। स वायुलोकं-यद्यप्यत्राग्निलोकानन्तरं वायुलोकश्श्रूयते। तथाऽपि श्रुत्यन्तरे-‘अर्चिषोऽहरह्नआपूर्यमाणपक्षं" आपूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोक’मिति देवलोकनिर्दिष्टस्य वायुलोकस्य उदगयनादूर्ध्वं श्रवणात् उदगयनादूर्ध्वमेव वायुलोके निवेश्यः। तत्राप्युदगयनादूर्ध्वं छान्दोग्ये-‘मासेभ्यस्संवत्सर’मिति श्रवणात् अधिककालानां" न्यूनकालादूर्ध्वं निवेशस्य ‘अह्नआपूर्यमाणपक्षमापूर्यमामपक्षाद्यान् षण्मासानुदङ्ङादित्य एती’त्यत्र दृष्टत्वात् उदगयनापेक्षया अधिककालस्य संवत्सरस्य तदूर्ध्वनिवेशस्सिद्धः। ‘स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोक’मितीदं वाक्यं अर्चिरादिपादे चिन्तितम्। ‘संवत्सरादादित्यमादित्याच्चन्द्रमस’मिति छान्दोग्ये ‘यदा वै पुरुषोऽस्माल्लोकात् प्रैति स वायुलोकमागच्छति स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाकर्मते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा डम्बरस्य खं तेन स ऊर्ध्वमाक्रमते स चन्द्रमसमागच्छती’ति बृहदारण्यके च श्रुतत्वात् संवत्सरादूर्ध्वं" चन्द्रमासः प्रागादित्यस्य निवेशस्सिद्धः। तत्र च वरुणेन्द्रप्रजापतीनामपि पठितानां पाठार्थवत्त्वाय क्वचिन्निवेशे कर्तव्ये वायुलोकं वरुणलोकमिति पाठक्रमानुसारेण वायोरूर्ध्वं वरुणो निवेशयितव्यः। इन्द्रप्रजापतीअपि तदनन्तरं निवेशयितव्यौ। न च ‘आदित्यलोकं इन्द्रलोकं प्रजापतिलोकमि’ति पाठक्रमादादित्यादूर्ध्वं" चन्द्रस्य श्रवणेन तत्क्रमबाधप्रसङ्गात्। न च चन्द्रादूर्ध्वं तयोर्निवेशोऽस्त्विति वाच्यम्। ‘चन्द्रमसो विद्युत’मिति श्रुतिक्रमबाधप्रसङ्गात्। ननु देवलोकादादित्यमिति देवलोकशब्दितवायोरादित्यस्य च क्रमस्य श्रुतत्वात् तत्रेन्द्रप्रजापत्योर्निवेशे तत्क्रमभंगस्स्यादितिचेन्न। वाय्वादित्ययोरन्तराळे वरुणस्य विवेशनीयतया तेनैव वाय्वादित्ययोरानन्तर्यस्य भग्नतया तत्रेन्द्रप्रजापत्योर्निवेशे तत्क्रमभंगस्स्यादितिचेन्न। वाय्वादित्ययोरन्तराळे वरुणस्य निवेशनीयतया तेनैव वाय्वादित्ययोरानन्तर्यस्य भग्नतया तत्रैवेन्द्रप्रजापत्योरपि निवेशः। अतश्च वरुणेन्द्रप्रजापतीनां त्रयाणामपि वाय्वादित्ययोरन्तराळ एव निवेशोऽस्त्विति प्राप्ते उच्यते- तटितोऽधिवरुणस्सम्बन्धात्। तटित ऊर्ध्वं वरुणस्य निवेशः। कुतः। सम्बन्धात्। विद्युद्वरुणयोर्द्वयोरपि मेघोदरवर्तित्वरूपसम्बन्धसत्वात्। विद्युत ऊर्ध्वं वरुणस्य नेवेशः। ततः परस्तात् इन्द्रप्रजापत्योर्निवेशः। तथाहि सति ‘देवलोकादादित्यं आदित्याच्चन्द्रमसं चन्द्रमसो विद्युत’मिति निबद्धोऽपि क्रमो न बाधितो भवति। नचैवं विद्युत ऊर्ध्वं वरुणेन्द्रप्रजापतीनां निवेशे तेषामेव ब्रह्मगमयितृत्वेन ‘तत्पुरुषोऽमानवस्स एनान् ब्रह्मगमयती’ति वैद्युतपुरुषस्य गमयितृत्वं श्रुतं विरुध्येतेति वाच्यम्। वरुणेन्द्रप्रजापतीनामगमयितृत्वेऽपि वैद्युतपुरुषस्याप्यनुग्राहकतया गमयितृत्वसम्भवादिति॥ ॥इति वरुणाधिकरणम्॥